SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 8, Pāda 4

विशेषातिदेशः

दर्विहोमेष्वतिदेशोऽपोद्यते

5adhikaraṇas
28sūtras
8.4.1 प्रथमे- दर्विहोमस्य कर्मनामधेयताधिकरणे सूत्रम्
SŪदर्विहोमो यज्ञाभिधानं होमसंयोगात्।। 1।।
चतुर्थपादे प्रथमाधिकरणमारचयति-

1विषयः

दर्विहोमो गुणो नाम वा गुणो दधिहोमवत्

3पूर्वपक्षः

गुणासंभवतो लोकवेदयोर्नाम तद्भवेत्
इदमाम्नायते- ''यदेकया जुहुयाद्दर्विहोमं कुर्यात्'' इति। तत्र 'दर्व्या होमो दर्विहोमः' इति तृतीयासमासे सति 'दध्ना जुहोति' इत्यादाविवहोमानुवादेन गुणविधित्वसंभवाद्दर्व्याख्यो गुणो विधीयते। इति चेत्-

4सिद्धान्तः

मैवम्
न तावल्लोके स्थालीपाकाष्टकादिहोमे दर्विगुणोऽपि विधातुं शक्यः
लौकिकशिष्टाचारादेव तत्र साधनप्राप्तेः
नापि वेदसिद्धाग्निहोत्रनारिष्ठादिहोमे, तत्र विहितजुह्वादिबाधप्रसङ्गात्
तस्मात् 'दर्विहोमः' इति कर्मनामधेयम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “दर्विहोमेष्वतिदेशोऽपोद्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- गायत्रीषूत्पत्तिगायत्रीणामतिदेशाधिकरणे सूत्राणि 12-36”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य तृतीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.4.2 द्वितीये- दर्विहोमस्य लौकिकवैदिकोभयकर्मनामधेयताधिकरणे सूत्रे 2-3
SŪस लौकिकानां स्यात्कर्तुस्तदाख्यत्वात्।। 2।।
SŪसर्वेषां वा दर्शनाद्वास्तुहोमे।। 3।।
द्वितीयाधिकरणमारचयति-

1विषयः

लौकिकस्योत सर्वस्य नामाद्योऽम्बष्ठवाक्यतः

3पूर्वपक्षः

निमित्तसाम्याद्वेदेऽपि तदुक्तेः सर्वनाम तत्
''अम्बष्ठानां दार्विहोमिको ब्राह्मणः'' इति स्मृतावम्बष्ठस्वामिके स्मार्तहोमे तत्प्रयोगाल्लौकिकस्यैव होमस्य तन्नाम। इति चेत्-

4सिद्धान्तः

मैवम्
'दर्व्या होमो दर्विहोमः' इति प्रवृत्तिनिमित्तस्य लौकिकवैदिकयोः समानत्वात्
'दर्विहोमं कुर्यात्' इति श्रुत्यक्ते वैदिकहोमनामलिङ्गत्वाच्च सर्वस्यैव होमस्यैतन्नाम

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “दर्विहोमेष्वतिदेशोऽपोद्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- दर्विहोमस्य कर्मनामधेयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् न तावल्लोके स्थालीपाकाष्टकादिहोमे दर्विगुणोऽपि विधातुं शक्यः लौकिकशिष्टाचारादेव तत्र साधनप्राप्तेः नापि वेदसिद्धाग्निहोत्रनारिष्ठादिहोमे, तत्र विहितजुह्वादिबाधप्रसङ्गात् तस्मात् 'दर्विहोमः' इति कर्मनामधेयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.4.3 तृतीये- दर्विहोमशब्दस्य होमनामधेयताधिकरणे सूत्रम्
SŪजुहोतिचोदनायां वा तत्संयोगात्।। 4।।
तृतीयाधिकरणमारचयति-

1विषयः

यजतेरपि नाम स्याज्जुहोतेरेव वाऽग्रिमः

3पूर्वपक्षः

अविशेषेण मुख्यत्वाज्जुहोतेर्लक्षणाऽन्यथा
तन्नाम जुहोतिचोदनानां यजतिचोदनानां च भवितुमर्हति। कुतः- विशेषाश्रवणात्। इति चेत्-

4सिद्धान्तः

मैवम्
जुहोतिचोदनासु होमशब्दस्य मुख्यत्वात्
यजतिचोदनानां तन्नामत्वे लक्षणा स्यात्
तस्मात्- जुहोतिचोदनानामेव नाम

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “दर्विहोमेष्वतिदेशोऽपोद्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- दर्विहोमस्य लौकिकवैदिकोभयकर्मनामधेयताधिकरणे सूत्रे 2-3”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'दर्व्या होमो दर्विहोमः' इति प्रवृत्तिनिमित्तस्य लौकिकवैदिकयोः समानत्वात् 'दर्विहोमं कुर्यात्' इति श्रुत्यक्ते वैदिकहोमनामलिङ्गत्वाच्च सर्वस्यैव होमस्यैतन्नाम”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.4.4 सिंहावलोकितन्यायेन पुनरपि प्रथमाधिकरणशेषभूतान्येव सूत्राणि 5-9
SŪद्रव्योपदेशाद्वा गुणाभिधानं स्यात्।। 5।।
SŪन लौकिकानामाचारग्रहणत्वाच्छब्दवतां चान्यार्थविधानात्।। 6।।
SŪदर्शनाच्चान्यपात्रस्य।। 7।।
SŪतथाऽग्निहविषोः।। 8।।
SŪउक्तश्चार्थसंबन्धः।। 9।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “दर्विहोमेष्वतिदेशोऽपोद्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- दर्विहोमशब्दस्य होमनामधेयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् जुहोतिचोदनासु होमशब्दस्य मुख्यत्वात् यजतिचोदनानां तन्नामत्वे लक्षणा स्यात् तस्मात्- जुहोतिचोदनानामेव नाम”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
8.4.5 चतुर्थे- दर्विहोमशब्दस्यापूर्वताधिकरणे सूत्राणि 10-28
SŪतस्मिन्सोमः प्रवर्तेताव्यक्तत्वात्।। 10।।
SŪन वा स्वाहाकारेण संयोगात्, वषट्कारस्य च निर्देशात्, तन्त्रे तेन विप्रतिषेधात्।। 11।।
SŪशब्दान्तरत्वात्।। 12।।
SŪलिङ्गदर्शनाच्च।। 13।।
SŪउत्तरार्थस्तु स्वाहाकारो यथा साप्तदश्यं तात्राविप्रतिषिद्धा पुनःप्रवृत्तिर्लिङ्गदर्शनात्पशुवत्।। 14।।
SŪअनुत्तरार्थो वाऽर्थवत्त्वात्, आनर्थक्याद्धि प्राथम्यस्योपरोधः स्यात्।। 15।।
SŪन प्रकृतावपीति चेत्।। 16।।
SŪउक्तं समवाये पारदौर्बल्यम्।। 17।।
SŪतच्चोदनावेष्टेः प्रवृत्तित्वात्तद्विधिः स्यात्।। 18।।
SŪशब्दसामर्थ्याच्च।। 19।।
SŪलिङ्गदर्शनाच्च।। 20।।
SŪतत्राभावस्य हेतुत्वाद्गुणार्थे स्याददर्शनम्।। 21।।
SŪविधिरिति चेत्।। 22।।
SŪन वाक्यशेषत्वाद्गुणार्थे च समाधानं नानात्वेनोपपद्यते।। 23।।
SŪयेषां वाऽपरयोर्होमः, तेषां स्यादविरोधात्।। 24।।
SŪतत्रौषधानि चोद्यन्ते, तानि स्थानेन गम्येरन्।। 25।।
SŪलिङ्गाद्वा शेषहोमयोः।। 26।।
SŪप्रतिपत्ती तु ते भवतः, तस्मादतद्विकारत्वम्।। 27।।
SŪसंनिपाते विरोधिनामप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेयत्वाद्वचनादतिदेशः स्यात्।। 28।।
चतुर्थाधिकरणमारचयति-

3पूर्वपक्षः

जयाभ्याताननारिष्ठादिषु दर्विहोमेषूत्पत्तिवाक्ये देवताया अश्रवणादव्यक्तलिङ्गेन सोमधर्माः कर्तव्याः। इति चेत्-
मैवम्। सोमे श्रुतस्य यजतिलिङ्गस्यात्राभावात्। किंच ''पृथिव्यै स्वाहा। अन्तरिक्षाय स्वाहा'' इति दर्विहोममन्त्रेषु स्वाहाकार आम्नातः। स च सोमविध्यन्तातिदेशे विरुध्येत। तेन स्वाहाकारविरोधिनो वषट्कारस्य प्राप्यमाणत्वात्। किंचोदाहृतैर्मन्त्रगतचतुर्थ्यन्तैः पदैर्देवतासमर्पणान्नास्त्यव्यक्तत्वम्। तस्मात्- दर्विहोमानामपूर्वकर्मत्वान्नास्ति तत्र कस्यापि विध्यन्तस्यातिदेशः।। 4।।
अत्र पादे- अधिकरणानि 4, सूत्राणि 28।
आदितः- अधिकरणानि 529, सूत्राणि 1531।
नवमोऽध्याययस्य प्रथमः पादः
उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः।
अष्टमनवमयोरध्याययोरनेन पूर्वोत्तरभाव उपजीव्योपजीवकरूपेणोपन्यस्तः। मन्त्रसामसंस्कारेष्वतिदिष्ट-पदार्थेषु यत्रास्त्यूहः, यत्र च नास्ति, तदुभयमत्र विचार्यम्। ऊहस्य लक्षणमेवमाहुः-
प्राकृतस्थानपतितपदार्थान्तरकार्यतः। ऊहः प्रयोगो विकृत ऊह्यमानतयोदितः।। इति।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “दर्विहोमेष्वतिदेशोऽपोद्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सिंहावलोकितन्यायेन पुनरपि प्रथमाधिकरणशेषभूतान्येव सूत्राणि 5-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 8, Pāda 3 Contents Adhyāya 9, Pāda 1 →