SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 6, Pāda 6

अधिकारः

तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्

7adhikaraṇas
39sūtras
6.6.1 प्रथमे- सत्रे समानकल्पानां सहाधिकाराधिकरणे सूत्राणि 1-11
सन्निपातेवैगुण्यात्प्रकृतिवत्तुल्यकल्पा यजेरन्।। 1।।
वचनाद्वा शिरोवत्स्यत्।। 2।।
न वानारम्भवादत्वात्।। 3।।
स्याद्वा यज्ञार्थत्वादौदुम्बरीवत्।। 4।।
न तत्प्रधानत्वात्।। 5।।
औदुम्बर्याः परार्थत्वात्कपालवत्।। 6।।
अन्येनापीतिचेत्।। 7।।
नैकत्वात्तस्य चानधिकाराच्छब्दस्य चाविभक्तत्वात्।। 8।।
सन्निपातात्तु निमित्तविघातः स्याद्बृहद्रथंतरवद्विभक्तशिष्टत्वाद्वसिष्ठनिर्वर्त्ये।। 9।।
अपि वा कृत्स्नसंयोगादविघातः प्रतीयेत स्वामित्वेनाभ सम्बन्धात्।। 10।।
साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसम्बन्धस्तस्मात्तत्र विघातः स्यात्।। 11।।
षष्ठपादे प्रथमाधिकरणमारचयति-

1विषयः

भिन्नप्रयाजादिकल्पा अपि सत्रेऽधिकारिणः

3पूर्वपक्षः

तुल्यकल्पा एव वाद्यो वसिष्ठादिविधानतः
प्रयाजेषु पुरुषभेदेनानुष्ठानप्रकारो भिद्यते। राजन्यवसिष्ठादीनां नाराशंसो द्वितीयः प्रयाजः। तनूनपादन्येषाम्। तत्र वसिष्ठात्रिवाध्न्यश्वशुनककण्वकश्यपसंकृतिगोत्रोत्पन्ना ये नाराशंसप्रयाजवन्तः, ये चान्ये तनूनपात्प्रयाजवन्तः, त एते भिन्नकल्पा अपि मिलित्वा सप्तदशावराः सत्रेऽधिकारिणः स्युः। कुतः- नाराशंसमुद्दिश्य तदङ्गत्वेन वसिष्ठादिविधानात्। तथा सति सत्रिणां मध्ये केषांचिद्वसिष्ठादिगोत्रजत्वेऽपि तदङ्गत्वं सिध्यति इति प्राप्ते-

4सिद्धान्तः

नारांशसाद्यङ्गातायां स्वामित्वोद्देशपूर्वकम्
नाराशंसविधौ संनिकर्षात्साद्गुण्यतोऽन्तिमः
ब्रूमः- वसिष्ठादीन्यजमानानुद्दिश्य नाराशंसो विधीयते। तथासति विधायकपदगतस्य धात्वर्थस्य विधेयत्वात्संनिकर्षः। वसिष्ठादिविधौ तु पदान्तरोपात्तत्वाद्विप्रकर्षः। अतो वसिष्ठाद्युद्देशेन नाराशंसविधौ, नाराशंसानुष्ठाने वसिष्ठादीनां साद्गुण्यम्, इतरेषां तु वैगुण्यम्, तनूनपादनुष्ठाने तु वैपरीत्यम्। अतः सर्वथाभिन्नकल्पानां सर्वेषां साद्गुण्यं न सिध्यति। अतः साद्गुण्याय तुल्यकल्पा एवाधिकारिणः।। 1।। 2।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे- अहर्गणेपच्छेदे सर्वावृत्तिनिराकरणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “गणावृत्तिः प्रयोगैक्यात्प्रयोगेऽवान्तरः पृथक् तेनाहरेकमावर्त्यमनङ्गत्वान्न हीतरत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.2 द्वितीये- भिन्नकल्पयोरपि राजपुरोहितयोः कुलाययज्ञेऽधिकाराधिकरणे सूत्राणि 12-15
वचनात्तु द्विसंयोगस्तस्मादेकस्य पाणित्वम्।। 12।।
अर्थाभावात्तु नैवं स्यात्।। 13।।
अर्थानां च विभक्तत्वान्न तच्छ्रुतेन संबन्धः।। 14।।
पाणेः प्रत्यङ्गभावादसंबन्धः प्रतीयेत।। 15।।
द्वितीयाधिकरणमारचयति-

3पूर्वपक्षः

कुलाययज्ञं प्रकृत्य श्रूयते ''अनेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्'' इति। तत्र राज्ञः परोहितस्य च भिन्नकल्पत्वात्, अभिन्नप्रयाजाकल्पत्वाय पुरोहितयोरधिकारो वाच्यः। तथा सति 'राज्ञः पुरोहितौ' इति षष्ठीसमास इत्याद्यः पक्षः।
'पुरोहितं वृणीते' इत्युपादेयगतस्यैकत्वस्य विवक्षितत्वाद्राजद्वयमन्तरेण पुरोहितद्वयासंभवात् 'राजपुरोहितश्च राजपुरोहितश्च' इत्यस्मिन्नर्थे कृतैकशेषत्वादुभयो राज्ञोः पुरोहितौ- इति द्वितीयः पक्षः।
अराज्ञः पुरोहिताभावाद्व्यावर्त्याभावेन राजपदं व्यर्थम्। ततः 'राजानौ च तौ पुरोहितौ च' इति कर्मधारयसमास इति तृतीयः पक्षः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- सत्रे समानकल्पानां सहाधिकाराधिकरणे सूत्राणि 1-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नारांशसाद्यङ्गातायां स्वामित्वोद्देशपूर्वकम् नाराशंसविधौ संनिकर्षात्साद्गुण्यतोऽन्तिमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.3 तृतीये- सत्रे ब्राह्मणमात्रस्याधिकाराधिकरणे सूत्राणि 16-23
सत्राणि सर्ववर्णानामविशेषात्।। 16।।
लिङ्गदर्शनाच्च।। 17।।
ब्राह्मणानां वेतरयोरार्त्विज्याभावात्।। 18।।
वचनादिति चेत्। 19।।
न स्वामित्वं हि विधीयते।। 20।।
गार्हपते वा स्यातामविप्रतिषेधात्।। 21।।
न वा कल्पविरोधात्।। 22।।
स्वामित्वादितरेषामहीने लिङ्गदर्शनम्।। 23।।
तृतीयाधिकरणमारचयति-

1विषयः

सत्रं वर्णत्रयस्योत विप्रस्यैवाविशेषतः

3पूर्वपक्षः

त्रयस्य मैवं स्वामित्वं विप्राणामृत्विजां यतः

4सिद्धान्तः

''ऋद्धिकामाः सत्रमासीरन्'' इत्यत्र 'विप्राः' इति विशेषो न श्रूयते
तस्मात्- वर्णत्रयस्य सत्राधिकारः
इति चेत्- मैवम्
'विप्राणामेवार्त्विज्यम्' इति द्वादशे वक्ष्यते
ऋत्विक्कार्ये यजमानाः सूत्रे समाम्नाताः- 'ये यजमानास्त ऋत्विजः' इति
तस्मात्- विप्राणामेव सत्रम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- भिन्नकल्पयोरपि राजपुरोहितयोः कुलाययज्ञेऽधिकाराधिकरणे सूत्राणि 12-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.4 चतुर्थे विश्वामित्रतत्समानकल्पानामेवाधिकाराधिकरणे सूत्राणि 24-26
वासिष्ठानां वा ब्रह्मत्वनियमात्।। 24।।
सर्वेषां वा प्रतिप्रसवात्।। 25।।
विश्वामित्रस्य हौत्रनियमाद्भृगुशुनकवसिष्ठानामनधिकारः।। 26।।

1विषयः

विप्रस्य सत्रं सर्वस्य वासिष्ठस्यैव वा भवेत्

3पूर्वपक्षः

विश्वामित्रस्यैव वाद्य ऋद्धीच्छुत्वेन मध्यमः
चतुर्थाधिकरणमारचयति
ऋद्धिकामस्य सत्रं विहितम्। ब्राह्मणश्च सर्व ऋद्धिं वाञ्छति। तस्मात्- 'विप्रस्य सर्वस्य सत्राधिकारः' इत्याद्यः पक्षः।
''वासिष्ठो ब्रह्मा भवति'' इति वचनादवासिष्ठस्य ब्रह्मत्वासंभवाद्ब्रह्मत्वाय वासिष्ठस्याधिकारो वाच्यः। तथा सति भिन्नकल्पत्ववारणाय तत्तुल्यकल्पा एवाधिक्रियन्ते- इति द्वितीयः पक्षः।
'वासिष्ठो ब्रह्मा' इति वाक्यं न वासिष्ठस्य ब्रह्मत्वाधिकारबोधकम्। ''रश्मिरसि क्षयाय त्वा'' इत्यादयो मन्त्राः स्तोमभागाः, तानधीयानः स्वयमवासिष्ठोऽपि ब्रह्मतामर्हति- इति स्तोमभागप्रशंसारूपेऽर्थवादे 'वासिष्ठो ब्रह्मा' इति पठितत्वात्। तस्मात्- ''वैश्वामित्रो होता'' इति विहितस्य होतृत्वस्य सिद्धये वैश्वामित्रस्य तत्समानकल्पानां चाधिकारः, नान्येषाम्।। 7।। 8।।

4सिद्धान्तः

ब्रह्मत्वाय ह्यवासिष्ठे ब्रह्मता स्तोमभागतः
वैश्वामित्रसमानानामेव होतृत्वसिद्धये

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- सत्रे ब्राह्मणमात्रस्याधिकाराधिकरणे सूत्राणि 16-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “''ऋद्धिकामाः सत्रमासीरन्'' इत्यत्र 'विप्राः' इति विशेषो न श्रूयते तस्मात्- वर्णत्रयस्य सत्राधिकारः इति चेत्- मैवम् 'विप्राणामेवार्त्विज्यम्' इति द्वादशे वक्ष्यते ऋत्विक्कार्ये यजमानाः सूत्रे समाम्नाताः- 'ये यजमानास्त ऋत्विजः' इति तस्मात्- विप्राणामेव सत्रम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.5 पञ्चमे- सत्र आहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 27- 32
विहारस्य प्रभुत्वादनग्नीनामपि स्यात्।। 27।।
सारस्वते च दर्शनात्।। 28।।
प्रायश्चित्तविधानाच्च।। 29।।
साग्नीनां वेष्टिपूर्वत्वात्।। 30।।
स्वार्थेन च प्रयुक्तत्वात्।। 31।।
संनिवापं च दर्शयति।। 32।।
पञ्चमाधिकरणमारचयति-

1विषयः

अनाधातुश्च तत्किं वाधातुरेवाग्रिमो यतः

3पूर्वपक्षः

एकस्याग्निषु तत्सिद्धिर्न स्वाग्निष्वात्मनेपदात्
तत्सत्रमग्न्याधानरहितस्यापि संभवति। कुतः- सत्रिणां मध्ये कस्यचिदाहिताग्नित्वे तदीयेष्वग्निषु तेन सह प्रवृत्तैरनाहिताग्निभिरपि तस्य सत्रस्य साधयितुं शक्यत्वात्। इति चेत्-

4सिद्धान्तः

मैवम्
'आदधीत' इत्यात्मनेपदमाधानफलस्य कर्तृगामितां दर्शयति
तत्फलं चाग्नीनां कर्मयोग्यता
ततो येऽनाहिताग्नयः, न तेऽधिकारिणः
यश्चाहिताग्निः, तस्यैव कर्मयोग्यत्वम्, नान्यस्य
किंच- सोमविकृतीनामिष्टिपूर्वत्वं निर्णीतम्
इष्टिश्चाधानपूर्विका
तस्मात्- आधातुरेव सत्राधिकारः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे विश्वामित्रतत्समानकल्पानामेवाधिकाराधिकरणे सूत्राणि 24-26”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रह्मत्वाय ह्यवासिष्ठे ब्रह्मता स्तोमभागतः वैश्वामित्रसमानानामेव होतृत्वसिद्धये”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.6 षष्ठे- जुह्वादीनां साधारण्याधिकरणे सूत्राणि 33-35
जुह्वादीनामप्रयुक्तत्वात्संदेहे यथाकामी प्रतीयेत।। 33।।
अपि वाऽन्यानि पात्राणि साधारणानि कुवींरन्विप्रतिषेधाच्छास्त्रकृतत्वात्।। 34।।
प्रायश्चित्तमापदि स्यात्।। 35।।

1विषयः

जुह्वादयो यस्य कस्य कार्याः साधारणा उत

3पूर्वपक्षः

अविरोधादग्रिमोन्त्यो मृतदाहे विरोधतः
सत्रिणां मध्ये यस्य कस्यचित्संबन्धिभिर्जुह्वादिपात्रैः सत्रं प्रयोक्तव्यम्। कुतः- अविरोधात्। अन्यदीयेष्वग्निष्वात्मनेपदं यथा विरुध्यते, नैवमत्र विरोधः कश्चिदुपलभ्यते। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- 'यस्य जुह्वादयः स चेत्सत्रमध्ये म्रियेत, तदा मृतेन सह जुह्वादयो दह्यन्ते
आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च दक्षिणहस्ते जुहूमासादयति' इत्यादिवचनैस्तदवगमात्
पात्रदाहे चावशिष्टः सत्रप्रयोगो विगुणः स्यात्
तस्मात्- साधारणा जुह्वादयः सत्रे संपादनीयाः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- सत्र आहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 27- 32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'आदधीत' इत्यात्मनेपदमाधानफलस्य कर्तृगामितां दर्शयति तत्फलं चाग्नीनां कर्मयोग्यता ततो येऽनाहिताग्नयः, न तेऽधिकारिणः यश्चाहिताग्निः, तस्यैव कर्मयोग्यत्वम्, नान्यस्य किंच- सोमविकृतीनामिष्टिपूर्वत्वं निर्णीतम् इष्टिश्चाधानपूर्विका तस्मात्- आधातुरेव सत्राधिकारः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.6.7 सप्तमे विकृतसप्तदशसामिधेनीषु वर्णत्रयाधिकाराधिकरणे सूत्राणि 36-39
पुरुषकल्पेन वा विकृतौ कर्तृनियमः स्याद्यज्ञस्य तद्गुणत्वादभावादितरान्प्रत्येकस्मिन्नधिकारः स्यात्।। 36।।
लिङ्गाच्चेज्याविशेषवत्।। 37।।
न वा संयोगपृथक्त्वाद्गुणस्येज्याप्रधानत्वादसंयुक्ता हि चोदना।। 38।।
इज्यायां तद्गुणत्वाद्विशेषेण नियम्येत।। 39।।
सप्तमाधिकरणमारचयति-

1विषयः

सामिधेनीसाप्तदश्यं वैकृतं वैश्यगाम्युत
वर्णत्रयस्य वाद्योऽस्तु वैश्यकर्तृविधानतः

3पूर्वपक्षः

प्रकृतौ पाञ्चदश्यस्य बाधकं वैश्य ईरितम्
विकृतौ त्रयगं वाक्यं त्रयोऽतोऽत्राधिकारिणः
अध्वरकल्पादिष्विष्टिविकृतिषु श्रूयते ''सप्तदश सामिधेनीरनुब्रूयात्'' इति। तदेतत्सामिधेनीसाप्तदश्यं वैश्यस्य भवितुमर्हति। कुतः- प्रकृतौ ''सप्तदशानुब्रूयाद्वैश्यस्य'' इति वाक्येन साप्तदश्याङ्गभूतकर्तृतया वैश्यस्य विहितत्वात्। तस्मात्-साप्तदश्यद्वारा वैश्य एवाध्वरकल्पादिष्वधिक्रियते। इति प्राप्ते-

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य षष्ठः पादः
ब्रूमः- प्रकृतौ ''पञ्चदश सामिधेनीरन्वाह'' इति वर्णत्रयसाधारण्येन पाञ्चदश्यं विधाय वैश्यं निमित्तीकृत्य पाञ्चदश्यबाधकतया साप्तदश्यं विहितम्। ततः साप्तदश्यवाक्यस्य प्रकृतावेवान्वयसंभवान्न विकृतिषूत्कर्षः। यत्तु विकृतिगतं साप्तदश्यवाक्यं तद्वर्णत्रयसाधारणम्। तस्मात्- अध्वरकल्पादौ वर्णत्रयाधिकारः।। 11।। 12।।
अत्र पादे- अधिकरणानि 7, सूत्राणि 39। आदितः- अधिकरणानि 449, सूत्राणि 1210।
षष्ठाध्यायस्य सप्तमः पादः
पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- जुह्वादीनां साधारण्याधिकरणे सूत्राणि 33-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- 'यस्य जुह्वादयः स चेत्सत्रमध्ये म्रियेत, तदा मृतेन सह जुह्वादयो दह्यन्ते आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च दक्षिणहस्ते जुहूमासादयति' इत्यादिवचनैस्तदवगमात् पात्रदाहे चावशिष्टः सत्रप्रयोगो विगुणः स्यात् तस्मात्- साधारणा जुह्वादयः सत्रे संपादनीयाः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 6, Pāda 5 Contents Adhyāya 6, Pāda 7 →