6.7.1
प्रथमे विश्वजिति पित्रादीनामदेयत्वाधिकरणे सूत्रे 1-2
SŪस्वदाने सर्वमविशेषात्।। 1।।
SŪयस्य वा प्रभुःस्यादितरस्याशक्यत्वात्।। 2।।
सप्तमपादे प्रथमाधिकरणमारचयति-
1विषयः
सर्वस्वदाने पित्रादावपि तद्धन एव वा
3पूर्वपक्षः
स्वत्वादाद्यः पितृत्वादावत्यागाद्धन एव तत्
इदमामनन्ति- ''विश्वजिति सर्वस्वं ददाति'' इति। तत्र धन इव पित्रादावप्यात्मीयत्वस्य समानत्वादस्ति पित्रादीनामपि तद्दानम्। इति प्राप्ते-
4सिद्धान्तः
किंच स्वशब्दस्य- 'आत्मा, ज्ञातिः, आत्मीयम्, धनं च' इति चत्वारोऽर्थाः
तेष्वेकस्मिन्प्रयोग एक एवार्थो वाच्यः
प्रकृतौ च गवादिधनस्य दक्षिणात्वादिहापि धनवाचित्वं युक्तम्
तस्माद्धनस्यैव दानम्
ब्रूमः- आत्मसंबन्धत्यागपूर्वकं परकीयस्वत्वापादनम् 'दानम्' इत्युच्यते। न हि दीयमाने पितरि स्वकीयपितृत्वत्यागः परकीयपितृत्वापादनं वा संभवति।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे विकृतसप्तदशसामिधेनीषु वर्णत्रयाधिकाराधिकरणे सूत्राणि 36-39”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य षष्ठः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.2
द्वितीये- विश्वजिति भूमेरदेयत्वाधिकरणे सूत्रम्
SŪन भूमिः स्यात्सर्वान्प्रत्यविशिष्टत्वात्।। 3।।
द्वितीयाधिकरणमारचयति-
1विषयः
देया न वा महाभूमिः स्वत्वाद्राजा ददातु ताम्
3पूर्वपक्षः
पालनस्यैव राज्यत्वान्न स्वं भूर्दीयते न सा
यदा सार्वभौमो राजा विश्वजिदादौ सर्वस्वं ददाति, तदा गोपथराजमार्गजलाशयाद्यन्विता महाभूमिस्तेन दातव्या। कुतः- भूमेस्तदीयधनत्वात्। 'राजा सर्वस्येष्टे ब्राह्मणवर्जम्' इति स्मृतेः। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- दुष्टशिक्षाशिष्टपरिपालनाभ्यां राज्ञ ईशितृत्वं स्मृत्यभिप्रेतम्- इति न राज्ञो भूमिर्धनम्
किंतु तस्यां भूमौ स्वकर्मफलं भुञ्जानानां सर्वेषां प्राणिनां साधारणं धनम्
अतोऽसाधारणस्य भूखण्डस्य सत्यपि दाने महाभूमेर्दानं नास्ति
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे विश्वजिति पित्रादीनामदेयत्वाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “किंच स्वशब्दस्य- 'आत्मा, ज्ञातिः, आत्मीयम्, धनं च' इति चत्वारोऽर्थाः तेष्वेकस्मिन्प्रयोग एक एवार्थो वाच्यः प्रकृतौ च गवादिधनस्य दक्षिणात्वादिहापि धनवाचित्वं युक्तम् तस्माद्धनस्यैव दानम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.3
तृतीये- विश्वजित्यश्वादीनामदेयताधिकरणे सूत्रम्
SŪअकार्यत्वाच्च ततः पुनर्विशेषः स्यात्।। 4।।
तृतीयाधिकरणमारचयति-
1विषयः
दानं केसरिणां नो वा, विहितप्रतिषेधतः
3पूर्वपक्षः
विकल्पः, पर्युदासोऽयं येयजामहनीतितः
''न केसरिणो ददाति'' इति विश्वजिति श्रूयते। तत्र- सर्वस्वदानविधानात्, केसरिदाननिषेधाच्चाश्वदानं विकल्पितम्। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- नायं प्रतिषेधः, किंतु पर्युदासः
तत्प्रकारश्च दशमस्याष्टमे पादे ''ये यजामहे'' मन्त्रोदाहरणेन व्युत्पादयिष्यते
ततस्तेन न्यायेनाश्वपर्युदासे सति 'अश्वव्यतिरिक्तं सर्वस्वं देयम्' इति विधिनिषेधयोरेकवाक्यतालाभान्नास्त्यश्वस्य पाक्षिकमपि दानम्
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- विश्वजिति भूमेरदेयत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- दुष्टशिक्षाशिष्टपरिपालनाभ्यां राज्ञ ईशितृत्वं स्मृत्यभिप्रेतम्- इति न राज्ञो भूमिर्धनम् किंतु तस्यां भूमौ स्वकर्मफलं भुञ्जानानां सर्वेषां प्राणिनां साधारणं धनम् अतोऽसाधारणस्य भूखण्डस्य सत्यपि दाने महाभूमेर्दानं नास्ति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.4
चतुर्थे- विश्वजित्यविद्यमानसर्वस्वदाननिराकरणाधिकरणे सूत्रम्
SŪनित्यत्वाच्चानित्यैर्नास्ति संबन्धः।। 5।।
चतुर्थाधिकरणमारचयति-
1विषयः
अर्जयित्वाऽपि किं सर्वं देयं यद्वा यदस्ति तत्
3पूर्वपक्षः
सर्वोद्देशविधेराद्यो न प्राप्ते सर्वताविधेः
पूर्वोक्ते सर्वस्वदाने सर्वमुद्दिश्य दानं विधीयते- 'पुरुषेण भोग्यं शय्यासनादि यत्सर्वं तद्दातव्यम्' इति। तस्मात्- अविद्यमानं सर्वमर्जयित्वाऽपि देयम्। इति चेत्-
4सिद्धान्तः
मैवम्
चोदकप्राप्तं दानमुद्दिश्य सर्वत्वविधानात्
सर्वशब्दश्च प्रसिद्धवाचित्वाद्विद्यमानविषयः
तस्मात्- यदस्ति तदेव देयम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- विश्वजित्यश्वादीनामदेयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- नायं प्रतिषेधः, किंतु पर्युदासः तत्प्रकारश्च दशमस्याष्टमे पादे ''ये यजामहे'' मन्त्रोदाहरणेन व्युत्पादयिष्यते ततस्तेन न्यायेनाश्वपर्युदासे सति 'अश्वव्यतिरिक्तं सर्वस्वं देयम्' इति विधिनिषेधयोरेकवाक्यतालाभान्नास्त्यश्वस्य पाक्षिकमपि दानम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.5
पञ्चमे- विश्वजिति धर्मार्थसेवकशूद्रस्यादेयताधिकरणे सूत्रम्
SŪशूद्रश्च धर्मशास्त्रत्वात्।। 6।।
पञ्चमाधिकरणमारचयति-
1विषयः
धर्मार्थसेवकः शूद्रो देयो नो वा, स दासवत्
3पूर्वपक्षः
देयोऽस्वत्वात्पराधीनत्वाभावाच्च न दीयते
यस्तु शूद्रो विहितं स्वधर्ममवगन्तुं सेवते, सोऽपि सर्वस्वमध्यपतितत्वाद्गर्भदासवद्देयः। इति चेत्-
4सिद्धान्तः
मैवम्
जीविकाद्यदानेन तस्मिन्सेवके स्वत्वाभावात्, स्वेच्छाचारित्वेन परस्वत्वापादनासंभवाच्च न देयः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- विश्वजित्यविद्यमानसर्वस्वदाननिराकरणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् चोदकप्राप्तं दानमुद्दिश्य सर्वत्वविधानात् सर्वशब्दश्च प्रसिद्धवाचित्वाद्विद्यमानविषयः तस्मात्- यदस्ति तदेव देयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.6
षष्ठे विश्वजिति दक्षिणाकाले विद्यमानानामेव सर्वस्वानां देयताधिकरणे सूत्रम्
SŪदक्षिणाकाले यत्स्वं तत्प्रतीयेत तद्दानसंयोगात्।। 7।।
षष्ठाधिकरणमारचयति-
1विषयः
भूतं भावि च देयं स्यात्कालेऽवस्थितमेव वा
3पूर्वपक्षः
आद्यः सर्वश्रुतेरन्त्योऽसंभवादन्ययोस्तदा
'विश्वजिन्मया कर्तव्यः' इत्यध्यवसायादूर्ध्वं दक्षिणाकालात्पूर्वं यत्स्वेन भोग्यं संचितं, तद्भूतम्, यच्च दक्षिणाकालादूर्ध्वं भविष्यत्येवेति निश्चितं, तद्भावि, तदुभयमपि सर्वशब्दार्थत्वाद्दातव्यम्। इति चेत्-
4सिद्धान्तः
मैवम्
भूतस्य विनाशसंभवात्, भाविनस्तदानीमप्राप्तत्वात्, अविद्यमानस्य दानायोगाच्च दक्षिणाकालेऽवस्थितमेव सर्वं देयम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- विश्वजिति धर्मार्थसेवकशूद्रस्यादेयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् जीविकाद्यदानेन तस्मिन्सेवके स्वत्वाभावात्, स्वेच्छाचारित्वेन परस्वत्वापादनासंभवाच्च न देयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.7
सप्तमे- विश्वजिति दक्षिणादानोत्तराङ्गाणामनुष्ठानाधिकरणे सूत्राणि 8-13
SŪअशेषत्वात्तदन्तः स्यात्कर्मणो द्रव्यसिद्धित्वात्।। 8।।
SŪअपि वा शेषकर्म स्यात्क्रतोः प्रत्यक्षशिष्टत्वात्।। 9।।
SŪतथा चान्यार्थदर्शनमू।। 10।।
SŪअशेषं तु समञ्जसादानेन शेषकर्म स्यात्।। 11।।
SŪनादानस्य नित्यत्वात्।। 12।।
SŪदीक्षासु तु विनिर्देशादक्रत्वर्थेन संयोगस्तस्मादविरोधः स्यात्।। 13।।
सप्तमाधिकरणमारचयति-
1विषयः
दक्षिणाक्रतुभुक्त्यर्थं त्रयं देयमुतेष्टये
शिष्ट्वाऽथवा दक्षिणार्थमेवाद्यः सर्वशब्दतः
3पूर्वपक्षः
क्रतुशेषस्तदा बाध्यः प्रधानत्वादबाधनात्
मध्योऽन्त्यो दक्षिणार्थस्यानुवादात्सर्वताविधेः
प्रकृतौ कर्मारम्भ एव यजमानेनात्मीयं धनं वचनबलास्त्रिधा व्यवस्थापितम्- 'इदं मे भुक्त्यर्थम्, इदं मे यज्ञार्थम्, इदं मे दक्षिणार्थम्' इति। तदेतत्रयमपि दक्षिणार्थत्वाद्दातव्यम्- इत्येकः पक्षः।।
दक्षिणा हि माध्यंदिनसवने दीयते। ततः ऊर्ध्वं तृतीयसवनमारभ्योदवसानीयान्तः क्रतुभागोऽवशिष्टः। स च द्रव्याभावाद्बाध्येत। न चाङ्गभूतया दक्षिणया प्रधानस्य क्रतोर्बाधो युक्तः। ततस्तदबाधाय क्रत्वर्थं भागमवस्थाप्यावशिष्टं सर्वं देयम्- इति द्वितीयः पक्षः।
4सिद्धान्तः
'यद्दक्षिणात्वेन विधीयते, तत्सर्वम्' इत्यनूद्य विधानाद्दक्षिणार्थं एव भागो दातव्यः- इति राद्धान्तः।
7
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे विश्वजिति दक्षिणाकाले विद्यमानानामेव सर्वस्वानां देयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् भूतस्य विनाशसंभवात्, भाविनस्तदानीमप्राप्तत्वात्, अविद्यमानस्य दानायोगाच्च दक्षिणाकालेऽवस्थितमेव सर्वं देयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.8
अष्टमे- अहर्गणस्थेऽपि विश्वजिति सर्वस्वदानाधिकरणे सूत्राणि 14-17
SŪअहर्गणे च तद्धर्मा स्यात्सर्वेषामविशेषात्।। 14।।
SŪद्वादशशतं वा प्रकृतिवत्।। 15।।
SŪअतद्गुणत्वात्तु नैवं स्यात्।। 16।।
SŪलिङ्गदर्शनाच्च।। 17।।
अष्टमाधिकरणमारचयति-
1विषयः
विश्वजित्यष्टरात्रादौ किं शतं द्वादशाधिकम्
सर्वं वाद्यश्चोदकोक्तेरन्त्यो नामातिदेशतः
3पूर्वपक्षः
एतद्भाष्ये, वार्तिके तु सप्ताहानुजिघृक्षया
आद्यः सिद्धान्तितः प्राप्तिमात्रत्वेनेदमीरितम्
इदमाम्नायते- ''अथैतस्याष्टरात्रस्य विश्वजिदभिजितावेकाहावभितः, उभयतो ज्योतिः, मध्ये षडहः पशुकामो ह्येतेन यजेत'' इति। 'ज्योतिः, गौः, आयुः' इत्येतैस्त्रिभिर्नामभिरभिधेयानां त्रयाणां यागानामारोहावरोहाभ्यामुभयतो ज्योतिः षडहो भवति। सोऽयं मध्ये प्रयोक्तव्यः। आदौ विश्वजित्। अन्तेऽभिजित्' इत्यर्थः।
तत्र- अहर्गणस्य द्वादशाहविकृतित्वात्, द्वादशाहस्य च ज्योतिष्टोमविकृतित्वात्, चोदकपरम्परया द्वादशशतदक्षिणाऽष्टरात्रे प्राप्ता। ततः प्रथमस्याह्नो विश्वजितोऽपि सैव दक्षिणा- इति प्राप्ते-
4सिद्धान्तः
सूत्रकारस्तु- नामातिदेशस्य प्राबल्यप्राप्तिमात्रं व्युत्पादितवानिति द्रष्टव्यम्।
9
ब्रूमः- स्वतन्त्र एकाहो विश्वजित्। तस्य नाम्ना तदीया धर्माः प्रथमेऽहनि विश्वजित्यतिदिश्यन्ते। तस्मात्- सर्वस्वं देयम्। तदेतद्भाष्यकारस्य मतम्।
वार्तिककारस्तु- 'द्वादशशतम्' इत्येवं सिद्धान्तितवान्। विश्वजिद्व्यतिरिक्तेषु सप्तस्वहःसु चोदकप्राप्तां द्वादशशतदक्षिणामबाधितुं विश्वजिति नामातिदेशप्राप्ता सर्वस्वदक्षिणा बाधनीया। युक्तो हि बहूनामनुग्रहः। न च 'विश्वजिति सर्वस्वम्, इतरत्र द्वादशत्वम्' इति वक्तुं शक्यम्। 'अहर्गणस्यैकैव दक्षिणा' इति दशमे वक्ष्यमाणत्वात्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- विश्वजिति दक्षिणादानोत्तराङ्गाणामनुष्ठानाधिकरणे सूत्राणि 8-13”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “'यद्दक्षिणात्वेन विधीयते, तत्सर्वम्' इत्यनूद्य विधानाद्दक्षिणार्थं एव भागो दातव्यः- इति राद्धान्तः। 7”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.9
नवमे- विश्वजिति द्वादशशतन्यूनधनस्यानधिकाराधिकरणे सूत्राणि 18-20
SŪविकारः सन्नुभयतोऽविशेषात्।। 18।।
SŪअधिकं वा प्रतिप्रसवात्।। 19।।
SŪअनुग्रहाच्च पादवत्।। 20।।
नवमाधिकरणमारचयति-
1विषयः
न्यूनेऽप्युक्तशतात्किं स्यात्सर्वताऽधिक एव वा
संभवादग्रिमोऽन्त्यः स्यादानत्यै सर्ववर्णनात्
3पूर्वपक्षः
यदेतद्द्वादशशतं प्रकृतितो विश्वजिति प्राप्तम्, तस्मान्न्यूनं कस्यचिद्धनम्, तस्मिन्नपि सर्वता संभवति। विद्यमानस्यानवशेषितत्वात्। तस्मादल्पधनयुक्तस्यापि विश्वजित्यधिकारः। इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- ज्योतिष्टोमे हि द्वादशशतं विधाय पश्चादुक्तम् ''यद्येतावता नानमेयुरपि सर्वस्वेन'' इति। तत्राधिकस्यैव सर्वत्वात्, इहापि तदेव युक्तम्। तत्तु चोदकप्राप्तमपि पाक्षिकत्वपरिहारायेह नियम्यते। तस्मात्- ऋत्विजां वशीकारायाधिक एव सर्वता द्रष्टव्या।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- अहर्गणस्थेऽपि विश्वजिति सर्वस्वदानाधिकरणे सूत्राणि 14-17”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सूत्रकारस्तु- नामातिदेशस्य प्राबल्यप्राप्तिमात्रं व्युत्पादितवानिति द्रष्टव्यम्। 9”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.10
दशमे- अपरिमितशब्दस्य संख्यान्तरत्वाधिकरणे सूत्रे 21-22
SŪअपरिमिते शिष्टस्य संख्याप्रतिषेधस्तच्छ्रुतित्वात्।। 21।।
SŪकल्पान्तरं वा तुल्यवत्प्रसंख्यानात्।। 22।।
दशमाधिकरणमारचयति-
1विषयः
देयैका षट्शतं वाऽपरिमितं त्विति वारयेत्
एकादिकां पूर्वसंख्यां यद्वा संख्यान्तरे विधिः
3पूर्वपक्षः
नञ्प्रयोगान्निषेधः स्याद्व्युत्पत्त्या मानशून्यता
रूढ्या बहुत्वं नैकादिनिषेधोऽन्यविधिस्ततः
आधाने श्रूयते ''एका देया, षड्देयाः, द्वादश देयाः, चतुविंशतिर्देयाः, शतं देयम्, सहस्रं देयम्, अपरिमितं देयम्'' इति। तत्र- अपरिमितशब्दगतेन नञा परिमाणं निषिध्यते। तथा सत्यपरिमितशब्द-व्युत्पत्त्या देयद्रव्यस्य परिमाणशून्यता प्रतीयते। इत्येकादिका पूर्ववाक्योक्ता गवां संख्या निवार्यते। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- अपरिमितशब्दस्य रूढ्या बहुत्वमर्थः
तथैव प्रयोगबाहुल्यात्
ततो नैकादिपक्षा निवार्यन्ते, किंतु- संख्यान्तरं विधीयते।
12
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- विश्वजिति द्वादशशतन्यूनधनस्यानधिकाराधिकरणे सूत्राणि 18-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.11
एकादशे- अपरिमितशब्देन सहस्राधिकग्रहणाधिकरणे सूत्राणि 23-25
SŪअनियमोऽविशेषात्।। 23।।
SŪअधिकं वा स्याद्बह्वर्थत्वादितरेषां संनिधानात्।। 24।।
SŪअर्थवादश्च तद्वत्।। 25।।
एकादशाधिकरणमारचयति-
1विषयः
अर्वागपि बहुत्वं तत्सहस्रादूर्ध्वमेव वा
3पूर्वपक्षः
संभवादग्रिमोऽन्त्यः स्यात्सहस्रानन्तरोक्तितः
अपरिमितशब्देन यद्बहुत्वं विधीयते, तत्सहस्रादर्वागपि भवति। कुतः- द्विशत त्रिशतादौ बहुत्वसंभवात्। इति चेत्-
4सिद्धान्तः
मैवम्
एकादिपक्षेषूत्तरोत्तराभिवृद्धिदर्शनेनात्रापि सहस्रपक्षमुपन्यस्य पश्चादभिधीयमानं बहुत्वं सहस्रादूर्ध्वं पर्यवस्यति
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- अपरिमितशब्दस्य संख्यान्तरत्वाधिकरणे सूत्रे 21-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- अपरिमितशब्दस्य रूढ्या बहुत्वमर्थः तथैव प्रयोगबाहुल्यात् ततो नैकादिपक्षा निवार्यन्ते, किंतु- संख्यान्तरं विधीयते। 12”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.12
द्वादशे- इति ह स्मेत्यादिपरकृतिपुराकल्पानामर्थवादताधिकरणे सूत्राणि 26-30
SŪपरकृतिपुराकल्पं च मनुष्यधर्मः स्यादर्थाय ह्यनुकीर्तनम्।। 26।।
SŪतद्युक्ते च प्रतिषेधात्।। 27।।
SŪनिर्देशाद्वा तद्धर्मः स्यात्पञ्चावत्तवत्।। 28।।
SŪविधौ तु वेदसंयोगादुपदेशः स्यात्।। 29।।
SŪअर्थवादो वा विधिशेषत्वात्तस्मान्नित्यानुवादः स्यात्।। 30।।
द्वादशाधिकरणमारचयति-
1विषयः
माषान्मे पचतेत्येतद्वार्ष्णिष्वेवाखिलेषु वा
उक्तेर्विधेश्च तौ पक्षौ कृत्वाचिन्ताऽर्थवादतः
3पूर्वपक्षः
इदमाम्नायते- ''इति ह स्माह बर्कुर्वार्ष्णिः माषानेव मह्यं पचत, न वा एतेषां हविर्गृह्णाति'' इति। तत्र 'वार्ष्णिः' इत्युक्तत्वाद्वृष्णिगोत्राणामेवायं माषपाकविधिः। इति चेत्-
मैवम्। वृष्णिगोत्रोत्पन्नेन बर्कुनाम्ना माषपाकस्य संबन्धो नात्र विधीयते। किंतु माषपाकमात्रम्। बर्कुसंबन्धस्तु स्तावकत्वेनोपन्यस्यते। तस्मात्- सर्वेषां माषपाकाधिकारः। तावेतौ पूर्वोत्तरपक्षौ कृत्वाचिन्तयोपन्यस्तौ। परमार्थतस्तु माषपाकवाक्यमर्थवादः, 'तस्मादारण्यमेवाश्रीयात्' इत्यनेन दर्शपूर्णमासयोरारण्याशनविधिना सह स्ताकत्वेनान्वयात्।। 15।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- अपरिमितशब्देन सहस्राधिकग्रहणाधिकरणे सूत्राणि 23-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् एकादिपक्षेषूत्तरोत्तराभिवृद्धिदर्शनेनात्रापि सहस्रपक्षमुपन्यस्य पश्चादभिधीयमानं बहुत्वं सहस्रादूर्ध्वं पर्यवस्यति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.13
त्रयोदशे- सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणे सूत्राणि 31-40
SŪसहस्रसंवत्सरं तदायुषामसंभवान्मनुष्येषु।। 31।।
SŪअपि वा तदधिकारान्मनुष्यधर्मः स्यात्।। 32।।
SŪनासामर्थ्यात्।। 33।।
SŪसंबन्धादर्शनात्।। 34।।
SŪस कुलकल्पः स्यादिति कार्ष्णाजिनिरेकस्मिन्नसंभवात्।। 35।।
SŪअपि वा कृत्स्नसंयोगादेकस्यैव प्रयोगः स्यात्।। 36।।
SŪविप्रतिषेधात्तु गुण्यन्यतरः स्यादिति लावुकायनः।। 37।।
SŪसंवत्सरो विचालित्वात्।। 38।।
SŪसा प्रकृतिः स्यादधिकारात्।। 39।।
SŪअहानि वाऽभिसंख्यत्वात्।। 40।।
त्रयोदशाधिकरणमारचयति-
3पूर्वपक्षः
इदमाम्नायते- ''पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः, पञ्चपञ्चाशतः पञ्चदशाः, पञ्चपञ्चाशतः सप्तदशाः पञ्चपञ्चाशत एकविंशाः, विश्वसृजामयनं सहस्रसंवत्सरम्'' इति तत्र सहस्रसंवत्सरसत्रे गन्धर्वादीनामेवाधिकारः, तेषां दीर्घायुषां सद्भावादित्याद्यः पक्षः।
''वसन्ते ब्राह्मणोऽग्नीनामधीत'' इत्यादिविधानान्मनुष्याणामेवाहवनीयाद्यग्नयः सम्भवन्ति, नान्येषां गन्धर्वादीनाम्। इति चेत्-
तर्हि 'रसायनेन सिद्धानां दीर्घायुषां मनुष्याणामधिकारः' इत्यस्तु द्वितीयः पक्षः।
रसस्यारोग्यपुष्ट्यादिजनकत्वमेव, न त्वायुर्हेतुत्वम्। इति चेत्-
तर्हि 'एकस्मिन्कुले समुत्पन्नानां पितृपुत्रपौत्रादीनां बहूनां सहस्रायुः संभवात्कुलाधिकारः' इति तृतीयः पक्षोऽस्तु।
कृत्स्नकर्तुः फलं भवति। न च पितृपुत्रादिष्वेकोपि कृत्स्नं करोति। तस्मात्- नास्ति फलम्। इति चेत्-
तर्हि 'सत्रविधायकवचनबलादेव सत्रिणां दीर्घायुर्भविष्यति' इति चतुर्थः पक्षोस्तु।
न ह्यस्य वचनस्य सोऽर्थः संभवति, तद्वाचकपदाभावात्। न च कल्पयितुं शक्यते, संभावितायुष्काणामपि सत्रान्तरेषु प्रवृत्तानां दैवान्म्रियाणानां तत्तत्सत्रविधिबलादायुर्वृद्ध्यदर्शनात्। इति चेत्-
तर्हि 'पञ्चपञ्चाशतः' इत्यस्य शब्दस्य पुरुषपरत्वमङ्गीकृत्य सार्धद्विशतानां पुरुषाणामधिकारेऽभिहिते वत्सरचतुष्टयेन सत्रस्य सहस्रसंवत्सरत्वं संपद्यत इति पञ्चमः पक्षोऽस्तु।
''चतुर्विंशतिपरमाः सत्रमासीरन्'' इति वचनादभ्यधिकानां न तत्राधिकारः। इति चेत्-
तर्हि 'यो मासः स संवत्सरः' इति वचनात्संवत्सरशब्दस्य मासपरत्वे सति 'सहस्रमासं सत्रम्' इत्येष षष्ठः पक्षोऽस्तु।
अष्टमे वत्सर उपनीतो द्वादश वर्षाणि वेदमधीत्य विंशतिवयस्को विवाहं कृत्वा जातपुत्रोऽग्निमादधीत। तस्मात्- आधानादूर्ध्वंमस्यायुषि न सन्ति सहस्रं मासाः। इति चेत्-
तर्हि 'संवत्सरस्य प्रतिमा वै द्वादश रात्रयः' इति वचनात्संवत्सरशब्दो द्वादशरात्रपरः। तथा सति रात्रीणां द्वादश सहस्राणि संपद्यन्ते। तासु च रात्रिषु षष्ट्युत्तरशतत्रयदिवसरूपसंवत्सरत्वेन गण्यमानासु त्रयस्त्रिंशत्संवत्सरेभ्य ऊर्ध्वं मासचतुष्टयं भवति। तावत्परिमितं चायुराधानादूर्ध्वमपि संभवति। इति सप्तमः पक्षोऽस्तु।
''संवत्सरप्रतिमा वै द्वादश रात्रयः'' इत्यस्मिन्वाक्ये संवत्सरशब्दो न रात्रिपरः। किं तु तेन शब्देन प्रतिमा विशिष्यते। तस्मात्- न सप्तमः पक्षो युक्तः। इति चेत्-
एवं तर्हि 'संवत्सरशब्दो दिनपरः' इत्यष्टमः पक्षोऽस्तु। तथासति ''त्रिवृतः संवत्सराः'' इत्यादिवाक्यानां स्वारस्यं भवति। त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, इत्येते शब्दाः स्तोमवाचकाः सन्तः स्तोमयुक्त एकैकस्मिन्नहनि यागरूपे लक्षणया वर्तन्ते। सत्रेषु तथाविधप्रयोगबाहुल्यात्। न तु- अहःसंघे क्वचिदपि त्रिवृदादिशब्दाः प्रयुक्ताः। तैश्च शब्दैः सामानाधिकरण्यात्संवत्सरशब्दः स्वावयवभूतेऽहनि लक्षणया वर्तते। ''त्रिवृतः संवत्सराः'' इत्युक्ते 'त्रिवृत्स्तोमकयागयुक्तान्यहानि' इत्युक्तं भवति। तस्मात्- विश्वसृजामृषीणामिदं सूत्रं सहस्रदिनम्- इति राद्धान्तः।। 16।। 17।। 18।। 19।। 20।। 21।। 22।। 23।।
अत्र पादे- अधिकरणानि 13, सूत्राणि 40।
आदितः- अधिकरणानि 462, सूत्राणि 1250।
षष्ठाध्यायस्याष्टमः पादः
लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- इति ह स्मेत्यादिपरकृतिपुराकल्पानामर्थवादताधिकरणे सूत्राणि 26-30”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.7.14
प्रथमे- चतुर्होतृहोमेऽनाहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 1-10
SŪइष्टिपूर्वत्वादक्रतुशेषो होमः संस्कृतेष्वग्निषु स्यादपूर्वोऽप्याधानस्य सर्वशेषत्वात्।। 1।।
SŪइष्टित्वेन तु संस्तवश्चतुर्होतॄनसंस्कृतेषु दर्शयति।। 2।।
SŪउपदेशस्त्वपूर्वत्वात्।। 3।।
SŪस सर्वेषामविशेषात्।। 4।।
SŪअपि वा क्रत्वभावादनाहिताग्नेरशेषभूतनिर्देशः।। 5।।
SŪजपो वाऽनग्निसंयोगात्।। 6।।
SŪइष्टित्वेन तु संस्तुते होमः स्यादनारभ्याग्निसंयोगादितरेषामवाच्यत्वात्।। 7।।
SŪउभयोः पितृयज्ञवत्।। 8।।
SŪनिर्देशो वाऽनाहिताग्नेरनारभ्याग्निसंयोगात्।। 9।।
SŪपितृयज्ञे संयुक्तस्य पुनर्वचनम्।। 10।।
अष्टमपादे प्रथमाधिकरणमारचयति-
1विषयः
चतुर्होत्राख्यमन्त्रेण होमः साग्नेरुतोभयोः
अनग्निके विधिर्वाद्यो होमत्वात्क्रतुहोमवत्
3पूर्वपक्षः
उभयोः पुरुषार्थत्वात्तृतीयो वचनात्तु तत्
अनाहिताग्नेरेषा वा इत्यग्नौ लौकिके हुतिः
इदमाम्नायते- ''प्रजाकामं चतुर्होत्रा याजयेत्'' इति। ''पृथिवी होता, द्यौरध्वर्युः'' इत्यादिको मन्त्रश्चतुर्होता। तेन प्रजाकामं याजयेत्। सोऽयं होम आहिताग्निना कर्तव्यः, अग्निहोत्रादिक्रतुहोमेषु तथात्वदर्शतात्। इत्येकः पक्षः।
अनारभ्याधीतत्वेन क्रतुप्रवेशाभावात्पुरुषार्थतया विहितो होम आहिताग्नेरनाहिताग्नेश्च साधारणः। इति द्वितीयः पक्षः।
4सिद्धान्तः
अनाहिताग्नेरयं होमविधिः- इति तृतीयः पक्षो युक्तः
कुतः- वचनबलात्
तत्तु वचनमेवमाम्नातम्- ''एषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारः'' इति
तस्य चाहवनीयाद्यभावाल्लौकिकेग्नौ तद्धोमः।
1
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणे सूत्राणि 31-40”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]