6.5.1
प्रथमे- दर्शेऽभ्युदयेष्टौ नैमित्तिकदेवतापनयाधिकरणे सूत्राणि 1-9
SŪअभ्युदये कालापराधादिज्याचोदना स्यात्, यथापञ्चशरावे।। 1।।
SŪअपनयो वा विद्यमानत्वात्।। 2।।
SŪतद्रूपत्वाच्च शब्दानाम्।। 3।।
SŪआतञ्चनाभ्यासस्य दर्शनात्।। 4।।
SŪअपूर्वत्वाद्विधानं स्यात्।। 5।।
SŪपयोदोषात्पञ्चशरावेऽदुष्टं हीतरत्।। 6।।
SŪसांनाय्येऽपि तथेति चेत्। 7।।
SŪन तस्यादुष्टत्वादविशिष्टं हि कारणम्।। 8।।
SŪलक्षणार्थ शृतश्रुतिः।। 9।।
पञ्चमपादे प्रथमाधिकरणमारचयति-
1विषयः
इष्टिरभ्युदये दर्शात्कर्मान्यदुत देवताः
3पूर्वपक्षः
पूर्वास्त्याज्या विशिष्टस्य विधानादन्यकर्म तत्
दर्शपूर्णमासयोः श्रूयते ''यस्य हविर्निरूप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेत्। ये मध्यमाः स्युः, तानग्रये दात्रे पुरोडाशमष्टाकपालं कुर्यात्। ये स्थविष्ठाः, तानिन्द्राय प्रदात्रे दधंश्चरुम्। येऽणिष्ठाः, तान्विष्णवे शिपिविष्टाय शृते चरुम्'' इति। अयमर्थः- 'दर्शभ्रान्त्या चतुर्दश्यां केनचिद्धविर्निरूप्तं भवति। ततः प्रत्यूषे पूर्वस्यां दिशि चन्द्रमा अभ्युदेति तदा निरुप्तास्तण्डुलास्त्रेधा विभक्तव्याः। अखण्डिताः, ईषत्खण्डिताः, अतिसूक्ष्मकणाश्च, इति त्रैविध्यम्। ते त्रिविधा दात्रादिगुणविशिष्टेभ्योऽग्न्यादिदेवेभ्यः' इति। तत्र- इदं प्रक्रान्ताद्दर्शकर्मणोऽन्यत्कर्म। कुतः- कालापराधप्रायश्चित्तार्थं द्रव्यदेवतादिविशिष्टस्य कर्मणो विधीयमानत्वात्। तत इदं प्रायश्चित्तं कृत्वा परेद्युर्दर्शकर्म नानुष्ठेयम्- इति प्राप्ते-
4सिद्धान्तः
प्रकृतप्रत्यभिज्ञानान्न कर्मान्तरचोदना
देवताः प्रकृतास्त्यक्त्वा द्रव्यमन्याभ्य उच्यते
ब्रूमः- हविर्निरुप्तमिति प्रकृतं यद्दर्शकर्म तत्परित्यज्य कर्मान्तरविधिकल्पने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम्। अतस्तस्मिन्नेव प्रकृते कर्मणि निरुप्तहविषः पूर्वदेवताभ्यो दर्शसंबन्धिनीभ्योऽपनयोऽत्राभिधीयते। तण्डुलोपलक्षितं यद्धविर्दधिव्रीहिरूपं च पूर्वेद्युर्निरुप्तं तद्धविः पूर्वदेवतात्मनोरग्नेरिन्द्राच्च विभजेदिति देवताहविषोः परस्परविभागोऽत्र विधीयते। न तु तण्डुलानां स्थविष्ठमध्यमाणिष्ठरूपस्त्रिविधो विभागो विधीयते। तस्य प्राप्तत्वात्। 'ये मध्यमाः स्युः-' इत्यादिविनियोगभेदादर्थप्राप्तः स विभागः। ततः पूर्वदेवतास्त्यक्त्वा दातृत्वादिगुणविशिष्टाभ्योऽग्न्यादिदेवताभ्यः पूर्वं निरुप्तं हविः प्रदातव्यम्। ननु प्रतिपदि प्राप्तो निर्वापकालः, न तु दर्शे, तथा सति दर्शभ्रान्त्याऽपि चतुर्दश्यां निर्वापाभावादूर्ध्वं चन्द्रोदयो न प्राप्नोति। नैष दोषः। दघ्नो द्व्यहकालीनत्वेनार्थसिद्धे पूर्वेद्युर्दोहनातञ्चने। तदभिप्रायेण निरुप्तमित्युच्यते। यद्वा- व्रीहिनिर्वापोऽपि पूर्वेद्युर्विकल्पितः। तथा च श्रूयते ''यदि विभियादभिनोदेष्यतीति महापात्रे हवींषि निर्वपेत्'' इति। अयमर्थः- 'भ्रान्त्या प्रमाणेन वा दर्शोऽयमिति निश्चितवतश्चन्द्रोऽभ्युदेष्यतीति भीतिर्नास्ति, तदा तस्मिन्नेव दिने प्रौढपात्रे हवींषि सर्वाणि निर्वपेत्' इति। अतो निरुप्तस्यैव हविषस्तस्मिन्नेव कर्मणि कालव्यत्यासं निमित्तीकृत्य देवतान्तरसंयोगरूपः प्रयोगप्रकारभेद उपदिश्यते। ततो दर्शस्यैवायं नैमित्तिकः प्रयोगः, न तु दर्शलोपप्रायश्चित्तमिति नैमित्तिकं दर्शप्रयोगमनुष्ठाय पश्चात्स्वकाले नित्योऽपि दर्शप्रयोगोऽनुष्ठातव्यः।। 1।। 2।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- सांनाय्यरहितस्य शाखाहरणनिराकरणाधिकरणे सूत्राणि 43-47”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.2
द्वितीये- उपांशुयागेऽपि देवतापनयाधिकरणे सूत्रे 10-11
SŪउपांशुयागेऽवचनाद्यथाप्रकृति।। 10।।
SŪअपनयो वा प्रवृत्त्या यथेतरेषाम्।। 11।।
द्वितीयाधिकरणमारचयति-
1विषयः
देवत्यागस्तथोपांशावश्रुते देवतान्तरे
3पूर्वपक्षः
यागलोपोऽप्रसक्तत्वात्कृत्वाचिन्तेयमिष्यताम्
पूर्वोदाहृतवाक्ये यथा पुरोडाशे सांनाय्ये च हविषि पूर्वदेवतात्यागः, तथैवोपांशुयाजहविष्याज्ये पूर्वदेवतां त्यक्त्वा प्रयोगान्तरं कर्तव्यम्। इति चेत्-
4सिद्धान्तः
मैवम्
पुरोडाशसांनाय्ययोरिवाज्ये देवतान्तरस्याश्रवणात्
तस्मात्- पूर्वदेवतानां त्यक्तत्वादन्यदेवताया अश्रवणाच्च निर्देवक उपांशुयाजो लुप्यते
ननु- उपांशुयाजस्य दर्शे प्रसक्तिरेव नास्ति
तत्कुतो देवतापनयो लोपो वा- इति चेत्- एवं तर्हि कृत्वाचिन्ताऽस्तु
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- दर्शेऽभ्युदयेष्टौ नैमित्तिकदेवतापनयाधिकरणे सूत्राणि 1-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रकृतप्रत्यभिज्ञानान्न कर्मान्तरचोदना देवताः प्रकृतास्त्यक्त्वा द्रव्यमन्याभ्य उच्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.3
तृतीये- अनिरुप्तेऽप्यभ्युदयेष्ट्यधिकरणे सूत्राणि 12-15
SŪनिरुप्ते स्यात्तत्संयोगात्।। 12।।
SŪप्रवृत्ते वा प्रापणान्निमित्तस्य।। 13।।
SŪलक्षणमात्रमितरत्।। 14।।
SŪतथा चान्यार्थदर्शनम्।। 15।।
तृतीयाधिकरणमारचयति-
1विषयः
ऊर्ध्वं चन्द्रोदये सेष्टिर्निर्वापात्पूर्वमप्युत
3पूर्वपक्षः
उक्तेराद्योऽन्तिमः पक्षो निरुप्तेरविवक्षया
सा पूर्वोक्ताऽभ्युदयेष्टिर्हविर्निर्वापादूर्ध्वं चन्द्रोदये सति कर्तव्या। 'निरुप्तं हविरभ्युदेति' इत्युक्तत्वात्। इति चेत्-
4सिद्धान्तः
मैवम्
हविरभ्युदयस्य निमित्तत्वे तद्विशेषणस्य निर्वापस्याविवक्षितत्वात्
अन्यथा वाक्यभेदापत्तेः
'यच्च हविरभ्युदेति, तच्च हविर्यदि निरुप्तम्' इति वाक्यभेदः
तस्मात्- निर्वापात्प्रागपि चन्द्रोदये सत्यविहितकाले कर्मोपक्रममात्रेणेयमिष्टिः कर्तव्या
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- उपांशुयागेऽपि देवतापनयाधिकरणे सूत्रे 10-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् पुरोडाशसांनाय्ययोरिवाज्ये देवतान्तरस्याश्रवणात् तस्मात्- पूर्वदेवतानां त्यक्तत्वादन्यदेवताया अश्रवणाच्च निर्देवक उपांशुयाजो लुप्यते ननु- उपांशुयाजस्य दर्शे प्रसक्तिरेव नास्ति तत्कुतो देवतापनयो लोपो वा- इति चेत्- एवं तर्हि कृत्वाचिन्ताऽस्तु”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.4
चतुर्थे- अनिरुप्तेऽभ्युदये वैकृतीभ्यो निर्वापाधिकरणे सूत्रे 16-17
SŪअनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेदित्याश्मरथ्यस्तण्डुलभूतेष्वपनयात्।। 16।।
SŪव्यूर्ध्वभाग्भ्यस्त्वालेखनस्तत्कारित्वाद्देवतापनयस्य।। 17।।
चतुर्थाधिकरणमारचयति-
1विषयः
प्राक्प्राकृतीभ्यो निर्वापो वैकृतीभ्योऽपि वाऽग्रिमः
तण्डुलोक्तेर्वैकृतीभ्यो हविर्मात्रोपलक्षणात्
3पूर्वपक्षः
निर्वापात्प्राग्यदा चन्द्रोदयः, तदा चन्द्रोदयादूर्ध्वं क्रियमाणो निर्वापः प्राकृतीभ्यो देवताभ्यो युक्तः। कुतः- 'तण्डुलान्विभजेत्' इति वाक्येन तण्डुलभावादूर्ध्वं प्राकृतदेवतापनयश्रवणात्। निर्वापस्तु व्रीहीणामेवेति तस्मिन्काले प्राकृत्योऽग्न्यादिदेवता नापनीताः। इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- वैकृतीभ्यो दातृत्वादिगुणयुक्ताभ्योऽग्न्यादिदेवताभ्यो निर्वापः कर्तव्यः। कुतः- तण्डुलशब्देन हविर्मात्रस्योपलक्षणात्। अन्यथा दधिपयसोरतण्डुलत्वेन देवतापनयो न स्यात्। हविर्मात्रविवक्षायां तु व्रीहीणामपि हविष्ट्वेन प्राकृतदेवतासंबन्धमपनीय देवतान्तरसंबन्धस्य कर्तुं युक्तत्वाद्वैकृतीभ्यो निर्वपेत्।। 5।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- अनिरुप्तेऽप्यभ्युदयेष्ट्यधिकरणे सूत्राणि 12-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् हविरभ्युदयस्य निमित्तत्वे तद्विशेषणस्य निर्वापस्याविवक्षितत्वात् अन्यथा वाक्यभेदापत्तेः 'यच्च हविरभ्युदेति, तच्च हविर्यदि निरुप्तम्' इति वाक्यभेदः तस्मात्- निर्वापात्प्रागपि चन्द्रोदये सत्यविहितकाले कर्मोपक्रममात्रेणेयमिष्टिः कर्तव्या”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.5
पञ्चमे किंचिन्निरुप्तेऽभ्युदयेऽवशिष्टस्य तूष्णीं निर्वापाधिकरणे सूत्राणि 18-20
SŪविनिरुप्ते न मुष्टीनामपनयस्तद्गुणत्वात्।। 18।।
SŪअप्राकृतेन हि संयोगस्तत्स्थानीयत्वात्।। 19।।
SŪअभावाच्चेतरस्य स्यात्।। 20।।
पञ्चमाधिकरणमारचयति-
1विषयः
प्राकृतीभ्योऽल्पनिर्वापेऽभ्युदये शिष्टतण्डुलान्
3पूर्वपक्षः
प्राकृतीभ्यो वैकृतीभ्यस्तूष्णीं वा निर्वपेदिह
यदा प्राकृतीभ्यो मुष्टिमात्रे निरुप्ते सति चन्द्रोऽभ्युदेति, तदा मुष्टित्रयरूपोऽवशिष्टोंऽशः प्राकृतीभ्य एव निर्वप्तव्यः। कुतः- प्राकृतीनां प्रवृत्तत्वात्। इत्येकः पक्षः।
चन्द्रोदये निमित्ते सति नैमित्तिकस्य पूर्वदेवतापनयस्यावश्यंभावाद्वैकृतीभ्योऽवशिष्टांशनिर्वापः। इति द्वितीयः पक्षः।
अस्तु प्राकृतदेवतापनयो निमित्ताधीनः। अन्यदेवतासंयोगस्त्वंशस्य न संभवति। अन्याश्च देवताः प्राकृतदेवतास्थाने निवेशनीयाः। प्राकृतदेवतानां च निर्वापपदार्थेन संयोगः क्लृप्तः, न तु पदार्थांशेन। ततस्तत्स्थानपतितानां वैकृतीनां च नांशसंयोगो युक्त इत्यल्पांशस्य प्राकृतीभ्योऽपनीतत्वाद्वैकृतीभिरसंयोगाच्च तूष्णीमेव निर्वाप इति राद्धान्तः।। 6।। 7।।
4सिद्धान्तः
प्राकृतीभ्यः प्रवृत्तत्वाद्वैकृतीभ्यो निमित्ततः
शिष्टांशस्यापदार्थत्वादसंयोगादिहान्तिमः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- अनिरुप्तेऽभ्युदये वैकृतीभ्यो निर्वापाधिकरणे सूत्रे 16-17”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.6
षष्ठे- संनयदसंनयदुभयस्यैवाभ्युदये प्रायश्चित्ताधिकरणे सूत्राणि 21-24
SŪसांनाय्यसंयोगान्नासंनयतः स्यात्।। 21।।
SŪऔषधसंयोगाद्वोभयोः।। 22।।
SŪवैगुण्यान्नेतिचेत्। 23।।
SŪनातत्संस्कारत्वात्।। 24।।
षष्ठाधिकरणमारचयति-
1विषयः
सेष्टिः सांनाय्यिनो वा स्यादन्यस्यापि दधिश्रुतेः
3पूर्वपक्षः
नान्यस्येत्यग्रिमोऽन्त्यः स्याद्देवमात्रविधानतः
न हि सांनाय्यरहितस्य दधिपयसी विद्येते। तदभावे च 'दधनि चरुम्, शृते चरुम्' इति विधिर्न संगच्छते। तस्मात्- सांनाय्यिन एव सा पूर्वोक्ताऽभ्युदयेष्टिः। इति चेत्-
4सिद्धान्तः
मैवम्
अप्राप्ता देवता एवात्र विधीयन्ते
दधिपयसोरपि विधाने वाक्यं भिद्येत
ततः- तण्डुलवत्प्राप्तयोर्दधिपयसोरनूद्यमानतया विध्यभावात्, उदके चरुश्रपणसंभवाच्च, सांनाय्यिवदन्यस्यापि सेष्टिरस्ति
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे किंचिन्निरुप्तेऽभ्युदयेऽवशिष्टस्य तूष्णीं निर्वापाधिकरणे सूत्राणि 18-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्राकृतीभ्यः प्रवृत्तत्वाद्वैकृतीभ्यो निमित्ततः शिष्टांशस्यापदार्थत्वादसंयोगादिहान्तिमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.7
सप्तमे- सत्राय प्रवृत्तमात्रस्य विश्वजिदधिकरणे सूत्राणि 25-27
SŪसाम्युत्थाने विश्वजित्क्रीते विभागसंयोगात्।। 25।।
SŪप्रवृत्ते वा प्रापणान्निमित्तस्य।। 26।।
SŪआदेशार्थेतरा श्रुतिः।। 27।।
सप्तमाधिकरणमारचयति-
1विषयः
सत्राय दीक्षितानां चेत्साम्युत्थानाभिवाञ्छनम्
यजेद्विश्वजिता क्रीते राजन्ये तत्पुराऽपि वा
3पूर्वपक्षः
आद्यः सोमविभागोक्तेरक्रीते तदसंभवात्
अर्थप्राप्तविभागस्यानुवादादन्तिमो भवेत्
इदमाम्नायते- ''यदि सत्राय दीक्षितानां साम्युत्तिष्ठासेत्, सोमं विभज्य विश्वजिता यजेत'' इति। 'सत्रिणां मध्ये यः कोऽपि सत्रैकदेशमनुष्ठाय सत्रं परित्यज्य यदि गन्तुमिच्छेत्, तदा स्वकीयं सोमं विभज्य तेन सोमेन विश्वाजिद्यागं कुर्यात्' इत्यर्थः। तदेतद्विश्वजिदनुष्ठानं सोमे क्रीते सति पश्चादुत्तिष्ठासया भवति, न तु पूर्वम्। कुतः- उच्यमानस्य सोमविभागस्य सोमक्रयात्पूर्वमसंभवात्। इति चेत्-
4सिद्धान्तः
मैवम्
नात्र सोमविभागोऽङ्गत्वेन विधीयते, किंतु क्रीतराजकस्य द्रव्यान्तरविभागवद्रागप्राप्तोऽनूद्यते
सोमग्रहणं तु प्रदर्शनार्थम्
तस्मात्- उत्तिष्ठासां निमित्तीकृत्य विश्वजिन्मात्रस्य विधानात्सोमक्रयात्प्रागप्युत्तिष्ठासोर्विश्वजिद्भवति।
9
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- संनयदसंनयदुभयस्यैवाभ्युदये प्रायश्चित्ताधिकरणे सूत्राणि 21-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अप्राप्ता देवता एवात्र विधीयन्ते दधिपयसोरपि विधाने वाक्यं भिद्येत ततः- तण्डुलवत्प्राप्तयोर्दधिपयसोरनूद्यमानतया विध्यभावात्, उदके चरुश्रपणसंभवाच्च, सांनाय्यिवदन्यस्यापि सेष्टिरस्ति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.8
अष्टमे- ज्योतिष्टोमे दीक्षापरिमाणानां वैकल्पिकत्वाधिकरणे सूत्रम्
SŪदीक्षापरिमाणे यथाकाम्यविशेषात्।। 28।।
अष्टमाधिकरणमारचयति-
1विषयः
ज्योतिष्टोमे द्वादश स्युर्दीक्षा एकादयोऽथवा
3पूर्वपक्षः
स्याद्भृतेर्वननादाद्यः प्रत्यक्षश्रुतितोऽन्तिमः
ज्योतिष्टोमप्रकरणे दीक्षापक्षाः श्रूयन्ते। तान्कल्पसूत्रकार उदाजहार- ''एकादीक्षा, तिस्त्र उपसदः, पञ्चमीं प्रसुतः। तिस्त्रो वा दीक्षाः, तिस्त्र उपसदः, सप्तमीं प्रसुतः। चतुस्त्रो दीक्षाः, तिस्त्र उपसदः, अष्टमीं प्रसुतः'' इति। तथाऽन्यदपि श्रुतम्- ''द्वादश दीक्षाः'' इति। 'दीक्षणीयेष्ट्या संपन्नः संस्कारो दीक्षा। सा चैकस्मिन्दिनेऽनुष्ठानादेका भवति। तदूर्ध्वं त्रिषु दिनेषूपसन्नामका होमाः। पञ्चमे दिने सोमयागः। एवं हि त्रिषु चतुर्षु द्वादशसु वा दिनेषु दीक्षाधर्मा वाङ्नियमादयोऽनुवर्तनीयाः' इत्यर्थः। तत्र ज्योतिष्टोमे द्वादशदीक्षापक्ष उपादेयः। कुतः- ''द्वादशरात्रीर्दीक्षितो भृतिं वन्वीत'' इति श्रवणात्। यज्ञार्थं याच्ञया द्रव्यसंपादनं भृतिवननम्। तच्च नित्यम्। तत्संयोगेन द्वादशत्वपक्षोऽपि नित्यः। एकादिपक्षाणां तु विकृतिषूत्कर्षः। इति भाष्यकारस्य मतम्।
4सिद्धान्तः
तदेतत्पूर्वपक्षीकृत्य वार्तिककारेणैवं सिद्धान्तः कृतः- ''दीक्षितो भृतिं वन्वीत'' इत्येतावदेवात्र विधीयते
'द्वादश' इत्युक्तिस्तु प्रदर्शनार्था
एवं च सति प्रत्यक्षश्रुतिसिद्धा एकादिपक्षा अबाधिता भविष्यन्ति
तस्मात्- सर्वे पक्षा ज्योतिष्ठोमे विकल्पिताः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- सत्राय प्रवृत्तमात्रस्य विश्वजिदधिकरणे सूत्राणि 25-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् नात्र सोमविभागोऽङ्गत्वेन विधीयते, किंतु क्रीतराजकस्य द्रव्यान्तरविभागवद्रागप्राप्तोऽनूद्यते सोमग्रहणं तु प्रदर्शनार्थम् तस्मात्- उत्तिष्ठासां निमित्तीकृत्य विश्वजिन्मात्रस्य विधानात्सोमक्रयात्प्रागप्युत्तिष्ठासोर्विश्वजिद्भवति। 9”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.9
नवमे- द्वादशाहे दीक्षापरिमाणनियमाधिकरणे सूत्रम्
SŪद्वादशाहस्तु लिङ्गात्स्यात्।। 29।।
नवमाधिकरणमारचयति-
1विषयः
द्वादशाहे किमेकादिविकल्पा द्वादशैव वा
आद्यः प्रकृतिवत्षण्णां द्विकानामुक्तितोऽन्तिमः
3पूर्वपक्षः
द्वादशाहस्य ज्योतिष्टोमविकृतित्वादेकादिदीक्षापक्षा द्वादशाहे विकल्पिताः। इति चेत्-
मैवम्। ''अभीन्धत एव दीक्षाभिः'' इति श्रुतस्य दीक्षाबहुत्वस्य वाक्यशेषेण द्वादशसंख्यायां पर्यवसानात्। तथा च षट्संख्याकानि द्विकानि श्रूयन्ते- ''द्वाभ्यां लोमावद्यति, द्वाभ्यां त्वचम्, द्वाभ्यामसृक्, द्वाभ्यां मांसम्, द्वाभ्यामस्थि, द्वाभ्यां मज्जानम्'' इति। किंच- ''षट्त्रिंशदहो वा एषः, यद्द्वादशाहः'' इत्याम्नातम्। तत्र- ''उपसदो द्वादश, सुत्या द्वादश'' इत्येतदविवादम्। तथा सति- दीक्षाणां द्वादशत्वमन्तरेण षट्त्रिंशत्संख्या न पूर्यते। तस्मात्- द्वादशाहे द्वादशैव दीक्षा नियताः।। 12।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- ज्योतिष्टोमे दीक्षापरिमाणानां वैकल्पिकत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तदेतत्पूर्वपक्षीकृत्य वार्तिककारेणैवं सिद्धान्तः कृतः- ''दीक्षितो भृतिं वन्वीत'' इत्येतावदेवात्र विधीयते 'द्वादश' इत्युक्तिस्तु प्रदर्शनार्था एवं च सति प्रत्यक्षश्रुतिसिद्धा एकादिपक्षा अबाधिता भविष्यन्ति तस्मात्- सर्वे पक्षा ज्योतिष्ठोमे विकल्पिताः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.10
दशमे- गवामयने माघपौर्णमास्याः पुरस्ताद्दीक्षाधिकरणे सूत्राणि 30-37
SŪपौर्णमास्यामनियमोऽविशेषात्।। 30।।
SŪआनन्तर्यात्तु चैत्री स्यात्।। 31।।
SŪमाघी वैकाष्टका श्रुतेः।। 32।।
SŪअन्या अपीति चेत्। 33।।
SŪन भक्तित्वादेषा हि लोके।। 34।।
SŪदीक्षापराधे चानुग्रहात्।। 35।।
SŪउत्थाने चानुप्ररोहात्।। 36।।
SŪअस्यां च सर्वलिङ्गानि।। 37।।
दशमाधिकरणमारचयति-
1विषयः
गवानयन उक्ता तु याकाचित्पूर्णिमाऽथवा
3पूर्वपक्षः
चैत्री माघ्युत काचित्स्यादविशेषात्प्रशंसया
गवामयने श्रूयते ''चतुरहे पुरस्तात् पौर्णमास्यै दीक्षेरन्। तेषामेकाष्टकायां क्रयः सम्पद्यते'' इति। 'पौर्णमास्याः पूर्वस्मिंश्चतुरहे दीक्षेरन्- एकादश्यां दीक्षामारभेत। तथा सति पौर्णमास्या उपरितने सप्तमीदिने द्वादश दीक्षाः पूर्यन्ते। तत उपरितन्यामष्टम्यां सोमक्रय' इत्यर्थः। तत्र विशेषस्यानुक्तत्वाद्या काचित्पूर्णिमेत्येकः पक्षः।
''चित्रापूर्णामासे दीक्षेरन्। मुखं वा एतत्संवत्सरस्य, यच्चित्रापूर्णमासः'' इति प्रशस्यमानतया चैत्री पौर्णमासीति द्वितीयः पक्षः।
याज्ञिकसमाख्यया माघकृष्णाष्टम्या एकाष्टकात्वात्तत्र सोमक्रयसम्पत्तये माघ्याः पौर्णमास्याः पूर्वस्यामेकादश्यां दीक्षारब्धव्या।
4सिद्धान्तः
चैत्री स्यात्क्रय एकाष्टकायामित्युपवर्णितम्
माघकृष्णाष्टमी त्वेकाऽष्टकातो माघपूर्णिमा
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- द्वादशाहे दीक्षापरिमाणनियमाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.11
एकादशे दीक्षोत्कर्षे तन्नियमानामप्युत्कर्षाधिकरणे सूत्रे 38-39
SŪदीक्षाकालस्य शिष्टत्वादतिक्रमे नियतानामनुत्कर्षः प्राप्तकालत्वात्।। 38।।
SŪउत्कर्षो वादीक्षितत्वादविशिष्टं हि कारणम्।। 39।।
एकादशाधिकरणमारचयति-
1विषयः
कृतोऽप्यवभृथोत्कर्षे जुहुयादग्निहोत्रकम्
न वाद्योप्रतिषिद्धत्वान्मैवं दीक्षानुवर्त्तनात्
3पूर्वपक्षः
ज्योतिष्टोमे दीक्षोपक्रमदिनमारभ्य पञ्चमे सप्तमेष्टमे वा दिने सुत्या भवति। तस्मिन्सुत्यादिने त्रिषु सवनेष्वनुष्ठितेष्ववभृथः कर्त्तव्यः। तस्मिन्कृते दीक्षानियमा निवर्त्तन्ते। तथा सति कदाचिद्दैवान्मानुषाद्वा विघ्नादवभृथस्य केषुचिद्दिनेषूतकर्षो भवति। तेषु दिनेषु दीक्षितनियमा न सन्ति। कुतः- नियमावधेरवभृथकालस्य श्रुत्युक्तस्यातिक्रान्तत्वात्। ते च नियमा एवमाम्नायन्ते। ''दीक्षितो न ददाति न पचति न जुहोति'' इति। तेषां नियमानामभावे प्रागप्यवभृथाद्दानहोमादयः कार्य्याः- इति प्राप्ते-
4सिद्धान्तः
ब्रूमः। दीक्षामोचनस्यावभृथः साधनम्, न तु कालः। अतोऽवभृथकालेऽतिक्रान्तेऽपि यावदवभृथं दीक्षानुवर्त्तत इत्यवभृथोत्कर्षे दीक्षितधर्माणां निषेधानामप्युत्कर्षाद्दानहोमादयस्तेषु न कार्याः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- गवामयने माघपौर्णमास्याः पुरस्ताद्दीक्षाधिकरणे सूत्राणि 30-37”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “चैत्री स्यात्क्रय एकाष्टकायामित्युपवर्णितम् माघकृष्णाष्टमी त्वेकाऽष्टकातो माघपूर्णिमा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.12
द्वादशे दीक्षानुवृत्तौ प्रतिहोमनिराकरणाधिकरणे सूत्रे 40-41
SŪतत्र प्रतिहोमो न विद्यते तथा पूर्वेषाम्।। 40।।
SŪकालप्राधान्याच्च।। 41।।
द्वादशाधिकरणमारचयति-
1विषयः
दीक्षानुवृत्तौ कर्त्तव्यः प्रतिहोमो न वाग्रिमः
पुंदोषान्न तथाप्यस्य दीक्षायां शास्त्रवारणात्
3पूर्वपक्षः
अवभृथोत्कर्षे दीक्षानुवृत्तौ यावत्सु दिनेष्वग्निहोत्रं न हुतम्, तावत्कालीनापराधपरिहाराय प्रतिहोमः कर्त्तव्यः। यथा सायंकालौने प्रातःकालीने वा होमे पुरुषापराधातिपतिते कालान्तरे होमः क्रियते, तद्वत्। अस्ति ह्यत्र पुरुषापराधः, अवभृथोत्कर्षस्य तत्कृतत्वात्। न खल्ववभृथोत्कर्षः शास्त्रेण विहितः। तस्मात् प्रतिहोमः कार्यः- इति प्राप्ते-
4सिद्धान्तः
ब्रूमः। भवत्ववभृथोत्कर्षोऽपराधकृतः। तथापि दीक्षायामनुवृत्तायाम् 'दीक्षितो न ददाति' इत्यादिशास्त्रेणैव होमो निवारित इति नास्ति होमकर्त्तव्यता। सायंकालीनादिहोमस्य तु कर्त्तव्यस्यैव सतोऽकरणात्प्रतिहोमः प्राप्नोतीति वैषम्यम्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे दीक्षोत्कर्षे तन्नियमानामप्युत्कर्षाधिकरणे सूत्रे 38-39”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.13
त्रयोदशे- उदवसानीयोत्कर्षेपि प्रतिहोमनिराकरणाधिकरणे सूत्रम्
SŪप्रतिषेधाच्चोर्ध्वमवभृतादिष्टेः।। 42।।
त्रयोदशाधिकरणमारचयति-
1विषयः
दैवादुदवसानीयोत्कर्षे होमे कृतिर्न वा
कृतिर्दीक्षोत्मोचनान्नो पुनराधेयसम्मितेः
3पूर्वपक्षः
कृतेऽवभृथे पश्चादुदवसानीयेष्टिर्विहिता। सा यदि केनापि निमित्तेनोत्कृष्टा, तदानीमवभृथेन दीक्षाया उन्मुक्तत्वात् 'दीक्षितो न ददाति' इत्यादिनिषेधाभावाद्धोमः कर्त्तव्यः। तदकरणे च प्रतिहोमः कर्तव्यः- इति चेत्-
मैवम्। ''एतया पुनराधेयसम्मितयेष्ट्वाग्निहोत्रं जुहुयात्'' इति वचनेनोदवसानीयायां कृतायां पश्चादग्निहोत्राधिकारप्रतिपादनात्। अतः- तदुत्कर्षेऽग्निहोत्रं प्रतिहोमं वा न कुर्यात्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे दीक्षानुवृत्तौ प्रतिहोमनिराकरणाधिकरणे सूत्रे 40-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.14
चतुर्दशे- प्रतिहोमे सायमग्निहोत्रप्रभृत्यारम्भाधिकरणे सूत्रे 43-44
SŪप्रतिहोमश्चेत्सायमग्निहेत्रप्रभृतीनि हूयेरन्।। 43।।
SŪप्रातस्तु षोडशिनि।। 44।।
चतुर्दशाधिकरणमारचयति-
1विषयः
कृत्वाचिन्ताक्रमो नो चेत्प्रतिहोमेऽतिपातिनः
क्रमोऽस्त्वग्निष्टोमकादौ सायं षोडशिनीतरः
3पूर्वपक्षः
अवभृथोदवसानीययोरुत्कर्षे होमकर्त्तव्यताम्, तदकरणे प्रतिहोमं वाभ्युपेत्य कृत्वाचिन्ता क्रियते। अवभृथोदवसानीययोरिष्ट्योरनुष्ठितयोः सत्योः पूर्वमतिपन्नानां होमानां प्रतिहोमानां प्रतिहोमा युगपद्बहवः प्राप्ताः। तेषु नियामकाभावान्नास्ति नियतः क्रमः- इति पूर्वपक्षः।
अतिपत्तिक्रमस्य बुद्धिस्थस्य त्यागे कारणाभावात्प्रतिहोमेऽपि स एव क्रमः- इति राद्धान्तः।
तत्र- अग्निष्टोमस्य सूर्यास्तमयात्प्रागेव समाप्तत्वात्सायंहोमः प्रथममतिपद्यते। षोडशिनस्तु रात्रौ समाप्तेः प्रातर्होमः प्रथममतिपद्यते। तस्मात्-अनेनैव क्रमेण प्रतिहोमं कुर्यात्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- उदवसानीयोत्कर्षेपि प्रतिहोमनिराकरणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.15
पञ्चदशे- भेदनादिनिमित्तकहोमस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्राणि 45-47
SŪप्रायश्चित्तमधिकारे सर्वत्र दोषसामान्यात्।। 45।।
SŪप्रकरणे वा शब्दहेतुत्वात्।। 46।।
SŪअतद्विकारश्च।। 47।।
पञ्चदशाधिकरणमारचयति-
1विषयः
भिन्ने होमो यत्र तत्र प्रकृते वा निमित्ततः
सर्वत्र स्यात्फलित्वाय प्रकृतेनैकवाक्यता
3पूर्वपक्षः
दर्शपूर्णमासयोः श्रूयते ''भिन्ने जुहोति। स्कन्ने जुहोति'' इति। तत्र पात्रभेदस्कन्दनयोर्होमनिमित्तत्वात् क्रत्वन्तरेषु लोकव्यवहारे वा यत्र यत्र निमित्तं सम्पद्यते, तत्र सर्वत्र होतव्यमिति चेत्-
मैवम्। फलकल्पनाप्रसङ्गात्। प्रकृतेन तु दर्शपूर्णमासकर्मणा सहैकवाक्यतायां तत्फलेनैव फलवत्त्वं सिध्यति। तस्मात्- दर्शपूर्णमासयोरुक्तनिमित्तेन क्रियमाणो होमस्तदङ्गम्, न तु गृहदाहेष्टिवत्स्वतन्त्रं कर्म।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- प्रतिहोमे सायमग्निहोत्रप्रभृत्यारम्भाधिकरणे सूत्रे 43-44”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.16
षोडशे- व्यापन्नशब्दार्थनिर्णयाधिकरणे सूत्रम्
SŪव्यापन्नस्याप्सु गतौ यदभोज्यमार्याणां तत्प्रतीयते।। 48।।
षोडशाधिकरणमारचयति-
1विषयः
व्यापन्नमप्सु किं तत्स्यादनिश्चेयमहेतुतः
आर्याभोज्यं केशकीटदूषितं तत्प्रसिद्धितः
3पूर्वपक्षः
इदमाम्नायते ''व्यापन्नमप्सु हरन्ति'' इति। तत्र व्यापन्नशब्दस्यार्थो निश्चेतुमशक्यः, शक्यो वा इति संशये निश्चायकस्य हेतोरभावादशक्यः- इति चेत्-
मैवम्। केशकीटादिभिर्दूषितं यद्द्रव्यमार्य्यैरभोज्यं, तदेवात्र प्रसिद्धबलात् 'व्यापन्नम्' इति निश्चेतुं शक्यते।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- भेदनादिनिमित्तकहोमस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्राणि 45-47”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.17
सप्तदशे- अपच्छेदयौगपद्येपि प्रायश्चित्ताधिकरणे सूत्रे 49-50
SŪविभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते।। 49।।
SŪस्याद्वा प्रतिनिमित्तत्वात्कालमात्रमेकम्।। 50।।
सप्तदशाधिकरणमारचयति-
1विषयः
उद्गातुः प्रतिहर्तुश्च सहापच्छेदनेऽस्ति न
3पूर्वपक्षः
प्रायश्चित्तमुतास्त्यत्र, न निमित्तविघाततः
ज्योतिष्टोमे श्रूयते ''यद्युद्गातापच्छिद्येतादक्षिणो यज्ञः संस्थाप्यः अथान्य आहृत्यस्तत्र तद्दद्यात्, यत्पूर्वस्मिन्दास्यन्स्यात्। यदि प्रतिहर्त्तापच्छिद्येत सर्वस्वं दद्यात्'' इति। अस्यायमर्थः- 'प्रातःसवने बहिष्पवमानेन स्तोष्यमाणा ऋत्विजः शालाया बहिः प्रसर्पन्ति, तदानीम् 'एकस्य पृष्ठतोऽन्यः' इत्येवं पिपीलिकावत्पङ्क्त्याकारेण गन्तव्यम्। तत्र पुरतो गन्तुः कच्छं गृहीत्वैव पृष्ठतोऽन्यो गच्छेत्। एवं सति यदि प्रमादादुद्गाता गृहीतं कच्छं मुञ्चेत्, तदा दक्षिणामदत्त्वा प्रक्रान्तो यज्ञः समापनीयः। तं समाप्य पुनरपि स यज्ञः प्रयोक्तव्यः। तस्मिन् प्रयोगे पूर्वं यद्दित्सितं द्रव्यम्, तद्दद्यात्। यदा प्रतिहर्त्ता मुञ्चेत्, तदा तस्मिन्नेव प्रयोगे सर्वस्वं दद्यात्' इति। तत्र यद्युद्गातृप्रतिहर्तारौ युगपन्मुञ्चेताम्, तदानीमुक्तं प्रायश्चित्तनिमित्तं विहन्येत। एककर्तृको ह्यपच्छेदो निमित्तत्वेन श्रुतः। अयं तूभयकर्तृकत्वान्नैकेन व्यपदेष्टुं शक्यते। तस्मात्- श्रूयमाणस्य निमित्तस्य विहतत्वान्नास्ति प्रायश्चित्तमिति प्राप्ते-
4सिद्धान्तः
एकैकस्यैव विच्छेदकर्तृत्वान्न विहन्यते
कालमात्रं तु तत्रैकं प्रायश्चित्तमतो भवेत्
ब्रूमः। द्वौ ह्यत्रापच्छेदौ, तयोरेकैकस्यैकैक एव कर्त्तेति निमित्तस्य नास्ति विघातः। कालमात्रैक्यादेकापच्छेदभ्रान्तिः। तस्मात्- निमित्तविघाताभावादस्ति प्रायश्चित्तम्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- व्यापन्नशब्दार्थनिर्णयाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.18
अष्टादशे- यौगपद्येदाक्षिण्यसर्वस्वदाक्षिण्यविकल्पाधिकरणे सूत्राणि 51-53
SŪतत्र प्रतिषेधाद्विकल्पः स्यात्।। 51।।
SŪप्रयोगान्तरे वोभयानुग्रहः स्यात्।। 52।।
SŪन चैकसंयोगात्।। 53।।
अष्टादशाधिकरणमारचयति-
1विषयः
समुच्चयो विकल्पो वा प्रायश्चित्तद्वयेऽग्रिमः
3पूर्वपक्षः
अदक्षिणत्वं पूर्वस्मिन्प्रयोगेऽन्यत्तु पश्चिमे
अदक्षिणत्वं सर्वस्वदक्षिणत्वं चेति यत्प्रायश्चित्तद्वयं निमित्तभेदेन श्रुतम्। तन्निमित्तद्वयसन्निपाते समुच्चेतव्यम्। यद्यदक्षिणत्वसर्वस्वदानयोरन्योन्यविरोधः, तर्हि प्रयोगभेदेन व्यवस्थापनीयम्। अपच्छेदयुक्ते प्रथमप्रयोगे दक्षिणा न दातव्या, उत्तरप्रयोगे सर्वस्वं दातव्यम्। सत्यपि प्रयोगभेदे कर्मण एकत्वात्समुच्चयः। इति प्राप्ते-
4सिद्धान्तः
प्रयोगे पश्चिमे नास्ति निमित्तं तेन तद्द्वयम्
प्राप्तमेकप्रयोगेऽतो विरुद्धत्वाद्विकल्प्यते
ब्रूमः। न ह्युत्तरप्रयोगेऽपच्छेदो विद्यते। न चासति निमित्ते प्रायश्चित्तं युक्तम्। तस्मात्- प्रथमप्रयोग एव निमित्तद्वयवशात्प्रायश्चित्तं प्राप्तम्। तच्चान्योन्यविरुद्धत्वाद्विकल्प्यते।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- अपच्छेदयौगपद्येपि प्रायश्चित्ताधिकरणे सूत्रे 49-50”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एकैकस्यैव विच्छेदकर्तृत्वान्न विहन्यते कालमात्रं तु तत्रैकं प्रायश्चित्तमतो भवेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.19
एकोनविंशे- आनुपूर्व्येणापच्छेद उत्तरापच्छेदनिमित्तप्रायश्चित्तानुष्ठानाधिकरणे सूत्रम्
SŪपौर्वापर्ये पूर्वदौर्वल्यं प्रकृतिवत्।। 54।।
एकोनविंशाधिकरणमारचयति-
1विषयः
अपच्छेदक्रमे पूर्वः प्रबलः स्यादुतोत्तरः
3पूर्वपक्षः
असञ्जातविरोधेन पूर्वेणोत्तरबाधनम्
उदातृप्रतिहर्तृकृतयोरपच्छेदयोर्यौगपद्ये समानबलत्वादस्तु प्रायश्चित्तयोर्विकल्पः। यदा तु क्रमेणापच्छेदौ स्याताम्, तदानीमसञ्जातविरोधित्वेन पूर्वस्य प्रबलत्वाच्छ्रुतिलिङ्गादाविवोत्तरस्य प्रवृत्तिर्निरुध्यते। इति चेत्-
मैवम्। श्रुतिलिङ्गादावुत्तरस्य पूर्वसापेक्षत्वात्पूर्वेण निरोधे सत्युत्तरस्योत्पत्तिरेव नास्ति। इह तु ज्ञानद्वयमन्योन्यनिरपेक्षं वाक्यद्वयादुत्पद्यत इति नास्त्युत्पत्तिप्रतिबन्धः। उत्पद्यमानं चोत्तरज्ञानं स्वविरुद्धस्य पूर्वज्ञानस्य बाधेनैवोत्पद्यते।
ननु निरपेक्षत्वस्य समानत्वात्पूर्वज्ञानमेवोत्तरस्य बाधकमस्त्विति चेत्-
न। पूर्वज्ञानोत्पत्तिदशायामविद्यमानस्योत्तरज्ञानस्य बाध्यत्वायोगात्। उत्तरकाले तु स्वयं बाधितं पूर्वज्ञानं कथमुत्तरस्य बाधकं भवेत्। न वान्यत्किञ्चिदुत्तरस्य बाधकं पश्यामः। तस्मात् उत्तरकालीनापच्छेदनिमित्तं प्रायश्चित्तमनुष्ठेयम्।
4सिद्धान्तः
निरपेक्षोत्तरज्ञानं जायते पूर्वबाधया
न बाधकान्तरं तस्य तेन प्रबलमुत्तरम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- यौगपद्येदाक्षिण्यसर्वस्वदाक्षिण्यविकल्पाधिकरणे सूत्राणि 51-53”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रयोगे पश्चिमे नास्ति निमित्तं तेन तद्द्वयम् प्राप्तमेकप्रयोगेऽतो विरुद्धत्वाद्विकल्प्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.20
विंशे- उद्गात्रुत्तरापच्छेदेपि सर्वस्वदक्षिणादानाधिकरणे सूत्रम्
SŪयद्युद्गाता जघन्यः स्यात्पुनर्यज्ञेसर्ववेदसं दद्याद्यतेतरस्मिन्।। 55।।
विंशाधिकरणमारचयति-
1विषयः
उद्गातुः पश्चिमच्छेदे पुनर्यागस्य दक्षिणा
शतं द्वादशयुक्तं स्याद्यदि वा सर्ववेदसम्
3पूर्वपक्षः
तद्दद्याद्यत्पुरा दित्सुरित्युक्तेः शतदक्षिणा
प्रतिहर्तुः पुरा छेदात्सर्ववेदसबाधितम्
यद्युद्गाता पश्चादपच्छिद्यते, तदा तस्यापच्छेदस्य प्रबलत्वात्तन्निमित्तं प्रायश्चित्तमनुष्ठेयम्। तच्च प्रायश्चित्तमीदृशम् 'प्रथमप्रयोगं दक्षिणारहितमनुष्ठाय द्वितीयप्रयोगे पूर्वं दित्सिता दक्षिणा दातव्या' इति। पूर्वं च गवां द्वादशाधिकं शतं दित्सितम्। तस्य ज्योतिष्टोमदक्षिणारूपेण विहितत्वात्। तस्मात्- 'उत्तरप्रयोगे द्वादशशतं देयम्' इति प्राप्ते-
4सिद्धान्तः
शतदानं पूर्वयागे सर्ववेदसदित्सुता
प्राप्तेत्यूर्ध्वं प्रयोगे तद्दातव्यं सर्ववेदसम्
ब्रूमः। प्रतिहर्त्तुः प्रथममपच्छ्रेदे सति तन्निमित्तकं सर्वस्वदानरूपं प्रायश्चित्तं प्रथमप्रयोगे प्राप्तम्। तेन च क्रतुस्वभावप्रयुक्तस्य द्वादशशतस्य बाधात्सर्वस्वं दित्सितम्। न चोद्गात्रपच्छेदेन पश्चाद्भाविना सर्वस्वदित्सा प्रबाध्यते- इति शङ्कनीयम्, बाधकस्य दक्षिणान्तरस्य तत्रानुक्तत्वात्। यद्दित्सितम्, तदुत्तरप्रयोगे देयमित्येतावदेव तत्रोच्यते। दित्सितं च सर्वस्वमित्युक्तम्। अत उत्तरकालीनोद्गात्रपच्छेदनिमित्तेऽपि पुनःप्रयोगे पूर्वकालीनप्रतिहर्त्रपच्छेदप्रयुक्तं सर्वस्वमेव दातव्यम्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- आनुपूर्व्येणापच्छेद उत्तरापच्छेदनिमित्तप्रायश्चित्तानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “निरपेक्षोत्तरज्ञानं जायते पूर्वबाधया न बाधकान्तरं तस्य तेन प्रबलमुत्तरम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.5.21
एकविंशे- अहर्गणेपच्छेदे सर्वावृत्तिनिराकरणाधिकरणे सूत्रम्
SŪअहर्गणे यस्मिन्नपच्छेदस्तदावर्तेन कर्मपृथक्त्वात्।। 56।।
एकविंशाधिकरणमारचयति-
1विषयः
अहर्गणे चेदुद्गातृच्छेद आवर्त्त्यतां गणः
3पूर्वपक्षः
किंवा यत्र दिने छेदस्तदेवावर्त्त्यतां दिनम्
द्वादशाहाद्यहर्गणे यदि कस्मिंश्चिदहन्युद्गातापच्छिद्येत। तदा तमहर्गणं दक्षिणारहितं समाप्य पुनरपि गण आवर्त्तनीयः। तत्र पूर्वं दित्सिता दक्षिणा दातव्या। कुतः- गणप्रयोगस्यैकत्वादिति प्राप्ते-
4सिद्धान्तः
गणावृत्तिः प्रयोगैक्यात्प्रयोगेऽवान्तरः पृथक्
तेनाहरेकमावर्त्यमनङ्गत्वान्न हीतरत्
ब्रूमः। महाप्रयोगस्यैकत्वेऽप्यवान्तरप्रयोगस्य भिन्नत्वात्तद्वशेनैकमेवाहरावर्त्तनीयम्। न ह्यन्येषामह्नामेत- दङ्गत्वमस्ति। तत्र- एकस्याह्न आवृत्तावितरावृत्तिप्रसङ्गो नास्ति। तस्मादेकस्यैवाह्न आवृत्तिः।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य पञ्चमः पादः।
अत्र पादे- अधिकरणानि 21, सूत्राणि 46।
आदितः- अधिकरणानि 442, सूत्राणि 1171।
षष्ठाध्यायस्य षष्ठः पादः
तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- उद्गात्रुत्तरापच्छेदेपि सर्वस्वदक्षिणादानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “शतदानं पूर्वयागे सर्ववेदसदित्सुता प्राप्तेत्यूर्ध्वं प्रयोगे तद्दातव्यं सर्ववेदसम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]