SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 9, Pāda 2

ऊहः

सपरिकरः सामोहः

24adhikaraṇas
64sūtras
9.2.1 प्रथमे वर्णकद्वयसहितेऽधिकरणे सूत्रे 1-2
सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम्।। 1।।
तदुक्तदोषम्।। 2।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- इरापदस्य प्रगीतताधिकरणे सूत्राणि 54-58”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे नवमाध्यायस्य प्रथमः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.2 द्वितीयपादस्य प्रथमाधिकरणे (गीतीनां सामनामताप्रदर्शकं) प्रथमवर्णकमारचयति

1विषयः

सामोक्तिबृहदाद्युक्ती गीतायामृचि केवले

3पूर्वपक्षः

गाने वा, गान एवेति स्मार्यते सप्तमोदितम्

4सिद्धान्तः

'सामान्यवाची सामशब्दः, विशेषवाचिनो बृहद्रथंतरादिशब्दाश्च गानमात्रे वर्तन्ते, न तु गानविशिष्टायामृचि' इत्ययं निर्णयः सप्तमस्य द्वितीयपादे सिद्धः
सोऽत्र वक्ष्यमाणविचारोपयोगितया स्मार्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे वर्णकद्वयसहितेऽधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.3 (ऊहग्रन्थस्य पौरुषेयत्वप्रदर्शकं) द्वितीयवर्णकमारचयति

1विषयः

ऊहग्रन्थोऽपौरुषेयः पौरुषेयोऽथवाऽग्रिमः
वेदसामसमानत्वाद्विधिसार्थत्वतोऽन्तिमः

3पूर्वपक्षः

यस्मिन्ग्रन्थे सामगास्तृचे तृचे सामैकैकं गायन्ति, सोऽयमूहग्रन्थो नित्यः, न तु पुरुषेण निर्मितः। कुतः- अनध्यायवर्जनेन, कर्तुरस्मरणेन, अध्यापकानां वेदत्वप्रसिद्ध्या च वेदसामनामकयोनिग्रन्थसदृशत्वात्। इति चेत्-
मैवम्। अपौरुषेयत्वे विधिवैयर्थ्यप्रसङ्गात्। ''यद्योन्यां, तदुत्तरयोर्गायति'' इति विधीयते। अयमर्थः अपौरुषेयत्वेन संप्रतिपन्ने वेदसामनामके ग्रन्थे ''कयानश्चित्र आभुवत्'' इत्येतस्यां योन्यामेकस्यामृचि यद्वामदेव्यनामकं सामोपदिष्टम्, तदेवोत्तरयोर्ऋचोः ''कस्त्वा सत्यो मदानाम्'' ''अभीषुणः सखीनाम्'' इत्यनयोर्द्वितीयतृतीययोर्गातव्यम्- इत्ययं विधिरूहग्रन्थस्य वेदत्वे व्यर्थः स्यात्। वेदसामवदध्ययनादेव तत्सिद्धेः। उपरितन ऋग्द्वये सामोहस्य पौरुषेयत्वेऽपि सामस्वरूपस्य तदाधारभूतानां तिसृणामृचां च वेदत्वादनध्याया वर्जनीयाः। कर्तुरस्मरणं जीर्णकूपारामादिष्विव चिरकालव्यवधानादुपपन्नम्। अस्मरणमूलैवाध्यापकानां वेदत्वप्रसिद्धिः। यथा बह्वृचा अध्यापका महाव्रतप्रयोगप्रतिपादकमाश्वलाघ्यननिर्मितं कल्पसूत्रमरण्येऽधीयानाः पञ्चमारण्यकमिति वेदत्वेन व्यवहरन्ति। न च तस्यापि वेदत्वमस्तु- इति वाच्यम्। प्रथमारण्यकेन पुनरुक्तत्वात्, अर्थवाद साहित्येन ब्राह्मणसादृश्याभावाच्च। तस्मात्- पञ्चमारण्यकवदूहः पौरुषेयः। पौरुषेयस्य च न्यायमूलत्वाद्यत्र वक्ष्यमाणन्यायविरोधः, तदप्रमाणम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीयपादस्य प्रथमाधिकरणे (गीतीनां सामनामताप्रदर्शकं) प्रथमवर्णकमारचयति”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “'सामान्यवाची सामशब्दः, विशेषवाचिनो बृहद्रथंतरादिशब्दाश्च गानमात्रे वर्तन्ते, न तु गानविशिष्टायामृचि' इत्ययं निर्णयः सप्तमस्य द्वितीयपादे सिद्धः सोऽत्र वक्ष्यमाणविचारोपयोगितया स्मार्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.4 द्वितीये साम्न ऋक्संस्कारकर्मताधिकरणे सूत्राणि 3-13
कर्म वा विधिलक्षणम्।। 3।।
तदृग्द्रव्यं वचनात्पाकयज्ञवत्।। 4।।
तत्राविप्रतिषिद्धो द्रव्यान्तरे व्यतिरेकः प्रदेशश्च।। 5।।
शब्दार्थत्वात्तु नैवं स्यात्।। 6।।
परार्थत्वाच्च शब्दानाम्।। 7।।
असंबन्धश्च कर्मणा शब्दयोः पृथगर्थत्वात्।। 8।।
संस्कारश्चाप्रकरणेऽग्निवत्स्यात्प्रयुक्तत्वात्।। 9।।
अकार्यत्वाच्च शब्दानामप्रयोगः प्रतीयेत।। 10।।
आश्रितत्वाच्च।। 11।।
प्रयुज्यत इति चेत्।। 12।।
ग्रहणार्थं प्रयुज्येत।। 13।।
द्वितीयाधिकरणमारचयति-

1विषयः

सामर्चं प्रति मुख्यं स्याद्गुणो वा बाह्यपाठतः
मुख्यमभ्यसितुं पाठो गुणो गीताक्षरैः स्तुतेः

3पूर्वपक्षः

''रथंतरं गायति'' इत्यादौ यद्गानं विहितं, तदेव सामशब्दार्थः- इति प्रतिपादितं स्मारितं च। तदेतद्गानमृचं प्रति प्रधानकर्म स्यात्। कुतः- यागप्रयोगाद्बहिरध्ययनकालेऽपि पठ्यमानत्वात्। गुणकर्मत्वे तु व्रीहिप्रोक्षणादिवद्यागप्रयोगमध्य एव गानमनुष्ठीयेत। ततो बहिर्गानस्य विश्वजिदादिवत्फलं कल्पनीयम्। मध्यकालीनगानं तु प्रयाजादिवदारादुपकारकम्। तस्मात्- मुख्यमेतत्, न तु गुणकर्म। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- न तावद्बहिः पाठः प्रधानकर्मत्वं कल्पयितुं शक्नोति। भूमिरथिकशुष्केष्टिन्यायेन प्रयोगपाटवाय गानाध्ययनोपपत्तेः। यथा भूमिरथिको भूमौ रथमालिख्याभ्यासं करोति, यथा वा छात्रः शुष्केष्ट्या प्रयोगपाटवं संपादयति, तद्वत्। नापि गुणकर्मत्वे प्रयोजनाभावात्प्रधानकर्मत्वम्- इति वाच्यम्। गानेन संस्कृतैर्ऋगक्षरैः स्तुतिसंभवात्। 'आज्यैः स्तुवते' 'पृष्ठैः स्तुवते' इति स्तुतिविधानात्। तस्मात्- ऋगक्षराणां स्वरविशिष्टत्वाकाराभिव्यक्तिर्दृष्टं प्रयोजनमित्यदृष्टस्याकल्पनीयत्वाद्गानं संस्कारकर्म।। 3।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “(ऊहग्रन्थस्य पौरुषेयत्वप्रदर्शकं) द्वितीयवर्णकमारचयति”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.5 तृतीये- तृचे प्रत्यृचं कृत्स्नसाम्नः समापनाधिकरणे सूत्राणि 14-20
तृचे स्याच्छ्रुतिनिर्देशात्।। 14।।
शब्दार्थत्वाद्विकारस्य।। 15।।
दर्शयति च।। 16।।
वाक्यानां तु विभक्तत्वात्प्रतिशब्दं समाप्तिः स्यात्संस्कारस्य तदर्थत्वात्।। 17।।
तथा चान्यार्थदर्शनम्।। 18।।
अनवानोपदेशश्च तद्वत्।। 19।।
अभ्यासेनेतरा श्रुतिः।। 20।।
तृतीयाधिकरणमारचयति-

1विषयः

अंशैः सामर्क्षु कृत्स्नं वा प्रत्यृचं तिसृभिः श्रुतेः
अंशैर्मैवं स्तुतेरंशैरसिद्धेः प्रत्यृचं भवेत्

3पूर्वपक्षः

''एकं साम तृचे क्रियते स्तोत्रीयम्'' इति श्रूयते। तत्र त्रेधाविभक्तेषु सामांशेष्वेकैकोंऽश एकैकस्यामृचि गातव्यः। कुतः- एकस्य साम्नस्तिसृभिर्ऋग्भिर्निष्पादनस्य श्रवणात्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- 'स्तोत्रीयम्' इति स्तुतिनिष्पादकत्वं कृत्स्नस्य साम्नो विधीयते, न तु सामांशानाम्। स्तुतिर्नाम गुणकथनपरमेकं वाक्यम्। तच्च वाक्यमेकस्यामृचि संपूर्णम्। ततः कृत्स्नेन साम्ना तद्वाक्यं संस्कार्यमिति प्रत्यृचं सामाभ्यसनीयम्। तथा सति द्वितीयतृतीययोर्ऋचोस्तस्यैव साम्न आवर्तमानतया सामान्तरत्वाभावादृक्त्रय-निष्पाद्यत्वमप्यविरुद्धम्। तस्मात्- प्रत्यृचं कृत्स्नं साम समापनीयम्।। 4।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये साम्न ऋक्संस्कारकर्मताधिकरणे सूत्राणि 3-13”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.6 चतुर्थे- समास्वेव तिसृष्वृक्षु गानाधिकरणे सूत्रे- 21-22
तदभ्यासः समासु स्यात्।। 21।।
लिङ्गदर्शनाच्च।। 22।।
चतुर्थाधिकरणमारचयति-

1विषयः

तिसृष्वृक्षूदितं साम विषमासु समासु वा
यथेच्छानियमादन्त्यः शरलेशापनुत्तये

3पूर्वपक्षः

विषमच्छन्दस्कासु समच्छन्दस्कासु वा तिसृष्वृक्षु स्वेच्छया साम गातव्यम्। 'इत्थमेव' इति नियामकस्य कस्यचिदभावात्। इति चेत्-
मैवम्। शरलेशप्रसङ्गस्य नियामकत्वात्। शरो हिंसा, लेशोऽल्पत्वम्। 'शॄ हिंसायाम्' 'लिश अल्पीभावे' इत्येतद्धातुद्वयदर्शनात्। यद्यधिकच्छन्दस्कायां योनावुत्पन्नं साम न्यूनच्छन्दस्कयोरुत्तरयोर्गायेत्, तदा सामभागेनैव तत्पूर्तेरवशिष्टः सामभाग आश्रयाभावाद्विनश्येत्। यदि योनेरप्यधिकच्छन्दस्कयोर्गायेत्, तदा साम्नोऽल्पत्वादवशिष्ट ऋग्भागः सामरहितः स्यात्। तस्मात्- समानच्छन्दरकास्वेव गातव्यम्।। 5।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- तृचे प्रत्यृचं कृत्स्नसाम्नः समापनाधिकरणे सूत्राणि 14-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.7 पञ्चमे प्रथमवर्णके 'उत्तरयोर्गायति' इत्यत्रोत्तराग्रन्थस्थयोर्ऋचोर्ग्रहणाधिकरणे सूत्रे 23-24
नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत।। 23।।
ऐकार्थ्याच्च तदभ्यासः।। 24।।
पञ्चमाधिकरणे प्रथमवर्णकमारचयति-

1विषयः

छन्दःस्थयोरुत्तरास्थयोर्वा गीतेरिहोहनम्
अविशेषाद्विकल्पः स्यादन्त्यः संज्ञाबलित्वतः

3पूर्वपक्षः

सामगानामृक्पाठाय द्वौ ग्रन्थौ विद्येते- छन्दः, उत्तरा चेति। तत्र छन्दोनामके ग्रन्थे नानाविधानां साम्नां योनिभूता एवर्चः पठिताः, उत्तराग्रन्थे तृचात्मकानि सूक्तानि पठितानि। एकस्मिंस्तृचे छन्दोगता योन्यृक्प्रथमा, इतरे द्वे उत्तरे। एवं स्थिते सति 'रथंतरमुत्तरयोर्गायति। यद्योन्यां तदुत्तरयोर्गायति' इत्यत्र द्विविधे उत्तरे संभाविते। रथंतरस्य च्छन्दोग्रन्थे ''अभि त्वा शूर'' इतीयमृग्योनित्वेन पठिता। तस्या उपरि ''त्वामिद्धि हवामहे'' इत्यादयो बृहदादिसाम्नां योनयः पठिताः। उत्तराग्रन्थे तु ''आत्वा शूर'' इति सूक्ते तस्या ऋच ऊर्ध्वं ''न त्वा वाँ अन्ये'' इत्येषा साम्नः कस्याप्ययोनिभूता पठिता। तत्र च्छन्दोग्रन्थापेक्षया सामान्तरयोर्योनी द्वे रथंतरस्य स्वयोन्युत्तरे भवतः। उत्तराग्रन्थापेक्षया तृचगते द्वितीयतृतीये स्वयोन्युत्तरे भवतः। तत्र विशेषनियामकाभावाद्ययोः कयोश्चिदुत्तरयोर्गानम्। इति चेत्-
मैवम्। 'उत्तरा' इति संज्ञा सहसा बुद्धिस्था भवति, प्रतियोगिनिरपेक्षत्वात्। पूर्वपठितानां योनिमृचमपेक्ष्य यदुत्तरात्वम्, तद्विलम्बेन प्रतीयमानत्वाद्दुर्बलम्। ईदृशमेवोत्तरात्वं छन्दसि पठितयोः स्वयोन्यनन्तरभाविन्योः सामान्तरयोन्योर्द्वयोर्ऋचोः। तृचगतयोस्तु द्वितीयतृतीययोरुत्तरात्वं संज्ञया वर्तते। अतस्तयोरेव गानम्। एवं सति पूर्वाधिकरणनिर्णीतं समास्वेव गानमनुगृहीतं भवति। किंच तृचात्मकेषु सूक्तेषु या प्रथमा योनिभूता तन्नाम्ना छन्दोग्रन्थस्य 'योनिग्रन्थः' इत्यध्यापकसमाख्या। इतरस्य तु तृचसंघरूपस्य ग्रन्थस्योपरितनयोर्ऋचोर्नामधेयेन 'उत्तरा' इति समाख्या। स एव ग्रन्थः कर्माङ्गसमर्पकं प्रकरणम्। पञ्चदशसप्तदशादिस्तोमानां तृचेष्वेवोत्पत्तेः। तस्मादुत्तराग्रन्थस्थयोस्तृचगतयोर्द्वितीयतृतीययोरयमूहः।। 6।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- समास्वेव तिसृष्वृक्षु गानाधिकरणे सूत्रे- 21-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.8 द्वितीयवर्णके- अतिजगत्यामभ्यस्यमानायां त्रिशोकगानाधिकरणे सूत्राणि 21-24
तदभ्यासः समासु स्यात्।। 21।।
लिङ्गदर्शनाच्च।। 22।।
नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत।। 23।।
ऐकार्थ्याच्च तदभ्यासः।। 24।।
द्वितीयवर्णकमारचयति-

1विषयः

त्रैशोकेति जगत्यौ द्वे आग्नेये गीतयेऽथवा
बृहत्या वादिमः याम्यान्नोत्तरात्वश्रुतेर्बलात्

3पूर्वपक्षः

द्वादशाहे चतुर्थेऽहनि त्रैशोकनामकं साम विहितम्। तच्च ''विश्वाः पृतनाः'' इत्येतस्यामतिजगत्यामुत्पन्नम्। तस्मिंश्च तृचे तस्या योनेरुत्तरे बृहत्यौ ''नेमिं नमन्ति'' इत्यादिके आम्नाते। तत्र बृहत्यावुपेक्ष्य तयोः स्थाने द्वे उत्पत्तिसिद्धे अतिजगत्यावानीय तासु तिसृषु गेयम्। तथासति समासु गानं पूर्वत्र निर्णीतमनुगृह्यते। 'अतिजगतीषु स्तुवन्ति' इति श्रूयमाणमतिजगतीबहुत्वमन्यथा नोपपद्येत। इति चेत्-
मैवम्। 'उत्तरयोर्गायति' इत्युक्तस्य संज्ञारूपस्योत्तराशब्दस्याधीयमानयोर्बृहत्योर्मुख्यत्वात्। श्रुतिश्च बहुत्वलिङ्गात् 'समासु गानम्' इति न्यायाच्च बलीयसी। यदेतदतिजगतीबहुत्वम्, तद्बृहत्योः स्वीकारेऽप्युपपद्यते। एकविंशस्तोमस्यात्र विहितत्वेन तत्सिद्धये प्रथमाया अतिजगत्याः सप्तकृत्व आवर्तनीयत्वात्। तस्मात्- त्रैशोकं साम बृहत्योरूहनीयम्।। 7।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे प्रथमवर्णके 'उत्तरयोर्गायति' इत्यत्रोत्तराग्रन्थस्थयोर्ऋचोर्ग्रहणाधिकरणे सूत्रे 23-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.9 षष्ठे वर्णकचतुष्टयसहिते सूत्राणि 25-28
प्रागाथादिकं तु।। 25।।
स्वे च।। 26।।
प्रगाथे च।। 27।।
लिङ्गदर्शनाव्यतिरेकाच्च।। 28।।
षष्ठाधिकरणे (बृहृतीपङ्क्योरेव प्रगाथेन रथंतरस्य गानसाधकं) प्रथमवर्णकमारचयति-

1विषयः

रथंतरे ककुब्ग्राह्या ग्रथ्या वाद्योऽर्थवत्त्वतः
पुनःपदाप्रसिद्ध्यादेरन्त्योऽर्थोऽन्यत्र वीक्ष्यताम्

3पूर्वपक्षः

इदमाम्नायते- ''न वै बृहद्रथंतरमेकच्छन्दो, यत्तयोः पूर्वा बृहती, ककुभावुत्तरे'' इति। अयमर्थः 'बृहद्रथंतरं तदेतत्सामद्वयमितरसामवदेकच्छन्दस्कं न भवति। यस्मात्कारणात्तयोबृहद्रथंतरसाम्नोराश्रयभूतास्वृक्षु पूर्वा बृहतीछन्दस्का, उत्तरे तु द्वे ऋचौ ककुप्छन्दस्के। इतरेषां वामदेव्यादिसाम्नामाश्रये तृचेऽवस्थितास्तिस्त्र ऋच एकच्छन्दस्का उत्तराग्रन्थ आम्नाताः, संशरविलेशपरिहाराय 'समासु गायेत्' इति न्यायेन निर्णीताश्च। इह तु वाचनिकं विषमच्छन्दस्कासु गानम्'- इति।
तत्र रथंतरस्याश्रयतया तृचो नोत्तराग्रन्थे समाम्नातः। किं तर्हि, प्रगाथस्तदाश्रयत्वेनाम्नातः। स च द्वाभ्यामृग्भ्यां निष्पन्नत्वान्न तृचो भवति। तयोश्च द्वयोर्ऋचोः ''अभि त्वा शूर'' इत्येषा प्रथमा, सा च बृहती। ''न त्वा वा अन्यो दिव्यः'' इत्येषा द्वितीया, सा च पङ्किंच्छन्दस्का। तथा सति तां पङ्क्तिमपनीय तस्याः स्थाने दाशतयीगते द्वे उत्पत्तिककुभावृचौ ग्रहीतव्ये। कुतः- अर्थवत्त्वात्। उदाहृतेन 'ककुभावुत्तरे' इति वाक्येन रथंतरसाम्न आश्रयत्वेन ककुभोर्विनियुज्यमानयोः ककुबुत्पत्तिरर्थवती भवति। अन्यथा वैयर्थ्यं स्यात्।
किंच- आम्नाताया एकस्याः पङ्क्तेः स्वीकारे सत्यृचोर्द्वयोरेव लाभात् 'एकं साम तृचे क्रियते, स्तोत्रीयम्' इति वचनं विरुध्येत। तस्मात्- रथंतरसाम्नि द्वे ककुभावुत्तरे ग्रहीतव्ये। अयमेव न्यायो बृहत्साम्न्यपि योजनीयः। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- आम्नातयोर्बृहतीपङ्क्त्योरेव ककुब्ग्रथनीया। तथा हि ''अभि त्वा शूर'' इत्येषा बृहती प्रथमा स्तोत्रीया। तस्यामविकृतायामेव रथंतरं गातव्यम्। ततस्तस्यामृचि चतुर्थं पादं पुनरुपादायोत्तरस्याः पङ्क्तेः पूर्वार्धेन सह ग्रथनीयम्। सेयमष्टाविंशत्यक्षरा त्रिपदा द्वितीया स्तोत्रीया। सा चैका ककुप्संपद्यते। तस्यां च ककुभि चरमं पादं पङ्क्त्युत्तरार्धेन सह प्रग्रथ्य तृतीया स्तोत्रीया कर्तव्या। सा च द्वितीया ककुप्संपद्यते। अनेन प्रग्रथनप्रकारेण द्वयोर्ऋचोराम्नातयोस्तृचनिष्पत्तेर्नास्त्युक्तो वचनविरोधः। अस्मिन्ग्रथने 'पुनः पदा' इति श्रौतोक्तिर्लिङ्गम्। तथा च श्रूयते ''एषा वै प्रतिष्ठिता बृहती या पुनःपदा। तद्यत्पदं पुनरारभते। तस्माद्वत्सो मातरमभिहिंकरोति'' इति। अयमर्थः- 'या बृहती पुनःपदा भवति, सैषा प्रतिष्ठिता स्थिरा भवति। पदं चतुर्थः पादः। स ह्यृगन्तरसंपादनाय पुनः पठ्यते। ततः सा बृहती पुनःपदा। सेयमृग्माता। तस्याः पादो वत्सः। तथा सति यस्मादृक्चतुर्थपादमुद्गाता पुनरारभते। तस्मात्- लोके वत्सो मातरमभिलक्ष्य हिमिति शब्दं करोति' इति। न केवलं लिङ्गमात्रेण प्रग्रथनम्। किंतु छन्दोगानां प्रसिद्ध्याऽपि। ते ह्येवं स्मरन्ति 'काकुभः प्रगाथः' इति।
किंच प्रगाथशब्दार्थपर्यालोचनेनापि ग्रथनं गम्यते। प्रकर्षेण गानं यत्र स प्रगाथः। प्रकर्षो नामाम्नातादृक्पाठादाधिक्यम्। तच्च पूर्वोक्तनीत्या पादाभ्यासपुरःसरमृगन्तरसंपादनेनोपजायते। तस्मात्- नोत्पत्तिककुभौ ग्रहीतव्ये। किं तर्हि प्रग्रथनेन द्वे उत्तरे ककुभौ संपाद्य तासु तिसृषु रथंतरं गातव्यम्। तथा बृहदपि। एवं सति पङ्क्तेः पाठः सार्थो भवति। न च- एवं ककुबुत्पत्तेर्वैयर्थ्यमिति शङ्कनीयम्, वाचः स्तोभे तदुपयोगात्। तस्मान्न काऽपि प्रग्रथनेऽनुपपत्तिः।। 8।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीयवर्णके- अतिजगत्यामभ्यस्यमानायां त्रिशोकगानाधिकरणे सूत्राणि 21-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.10 बृहतीविस्तारपङ्क्त्योः प्रग्रथनेन रौरवयौधाजयसाम्नोर्गानसाधकं
द्वितीयवर्णकमारचयति-

1विषयः

यौधाजये रौरवे च बृहत्योरागमोऽथवा
ग्रथनं पूर्ववत्पक्षौ षष्टिलिङ्गमिहोच्यते

3पूर्वपक्षः

इदमाम्नायते ''रौरवयौधाजये बार्हते तृचे भवतः'' इति। अयमर्थः 'रौरवनामकं किंचित्साम, तथा यौधाजयनामकमपरम्। तयोर्द्वयोः साम्नोर्बृहतीछन्दस्कस्तृच आश्रयः' इति। उत्तराग्रन्थे तु तस्य सामद्वयस्याश्रय एकः प्रगाथ आम्नातः। तस्मिंश्च प्रगाथे ''पुनानः सोम'' इत्यसावृक्प्रथमा। सा च बृहती। ''दुहान ऊधर्दिव्यम्'' इत्यसावृग्द्वितीया, सा तु विष्टारपङ्क्तिः। तामेनां विष्टारपङ्क्तिमपनीय तस्याः स्थान उत्पत्तिबृहत्यौ द्वे ऋचावानेतव्ये। इति पूर्वः पक्षः।
बृहतीविष्टारपङ्क्योः प्रग्रथनविशेषेण द्वे बृहत्यावुत्तरे संपादनीये इति राद्धान्तः। तत्रोभयत्र युक्तिः पूर्वन्यायेन द्रष्टव्या। लिङ्गं त्वेवमाम्नायते ''षष्टिस्त्रिष्टुभोमाध्यंदिनं सवनम्'' इति। अयमर्थः- 'रौरवयौधाजयनामके सामनी माध्यंदिनसवने गीयेते। तस्मिंश्च सवने त्रिष्टुप्छन्दस्का ऋचः षष्टिर्भवन्ति' इति। सेयं षष्टिसंख्या प्रग्रथनपक्ष उपपद्यते। तथा हि माध्यंदिनसवने पवमान एकः। पृष्ठस्तोत्राणि चत्वारि। पवमाने त्रीणि सूक्तानि। ''उच्चा ते जातम्'' इत्येकं सूक्तम्। तत्र गायत्र्यस्तिस्त्र ऋचः। ''पुनानः सोम'' इति द्वितीयं सूक्तम्। तच्च प्रगाथरूपम्। तत्र पूर्वा बृहती, उत्तरा विष्टारपङ्क्तिः। ''प्र तु द्रव परिकोशम्'' इति तृतीयं सूक्तम्। तत्र त्रिष्टुभस्तिस्त्रः।
पृष्ठस्तोत्रेषु ''अभि त्वा शूर'' इति प्रगाथरूपम्। तत्र पूर्वा बृहती, उत्तरा पङ्क्तिः। ''कया नश्चित्र'' इति द्वितीयम्। तत्र तिस्रो गायत्र्यः। ''तं वो दस्ममृतीषहम्'' इति तृतीयं प्रगाथरूपम्। तत्र बृहतीपङ्क्त्यौ। ''तरोभिर्वो विदद्वसुम्'' इति प्रगाथरूपं चतुर्थम्। तत्रापि बृहतीपङ्क्त्यौ। एवमस्मिन्सवने सप्त सूक्तानि। तेषु नव सामानि गेयानि। प्रथमे सूक्ते- गायत्रम्, आमहीयवं चेति द्वे सामनी। द्वितीये- रौरवं, यौधाजयं च। तृतीये- औशनम्। चतुर्थे- रथंतरम्। पञ्चमे- वामदेव्यम्। षष्ठे- नौधसम्। सप्तमे- कालेयम्।
तत्र प्रथमसूक्तस्य सामद्वयनिष्पत्तये द्विरावृत्तावाश्रयभूता ऋचः षड्गायत्र्यो भवन्ति। पञ्चमसूक्तगता वामदेव्यसामाश्रयभूतास्तिस्त्र ऋचः सप्तदशस्तोमसिद्ध्यर्थमावर्तमानाः सप्तदश गायत्र्य इत्येवं मिलित्वा त्रयोविंशतिर्गायत्र्यः। षष्ठे सूक्ते बृहतीपङ्क्त्योः प्रग्रथनेन बार्हतस्तृचो भवन्ति। तथा सप्तमेऽपि। तत्रोभयत्र सप्तदशस्तोमे सति चतुस्त्रिंशद्बृहत्यो भवन्ति। चतुर्थसूक्ते रथंतरसामार्थं पूर्ववर्णकोक्तनीत्या प्रग्रथने सति द्वे ककुभावुत्तरे भवतः। प्रथमा तु स्वतःसिद्धा बृहती। तत्र सप्तदशस्तोमे कृते पञ्च बृहत्यो द्वादश ककुभश्च संपद्यन्ते। तस्य च स्तोमविधायकं ब्राह्मणमेवमाम्नायते- ''पञ्चभ्यो हिंकरोति स तिसृभिः, स एकया, स एकया। पञ्चभ्यो हिंकरोति स एकयाः, स तिसृभिः, स एकया। सप्तभ्यो हिंकरोति स एकया, स तिसृभिः स तिसृभिः'' इति। अयमर्थः- 'एका स्वतःसिद्धा बृहती, प्रग्रथिते द्वे ककुभौ- इत्येवंविधस्तृचस्त्रिभिः पर्यायैरावर्तनीयः। प्रथमे पर्याये- त्रिर्बृहती गातव्या। सकृत्सकृत्ककुभौ। द्वितीये पर्याये- सकृद्बृहती, त्रिवारमनन्तरा ककुप्, सकृदन्त्या ककुप्। तृतीये पर्याये- सकृद्बृहती, त्रिस्त्रिः, त्रिवारमनन्तरा ककुप्, सकृदन्त्या ककुप्। तृतीये प्रर्याये- सकृद्बृहती, त्रिस्त्रिः ककुभौ' इति। हिंकरोति हिंकारोपलक्षितं गानं कुर्यादित्यर्थः। तदेवं तृतीयसूक्तव्यतिरिक्तेषु षट्सु सूक्तेषु त्रयोविंशतिर्गायत्र्यः, पञ्चचत्वारिंशद्बृहत्यः, द्वादश ककुभः संपन्नाः। तत्र- ककुबष्टाविंशत्यक्षरा। तस्यां षोडशाक्षरे गायत्रीपादद्वये योजिते चतुश्चत्वारिंशदक्षरा त्रिष्टुप्संपद्यते। अनया दिशा द्वादशानां ककुभां त्रिष्टुप्संपादनाय चतुर्विंशतिर्गायत्रीपादा योजनीयाः। तथा सति अष्टौ गायत्र्यो गताः, पञ्चदश गायत्र्योऽवशिष्यन्ते। तासां पञ्चचत्वारिंशत्पादाः। तांश्च तावतीषु बृहतीषु संयोज्य त्रिष्टुभः संपादनीयाः। तत एताः पञ्चचत्वारिंसत्ककुप्सु निष्पन्ना द्वादश तृतीये सूक्ते स्वतःसिद्धास्तिस्त्रः, इत्येवं प्रग्रथनपक्षे षष्टिस्त्रिष्टुभ उत्तराग्रन्थे समाम्नाता एव लभ्यन्ते। उत्पत्तिबृहत्यानयने तु प्रकरणाम्नातानां तावतीनामलाभात्प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम्। तस्मात्- 'त्रिष्टुभः षष्टिः' इत्येतद्बृहतीप्रग्रथनस्य लिङ्गम्। प्रग्रथनप्रकारस्त्वभिधीयते ''पुनानः सोम'' इत्यस्या बृहत्याश्चतुर्थं पादं पुनरुपादाय द्विरभ्यस्य ''दुहान ऊधर्दिव्यम्'' इत्येतस्या विष्टारपङ्क्तेः पूर्वार्धेन संयोजयेत्। सा बृहती भवति। एतदीयं चतुर्थं पादं द्विरभ्यस्योत्तरार्धेन योजयेत्। साऽपि बृहती भवति। तस्मात्- यौधाजयरौरवयोर्बृहत्यावुत्तरे ग्रथनीये। एवं नौधसकालेययोरपि द्रष्टव्यम्।। 9।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे वर्णकचतुष्टयसहिते सूत्राणि 25-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
अनुष्टुष्गायत्र्योः प्रग्रथनेन श्यावाश्वान्धीगवयोर्गानसाधकं तृतीयं वर्णकमारचयति-

1विषयः

श्यावाश्वान्धीगवेऽनुष्टुबानेया ग्रथ्यतेऽथवा
पुरेव लिङ्गं जगतीचतुर्विंशतिकीर्तनम्

3पूर्वपक्षः

इदमाम्नायते- ''पञ्चच्छन्दा आवापः, आर्भवः पवमानः सप्तसामा। गाथत्रसंहिते गायत्रे तृचे भवतः। श्यावाश्वान्धीगवे आनुष्टुभे तृचे भवतः। उष्णिहि सफम्। ककुभि पौष्कलम्। कावमन्त्यं जगतीषु'' इति। अयमर्थः- 'अस्ति तृतीयसवने पवमान आर्भवसंज्ञकः। तस्मिन्- पञ्च सूक्तानि, सप्त सामानि। ''स्वादिष्ठया मदिष्ठया'' इत्येकं सूक्तम्। तस्मिन्गायत्र्यस्तिस्त्र ऋचः। तासु गायत्रं संहितं चेति द्वे सामनी। ''पुरोजिती वो अन्धसः'' इति सूक्तान्तरम्। तत्र- एकाऽनुष्टुप्, उत्तरे द्वे गायत्र्यौ। तासु श्यावाश्वम्, आन्धीगवं चेति द्वे सामनी। ''इन्द्रमच्छसुता इमे'' इत्यपरं सूक्तम्। तस्मिन्नुष्णिहस्तिस्रः। तासु सफं साम। ''पवस्व मधुमत्तमः'' इति प्रगाथः। तस्मिन्पूर्वा ककुप्, उत्तरा पङ्क्तिः। तत्र पौष्कलं साम। ''अभि प्रियाणि पवते च नो हितः'' इत्यन्यत्सूक्तम्। तत्र तिस्रो जगत्यः। तासु कावं साम। एतेषां पञ्चानां सूक्तानां मध्ये पुरोजितीयः। 'परस्व' इत्यनयोः सूक्तयोर्यद्यपि द्वे द्वे छन्दसी, तथाऽपि समासु गानं निष्पादयितुं प्रग्रथने कृते सत्येकैकमेव च्छन्दः संपद्यते। ततो गायत्र्यनुष्टुवुष्णिक्ककुब्जगतीभिः पञ्चच्छन्दाः। 'पवमानोऽस्मिन्सवन आवपनीयः' इति। तत्र 'पुरोजितं वो' इत्यस्मिन्सूक्ते श्यावाश्वमान्धीगवं च समासु गातुमुत्तरे गायत्र्यावाम्नाते परित्यज्य द्वे उत्पत्त्यनुष्टुभावानेतव्ये। इति पूर्वः पक्षः।
चतुर्थं पादं पुनरादाय द्वे अनुष्टुभौ ग्रथनीये- इति राद्धान्तः। तत्रोभयत्र पूर्ववर्णकद्वयन्यायेन युक्तिर्द्रष्टव्या। लिङ्गं त्वेवमाम्नायते- 'चतुर्विंशतिर्जगत्यस्तृतीयसवन एका च ककुप्' इति। सेयं संख्या प्रग्रथन उपपद्यते। तथा हि गायत्रसंहितयोः साम्नोराश्रये गायत्रे तृचे द्विरभ्यस्ते सति षड्गायत्र्यो भवन्ति। चतुर्विंशत्यक्षरा गायत्री। अष्टाचत्वारिंशदक्षरा जगती। ततः षड्भिर्गायत्रीभिस्तिस्त्रो जगत्यो भवन्ति। श्यावाश्वान्धीगवयोराश्रयभूता प्रग्रथिता द्विरभ्यस्ताः षडनुष्टुभो भवन्ति। मिलित्वा सप्त जगत्यः संपन्नाः। सफस्य पौष्कलस्य च सामान्तरवत्तृचे गानं न कर्तव्यम्। किंत्वेकैकस्यामृचि। तत्कुतोऽवगम्यते 'उष्णिहि, ककुभि' इति सप्तम्येकवचनान्ताभ्यां विशेषविधानात्। अष्टाविंशत्यक्षरयोरुष्णिक्ककुभोरेका जगती, गायत्रीपादश्च संपद्यते। ककुभि मध्यमः पादो द्वादशाक्षरः, उष्णिहि च परः पादः- इति तयोर्भेदः। कावस्याश्रयभूताः स्वतःसिद्धास्तिस्त्रो जगत्य इति मिलित्वा पवमानेऽस्मिन्नेकादश जगत्यो भवन्ति। गायत्रीपादश्चातिरिच्यते। आर्भवपवमानवत्तृतीयसवने यज्ञायज्ञीयस्तोत्रमेकमस्ति। तस्य चाश्रयः ''यज्ञायज्ञा वो अग्नयः'' इत्यसौ प्रगाथः। तत्र पूर्वा जगती, उत्तरा विष्टारपङ्क्तिः। तयोः प्रग्रथनेन ककुभावुत्तरे कर्तव्ये। तत्रैकविंशस्तोमः। तस्य विधायिका विष्टुतिरेवमाम्नायते ''सप्तभ्यो हिंकरोति, स तिसृभिः, स तिसृभिः, स एकया। सप्तभ्यो हिंकरोति, स एकया, स तिसृभिः, स तिसृभिः। सप्तभ्यो हिंकरोति, स तिसृभिः, स एकया, स तिसृभिः'' इति। अयमर्थः- 'प्रथमाया बृहत्यास्त्रिषु पर्यायेषु क्रमेण त्रिवारमेकवारं पुनस्त्रिवारम्- इति सप्तबृहत्यः। मध्यमायाः प्रथमद्वितीययोः पर्याययोस्त्रिस्त्रिः पाठः, अन्त्ये सकृत्। उत्तमायाः ककुभ आदौ सकृत्, द्वितीयतृतीययोस्त्रिस्त्रिः' इत्येवं चतुर्दश ककुभः। तासु ककुप्सु द्वादशाक्षरा मध्यपादाश्चतुर्दश। तेषु सप्त पादाः सप्तसु बृहतीषु योजनीयाः। ततः सप्त जगत्यो भवन्ति। अवशिष्टाक्षराः ककुभामाद्यपादा अन्त्यपादाश्च मिलित्वाऽष्टाविंशतिः। तेषु षड्भिः पादैरेका जगती, इत्यनेन क्रमेण चतुर्विंशतिपादैश्चतस्त्रो जगत्यो भवन्ति। ये तु द्वादशाक्षराः सप्त पादाः पूर्वमवशिष्टाः, तेषु पवमानशेषोऽष्टाक्षरः पादो योजनीयः, ककुभां शेषेष्वष्टाक्षरेषु चतुर्षु पादेषु चत्वार्यक्षराणि योजनीयानि। ते द्वे जगत्यौ भवतः। तदेवं यज्ञायज्ञीयस्तोत्रे त्रयोदश जगत्यः, पूर्वोक्ताः पवमानगता एकादश, इति चतुर्विंशतिर्जगत्यः। चतुरक्षरवर्जिताश्चत्वारोऽष्टाक्षरपादा मिलित्वा ककुबेका भवति। अनेन लिङ्गेन श्यावाश्वमान्धीगवं च प्रग्रथिते तृचे गातव्यम्। न तु तत्रोत्पत्त्यनुष्टुबानयनमिति स्थितम्।। 10।।
वर्णकान्तरम्
(पादप्रग्रथनेन ब्रह्मसामगानसाधकं) चतुर्थवर्णकमारचयति-

1विषयः

चतुःशते प्रग्रथनमृचः पादस्य वाऽग्रिमः

3पूर्वपक्षः

तृचे मुख्यत्वतो मैवमृगन्यत्वस्य वर्णनात्
गवामयने ब्रह्मसाम विहितम्- ''अभीवर्तो ब्रह्मसामँ भवति'' इति प्रकृत्य श्रूयते ''चतुः शतमैन्द्रा बार्हताः प्रगाथाः'' इति। चतुरुत्तरशतसंख्याका इन्द्रदेवताका बृहतीछन्दस्काः प्रगाथा ऋग्द्वयात्मकाः। तेषु- एकप्रगाथगते द्वे ऋचौ द्वितीयप्रगाथगतामृचं च प्रग्रथ्य तृचेऽभीवर्तनामकं साम गातव्यम्। तथा सति- आम्नातानामविकृतानामेव तिसृणामृचां लाभात्तृचस्य मुख्यत्वं भवति। पूर्वोक्तनीत्या पादप्रग्रथने तु विकृतत्वादमुख्यस्तृचः स्यात्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- 'अन्या अन्या ऋचो भवन्ति, तदेव साम' इत्यृचामन्यत्वमत्र वर्ण्यते
तच्च पादप्रग्रथने संभवति
ऋक्प्रग्रथने तु येयमृक्पूर्वस्य तृचस्यान्त्या, सैवोत्तरस्य तृचस्याद्या, इत्यन्यत्वमृचो न स्यात्
तस्मात्- पादस्य प्रग्रथनम्
-
9.2.11 सप्तमे गीतिसंपादकाक्षरविकारादीनां विकल्पाधिकरणे सूत्रम्
अर्थैकत्वाद्विकल्पः स्यात्।। 29।।
सप्तमाधिकरणमारचयति-

1विषयः

समुच्चेया विकल्प्या वा विभिन्ना गीतिहेतवः

3पूर्वपक्षः

आद्यः प्रयोगग्रहणादर्थैकत्वाद्विकल्पनम्
छान्दोग्ये तलवकारादिशाखाभेदेषु विलक्षणा गीतिहेतवोऽक्षरविकारादय आम्नायन्ते। ते सर्वे कर्मानुष्ठाने समुच्चेतव्याः। कुतः- प्रयोगवचनेन सर्वेषां परिगृहीतत्वात्।

4सिद्धान्तः

मैवम्
एकैकशाखोक्तैरेवाक्षरविकारादिभिरध्ययनकाल इव गीतिस्वरूपनिष्पत्तेः
तन्निष्पत्तिलक्षणस्य प्रयोजनस्यैकत्वात्प्रयोगवचनपरिगृहीता अपि व्रीहियववद्बृहद्रथंतरवच्च विकल्प्यन्ते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “बृहतीविस्तारपङ्क्त्योः प्रग्रथनेन रौरवयौधाजयसाम्नोर्गानसाधकं”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.12 अष्टमे- वर्णकत्रयसहिते सूत्रे 30-31
अर्थैकत्वाद्विकल्पः स्यादृक्सामयोस्तदर्थत्वात्।। 30।।
वचनाद्विनियोगः स्यात्।। 31।।
अष्टमाधिकरणे (साम्नैव स्तवविधानसाधकं) प्रथमवर्णकमारचयति-

1विषयः

ऋक्सामाभ्यां विकल्पेन स्तुतिः साम्नैव वाऽग्रिमः

3पूर्वपक्षः

पुरेव मैवमृङ्निन्दासामप्राशस्त्यदर्शनात्
क्वचित्कर्मविशेषे श्रूयते ''ऋचा स्तुवते। साम्ना स्तुवते'' इति। तत्र पूर्वन्यायेन विकल्पः। इति चेत्-

4सिद्धान्तः

मैवम्
ऋङ्निन्दासामप्रशंसयोर्वाक्यशेषेऽवगमात्
''यदृचा स्तुवते, तदसुरा अन्ववायन्
यत्साम्ना स्तुवते, तदसुरा नान्ववायन्
य एवं विद्वान्साम्ना स्तुवीत'' इत्यृचं निन्दित्वा साम प्रशस्य लिङ्प्रत्ययेन साम विहितम्
तस्मात्- साम्नैव स्तोतव्यम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे गीतिसंपादकाक्षरविकारादीनां विकल्पाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् एकैकशाखोक्तैरेवाक्षरविकारादिभिरध्ययनकाल इव गीतिस्वरूपनिष्पत्तेः तन्निष्पत्तिलक्षणस्य प्रयोजनस्यैकत्वात्प्रयोगवचनपरिगृहीता अपि व्रीहियववद्बृहद्रथंतरवच्च विकल्प्यन्ते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
प्रगीतयैवर्चा वह्न्युपस्थानसाधकं द्वितीयवर्णकमारचयति-

1विषयः

गानस्य नियमो नोत विद्यते वह्न्युपस्थितौ
नाम्नानद्वयतोऽस्त्येव प्रकृतत्वाच्छ्रुतेरपि

3पूर्वपक्षः

क्वचित्कर्मविशेषे श्रूयते ''अयं सहस्रमानवः- इत्येतयाहवनीयमुपतिष्ठते'' इति। असावृगप्रगीता संहिताग्रन्थे समाम्नाता, प्रगीता गानग्रन्थे। ततो वह्नेरुपस्थाने तस्यामृचि गानं न नियतम्, किंतु विकल्पितम्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- अस्त्येव नियमो गाने। कुतः- सामवेदे गानस्यैव प्रकृतत्वात्। ऋचां संहितापाठोऽत्र गानायैव। नह्याधारमन्तरेण गातुं शक्यते। अथोच्येत- ''अयं सहस्र'' इत्यृक्प्रतीकपूर्वकेण वाक्येनोपस्थानविधानाद्वाक्यस्य प्रकरणात्प्रबलत्वा-दृचैवोपस्थानमिति। तन्न। प्रकृतप्रगीतमन्त्रवाचिन्याः 'एतया' इति सर्वनामश्रुतेः प्रबलतरत्वात्। तस्मात्- प्रगीतयोपस्थानम्।। 14।।
वर्णकान्तरम्
याज्यानुवाक्यादीनां तानेन(एकश्रुतिः) प्रयोगसाधकं तृतीयवर्णकमारचयति-

1विषयः

त्रैस्वर्यादि समुच्चेयं विकल्प्यं तान एव वा
प्रयोगादर्थतो द्वौ नो वचनात्स्मृतिकल्पितात्

3पूर्वपक्षः

''अग्निर्मूर्धा'' इत्यादियाज्यानुवाक्यादयो मन्त्राः सामप्रसङ्गाद्विचार्यन्ते। ते च कस्यांचिच्छाखायां त्रैस्वर्येणाधीयन्ते। कैश्चिच्चातुःस्वर्येण। उदात्तानुदात्तस्वरितेभ्यो व्यतिरिक्तश्चतुर्थस्वर एकश्रुतिः। तां चाध्यापकाः 'प्रचयः' इत्याचक्षते। तत्र प्रयोगवचनस्य सर्वाङ्गोपसंहारित्वात्समुच्चयस्त्रैस्वर्यादीनाम्। इत्येकः पक्षः।
अध्ययननिर्वृत्तिलक्षणस्य प्रयोजनस्यैकत्वाद्विकल्पः। इति द्वितीयः पक्षः।
नैतौ द्वौ पक्षौ युक्तौ, एकश्रुतेर्व्याकरणस्मृतौ विहितत्वात्। तथा च पाणिनीयं सूत्रम्- 'यज्ञकर्मण्यजपन्यूङ्खसामसु' (1।2।34) इति। ''अग्निं गृह्णामि सुरथम्'' इत्यादयो मन्त्रा यजमानेनैव जप्यन्ते। न्यूङ्खाः प्रणवाः। सामानि रथंतरादीनि। एतेभ्यो जपादिभ्यो व्यतिरिक्तानां मन्त्राणां यज्ञकर्मण्येकश्रुतिर्भवति। अनया च स्मृत्याऽनुमितं वेदवाक्यमेतत्- ''तानो यज्ञकर्मणि'' इति। 'तानः' इत्येकश्रुतेः पूर्वाचार्यसंज्ञा। न च- एकश्रुतित्वे स्वराध्ययनं व्यर्थमिति वाच्यम्। स्वरविशेषेण बहुव्रीहितत्पुरुषसमासादिनिश्चये सत्यर्थविशेषस्यावबोद्धुं शक्यत्वात्। जपादिषु तु यथाध्ययनं स्वरः प्रयोक्तव्यः।। 15।।
9.2.13 नवमे- उत्तरावर्णवशेन गानाधिकरणे सूत्रे 32-33
सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृतत्वात्।। 32।।
वर्णे तु बादरिर्यथाद्रव्यं द्रव्यव्यतिरेकात्।। 33।।
नवमाधिकरणमारचयति-

1विषयः

आयीभावो योनिवशादुत्तरावशतोऽथवा
गीत्यर्थत्वादादिमोऽन्त्यो वर्णाभिव्यञ्जकत्वतः

3पूर्वपक्षः

''यद्योन्याम्, तदुत्तरयोर्गायति'' इति श्रूयते। तत्र ''कया नश्चित्र आभुवत्'' इत्यसावृग्योनिः। तस्यामृचि 'कया' इत्यक्षरद्वयमाद्यो भागः। 'नश्चित्र आभुवत्' इत्यक्षरषट्कं द्वितीयो भागः। तस्मिन्भागे द्वितीयाक्षरे चकारस्योपरितनमिकारं विलोप्य तस्य स्थान आयीभावमाम्नाय गीतिर्निष्पादिता। ''कस्त्वा सत्यो मदानाम्'' इत्यनन्तरभाविन्युत्तरा। तस्यां योनिन्यायेन चतुर्थाक्षरे तकारस्योपरितनं यकारमोकारं च लोपयित्वा तयोः स्थान आयीभावः। 'अभीषुणः' इत्यसावपरोत्तरा। तस्यामपि चतुर्थाक्षरे णकारस्योपरितनमकारं लोपयित्वा तस्य स्थान आयीभावः कर्तव्यः। अन्यथा गीतिनाशप्रसङ्गात्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- नात्र योनौ वर्णान्तरस्यागमः कृतः। किं तर्हि विद्यमान एव चकारस्योपरितन इकारः सामप्रसिद्धया प्रक्रियया वृद्धः सन्नैकारो भवति। तस्य संध्यक्षरत्वादकारः पूर्वभागः, ईकार उत्तरभागः। तावुभौ विश्लेषेण गीयमानावायीभावं प्रतिपद्येते। तथा च सामगा आहुः- 'वृद्धं तालव्यमायी भवति' इति। तथा सति चतुर्थाक्षरे नास्ति तालव्य इकार इत्यायीभावो न कर्तव्यः। ''अभीषुणः सखीनामविता जरितॄणाम्'' इत्येत-स्यामुत्तरायां द्वादशाक्षरगतस्य रेफस्योपरितन इकारः पूर्ववदायी भवति। सोऽयमायीभाव उक्तनीत्या वर्णा-भिव्यञ्जकत्वादुत्तरागतवर्णवशेन कर्तव्यः। गीत्यर्थत्वाभावेन योनिक्रमे तेन विनाऽपि न गीतिर्विनश्यति।। 16।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- वर्णकत्रयसहिते सूत्रे 30-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ऋङ्निन्दासामप्रशंसयोर्वाक्यशेषेऽवगमात् ''यदृचा स्तुवते, तदसुरा अन्ववायन् यत्साम्ना स्तुवते, तदसुरा नान्ववायन् य एवं विद्वान्साम्ना स्तुवीत'' इत्यृचं निन्दित्वा साम प्रशस्य लिङ्प्रत्ययेन साम विहितम् तस्मात्- साम्नैव स्तोतव्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.14 दशमे- उत्तरयोः स्तोभातिदेशाधिकरणे सूत्राणि 34-38
स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत्।। 34।।
सर्वातिदेशस्तु सामान्याल्लोकवद्विकारः स्यात्।। 35।।
अन्वयं चापि दर्शयति।। 36।।
निवृत्तिर्वाऽर्थलोपात्।। 37।।
अन्वयो वाऽर्थवादः स्यात्।। 38।।
दशमाधिकरणमारचयति-

1विषयः

स्तोभा नोत प्रदिश्यन्ते नागीतित्वेन वर्णवत्

3पूर्वपक्षः

स्वरादिवत्प्रदिश्यन्ते गीतिकालोपयोगतः
वामदेव्यसाम्नो योनौ द्वयोरर्धयोर्मध्य ओकारद्वयेन हो शब्देन हायीशब्देन च निष्पन्नः स्तोम एवमाम्नातः- ''ओ ओ हो हायी'' इति। सोऽयं स्तोभो नोत्तरयोरतिदिश्यते। कुतः- अगीतित्वात्। इह गीतिमात्रमतिदिश्यते। तत्र प्रथमाया ऋचो वर्णा यथा नातिदिश्यन्ते, तथा स्तोभा अपि। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- स्वरो वर्णविशेषो विराम इत्येते गीत्युपयोगित्वाद्यथाऽतिदिश्यन्ते, तथा स्तोभा अपीति कालपरिच्छेदकत्वादतिदिश्यन्ताम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- उत्तरावर्णवशेन गानाधिकरणे सूत्रे 32-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.15 एकादशे- स्तोभलक्षणाधिकरणे सूत्रम्
अधिकं च विवर्णं च जैमिनिः स्तोभशब्दत्वात्।। 39।।
एकादशाधिकरणमारचयति-

1विषयः

स्तोभस्य लक्षणं नास्ति किंवाऽस्ति, न विवर्णता

3पूर्वपक्षः

आधिक्यमप्यतिव्याप्तं विशिष्टं लक्षणं भवेत्
न तावद्विवर्णत्वं तल्लक्षणम्, वर्णविकारस्य विपरीतवर्णत्वेन स्तोभत्वप्रसङ्गात्। ''अग्न आयाहि'' इत्यस्यामृचि, अकारस्य स्थान ओकारं कृत्वा गायन्ति ''ओग्नायी'' इति। 'अधिको वर्णः स्तोभः' इत्युक्ते सत्यभ्यासेऽतिव्याप्तिः। ''पिबासोममिन्द्र मन्दतु त्वा'' इत्येतस्यामृचि 'दतु त्वा' इत्यक्षरत्रयं गानकाले त्रिरभ्यस्तम्। अतो विकाराभ्यासयोरतिव्याप्तेर्नास्ति लक्षणम्। इति चेत्-

4सिद्धान्तः

मैवम्
'अधिकत्वे सत्यृग्विलक्षणवर्णः स्तोभः' इति विशिष्टस्य तल्लक्षणत्वात्
लोकेऽपि सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं कालक्षेपमात्रहेतुं शब्दराशिं 'स्तोभः' इत्याचक्षते
तस्मात्- अस्ति लक्षणम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- उत्तरयोः स्तोभातिदेशाधिकरणे सूत्राणि 34-38”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- स्वरो वर्णविशेषो विराम इत्येते गीत्युपयोगित्वाद्यथाऽतिदिश्यन्ते, तथा स्तोभा अपीति कालपरिच्छेदकत्वादतिदिश्यन्ताम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.16 द्वादशे- नीवारादिषु प्रोक्षणावघातादिधर्मानुष्ठानाधिकरणे सूत्रम्
धर्मस्यार्थकृतत्वाद्द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोदनानुबन्धः समवायात्।। 40।।
द्वादशाधिकरणमारचयति-

1विषयः

न स्युः स्युर्वाऽत्र नीवारा व्रीहिस्थानेऽमितेर्नहि

3पूर्वपक्षः

विकारतद्धितात्ते स्युः, प्रोक्षणादिरतो भवेत्
सामोहो गतः। अथ संस्कारोहः। वाजपेये नैवारश्चरुः श्रुतः। तत्र नीवाराणां व्रीहिस्थानपाते प्रमाणाभावाद्व्रीहिधर्माः पोक्षणावघातादयो नीवारेषु न कर्तव्याः। इति चेत्-
मैवम्। 'नैवारः' इत्यस्य विकारार्थतद्धितस्य व्रीहिस्थानीयत्वे प्रमाणत्वात्। यथा व्रीहयस्तण्डुलद्वारेण हविर्निष्पादसाधनम्, तथा नीवारा अपि। तस्मात्- सन्ति प्रोक्षणादयः।
अयं न्यायो मध्वशनादौ योजनीयः। ''संस्थिते पृष्ठ्ये षडहे मध्वाशयेत्। घृतं वा'' इत्यत्र षडहधर्मो व्रतनियमादिर्मध्वशनैः कर्तव्यः। राजसूये ''नैर्ऋतं चरुं नखावपूतानाम्'' इत्यत्रोलूखलमुसलयोधर्मः प्रोक्षणं नखेषु कर्तव्यम्। चातुर्मास्येषु ''परिधौ पशुं नियुञ्जीत'' इत्यत्र यूपधर्मः पशुनियोजनं विस्पष्टमेव पशौ श्रुतम्। ज्योतिष्टोमे ''ऐरं कृत्वोद्वेयम्'' इत्यत्र गिरापदधर्म आयभिवादिरिरापदे कर्तव्यः।। 19।। 20।।

4सिद्धान्तः

मध्वाशनखपूतत्वपरिधीरापदेष्वपि
ये धर्माः षडहादीनां ते कार्याः स्थानपाततः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- स्तोभलक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'अधिकत्वे सत्यृग्विलक्षणवर्णः स्तोभः' इति विशिष्टस्य तल्लक्षणत्वात् लोकेऽपि सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं कालक्षेपमात्रहेतुं शब्दराशिं 'स्तोभः' इत्याचक्षते तस्मात्- अस्ति लक्षणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.17 त्रयोदशे- परिधौ यूपधर्मानुष्ठानाधिकरणे सूत्राणि 41-43
तदुत्पत्तेस्तु निवृत्तिस्तत्कृतत्वात्स्यात्।। 41।।
आवेश्येरन्वाऽर्थवत्त्वात्संस्कारस्य तदर्थत्वात्।। 42।।
आख्या चैवं तदावेशाद्विकृतौ स्यादपूर्वत्वात्।। 43।।
त्रयोदशाधिकरणमारचयति-

1विषयः

न यूपधर्माः परिधौ सन्ति वाऽन्यार्थजत्वतः
नाविरोधादञ्जनाद्याः स्युर्नियोजनसाधने

3पूर्वपक्षः

चतुर्मास्येषु यूपकार्यं पशुनियोजनं स्थविष्ठे मध्यमे परिधावाम्नायते ''परिधौ पशुं नियुञ्जीत'' इति। तत्र नियोजनकार्येण परिधेर्यूपस्थानीयत्वेऽपि न यूपधर्मास्तक्षणादयोऽञ्जनादयश्च तत्र युक्ताः। कुतः- अग्निपरिधानार्थं मध्यमपरिधेरितरपरिधिवदुत्पन्नत्वात्। इति चेत्-
बाढम्। अन्यार्थमुत्पन्नस्यापि वचनान्नियोजनसाधनत्वमस्ति। यूपोऽपि पशुनियोजनार्थं संस्क्रियते। ततो नियोजनसाधने परिधौ युक्ताः संस्काराः। ननु परिधिस्त्वक्सहितः, शयानश्च। तत्र तक्षणोच्छ्रायौ यूपधर्मौ विरुध्येते। एवं तर्हि तौ मा भूताम्। अविरुद्धास्त्वञ्जनादयः कर्तव्याः। तथा सति संस्कार निमित्तस्य यूपशब्दस्य परिधावपि मुख्यत्वात्। 'यूपायाज्यमानायानुब्रूहि' इत्यस्मिन्प्रैषमन्त्रे 'परिधयेऽज्यमानाय' इत्येवमूहो न कर्तव्यः।। 21।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- नीवारादिषु प्रोक्षणावघातादिधर्मानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मध्वाशनखपूतत्वपरिधीरापदेष्वपि ये धर्माः षडहादीनां ते कार्याः स्थानपाततः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.18 चतुर्दशे- शृतादौ प्रणीताधर्मानुष्ठानाधिकरणे सूत्रे 44-45
परार्थेन त्वर्थसामान्यं संस्कारस्य तदर्थत्वात्।। 44।।
क्रियेरन्वाऽर्थनिर्वृत्तेः।। 45।।
चतुर्दशाधिकरणमारचयति-

1विषयः

शृतदध्नोः प्रणीतानां न धर्माः सन्ति वा नहि

3पूर्वपक्षः

अपाकार्थत्वतः, सन्ति पाकहेतुत्वसाम्यतः
अभ्युदयेष्ट्यां ''शृते चरुम्। दधनि चरुम्'' इति शृतदधिनी आम्नाते। तयोः प्रणीताधर्मा न कर्तव्याः। हविःश्रपणार्थमुत्पन्ना उत्पवनादिधर्मसंस्कृता आपः प्रणीताः। दधिपयसी तु श्रपणार्थं नोत्पन्ने। किंतु हविष्ट्वेन प्रदानार्थमुत्पन्ने। ततः साम्याभावान्नोत्पवनादयो धर्मास्तयोः। इति चेत्-

4सिद्धान्तः

मैवम्
अन्यार्थमुत्पन्नयोरपि दधिपयसोरत्र चन्द्रोदयं निमित्तीकृत्य चरुश्रपणहेतुत्वं वाचनिकम्
ततः समानत्वात्तद्धर्माः सन्ति

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- परिधौ यूपधर्मानुष्ठानाधिकरणे सूत्राणि 41-43”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.19 पञ्चदशे- बृहद्रथंतरयोर्धर्मव्यवस्थाधिकरणे सूत्रे 46-47
एकार्थत्वादविभागः स्यात्।। 46।।
निर्देशाद्वा व्यवतिष्ठेरन्।। 47।।

1विषयः

बृहद्रथंतरे धर्मैः संकीर्णे वा व्यवस्थिते

3पूर्वपक्षः

पृष्ठैक्यात्संकरो धर्मे निर्देशादेर्व्यवस्थितिः
पञ्चदशाधिकरणमारयति-
ज्योतिष्टोम विकल्पितं पृष्ठस्तोत्रं विहितम्- ''बृहत्पृष्ठं भवति। रथंतरं वा पृष्ठं भवति'' इति। तत्रोमयत्र धर्माः श्रुताः- ''बृहति स्तूयमाने मनसा समुद्रं ध्यायेत्। रथंतरे प्रस्तूयमाने संमीलयेत्'' इत्यादयः। ते ह्युभयत्र संकीर्येरन्, पृष्ठसिद्धिलक्षणस्य कार्यस्यैकत्वात्। इति चेत्-

4सिद्धान्तः

निर्देशभेदात्
सांकर्ये त्ववैलक्षण्येन 'बृहत्' इति, 'रथंतरम्' इति च द्वौ निर्देशौ नोपपद्येयाताम्
किंच- उभयधर्मसाहित्यं विरुद्धम्
'उच्चैर्गेयम्
बलवद्गेयम्' इति बृहद्धर्माः
'नोच्चैर्गेयम्
न बलवद्गेयम्' इति रथंतरधर्माः
तस्मात्- उभयोर्धर्मा व्यवतिष्ठन्ते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- शृतादौ प्रणीताधर्मानुष्ठानाधिकरणे सूत्रे 44-45”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अन्यार्थमुत्पन्नयोरपि दधिपयसोरत्र चन्द्रोदयं निमित्तीकृत्य चरुश्रपणहेतुत्वं वाचनिकम् ततः समानत्वात्तद्धर्माः सन्ति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.20 षोडशे- कण्वरथंतरे बृहद्रथंतरधर्मसमुच्चयाधिकरणे सूत्रम्
अप्राकृते तद्विकाराद्विरोधाद्व्यवतिष्ठेरन्।। 48।।
षोडशाधिकरणमारचयति-

1विषयः

तयोर्धर्माः समुच्चेया न वा कण्वरथंतरे

3पूर्वपक्षः

द्विस्थानत्वाद्भाष्य आद्यो विरोधाद्वार्तिकेऽन्तिमः
वैश्यस्तोमे ''कण्वरथंतरं पृष्ठं भवति'' इति श्रूयते। तत्र कण्वरथंतराख्यसाम्नः प्राकृतयोः पृष्ठस्तोत्रसाधनयोर्बृहद्रथंतरयोरुभयोः स्थाने पतितत्वादुभयसंबन्धिधर्माः समुच्चेतव्याः। ये तु विरुद्धर्माः- 'उच्चैर्गेयम्' 'नोच्चैर्गेयम्' इत्यादयः, ते विकल्प्यन्ताम्। समुद्रध्याननिमीलनादीनां विरोधाभावात्। प्रकृताविव निर्देशभेदस्यात्राभावाच्च समुच्चयः। इति भाष्यकारस्य मतम्।

4सिद्धान्तः

विकल्पितयोरेव द्वयोः स्थाने पतितत्वाद्विरुद्धधर्मस्वारस्याच्च विकल्प एव युक्तः, न तु समुच्चयः
इति वार्तिककारस्य मतम्
तत्रोभयत्र तत्तन्मतविपरीतः पूर्वः पक्ष उन्नेयः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- बृहद्रथंतरयोर्धर्मव्यवस्थाधिकरणे सूत्रे 46-47”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न निर्देशभेदात् सांकर्ये त्ववैलक्षण्येन 'बृहत्' इति, 'रथंतरम्' इति च द्वौ निर्देशौ नोपपद्येयाताम् किंच- उभयधर्मसाहित्यं विरुद्धम् 'उच्चैर्गेयम् बलवद्गेयम्' इति बृहद्धर्माः 'नोच्चैर्गेयम् न बलवद्गेयम्' इति रथंतरधर्माः तस्मात्- उभयोर्धर्मा व्यवतिष्ठन्ते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.21 सप्तदशे- द्विसामके बृहद्रथंतरयोर्व्यवस्थाधिकरणे सूत्रे 49-50
उभयसाम्नि चैवमेकार्थापत्तेः।। 49।।
स्वार्थत्वाद्वा व्यवस्था स्यात्प्रकृतिवत्।। 50।।
सप्तदशाधिकरणमारचयति-

1विषयः

द्विसामके द्वयोर्धर्मसांकर्यं वा व्यवस्थितिः

3पूर्वपक्षः

पृष्ठैक्यात्संकरो मैवं धर्माणां सामगत्वतः
''गोसव उभे कुर्यात्'' इत्यादिना गोसवादौ बृहद्रथंतरसामद्वयसाध्यं पृष्ठस्तोत्रं विहितम्। तत्र पृष्ठस्तोत्रस्यैकत्वेन धर्मव्यवस्थाया असंभवाद्बृहत्युभयधर्माः कर्तव्याः। रथंतरेऽप्युभयधर्मा इत्येवं सांकर्यम्। इति चेत्-

4सिद्धान्तः

मैवम्
न ह्येते पृष्ठस्तोत्रप्रयुक्ता धर्माः, किंतु सामप्रयुक्ताः
ततः- साम्नोर्भेदाद्धर्मा व्यवतिष्ठन्ते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- कण्वरथंतरे बृहद्रथंतरधर्मसमुच्चयाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विकल्पितयोरेव द्वयोः स्थाने पतितत्वाद्विरुद्धधर्मस्वारस्याच्च विकल्प एव युक्तः, न तु समुच्चयः इति वार्तिककारस्य मतम् तत्रोभयत्र तत्तन्मतविपरीतः पूर्वः पक्ष उन्नेयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.22 अष्टादशे- सौर्यादिषु पार्वणहोमाद्यननुष्ठानाधिकरणे सूत्राणि 51-56
पार्वणहोमयोस्त्वप्रवृत्तिः समुदायार्थसंयोगात्तदभीज्या हि।। 51।।
कालस्येति चेत्।। 52।।
नाप्रकरणत्वात्।। 53।।
मन्त्रवर्णाच्च।। 54।।
तदभावेऽग्निवदिति चेत्।। 55।।
नाधिकारिकत्वात्।। 56।।
अष्टादशाधिकरणमारचयति-

1विषयः

सौर्यादौ पार्वणौ होमौ स्तो न वा कालदेवकौ
स्तः संघदेवकौ संघाविकारत्वान्न तत्र तौ

3पूर्वपक्षः

दर्शपूर्णमासयोः श्रूयते ''स्रुवेण पार्वणौ जुहोति'' इति। तत्र पर्वशब्दः कालविशेषवाची। ततः कालदेवकौ तौ होमावारादुपकारकतया प्रयाजादिवत्सौर्यादिविकृतिष्वतिदिश्यौ इति चेत्-
मैवम्। पर्वशब्दस्याग्नेयादित्रिकसंघपरत्वात्। दानार्थवाचिनः पृणातेर्धातोर्निष्पन्नोऽयं पर्वशब्दः। स च 'प्रियते दीयतेऽस्मिन्' इत्यधिकरणव्युत्पत्त्या कालमाचष्टे। भावव्युत्पत्त्या तु क्रियापरः सन्प्रकरणवशादाग्नेयादिकर्मत्रयसंधमाह। तथा च मन्त्रवर्णोऽप्यनुगृहीतो भवति- ''ऋषभं वाजिनं वयं पूर्णमासं यजामहे'' इत्येको मन्त्रः। ''अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना'' इत्यपरो मन्त्रः। तत्र- अग्नीषोमवत्कर्मत्रयसंघस्य व्यासक्तदेवतात्वम्। न च संघस्य विकृतिः सौर्यादिः, किंतु- आग्नेयस्यैव। ततः संघार्थयोर्होमयोर्नास्ति सौर्यादौ प्राप्तिः।। 26।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- द्विसामके बृहद्रथंतरयोर्व्यवस्थाधिकरणे सूत्रे 49-50”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् न ह्येते पृष्ठस्तोत्रप्रयुक्ता धर्माः, किंतु सामप्रयुक्ताः ततः- साम्नोर्भेदाद्धर्मा व्यवतिष्ठन्ते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.23 एकोनविंशे- दर्शपूर्णमासयोर्होमद्वयस्य व्यवस्थाधिकरणेसूत्रे 57-58
उभयोरविशेषात्।। 57।।
यदभीज्या वा तद्विषयौ।। 58।।
एकोनविंशाधिकरणमारचयति-

1विषयः

संकीर्णौ संघयोर्होमौ न वा प्रकरणादुभौ

3पूर्वपक्षः

संकीर्णावुपकार्यस्य भेदादेतौ व्यवस्थितौ
दर्शपूर्णमासप्रकरणे पठितत्वात्प्रयाजादिवद्दर्शेऽपि होमद्वयं कर्तव्यम्। पूर्णमासेऽपि तथा। इति चेत्-

4सिद्धान्तः

मैवम्
उपकार्ययोः संघयोर्व्यवस्थितत्वेनोपकारकयोर्होमयोरपि व्यवस्थाया युक्तत्वात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- सौर्यादिषु पार्वणहोमाद्यननुष्ठानाधिकरणे सूत्राणि 51-56”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.2.24 विंशे- समिदादीनां यागनामधेयताधिकरणे सूत्राणि 59-60
प्रयाजेऽपीति चेत्।। 59।।
नाचोदितत्वात्।। 60।।
विंशाधिकरणमारचयति-

1विषयः

देवता यजयो वा स्युः प्रयाजे समिदादयः

3पूर्वपक्षः

विष्ण्वादिवद्देवतात्वं न चतुर्थ्याद्यभावतः
दर्शपूर्णमासयोः प्रयाजपञ्चकमाम्नातम्- ''सनिधो यजति'' इत्यादिना। तत्र यथा ''विष्णुं यजति'' ''वरुणं यजति'' इत्यादौ द्वितीयानिर्दिष्टा विष्ण्वादयो देवताः, तथा समिदादीनां देवतात्वम्। ततो यागैर्देवताः संस्क्रियन्ते, इति दृष्टार्थत्वलाभः। इति चेत्-
मैवम्। सर्वत्र चतुर्थ्या तद्धितेन वा देवता निर्दिश्यन्ते। तद्यथा ''यदग्नये सायं जुहुयात्'' ''आग्नेयोऽष्टाकपालः'' इति। न च- अत्र समिदादिषु चतुर्थीतद्धितौ विद्येते। तादर्थ्यप्रतीतौ देवता भवति। न च- द्वितीयया तादर्थ्यं प्रतीयते, किंतु- ईप्सिततमत्वम्। तच्च कर्मनामत्व उपपद्यते। ''अग्निहोत्रं जुहोति'' इत्यादौ तद्दर्शनात्। यथा 'पाकं पचति' इत्युक्ते पचिक्रियायाः कर्तव्यता प्रतीयते। तथा ''समिधो यजति'' इत्युक्ते समिद्यागः कर्तव्य इत्यर्थो भवति। ''विष्णुं यजति'' इत्यादौ तादर्थ्यमुपचर्यते। प्रयाजमन्त्रेषु ''समिधो अग्न आज्यस्य व्यन्तु'' इत्यादिषु समिदादिशब्दैर्बहुवचनैकवचनान्तैर्देवता निर्दिष्टाः। तदेव निमित्तीकृत्य तादृशैरेव शब्दैरिह यागा अभिधीयन्ते ''समिधो यजति। तनूनपातं यजति। इडो यजति। बर्हिर्यजति। स्वाहाकारं यजति'' इति। तस्मात्- नात्र देवतासंस्कारविधिः। किंतु यागाः केवला विधीयन्ते। तेषां च श्रुत्यादिभिः कार्यविशेषानवगमात्प्रकरणेनारादुपकारकत्वम्। पञ्चमप्रयाजस्य तु यक्ष्यमाणाज्यभागादिदेवतादिसंस्कारकत्वं दशमेऽभिधास्यते।। 28।।
अत्र पादे- अधिकरणानि 20, सूत्राणि 61।
आदितः- अधिकरणानि 567, सूत्राणि 1650।
नवमाध्यायस्य तृतीयः पादः
मन्त्रोहः।

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे नवमाध्यायस्य द्वितीयः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सपरिकरः सामोहः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- दर्शपूर्णमासयोर्होमद्वयस्य व्यवस्थाधिकरणेसूत्रे 57-58”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् उपकार्ययोः संघयोर्व्यवस्थितत्वेनोपकारकयोर्होमयोरपि व्यवस्थाया युक्तत्वात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 9, Pāda 1 Contents Adhyāya 9, Pāda 3 →