9.1.1
प्रथमे- अग्निहोत्रादिषूक्तानां धर्माणामपूर्वप्रयुक्तत्वाधिकरणे सूत्रम्
1 विषयः यज्ञकर्मप्रधानम्, तद्धि चोदनाभूतम्, तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- दर्विहोमशब्दस्यापूर्वताधिकरणे सूत्राणि 10-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
नवमाध्यायस्य प्रथमपादे प्रथमाधिकरणे प्रथमवर्णकमारचयति-
1 विषयः इष्ट्यग्निहोत्रसोमानां धर्मः किं यजयेऽथवा अपूर्वायात्र निर्णीतिः स्मार्यते सप्तमोदिता
3 पूर्वपक्षः सप्तमस्याद्याधिकरणेऽवघातादीनां धर्माणां यज्यन्वयं निराकृत्यापूर्वान्वयो निर्णीतः। स एवात्रोहारम्भोपयोगित्वेन स्मार्यते। यदि यज्यर्थाः स्युः, तदा सर्वे सर्वत्रोपदिश्यन्ते, न त्वतिदेशः क्वाप्यस्ति। ततोऽतिदिष्टपदार्थविषय ऊहो नारभ्यते। अपूर्वार्थत्वे तु प्रकरणनियमितत्वादश्रुतधर्मकेष्वतिदेशादूह आरम्भणीयः।। 1।।
वर्णकान्तरम्
द्वितीयवर्णकमारचयति-
1 विषयः अवघाते ब्रीहिरूपं विवक्ष्येत न वा श्रुतेः
3 पूर्वपक्षः आद्यः साधनतामात्रमवर्ज्यत्वाद्विवक्ष्यते
''व्रीहीनवहन्ति'' इत्यत्र व्रीहीणां स्वरूपं श्रूयमाणत्वाद्विवक्षितम्। तथा सति ''नैवारश्चरुर्भवति'' इत्यत्र नीवारणां प्रयोगे नोहः। यदा ब्रीहिष्वेव नियतोऽवघातो व्रीहिनिवृत्तौ निवर्तते, तदा कुत ऊहावसरः। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- व्रीहिस्वरूपविवक्षायामपि व्रीहिगतोऽपूर्वसाधनत्वाकारो न वर्जयितुं शक्यः अन्यथाऽवघात-वैयर्थ्यापत्तेः ततोऽपूर्वसाधनत्वाकारोऽवश्यं विवक्षितव्यः तत्र व्रीहिस्वरूपस्यापि विवक्षायां गौरवं स्यात् तदविवक्षायां तु नीवाराणामपि विहितत्वेनापूर्वसाधनत्वाकारसद्भावादवघातविषयत्वेनोहः सिध्यति
-
वर्णकान्तरम्
तृतीयवर्णकमारचयति-
1 विषयः नापूर्वस्य निमित्तत्वमस्ति वा, न प्रयोक्तृतः
3 पूर्वपक्षः अस्ति शाब्दप्रयोक्तृत्वमार्थिकी तु निमित्तता
अवघातप्रयाजाद्यनुष्ठाननिमित्तत्वमपूर्वस्य नास्ति। कुतः- अपूर्वस्य प्रयोजकत्वात्। निमित्तत्वप्रयोजकत्वयोः सिद्धसाध्यरूपेण विरुद्धत्वात्। यस्मिन्विद्यमाने क्रियते, तन्निमित्तम्। यस्य सिद्ध्यर्थं क्रियते, तत्प्रयोजकम्। वर्णिता चापूर्वस्य सप्तमाद्याधिकरणनिर्णयस्मारणेन प्रयोजकता। ततो यजतेर्निमित्तत्वं वक्तव्यम्। तथा सति यजतिवद्व्रीह्यादिस्वरूपस्यापि निमित्तत्वेन तदभावे सत्यवघाताभावान्नीवाराद्यूहो नास्ति। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- अपूर्वस्य शाब्दं प्रयोजकत्वं सप्तमे वर्णितम् इह तु- आर्थिकी निमित्तता वर्ण्यते यद्यपि स्वरूपेण साध्यमपूर्वम्, तथाऽपि मनसि विपरिवर्तमानत्वाकारेण सिद्धत्वमप्यस्ति अतो यजेर्निमित्तत्वाभावात्तद्दृष्टान्तेन व्रीहिस्वरूपस्याप्यनिमित्तत्वान्नीवाराद्यूहः संभवति
-
9.1.2
द्वितीये प्रोक्षणस्यापूर्वप्रयुक्तत्वाधिकरणे सूत्रे 2-3
SŪ संस्कारे युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात्।। 2।।
SŪ तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसंबन्धस्तस्माद्यज्ञप्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात्।। 3।।
द्वितीयाधिकरणे प्रथमवर्णकमारचयति-
1 विषयः मुसलाद्युक्षणं हन्त्यै स्यादपूर्वाय वोक्तितः
3 पूर्वपक्षः आद्यः प्रकरणादन्त्यो व्यर्थं तत्स्यादिहान्यथा
''प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति'' इति श्रूयते। तत्र प्रोक्षणमुलूखलमुसलद्रव्यद्वारा हन्त्यर्थः। कुतः- वाक्येन तच्छेषत्वप्रतीतेः। इति चेत्- मैवम्। प्रकरणेनापूर्वशेषत्वावगमात्। न च वाक्यं प्रकरणाद्बलीयः- इति वाच्यम्, अपूर्वशेषत्वाभावे वैयर्थ्यप्रसङ्गात्। पूर्वपक्षे यत्रावघातः, तत्रैव प्रोक्षणम्। तथा सति नैर्ऋतचरौ ''कृष्णानां व्रीहीणां नखनिर्भिन्नानाम्'' इति श्रुतेषु नखेषु प्रोक्षणं नोह्यते।
4 सिद्धान्तः सिद्धान्ते तु- अपूर्वस्य प्रयोजकत्वादस्ति तत्रोहः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- अग्निहोत्रादिषूक्तानां धर्माणामपूर्वप्रयुक्तत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.3
वर्णकान्तरे (उच्चावचध्वनेः परमापूर्वाप्रयुक्तताधिकरणे) सूत्रम्
SŪ तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसंबन्धस्तस्माद्यज्ञप्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात्।। 3।।
द्वितीयवर्णकमारचयति-
1 विषयः मन्द्रादिकमपूर्वाय परायावान्तराय वा
3 पूर्वपक्षः फलादाद्यो नो समं तल्लक्षणा तु विशिष्यते
ज्योतिष्ठोमे श्रूयते ''यावत्या वाचा कामयेत तावत्या दीक्षिणीयायामनुब्रूयात्, मन्द्रं प्रायणीयायाम्, मन्द्रतरमातिथ्यायाम्, उपांशूपसत्सु, उच्चैरग्नीषोमीये'' इति। तत्र ध्वनेरुच्चावचीभावः परमापूर्वप्रयुक्तः, तस्य फलवत्त्वात्। इति चेत्- मैवम्। अवान्तरापूर्वेऽपि समानं फलवत्त्वम्, परमापूर्वजननद्वारेण फलसंबन्धात्। समाने च फलवत्त्वे संनिकृष्टलक्षणया निर्णयः। तथा हि दीक्षणीयादिशब्दा अङ्गकर्मवाचिनः। न च मन्द्रत्वादिधर्माणां कर्मस्वरूपं प्रयोजकम्, अपूर्वप्रयुक्तेः निर्णीतत्वात्। ततो दीक्षणीयादिशब्दैरपूर्वं लक्षणीयम्। तत्र वाक्यगतमवान्तरापूर्वं संनिकृष्टम्। तद्द्वारकं परमापूर्वं विप्रकृष्टम्। तस्मादवान्तरापूर्वप्रयुक्ता एते धर्माः। अश्वमेधगतत्रैधातवीयायामूहाभावः फलम्।
4 सिद्धान्तः तथा हि- अश्वमेधे समाम्नायते- ''त्रैधातवीया दीक्षणीया भवति'' इति यदि परमापूर्वप्रयुक्तः स्यात्, ततस्तस्योपकारविशेषनिबन्धन इति तत्कार्यापन्नायां त्रैधातवीयायामूहो भविष्यति अथ- आग्नावैष्णवापूर्वप्रयुक्तः, तदा त्रैधातवीयायां तदपूर्वं न भवति किंतु- अन्यदेवेति नास्त्यूहः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये प्रोक्षणस्यापूर्वप्रयुक्तत्वाधिकरणे सूत्रे 2-3”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सिद्धान्ते तु- अपूर्वस्य प्रयोजकत्वादस्ति तत्रोहः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.4
तृतीये- फलदेवतासंबद्धधर्माणामप्यपूर्वप्रयुक्तताधिकरणे सूत्रे 4-5
SŪ फलदेवतयोश्च।। 4।।
SŪ न चोदनातो हि ताद्गुण्यम्।। 5।।
तृतीयाधिकरणमारचयति-
1 विषयः अगन्मादेः स्वर्गदेवौ हेतू यद्वाऽत्र चोदितम्
3 पूर्वपक्षः आद्यो लिङ्गान्मैवमङ्गस्यापूर्वाकाङ्क्षितत्वतः
दर्शपूर्णमासयोर्मन्त्रौ श्रुतौ- ''अगन्म सुवः'' इत्येकः। ''अग्नेरहमुज्जितिमनूज्जेषम्'' इत्यपरः। तयोरुभयोः स्वर्गदेवौ क्रमेण प्रयोजकौ। कुतः- तल्लिङ्गदर्शनात्। तथा सति ''सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः'' इत्यत्र स्वर्गाग्न्योरभावान्नास्त्यूहः। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- चोदितं यदपूर्वं तस्यैव फलवत्तवेनानुष्टेयतयेतिकर्तव्यताकाङ्क्षा युक्ता ततो मन्त्रयोरपूर्वं प्रयोजकम् तथा सति विकृतौ 'अगन्म ब्रह्मवर्चसं सूर्यस्याहमुज्जितिमनूज्जेषम्' इत्येव मन्त्रयोरस्त्यूहः
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “वर्णकान्तरे (उच्चावचध्वनेः परमापूर्वाप्रयुक्तताधिकरणे) सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तथा हि- अश्वमेधे समाम्नायते- ''त्रैधातवीया दीक्षणीया भवति'' इति यदि परमापूर्वप्रयुक्तः स्यात्, ततस्तस्योपकारविशेषनिबन्धन इति तत्कार्यापन्नायां त्रैधातवीयायामूहो भविष्यति अथ- आग्नावैष्णवापूर्वप्रयुक्तः, तदा त्रैधातवीयायां तदपूर्वं न भवति किंतु- अन्यदेवेति नास्त्यूहः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.5
चतुर्थे- धर्माणामदेवताप्रयुक्तत्वाधिकरणे सूत्राणि (देवताधिकरणम्) 6-10
SŪ देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वात्।। 6।।
SŪ आर्थपत्यात्।। 7।।
SŪ ततश्च तेन संबन्धः।। 8।।
SŪ अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः।। 9।।
SŪ अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात्तस्य प्रीतिप्रधानत्वात्।। 10।।
चतुर्थाधिकरणमारचयति-
1 विषयः देवः प्रयोजकोऽपूर्वं वाद्योऽस्य फलदत्वतः
3 पूर्वपक्षः न विधेये गुणो ह्येषोऽपूर्वस्य फलितोचिता
''आग्नेयोऽष्टाकपालः''- इत्यादिषु सर्वेषु कर्मसु धर्माणामग्न्यादिर्देवः प्रयोजकः। कुतः- यागेन पूजिताया देवतायाः फलप्रदत्वात्। संभवति हि फलप्रदत्वम् मन्त्रार्थवादादिभ्यो विग्रहादिपञ्चकावगमात्। विग्रहः, हविःस्वीकारः, तद्भोजनम्, तृप्तिः, प्रसादश्च, इत्येतच्चेतनस्योचितं पञ्चकम्। ''सहस्त्राक्षो गोत्रभिद्वज्रबाहुः'' इति विग्रहः। ''अग्निरिदं हविरजुषत'' इति हविःस्वीकारः। ''अद्धीदिन्द्र प्रस्थिते मा हवींषि''- इति हविर्भोजनम्। ''तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तपर्यति'' इति तृप्तिप्रसादौ। ततः सेवितराजादिवत्पूजितदेवतायाः फलप्रदत्वेन प्राधान्यात्सैर्यधर्माणां प्रयोजिका। तथा सति यत्र सौर्यादावग्निर्नास्ति, तत्र- अग्निदेवतायां नियता धर्मा एव तावन्नातिदिश्यन्ते, कुतस्तत्रोहस्य प्राप्तिः। इति पूर्वपक्षः। किं देवतायाः फलप्रदत्वलक्षणं प्राधान्यं शब्दादापाद्यते, वस्तुसामर्थ्याद्वा। नाद्यः। 'स्वर्गकामो यजेत' इति शब्देन विधेयस्य यागस्य फलप्रदत्वावगमात्। द्रव्यदेवते तु सिद्धत्वेन विद्ध्यनर्हे। तत्र यथा द्रव्यस्य विधेयं प्रति गुणत्वम्, तथा देवताया अपि। यदि यागस्य कालान्तरभाविफलं प्रति व्यवहितत्वम्, तर्हि तत्साधनभूता देवता ततोऽपि व्यवहिता, का तर्हि फलस्य गतिः। 'अपूर्वम्' इति वदामः। तच्च श्रुत्या श्रुतार्थापत्त्या वा प्रतीयमानत्वाच्छाब्दमिति तस्य फलप्रदत्वमुचितम्। नापि वस्तुसामर्थ्याद्देवस्य फलप्रदत्वम्, विग्रहादिपञ्चकप्रतिपादकयोर्न्मत्रार्थवादयोः स्वार्थे तात्पर्याभावात्। अन्यथा ''वनस्पतिभ्यः स्वाहा। मूलेभ्यः स्वाहा'' इत्यादिमन्त्रेष्वपि देवत्वं विग्रहादिपञ्चकयुक्तं कल्प्येत। तच्च प्रत्यक्षविरुद्धम्। ततो न राजादिवत्फलप्रदत्वम्। किंच विग्रहादिमद्देवतावाद्यपि न विना कर्मणा फलमभ्युपैति। ततः- प्राप्ताप्राप्तविवेकेनोभयवादिसिद्धस्य यागस्यैव फलप्रदत्वमस्तु।
4 सिद्धान्तः किंच मातापितृगुर्वादिशुश्रूषायां विनाऽपि देवतां फलप्रदत्वमुभयवादिसिद्धम् तस्मात्- फलप्रदमपूर्वमेव धर्माणां प्रयोजकम् तथा सत्यग्न्यादिदेवताभावेऽप्यपूर्वप्रयुक्तधर्माणामतिदेशादस्ति तत्रोहस्यावकाशः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- फलदेवतासंबद्धधर्माणामप्यपूर्वप्रयुक्तताधिकरणे सूत्रे 4-5”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- चोदितं यदपूर्वं तस्यैव फलवत्तवेनानुष्टेयतयेतिकर्तव्यताकाङ्क्षा युक्ता ततो मन्त्रयोरपूर्वं प्रयोजकम् तथा सति विकृतौ 'अगन्म ब्रह्मवर्चसं सूर्यस्याहमुज्जितिमनूज्जेषम्' इत्येव मन्त्रयोरस्त्यूहः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.6
पञ्चमे- प्रोक्षणादीनामपूर्वप्रयुक्तताधिकरणे सूत्राणि 11-19
SŪ द्रव्यसंख्याहेतुसमुदायं वा श्रुतिसंयोगात्।। 11।।
SŪ अर्थकारिते च द्रव्येण न व्यवस्था स्यात्।। 12।।
SŪ अर्थो वा स्यात्प्रयोजनमितरेषामचोदनात्तस्य च गुणभूतत्वात्।। 13।।
SŪ अपूर्वत्वाद्व्यवस्था स्यात्।। 14।।
SŪ तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम्।। 15।।
SŪ तद्युक्तस्येति चेत्।। 16।।
SŪ नाश्रुतित्वात्।। 17।।
SŪ अधिकारादिति चेत्।। 18।।
SŪ तुल्येषु नाधिकारः स्यादचोदितश्च संबन्धः,पृथक्सतां यज्ञार्थेनाभिसंबन्धस्तस्माद्यज्ञ-प्रयोजनम्।। 19।।
पञ्चमाधिकरणमारचयति-
1 विषयः व्रीह्यादयः प्रयोक्तारोऽपूर्वं वा प्रेक्षणादिषु वाक्यश्रुतिभ्यामाद्यः स्याच्चोदिताकाङ्क्षयाऽन्तिमः
3 पूर्वपक्षः ''व्रीहीन्प्रोक्षति'' इत्यत्र वाक्येन द्वितीयाश्रुत्या च प्रोक्षणे व्रीहिस्वरूपं प्रयोजकम्। इति चेत्- मैवम्। फलवत्त्वेन कर्तव्यतया चोदितस्यापूर्वस्येतिकर्तव्यतायामाकाङ्क्षा भवति। व्रीहिस्वरूपं तु सिद्धत्वान्न कर्तव्यतया चोद्यते, किंतु गुणत्वेन। ततो द्रव्यस्वरूपस्य नेतिकर्तव्यताकाङ्क्षा। तस्मात्- वाक्यश्रुती उपेक्ष्य प्रकरणादपूर्वस्य प्रयोजकत्वमेवेष्टव्यम्। न च- अपूर्वप्रयुक्ते स्रुवादौ प्रोक्षणस्यातिप्रसङ्गः, प्रकृतापूर्वाय हविराकारस्य विवक्षितत्वात्। सप्तमस्य प्रथमाधिकरणे संनिपत्त्योपकारिणामारादुपकारिणां च सामान्येनापूर्वप्रयुक्तत्वमतिदेशारम्भसिद्धये वर्णितम्। तदेवात्रापि प्रथमाधिकरणस्य प्रथमवर्णक ऊहारम्भसिद्धये स्मारितम्। द्वितीयवर्णके पुनः संनिपत्योपकारिणां विशेषाकारेण साधितम्। पुनरपि दार्ढ्याय द्वितीयाधिकरणस्य प्रथमवर्णके, तृतीयपञ्चमाधिकरणयोश्च क्रमेण वाक्यं लिङ्गं श्रुतिं चोपजीव्य प्रवृत्तास्त्रयः पूर्वपक्षा निराकृताः। अतो न पुनरुक्तिभ्रमः कर्तव्यः।। 1।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- धर्माणामदेवताप्रयुक्तत्वाधिकरणे सूत्राणि (देवताधिकरणम्) 6-10”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “किंच मातापितृगुर्वादिशुश्रूषायां विनाऽपि देवतां फलप्रदत्वमुभयवादिसिद्धम् तस्मात्- फलप्रदमपूर्वमेव धर्माणां प्रयोजकम् तथा सत्यग्न्यादिदेवताभावेऽप्यपूर्वप्रयुक्तधर्माणामतिदेशादस्ति तत्रोहस्यावकाशः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.7
षष्ठे- अग्निष्टोम उपांशुत्वस्य प्राचीनपदार्थप्रयुक्तत्वाधिकरणे सूत्राणि 20-25
SŪ देशबद्धमुपांशुत्वं तेषां स्याच्छ्रुतिनिदेशात्तस्य च तत्र भावात्।। 20।।
SŪ यज्ञस्य वा तत्संयोगात्।। 21।।
SŪ अनुवादश्च तदर्थवत्।। 22।।
SŪ प्रणीतादि तथेति चेत्।। 23।।
SŪ न यज्ञस्याश्रुतित्वात्।। 24।।
SŪ तद्देशानां वा संघातस्याचोदितत्वात्।। 25।।
षष्ठाधिकरणमारचयति-
1 विषयः प्राचीनोपांशुताऽपूर्वे परमेऽवान्तरेऽपि वा यज्ञयोगादादिमोऽन्त्यो देशबन्धश्रुतत्वतः
3 पूर्वपक्षः ज्योतिष्टोमे श्रूयते ''त्सरा वा एषा यज्ञस्य, तस्माद्यत्किंचित्प्राचीनमग्नीषोमीयात्, तेनोपांशु चरन्ति'' इति। अत्र- उपांशुपरता परमापूर्वे संबद्धा। परमापूर्वप्रयुक्तेत्यर्थः। कुतः- शकुनिग्राहकगतिन्यायेन यज्ञसंबन्धावगमात्। तथा हि यज्ञस्य संबन्ध यत्किंचिदग्नीषोमीयात्प्राचीनमारादुपकारकं प्रधानहविःसंस्कारकं च, तस्य सर्वस्योपांशुत्वं विधीयते। यज्ञो नाम परमापूर्वं तस्य यज्ञसाध्यत्वात्। येयमुपांशुत्वानुष्ठितिः, एषा त्सरा छद्मगतिः। यथा शकुनिं जिघृक्षवः प्रच्छन्ना गतिर्भवति। शनैः पदन्यासो दृष्टिप्रणिधानमशब्दकरणं चेति तत्सर्वं शकुनिग्रहणाय। तथैव- अनुष्ठातुरुपांशुत्वानुष्ठानं छद्मगतिरूपमनुष्ठानसाध्याय यज्ञशब्दनिर्दिष्टाय परमापूर्वाय। सति च परमापूर्वप्रयुक्तत्वे कुण्डपायिनामयनेऽप्यग्नीषोमीयपशोः प्राचीनेषूपांशुत्वस्योहः। इति प्राप्ते-
4 सिद्धान्तः ब्रूमः- अवान्तरापूर्वप्रयुक्तमुपांशुत्वम्। कुतः- देशबन्धेन श्रुतत्वात्। 'अग्नीमीयात्प्राचीनं यत्किंचित्' इति मर्यादया देशलक्षिता ये पदार्थाः, ते श्रूयमाणेन वाक्येनोपांशुत्वसंबद्धाः प्रतीयन्ते। यज्ञसंबन्धस्तु न वाक्येन श्रूयते। ''यज्ञस्य त्सरा'' इत्यन्वयप्रतीतेः। न हि 'यज्ञस्य यत्किंचित्प्राचीनम्' इत्यन्वयः संभवति, 'तस्मात्' इत्यनेन पदेन व्यवधानात्। तस्मान्मर्यादावच्छिन्नपदार्थजन्यावान्तरापूर्वप्रयुक्तमुपांशुत्वम्। ''यज्ञस्य त्सरा'' इत्यनेनार्थवादेनावान्तरापूर्वप्रयुक्तमेवोपांशुत्वं प्रशस्यते। एवं सत्युदाहृतोहाभावः फलम्। यत्तु द्वितीयाधिकरणस्य द्वितीयवर्णके अग्नीषोमीयात्प्राचीने दीक्षणीयादौ स्वरान्तरमुक्तम्, तद्दीक्षणीयादिसंयोगात्तत्रत्यप्रधानविषयम्। इदं तूपांशुत्वमङ्गविषयमिति न विरोधः।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- प्रोक्षणादीनामपूर्वप्रयुक्तताधिकरणे सूत्राणि 11-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
सप्तमाधिकरणमारचयति-
1 विषयः प्रणीतावाग्यमे पक्षौ योजनीयौ पुरेव तौ
3 पूर्वपक्षः पुरा हविष्कृदाह्वानाद्ये तत्रापूर्वकारिता
दर्शपूर्णमासयोः श्रूयते ''यज्ञं तनिष्यन्तावध्वर्युयजमानौ वाचं यच्छतः'' इति। तत्र प्रणीतासंबन्धिनि वाङ्नियमे यज्ञसंयोगात्परमापूर्वं प्रयोजकम्। इति पूर्वः पक्षः।
4 सिद्धान्तः यज्ञशब्दस्य 'तनिष्यन्तौ' इत्यनेनान्वयः, न तु वाग्यमेन ततो न परमापूर्वं प्रयोजकम् तथा सति हविष्कृदाह्वाने वाग्विसर्गस्य विहितत्वात्ततः पुरा ये प्रोक्षणादिपदार्थास्तेष्वन्वितास्तत्रत्येन परमापूर्वेण प्रयुज्यन्ते। 10
9.1.8
अष्टमे- इष्टकासु सकृद्विकर्षणाद्यनुष्ठानाधिकरणे सूत्राणि 26-28
SŪ अग्निधर्मः प्रतीष्टकं संघातात्पौर्णमासीवत्।। 26।।
SŪ अग्नेर्वा स्याद्द्रव्यैकत्वादितरासां तदर्थत्वात्।। 27।।
SŪ चोदनासमुदायात्तु पौर्णमास्यां तथा स्यात्।। 28।।
अष्टमाधिकरणमारचयति-
1 विषयः विकर्षप्रोक्षणे कार्ये प्रतीष्टकमुतैकधा
3 पूर्वपक्षः आद्योऽवयव्यसत्त्वेन मैवं भूदेशसत्त्वतः
''इष्टकाभिरग्निं चिनुते'' इति श्रुतम्। तत्रेदमाम्नायते- ''मण्डूकेनाग्निं विकर्षति। वेतसशाखयाऽवकाभिश्चाग्निं विकर्षति। हिरण्यशकलसहस्त्रेणाग्निं प्रोक्षति। दध्ना मधुमिश्रेणाग्निं प्रोक्षति'' इति। 'शाखाग्रे मण्डूकं वद्ध्वा तेन विकर्षयति' इत्यर्थः। ते च विकर्षणप्रोक्षणे प्रतीष्टकं कर्तव्ये। कुतः- चिताभ्य इष्टकाभ्यः पृथगग्निशब्दार्थस्य कस्यचिदवयविद्रव्यस्याभावात्। इति चेत्-
4 सिद्धान्तः मैवम् उपहिताभिरिष्टकाभिः संयुक्तस्य प्रदेशस्यावयविद्रव्यत्वात् तस्य चाग्न्याधारत्वेनाग्निशब्दार्थत्वम् तस्मादग्नेरेकत्वात्सकृदेव विकर्षणप्रोक्षणे कुर्यात्
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- अग्निष्टोम उपांशुत्वस्य प्राचीनपदार्थप्रयुक्तत्वाधिकरणे सूत्राणि 20-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.9
नवमे- उत्तमान्यानामह्नां पत्नीसंयाजसंस्थाधिकरणे सूत्राणि 29-32
SŪ पत्नीसंयाजान्तत्वं सर्वेषामविशेषात्।। 29।।
SŪ लिङ्गाद्वा प्रागुत्तमात्।। 30।।
SŪ अनुवादो वा दीक्षा यथा नक्तं संस्थापनस्य।। 31।।
SŪ स्याद्वाऽनारभ्य विधानादन्ते लिङ्गविरोधात्।। 32।।
नवमाधिकरणमारचयति-
1 विषयः पत्नीसंयाजसंस्था किं सर्वेष्वन्त्येतरेषु वा अविशेषादादिमोऽन्त्योऽसंस्थितत्वोक्तिलिङ्गतः
3 पूर्वपक्षः द्वादशाहे श्रूयते ''पत्नीसंयाजान्तान्यहानि संतिष्ठन्ते'' इति। तत्र द्वादशसंख्याकेषु सर्वेष्वहःसु पत्नीसंयाजान्तं कर्मानुष्ठायावशिष्टं हारियोजनादिकं त्याज्यम्। कुतः- 'एतावत्सु पत्नीसंयाजैः समाप्तिर्नेतरेषु' इति विशेषनियामकाभावात्। इति चेत्- मैवम्। असंस्थितत्ववाक्योक्तलिङ्गेन प्रागुत्तमादह्नो यानीतराण्यहानि तेषु पत्नीसंयाजान्तत्वं व्यवतिष्ठते। तथा हि- 'पत्नीसंयाजान्तान्यहानि संतिष्ठन्ते' इत्यस्य विधेः शेष एवमाम्नायते- ''न बर्हिरनुप्रहरत्यसंस्थितो हि तर्हि यज्ञः'' इति। तत्र पत्नीसंयाजैः सर्वेषामह्नां समाप्तावसंस्थितत्वं व्याहन्यते। तस्मात् 'संतिष्ठते' इति संशब्दो न समाप्तिवचनः, किं तर्हि सत्येव तदहःसंबन्धिकर्तव्यशेषे व्यापारोपरममात्रं ब्रूते। अयं च कर्तव्यशेषश्चरमेऽहन्यनुष्ठातव्यः। तथा सति द्वादशानामह्नां विहितः सहप्रयोगोऽनुगृहीतो भवति। तथा हि ''द्वादशाहेन यजेत'' इति सहप्रयोगो विहितः। अत एव दीक्षोपसदादिकं तन्त्रेणानुष्ठीयते। तत्र प्रथममहः पत्नीसंयाजान्तमनुष्ठाय हारियोजनादिकं बर्हिप्रहरणान्तं कर्तव्यत्वेनावस्थाप्य द्वितीयमहः प्रक्रमेत। एवमुत्तरत्रापि। तत्र सर्वत्रावशिष्टं कर्तव्यमुत्तमेऽहन्यनुष्ठातव्यम्। तथा सत्युपक्रमैक्यवदुपसंहारस्याप्येकत्वाद्विहितः सहप्रयोगः सिध्यति। एकैकस्याह्नः पत्नीसंयाजैः समाप्तौ भिन्नाः प्रयोगाः प्रसज्येरन्। यत्तु दशमस्याह्नो मानसग्रहेण समापनम्, तद्वाचनिकम्। तस्मात्- उत्तमव्यतिरिक्तानामेवाह्नां पत्नीसंयाजानन्तरं व्यापारोपरमः।। 13।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- इष्टकासु सकृद्विकर्षणाद्यनुष्ठानाधिकरणे सूत्राणि 26-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् उपहिताभिरिष्टकाभिः संयुक्तस्य प्रदेशस्यावयविद्रव्यत्वात् तस्य चाग्न्याधारत्वेनाग्निशब्दार्थत्वम् तस्मादग्नेरेकत्वात्सकृदेव विकर्षणप्रोक्षणे कुर्यात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.10
दशमे- सामिधेनीनामभ्यासस्य स्थानधर्मताधिकरणे सूत्रम्
SŪ अभ्यासः सामिधेनीनां प्राथम्यात्स्थानधर्मः स्यात्।। 33।।
दशमाधिकरणमारचयति-
1 विषयः त्रिरनूक्तिर्ऋचो धर्मः स्थानधर्मोऽथवाऽग्रिमः
3 पूर्वपक्षः स्त्रीलिङ्गत्वान्न तत्प्रातिपदिकप्रबलत्वतः
दर्शपूर्णमासयोः सामिधेनीः प्रकृत्य श्रूयते ''त्रिः प्रथमामन्वाह'' इति। सोऽयं त्रिरभ्यास आदौ पठितस्य ''प्र वो वाजा'' इत्यृग्विशेषस्य धर्मः। कुतः- 'प्रथमाम्' इत्यस्य पदस्य स्त्रीलिङ्गत्वादृक्परत्वोपपत्तेः। इति चेत्-
4 सिद्धान्तः नैतद्युक्तम् स्त्रीलिङ्गवाचिनष्टाप्प्रत्ययादपि पूर्वपठितस्य स्थानवाचिनः 'प्रथम' इत्यस्य प्रातिपदिकस्य प्रबलत्वात् अतो विकृतिष्वन्यस्या अप्यृचः प्रथमस्थाने पठितायास्त्रिरभ्यासः कर्तव्यः स्थानान्तरे पठिताया 'प्र वो वाजा' इत्यस्या ऋचो नास्त्यभ्यासः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- उत्तमान्यानामह्नां पत्नीसंयाजसंस्थाधिकरणे सूत्राणि 29-32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.11
एकादशे- आरभ्यणीयेष्ट्यधिकरणे सूत्रे 34-35
SŪ इष्ट्यावृत्तौ प्रयाजवदावर्तेतारम्भणीया।। 34।।
SŪ सकृद्वारम्भसंयोगादेकः पुनरारम्भो यावज्जीवप्रयोगात्।। 35।।
एकादशाधिकरणे (यावज्जीवदर्शपूर्णमासयोरारम्भणीयेष्टेः सकृदनुष्ठानाङ्गीकर्तृ-) वृत्तिकारमतमारचयति-
1 विषयः प्रतिप्रयोगमारम्भयजिरस्ति न वाऽस्त्यसौ
3 पूर्वपक्षः अङ्गत्वेन, न तत्सर्वधर्म आधानवद्भवेत्
''आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारिप्समानः'' इति विहितेयमारम्भणीयेष्टि-र्दर्शपूर्णमासयोर्यावज्जीवमावर्त्यमानयोः प्रतिप्रयोगमावर्तनीया। कुतः- प्रयाजादिवदङ्गत्वात्। इति चेत्-
4 सिद्धान्तः नैतद्युक्तम् कुतः- सर्वप्रयोगसाधारणत्वात् 'यावज्जीवं मया दर्शपूर्णमासौ कर्तव्यौ' इत्यध्यवसाय आरम्भः स चैक एव तेन चारम्भेण प्रयुक्तेयमिष्टिः तस्मान्नावर्तनीया यथा- आधानं सर्वक्रतुसाधारणत्वात्सकृदेव कर्तव्यम्, तद्वत् आधानस्य सकृदनुष्ठानमेकादशस्य तृतीयपादे वक्ष्यते
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- सामिधेनीनामभ्यासस्य स्थानधर्मताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतद्युक्तम् स्त्रीलिङ्गवाचिनष्टाप्प्रत्ययादपि पूर्वपठितस्य स्थानवाचिनः 'प्रथम' इत्यस्य प्रातिपदिकस्य प्रबलत्वात् अतो विकृतिष्वन्यस्या अप्यृचः प्रथमस्थाने पठितायास्त्रिरभ्यासः कर्तव्यः स्थानान्तरे पठिताया 'प्र वो वाजा' इत्यस्या ऋचो नास्त्यभ्यासः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
'आरम्भणीयेष्टेः पुरुषार्थत्वान्नावृत्तिः' इति स्वकीयं मतमारचयति-
1 विषयः अन्वाधानाङ्गमारम्भो यद्वा पुरुषसंस्कृतिः
3 पूर्वपक्षः फलवत्त्वादादिमोऽन्त्यः पुंयोगान्न पृथक्फलम्
दर्शपूर्णमासयोरन्वाधानस्य प्रथमपदार्थत्वेनारम्भरूपत्वादारम्भप्रयुक्तेयमिष्टिरन्वाधानस्याङ्गम्। तथा सति यागफलेनैव फलवती स्यात्। कर्तृसंस्कारपक्षे पृथक्फलं कल्प्येत। तस्मात्- प्रतिप्रयोगमन्वाधानावृत्तौ तदङ्गभूतेयमिष्टिरावर्तनीया। इति प्राप्ते-
4 सिद्धान्तः ननु- एवमपि तत्तत्प्रयोगानारिप्समानस्य संस्कारायावृत्तिः स्यात् न स्यात् 'प्रयोगमारिप्समानः' इत्यश्रुतत्वात् 'दर्शपूर्णमासावारिप्समानः' इति हि श्रूयते तयोश्चैक एवारम्भः तस्मान्नास्त्यावृत्तिः
ब्रूमः- आरम्भो नाम पुरुषस्य प्रथमप्रवृत्तिः, न त्वन्वाधानपदार्थः। अतो नान्वाधानाङ्गम्। किंतु 'आरिप्समानो निर्वपेत्' इति पुरुषसंयोगात्तत्संस्कारोऽयम्। न च फलकल्पनाप्रसङ्गः, कृतारम्भस्य पुरुषस्य प्रयोगपरिगृहीतत्वेन पृथक्फलाकाङ्क्षाया अभावात्।
9.1.12
द्वादशे निर्वापमन्त्रे सावित्रादिपदानामनूहाधिकरणे सूत्रे (असमवेतार्थानामनूहः) 36-37
SŪ अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तत्राचोदितमप्राप्तं चोदिताभिधानात्।। 36।।
SŪ ततश्चावचनं तेषामितरार्थं प्रयुज्येते।। 37।।
द्वादशाधिकरणमारचयति-
1 विषयः सवित्रश्व्याद्यूहनीयं न वाऽर्थः संगतस्ततः
3 पूर्वपक्षः ऊहो नाविकृतस्यैव निर्वापान्वयसंभवात्
दर्शपूर्णमासयोर्निर्वापमन्त्रः श्रूयते ''देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताम्यामग्नये जुष्टं निर्वपामि'' इति। तत्र सवित्रश्विपूषशब्दाः कर्मणि संगतं देवतारूपमर्थमभिधातुमर्हन्ति। तथा सति दृष्टप्रयोजनलाभात्। अग्निश्च कर्मसमवेतदेवता। ततः कयाचिदपि व्युत्पत्त्या सवित्रादिशब्दैरग्निरभिधीयताम्। अथोच्येत 'अग्निशब्देनैवाग्नेरभिधानात्पुनस्तदभिधानं व्यर्थम्। किंच- देवान्तरेषु रूढास्ते शब्दा नाग्निमभिदध्युः' इति। एवं तर्हि तास्तिस्रो देवता अग्निना साकं कर्मणि विकल्प्यन्ताम्। ततः प्राकृतस्य मन्त्रस्य विकृतिष्वतिदेशे सति सवित्रादिशब्दस्थाने तत्तद्देवतावाचकः शब्द ऊहनीयः। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- नात्रोहः कर्तव्यः कुतः- अविकृतस्यैव मन्त्रस्य निर्वापशेषत्वेनान्वयसंभवात् नहि प्रकृतावग्निना सह सवित्रादिदेवतानां विकल्पः वाक्यभेदादिदोषप्रसङ्गात् तस्मात्- नास्त्यूहः
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- आरभ्यणीयेष्ट्यधिकरणे सूत्रे 34-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतद्युक्तम् कुतः- सर्वप्रयोगसाधारणत्वात् 'यावज्जीवं मया दर्शपूर्णमासौ कर्तव्यौ' इत्यध्यवसाय आरम्भः स चैक एव तेन चारम्भेण प्रयुक्तेयमिष्टिः तस्मान्नावर्तनीया यथा- आधानं सर्वक्रतुसाधारणत्वात्सकृदेव कर्तव्यम्, तद्वत् आधानस्य सकृदनुष्ठानमेकादशस्य तृतीयपादे वक्ष्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.13
त्रयोदशे वर्णकद्वयसहितेऽधिकरणे सूत्रे 38-39
SŪ गुणशब्दस्तथेति चेत्।। 38।।
SŪ न समवायात्।। 39।।
त्रयोदशाधिकरणे (विकृतावग्निशब्दोहप्रदर्शकं) प्रथमवर्णकमारचयति-
1 विषयः तत्राग्निशब्दो नोह्यः स्यादूह्यो वा स्तावकत्वतः
3 पूर्वपक्षः सवित्रादिवदाद्यो नो समवेतार्थवर्णनात्
तस्मिन्पूर्वोदाहृत एव मन्त्रे 'अग्नये जुष्टम्' इत्ययमग्निशब्दो विकृतिषु नोहनीयः। कुतः- देवतान्तरवाचिसवित्रादिशब्दवदग्निशब्दस्याप्यत्र निर्वापस्तावकत्वेन पाठात्। इति प्राप्ते-
4 सिद्धान्तः मैवम् 'जुष्टं यथा भवति तथा निर्वपामि' इति क्रियाविशेषणत्वेन भविष्यज्जोषणपरत्वे सति समवेतार्थत्वात् तस्मात्- सौर्ये यागे 'सूर्याय जुष्टं निर्वपामि' इत्येवमूहनीयम्
ब्रूमः- विषमो दृष्टान्तः। कर्मण्यसमवेतार्थाः सवित्रादिशब्दाः। अग्निशब्दस्त्वाग्नेये कर्मणि समवेतमर्थं ब्रूते। ननु- अत्र जुष्टशब्दोऽसमवेतार्थः। निर्वापात्पूर्वं हविषो जुष्टत्वाभावात्। तद्योगादग्निशब्दोऽपि तथा स्यात्- इति चेत्-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे निर्वापमन्त्रे सावित्रादिपदानामनूहाधिकरणे सूत्रे (असमवेतार्थानामनूहः) 36-37”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- नात्रोहः कर्तव्यः कुतः- अविकृतस्यैव मन्त्रस्य निर्वापशेषत्वेनान्वयसंभवात् नहि प्रकृतावग्निना सह सवित्रादिदेवतानां विकल्पः वाक्यभेदादिदोषप्रसङ्गात् तस्मात्- नास्त्यूहः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
(तण्डुलनिर्वापमन्त्रे धान्यशब्दोहप्रदर्शकं) द्वितीयवर्णकमारचयति-
1 विषयः नोह्य ऊह्योऽथवा धान्यशब्दो नासंगतोक्तिता ऊह्यो लक्षणयाऽर्थस्य गोपानस्येव संगतेः
3 पूर्वपक्षः दृषदि पेषणाय तण्डुलावापे मन्त्रो विहितः- ''धान्यमसि धिनुहि देवान्'' इति। सोऽयं धान्यशब्दोऽसपवेतमर्थं ब्रूते निस्तुषाणां तण्डुलानां धान्यशब्दार्थत्वाभावात्। ततः सवित्रादिशब्दवन्नोहनीयः। इति चेत्- मैवम्। लक्षणया वृत्त्या धान्यशब्दस्य तण्डुलरूपेऽर्थे समवेतत्वात्। यथा 'गावः पीयन्ते' इत्यत्र मुख्यवृत्त्यभावेऽपि नासमवेतार्थत्वं लोका वर्णयन्ति। किंतु दुग्धं लक्षयित्वाऽर्थं समवेतमेव प्रतियन्ति। तद्वत्। तस्मात्- शाक्यानामयने- षट्त्रिंशत्संवत्सरे धान्यशब्द ऊहनीयः। तत्र ह्येवमाम्नायते- ''संस्थिते संस्थितेऽहनि गृहपतिर्मृगयां याति, स तत्र यान्मृगान्हन्ति, तेषां तरसमयाः सवनीयाः पुरोडाशा भवन्ति'' इति। तत्र दृषदि पेषणाय मांसमावपन्। 'मांसमसि धिनुहि देवान्' इत्येवं मन्त्रमूहेत। न च धान्यशब्दवल्लक्षको मृगशब्द ऊहे प्रयोक्तव्यः- इति वाच्यम्, लक्षणावृत्तेः प्रकृतावार्थिकत्वेनातिदेशानर्हत्वात्।। 19।।
9.1.14
चतुर्दशे- इडोपह्वानमन्त्रे यज्ञपतिशब्दस्यानूहाधिकरणे सूत्रम्
SŪ चोदिते तु परार्थत्वाद्विधिवदविकारः स्यात्।। 40।।
1 विषयः ऊह्यो यज्ञपतिर्नो वा वृद्ध्यर्थोत्साहतोऽग्रिमः प्रत्यक्षोक्त्या कृत्स्नमन्त्र इडार्थो नोहनं ततः
3 पूर्वपक्षः चतुर्दशाधिकरणमारयति- दर्शपूर्णमासयोरिडोपह्वानमन्त्रे वाक्यमेतदाम्नायते- ''दैव्या अध्वर्यव उपहूता उपहूता मनुष्याः, य इमं यज्ञमवान्, ये च यज्ञपतिं वर्धान्'' इति। 'ये दैव्या अध्वर्यवो यज्ञमवन्ति, ये च मनुष्या यज्ञपतिं वर्धयन्ति, ते सर्वेऽप्यत्रोपहूताः' इत्यर्थः। अस्मिन्वाक्ये यज्ञपतेरभिवृद्धिकथनेनोत्साहजननेन समवेतोऽर्थः प्रतीयते। तत इडोपह्वानमन्त्रात्पृथक्कृत्याभिवृद्ध्यर्थे जपे मन्त्रवाक्यमिदं लिङ्गेन विनियुज्यताम्। तथा सति सत्रे यज्ञपतीनां बहुत्वाद्बहुवचनान्ततया शब्द ऊहनीयः। इति प्राप्ते-
4 सिद्धान्तः ब्रूमः- प्रत्यक्षश्रुत्या कृत्स्नो मन्त्र इडोपह्णाने विनियुक्तः। एकवाक्यत्वं च कृत्स्ने मन्त्र उपलभ्यते। प्रकरणं चेदमिडायाः। ततः श्रुतिवाक्यप्रकरणैर्विरोधान्न लिङ्गविनियोगः संभवति। तदभावे च यज्ञपतिवृद्धिप्रतिपादकमवान्तरवाक्यमिडाप्रतिपादकेन महावाक्येन सहैकवाक्यतामापन्नमिडां प्रशंसति। प्रशंसा चैकवचनान्तेनापि यज्ञपतिशब्देन सिध्यतीति नास्ति सत्रे तदूहः।। 20।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे वर्णकद्वयसहितेऽधिकरणे सूत्रे 38-39”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'जुष्टं यथा भवति तथा निर्वपामि' इति क्रियाविशेषणत्वेन भविष्यज्जोषणपरत्वे सति समवेतार्थत्वात् तस्मात्- सौर्ये यागे 'सूर्याय जुष्टं निर्वपामि' इत्येवमूहनीयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.15
पञ्चदशे प्रस्तरप्रहरणकरणसूक्तवाके यजमानपदस्योहाधिकरणे सूत्रम्
SŪ विकारस्तत्प्रधाने स्यात्।। 41।।
पञ्चदशाधिकरणमारचयति-
1 विषयः यजमानो नोहितव्य ऊह्यो वा नहि पूर्ववत् मन्त्रः फलप्रधानोऽत ऊह्यः सर्वफलित्वतः
3 पूर्वपक्षः दर्शपूर्णमासयोः ''सूक्तवाकेन प्रस्तरं प्रहरन्ति'' इति प्रहरणकरणत्वेन विनियुक्ते सूक्तवाकमन्त्रे वाक्यमेतदाम्नायते- ''अयं यजमान आयुराशास्ते'' इति। तत्र पूर्वोक्तयज्ञपतिशब्दवत्सत्रेषु यजमानशब्दो नोहितव्यः। इति चेत्- मैवम्। वैषम्यात्। तथा हि सर्वत्र प्रकरणे मन्त्रो द्विविधः 'क्रियाप्रकाशकः', 'फलप्रकाशकश्चेति'। पूर्वोदाहृतो मन्त्र इडोपह्वानक्रियाप्रकाशकः। ''उपहूतं रथंतरं सह पृथिव्या'' इत्यस्मिन्ननुवाके तदुपह्वानमन्त्ररूपे सर्वस्मिन्नपि तदवभासात्। 'इडोपहूता, उपहूतेडा, उपो अस्या इडा ह्वयताम्। इडोपहूता दैव्या अध्वर्यव उपहूताः' इत्यादिभिरवान्तरवाक्यैरुपह्वानक्रियाया एव प्राधान्यावभासात्। तन्मध्यपतितं त्वेकमेव यज्ञपतिवाक्यं वृद्धिफलं गमयतीति न तस्य स्वार्थो विवक्षितः। सूक्तवाकमन्त्रस्तु फलमेव प्रकाशयति, न तु प्रहरणक्रियाम्। ''इदं द्यावापृथिवी भद्रमभूत्'' इत्यस्मिन्ननुवाके सूक्तवाकमन्त्रे सर्वस्मिन्फलावभासात्। ''अयं यजमान आयुराशास्ते, सुप्रजास्त्वमाशास्ते, उत्तरां देवयज्यामाशास्ते, भूयो हविष्करणमाशास्ते, दिव्यं धामाशास्ते'' इत्यादिभिः सर्वैरप्यवान्तरवाक्यैः फलस्यैवावभासनात्। तस्मात्- विवक्षितं फलम्। फलिनश्च सत्रेषु सर्वे यजमानाः ततः सर्वेषां फलसिद्धये यजमानशब्दो बहुवचनान्तत्वेन सर्वेषु सत्रेषूहनीयः।। 21।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- इडोपह्वानमन्त्रे यज्ञपतिशब्दस्यानूहाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.16
षोडशे वर्णकद्वयसहिते सूत्राणि 42-44
SŪ असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत।। 42।।
SŪ कर्माभावादेवमिति चेत्।। 43।।
SŪ न परार्थत्वात्।। 44।।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे प्रस्तरप्रहरणकरणसूक्तवाके यजमानपदस्योहाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.17
षोडशाधिकरणे सुब्रह्मण्याह्वाननिगदे हरिवच्छब्दस्यानूहप्रदर्शकं प्रथमवर्णकमारचयति
1 विषयः हरिवच्छब्द ऊह्यः स्यान्नो वेन्द्रे समवायतः
3 पूर्वपक्षः ऊह्यो मैवं स्तावकत्वादसता स्तुतिसंभवात्
ज्योतिष्टोमे सुब्रह्मण्याह्वानार्थे निगदे पठ्यते- ''इन्द्रागच्छ, हरिव आगच्छ, मेधातिथेर्मेष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार'' इति। सोऽयं निगदो विकृतावग्निष्टुति चोदकेनातिदिष्टः। तत्र- 'आग्नेयी सुब्रह्मण्या भवति' इत्यग्निसंबन्धविधानादिन्द्रपदं परित्यज्य 'अग्न आगच्छ' इत्यूहः कृतः। 'तस्मिन्निगदे यानीन्द्रपदस्य विशेषणानि 'हरिवः' इत्यादिसंबुद्ध्यन्तपदानि तान्यप्यूहनीयानि' इति तावत्प्राप्त
4 सिद्धान्तः ब्रूमः- इन्द्रशब्दस्य कर्मसमवेतदेवताप्रकाशकत्वान्न स्ताकत्वमित्यस्ति तस्योहः हरिवदादिशब्दा ब्राह्मणव्याख्यातगुणाभिधानद्वारेणेन्द्रं स्तुवन्ति स्तुतिश्च विद्यमानगुणवदविद्यमानेनापि गुणेन कर्तुं शक्यते तस्मात्- अग्निस्तुतिसंभवान्नास्त्यूहः
म्। कुतः- इन्द्र एव नियमेन समवेतस्यार्थस्याभिधानात्। अग्नौ तस्याभावात्। स चार्थस्तत्तत्संबुद्ध्यन्तपदमनूद्य व्याचक्षाणेन ब्राह्मणेन स्पष्टीकृतः। तथा च श्रूयते ''हरिव आगच्छेति, पूर्वपक्षापरपक्षौ वा इन्द्रस्य हरी, ताभ्यां ह्येष सर्वं हरतीति। मेधातिथेर्मेषेति, मेधातिथिं काण्वायनिं मेषो भूत्वा जहार। वृषणश्वस्य मेन इति, वृषणश्वस्य मेनका नाम दुहिता बभूव, तामिन्द्रश्चकमे। गौरावस्कन्दिन्निति, गौरमृगो भूत्वा राजानं पिबति'' इति। एतस्यार्थस्येन्द्र एवान्वितस्याग्नावसंभवात्तत्परित्यागेनाग्नेरुचितानि कानिचिद्विशेषणान्यूहनी-यानि। इति प्राप्ते-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे वर्णकद्वयसहिते सूत्राणि 42-44”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.18
सोमक्रयसाधनसाण्डे 'तस्मै शृतम्' इत्याद्यनूहप्रदर्शकं द्वितीयवर्णकमारचयति
1 विषयः ऊह्यं तस्यै शृतं नो वा भाविवृत्त्या समन्वयात्
3 पूर्वपक्षः एकाब्दायां साण्ड ऊहो नोहः साम्यत्स्तुतिर्द्वयोः
ज्यातोष्टोम एकहायन्या मन्त्र एवमाम्नायते- ''इयं गौः सोमक्रयणी, तया ते क्रीणामि। तस्यै शृतम्, तस्यै शरः, तस्यै दधि, तस्यै मस्तु, तस्या आतञ्चनम्, तस्यै नवनीतम्, तस्यै घृतम्, तस्या आमिक्षा, तस्यै वाजिनम्'' इति। साद्यस्क्रे त्वेवमाम्नातम्- ''त्रिवत्सः साण्डः सोमक्रयणः'' इति। तस्मिन्साण्डे पूर्वो मन्त्रश्चोदकेनातिदिष्टः। तस्मिन्मन्त्रे पूर्वभागस्य समवेतार्थत्वात् 'अयं साण्डः सोमक्रयणः, तेन क्रीणामि' इत्येवमूहोऽस्ति। तथैव 'तस्यै शृतम्' इत्याद्युत्तरभागेऽप्यस्त्यूहः। यद्यप्येकहायन्या शृतादिकं न संभवति, तथाऽपि त्रिचतुरवर्षोत्तरकाले भविष्यति। साण्डोऽपि कस्यांचिद्गवि वत्सोत्पादनेन क्षीरादिनिमित्तम्। ततस्तस्मिन्नपि समवेतार्थ उत्तरभाग ऊहनीयः। तथा सति 'तस्मै शृतम्' इत्येवं पुंलिङ्गतया पठनीयम्। इति प्राप्ते
4 सिद्धान्तः ब्रूमः- एकहायन्यामपि मुख्यया वृत्त्या समवेतार्थत्वाभावेन स्तुतित्वात्साण्डेऽपि स्तुतित्वान्नास्त्यूहः
-
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशाधिकरणे सुब्रह्मण्याह्वाननिगदे हरिवच्छब्दस्यानूहप्रदर्शकं प्रथमवर्णकमारचयति”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- इन्द्रशब्दस्य कर्मसमवेतदेवताप्रकाशकत्वान्न स्ताकत्वमित्यस्ति तस्योहः हरिवदादिशब्दा ब्राह्मणव्याख्यातगुणाभिधानद्वारेणेन्द्रं स्तुवन्ति स्तुतिश्च विद्यमानगुणवदविद्यमानेनापि गुणेन कर्तुं शक्यते तस्मात्- अग्निस्तुतिसंभवान्नास्त्यूहः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.19
सप्तदशे ससारस्वत्यां मेष्यामध्रिगुवचनानूहाधिकरणे सूत्राणि 45-49
SŪ लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात्।। 45।।
SŪ पश्वभिधानाद्वा तद्धि चोदनाभूतं पुंविषयं पुनः पशुत्वम्।। 46।।
SŪ विशेषो वा तदर्थनिर्देशात्।। 47।।
SŪ पशुत्वं चैकशब्द्यात्।। 48।।
SŪ यथोक्तं वा संनिधानात्।। 49।।
सप्तदशाधिकरणमारचयति-
1 विषयः दैव्या इत्यस्ति मेष्यां नो वाऽस्मा इति पशूक्तितः
3 पूर्वपक्षः अस्ति मैवं पश्वनुक्तेः पुंव्यक्तित्वविवक्षया
अध्रिगुनामा दैव्यः शमिता। तं प्रति प्रैषमन्त्रो हौत्रे पाशुके पठ्यते ''दैव्याः शमितार उत मनुष्या आरभध्वम् उपनयत मेध्याः'' इत्यादि। अतिरात्रे सवनीयपशुरेवमाम्नायते ''सारस्वती मेष्यतिरात्रे'' इति। तस्यां मेष्यामप्युदाहृतो मन्त्रोऽस्ति। कुतः- पशुधर्मविधेः सर्वपशुसाधारणत्वेनाग्नीषोमीयपशाविव मेष्यां संभवात्। ननु तस्मिन्मन्त्रे ''प्रास्मा अग्निं भरता'' इति पुंलिङ्गं चतुर्थ्यन्तं पदं श्रुतम्। तच्च न मेष्याप्युक्तमिति चेत्- मैवम्। 'अस्मै पशवः' इत्युक्त्या प्रातिपदिकार्थस्य जातिमात्रस्य विवक्षितत्वात्। इति प्राप्ते-
4 सिद्धान्तः ननु- 'पशुधर्मा अग्नीषोमीय एवोपदिष्टाः, प्रकरणेन तन्नियमात्' इति तृतीयेऽभिहितम् अष्टमेऽपि 'अग्नीषोमीयपशुः सवनीयादिपशूनां प्रकृतिः' इत्युक्तम् ततो मेष्यामयं मन्त्रश्चोदकप्राप्तः पुंलिङ्गं चोहनीयमिति चेत्- एवं तर्हि कृत्वाचिन्ताऽस्तु
ब्रूमः- पशुशब्दस्तावन्न मन्त्रे पठितः। तथासति प्रयुक्त इदंशब्दः पुरोवर्तिनीं व्यक्तिमाचष्टे। व्यक्तिविशेषश्चाग्नीषोमीये पुमात्मक इति श्रूयमाणचतुर्थ्येकवचनद्योत्यं लिङ्गमपि विवक्षितम्। तस्मात्- न मेष्यामस्त्ययं मन्त्रः।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सोमक्रयसाधनसाण्डे 'तस्मै शृतम्' इत्याद्यनूहप्रदर्शकं द्वितीयवर्णकमारचयति”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- एकहायन्यामपि मुख्यया वृत्त्या समवेतार्थत्वाभावेन स्तुतित्वात्साण्डेऽपि स्तुतित्वान्नास्त्यूहः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.20
अष्टादशे यज्ञायज्ञीये गिराशब्दस्य स्थान इराशब्दस्यैव कर्तव्यताधिकरणे सूत्राणि 50-53
SŪ आम्नातादन्यदधिकारे वचनाद्विकारः स्यात्।। 50।।
SŪ द्वैधं वा तुल्यहेतुत्वात्सामान्यविकल्पः स्यात्।। 51।।
SŪ उपदेशाच्च साम्नः।। 52।।
SŪ नियमो वा श्रुतिविशेषादितरत्साप्तदश्यवत्।। 53।।
अष्टादशाधिकरणमारचयति-
1 विषयः इरागिराविकल्पः स्यादुतेरैवाविशेषतः आद्यो मैवं बाधपूर्वमिराया विहितत्वतः
3 पूर्वपक्षः ज्योतिष्टोमे श्रूयते ''यज्ञायज्ञीयेन स्तुवीत'' इति। 'यज्ञायज्ञ' इत्यनेन शब्देन युक्तायामृच्युत्पन्नं साम यज्ञायज्ञीयम्। तस्यामृचि गिराशब्दः पठ्यते- ''यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे'' इति। तत्र सामगा योनिगानमधीयानाः सहैव गकारेण गायन्ति- 'गायीरा, गिरा' इति। ब्राह्मणे तु गकारलोपपूर्वकमाकारयकारादिकं गानं विधीयते 'ऐरं कृत्वोद्गेयम्' इति। 'गिराशब्दे गकारलोपादिराशब्दो भवति। इरायाः संबन्धि गानमैरम्। तादृशं कृत्वा प्रयोगकाल उद्गानं कर्तव्यम्' इत्यर्थः। तत्र योनिगानब्राह्मणयोः समानबलत्वेन विशेषाभावाद्विकल्पेन प्रयोक्तव्यम्। इति प्राप्ते-
4 सिद्धान्तः ब्रूमः- ''न गिरागिरेति ब्रूयात्, यद्गिरागिरेति ब्रूयादात्मानमेव तदुद्गाता गिरेत्'' इति गकारसहितगाने बाधमुक्त्वा गकाररहितमिरापदं गेयत्वेन विधीयते। तत्पदादेरिकारस्य गानार्थमाकारो यकार इकारश्चेति त्रीन्वर्णान्प्रयुञ्जते। ततः- 'आयीरा यीरा' इत्येव गातव्यम्।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे ससारस्वत्यां मेष्यामध्रिगुवचनानूहाधिकरणे सूत्राणि 45-49”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ननु- 'पशुधर्मा अग्नीषोमीय एवोपदिष्टाः, प्रकरणेन तन्नियमात्' इति तृतीयेऽभिहितम् अष्टमेऽपि 'अग्नीषोमीयपशुः सवनीयादिपशूनां प्रकृतिः' इत्युक्तम् ततो मेष्यामयं मन्त्रश्चोदकप्राप्तः पुंलिङ्गं चोहनीयमिति चेत्- एवं तर्हि कृत्वाचिन्ताऽस्तु”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.1.21
एकोनविंशे- इरापदस्य प्रगीतताधिकरणे सूत्राणि 54-58
SŪ अप्रगाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात्।। 54।।
SŪ यत्स्थाने वा तद्रीतिः स्यात् पदान्यत्वप्रधानत्वात्।। 55।।
SŪ गानसंयोगाच्च।। 56।।
SŪ वचनमिति चेत्।। 57।।
SŪ न तत्प्रधानत्वात्।। 58।।
एकोनविंशाधिकरणमारचयति-
1 विषयः इरापदं न गेयं स्याद्गेयं वा गीत्यमुक्तितः
3 पूर्वपक्षः न गेयं, गीयमानस्य स्थाने पातात्प्रगीयते
ब्राह्मणेन विहित इराशब्दो न गातव्यः। कुतः- 'ऐरम्' इति शब्देन गीतेरनुक्तत्वात्। पाणिनीयेन 'विमुक्तादिभ्योऽण्' (5।2।61) इति सूत्रेणेराशब्दादण्प्रत्ययो मत्वर्थीयो विहितः। तथा सति 'इरापदोपेतं कृत्वा' इत्येतावानेवार्थो भवति। यदि प्रगीतेरापदसंबन्धस्तद्धितेन विवक्ष्येत, तदानीमाकारो यकार ईकारो रेफ आकारश्चेत्येतैः पञ्चभिर्वर्णैर्निष्पन्नम् 'आयीरा' रूपं गीयमानेराशब्दप्रातिपदिकं भवति। तादृशात्प्रातिपदिकात्पाणिनीयेन 'वृद्धाच्छः' (4।2।114) इति सूत्रेण प्रत्ययान्तरे सति 'आयीरीयं कृत्वा' इति ब्राह्मणपाठो भवेत्। तस्मान्न गेयम्। इति प्राप्ते-
4 सिद्धान्तः इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे नवमाध्यायस्य प्रथमः पादः
ब्रूमः- गीयमानस्य गिरापदस्य स्थान इरापदं विधीयत इति पदमात्रस्य बाधः। गानं तु न बाध्यते। किंच 'विमुक्तादिभ्योऽण्' (पा.सू. 5।2।61) इति सूत्रेणाण्प्रत्ययेऽपि पूर्वस्मात् 'मतौ छः सूक्तसाम्नोः' (पा.सू. 5।2।59) इति सूत्रात्सामानुवृत्तेः 'ऐरं साम' इत्यर्थो भवति। सामत्वं च गीतिसाध्यम्। यदा तु 'तस्य विकारः' (पा.सू.4।3।124) इत्यस्मिन्नर्थेऽण्प्रत्ययः, तदानीम् 'इराया विकारः' इति विग्रहे यथोक्तं गानं लभ्यते। तस्मात्- गातव्यम्।। 26।। अत्र पादे- अधिकरणानि 18, सूत्राणि 58। आदितः- अधिकरणानि 547, सूत्राणि 1589। नवमाध्यायस्य द्वितीयः पादः सपरिकरः सामोहः।
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे यज्ञायज्ञीये गिराशब्दस्य स्थान इराशब्दस्यैव कर्तव्यताधिकरणे सूत्राणि 50-53”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
Set from the transmitted text; four limbs are the source, the fifth is inferred and marked.
Sanātana Guru Sampradāya Pratiṣṭhānam, Mysore · sarvaveda.info