SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 6, Pāda 8

अधिकारः

लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः

9adhikaraṇas
43sūtras
6.8.1 द्वितीये- अनाहिताग्निषूपनयनहोमाधिकरणे सूत्राणि 11-19
उपनयन्नादधीत होमसंयोगात्।। 11।।
स्थपतीष्टिवल्लौकिके वा विद्याकर्मानुपूर्वत्वात्।। 12।।
आधानं च भार्यासंयुक्तम्।। 13।।
अकर्म चोर्ध्वमाधानात्तत्समवायो हि कर्मभिः।। 14।।
श्राद्धवदिति चेत्। 15।।
न श्रुतिविप्रतिषेधात्।। 16।।
सर्वार्थत्वाच्च पुत्रार्थो न प्रयोजयेत्।। 17।।
सोमपानात्तु प्रापणं द्वितीयस्य तस्मादुपयच्छेत्।। 18।।
पितृयज्ञे तु दर्शनात्प्रागाधानात्प्रतीयेत।। 19।।
द्वितीयाधिकरणमारचयति-

1विषयः

यस्तूपनयने होमो वैदिके वा स लौकिके
वह्नौ पूर्ववदत्रोक्तेरभावाद्वैदिकेऽस्तु सः

3पूर्वपक्षः

आधानं विदुषो विद्याऽनुपनीतस्य नास्त्यतः
असंभवो वैदिकाग्नेर्होमोऽग्नौ लौकिके ततः
यथा पूर्वत्रानाहिताग्नेर्होमविधायकं वाक्यमस्ति, तथोपनयनहोमस्य लौकिकाग्निविधायकवचनाभावा-दाहवनीये स होमः। इति चेत्-

4सिद्धान्तः

मैवम्
विद्वानेव ह्याधानेऽधिकारी
न च अनुपनीतस्य विद्याऽस्ति
तत आहवनीयासंभवाल्लौकिके-ऽग्नावुपनयन होमः कर्तव्यः।
3

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- चतुर्होतृहोमेऽनाहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 1-10”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अनाहिताग्नेरयं होमविधिः- इति तृतीयः पक्षो युक्तः कुतः- वचनबलात् तत्तु वचनमेवमाम्नातम्- ''एषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारः'' इति तस्य चाहवनीयाद्यभावाल्लौकिकेग्नौ तद्धोमः। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.8.2 तृतीये- अनाहितेऽग्नौ स्थपतीष्ट्यधिकरणे सूत्रे 20-21
स्थपतीष्टिः प्रयाजवदग्न्याधेयं प्रयोजयेत्तादर्थ्याच्चापवृज्येत।। 20।।
अपि वा लौकिकेऽग्नौ स्यादाधानस्यासर्वशेषत्वात्।। 21।।
तृतीयाधिकरणमारचयति-

1विषयः

स्थपतीष्टिर्वैदिकेऽग्नौ लौकिके वाद्य आक्षिपेत्

3पूर्वपक्षः

आधानमिष्टिरन्त्यः स्यादवैधेनाग्न्यसंस्कृतेः
''एतया निषादस्थपतिं याजयेत्'' इति विहिताया इष्टेश्चोदकप्राप्तेष्वाहवनीयादिषु कर्तव्यत्वादाधानमन्तरेणाहवनीयाभावादाधानमाक्षीप्याहिते तस्मिन्वैदिकेऽग्नावियमिष्टिः। इति चेत्-

4सिद्धान्तः

मैवम्
अत्रैवर्णिकत्वादविहितेनाधानेनाग्निसंस्कारासिद्धेः
तस्माल्लौकिकेऽग्नौ सेष्टिः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- अनाहिताग्निषूपनयनहोमाधिकरणे सूत्राणि 11-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् विद्वानेव ह्याधानेऽधिकारी न च अनुपनीतस्य विद्याऽस्ति तत आहवनीयासंभवाल्लौकिके-ऽग्नावुपनयन होमः कर्तव्यः। 3”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.8.3 चतुर्थे- अनाहितेऽग्नाववकीर्णिपश्वनुष्ठानाधिकरणे सूत्रम्
अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्।। 22।।
चतुर्थाधिकरणमारचयति-

1विषयः

अवकीर्णिपशुः कुत्र विप्राद्याधानसंभवात्

3पूर्वपक्षः

वैदिके लौकिके ब्रह्मचारिण्याधानवर्जनात्
इदमाम्नायते- ''यो ब्रह्मचार्यवकिरेत्, स गर्दभं पशुमालभेत'' इति। तत्र- अवकीर्णिनो विप्रादेस्त्रैर्वर्णिकस्याधानसंभवाद्वैदिकेऽग्नावयं पशुः। इति चेत्-

4सिद्धान्तः

मैवम्
''जायापती अग्नीनादधीयाताम्'' इत्युक्त्या ब्रह्मचारिण आधानाभावात्
तस्मात्- लौकिकेऽग्नौ पशुः कार्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- अनाहितेऽग्नौ स्थपतीष्ट्यधिकरणे सूत्रे 20-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अत्रैवर्णिकत्वादविहितेनाधानेनाग्निसंस्कारासिद्धेः तस्माल्लौकिकेऽग्नौ सेष्टिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.8.4 पञ्चमे- दैवकर्मणामुदगयनादिकालताधिकरणे सूत्रे 23-24
उदगयनपूर्वपक्षाहःपुण्याहेषु दैवानि स्मृतिरूपान्यार्थदर्शनात्।। 23।।
अहनि च कर्मसाकल्यम्।। 24।।
पञ्चमाधिकरणमारचयति-

1विषयः

चौलादि सर्वदा पुण्याहादौ वाऽत्राविशेषतः

3पूर्वपक्षः

आद्योऽन्त्यः पूर्वपक्षादौ दैवानां स्मृतितो विधेः
चौलोपनयनादीनां दैविकानां च कर्मणां तिथ्यादिविशेषस्याश्रवणात्सर्वदा तदनुष्ठानं युक्तम्। इति चेत्-

4सिद्धान्तः

मैवम्
शुक्लपक्षोत्तरायणपुण्यदिनादीनां स्मृतिषु विहितत्वात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- अनाहितेऽग्नाववकीर्णिपश्वनुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''जायापती अग्नीनादधीयाताम्'' इत्युक्त्या ब्रह्मचारिण आधानाभावात् तस्मात्- लौकिकेऽग्नौ पशुः कार्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.8.5 षष्ठे- ज्योतिष्टोमाङ्गयाच्ञाक्रययोर्नित्यताधिकरणे सूत्रे 26-27
याच्ञाक्रयणमविद्यमाने लोकवत्।। 26।।
नियतं वाऽर्थवत्त्वात्स्यात्।। 27।।
षष्ठाधिकरणमारचयति-

1विषयः

याच्ञाक्रयावभावे स्तो विद्यमानेऽपि वाऽग्रिमः

3पूर्वपक्षः

द्रव्यार्थत्वादपूर्वार्थं कुर्यात्तौ द्रव्यवानपि
ज्योतिष्टोमे धनभिक्षा समाम्नाता- ''द्वादश रात्रीर्दीक्षितो भृतिं वन्वीत'' इति। सोमक्रयश्चाम्नातः- ''अरुणया पिङ्गाक्ष्या सोमं क्रीणाति'' इति। तदुभयाम्नानं च धनसोमयोर्द्रव्ययोर्लाभार्थमिति द्रव्याभावे तदनुष्ठेयम्। इति चेत्-

4सिद्धान्तः

मैवम्
इतराङ्गवदेतदुभयं क्रत्वङ्गतया नित्यवदाम्नातम्
तथा सति यदि द्रव्याभावे 'वन्वीत, क्रीणाति च' इति पाक्षिकत्वं कल्प्यते, तदा नित्यवच्छ्रवणमुपरुध्येत
तस्मात्- सत्यपि द्रव्ये तदुभयमदृष्टार्थं कर्तव्यम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- दैवकर्मणामुदगयनादिकालताधिकरणे सूत्रे 23-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् शुक्लपक्षोत्तरायणपुण्यदिनादीनां स्मृतिषु विहितत्वात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.8.6 सप्तमे- ज्योतिष्टोमादिषु पयोव्रतादीनामपि नित्यताधिकरणे सूत्रम्
तथा भक्षप्रैषाच्छादनसंज्ञप्तहोमद्वेषम्।। 28।।
सप्तमाधिकरणमारचयति-

1विषयः

अन्याभावेऽथ भावेऽपि पयोभक्षादयोऽग्रिमः
निमित्ते सत्यनुष्ठानान्नियमादृष्टतोऽन्तिमः

3पूर्वपक्षः

ज्योतिष्टोमे श्रूयते ''पयो ब्राह्मणस्य व्रतम्'' इति। तदेतदसत्यन्यस्मिन्भक्ष्ये कर्तव्यम्। कुतः- अन्याभावस्य निमित्तत्वात्। निमित्ते सति नैमित्तिकस्यानुष्ठेयत्वात्। इति चेत्-
मैवम्। नह्यत्रान्याभावो निमित्तत्वेन श्रुतः। तस्मात्- सत्यप्यन्यस्मिन्भक्ष्ये नियमादृष्टाय पय एव व्रतयेत्।एवमन्यत्रापि द्रष्टव्यम्। ''अग्नीदग्नीन्विहर'' इति प्रैषार्थे पूर्वमेवाग्नीध्रेण बुद्धेऽपि दर्शपूर्णमासयोः स प्रैषः कर्तव्यः। वाजपेये सत्यपि वस्त्रान्तरे ''दर्भभयं परिदधाति'' इति विहितमनुष्ठेयम्। पशौ ''यत्पशुर्मायुमकृत'' इति मन्त्रेण संज्ञप्तहोमो विहितः, स च मारणवेलायामकृतेऽपि पशुना शब्दे कर्तव्या।। 9।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- ज्योतिष्टोमाङ्गयाच्ञाक्रययोर्नित्यताधिकरणे सूत्रे 26-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् इतराङ्गवदेतदुभयं क्रत्वङ्गतया नित्यवदाम्नातम् तथा सति यदि द्रव्याभावे 'वन्वीत, क्रीणाति च' इति पाक्षिकत्वं कल्प्यते, तदा नित्यवच्छ्रवणमुपरुध्येत तस्मात्- सत्यपि द्रव्ये तदुभयमदृष्टार्थं कर्तव्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.8.7 अष्टमे- अपररात्रे व्रतस्यानित्यताधिकरणे सूत्रम्
अनर्थकं त्वनित्यं स्यात्।। 29।।
अष्टमाधिकरणमारचयति-

1विषयः

अजीर्णसंभवे कार्यं व्रतं नो वाऽग्निमो विधेः

3पूर्वपक्षः

रोगोत्पत्त्या प्रधानस्य विरोधान्न पयोव्रतम्
ज्योतिष्टोमे श्रूयते ''मध्यंदिनेऽपररात्रे व्रतं व्रतयति'' इति। तत्र यस्याजीर्णिः संभाविता, तेनापि विहितत्वात्पयो व्रतयितव्यमेव। इति चेत्-

4सिद्धान्तः

मैवम्
रोगोत्पत्त्या प्रधानानुष्ठाने विघ्नप्रसङ्गात्
तस्मात्- तथाविधवेलायां वयो वर्जयेत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- ज्योतिष्टोमादिषु पयोव्रतादीनामपि नित्यताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.8.8 नवमे- छागस्यौवाग्नीषोमीयपशुताधिकरणे सूत्राणि 30-42
पशुचोदनायामनियमोऽविशेषात्।। 30।।
छागो वा मन्त्रवर्णात्।। 31।।
न चोदनाविरोधात्।। 32।।
आर्षेयवदिति चेत्। 33।।
न तत्र ह्यचोदितत्वात्।। 34।।
नियमो वैकार्थ्यं ह्यर्थभेदाद्भेदः पृथक्त्वेनाभिधानात्।। 35।।
अनियमो वाऽर्थान्तरत्वादन्यत्वं व्यतिरेकशब्दभेदाभ्याम्।। 36।।
रूपाल्लिङ्गाच्च।। 37।।
छागे न कर्माख्या रूपलिङ्गाभ्याम्।। 38।।
रूपान्यत्वान्न जातिशब्दः स्यात्।। 39।।
विकारो नौत्पत्तिकत्वात्।। 40।।
स नैमित्तिकः पशोर्गुणस्याचोदितत्वात्।। 41।।
ज्ञातेर्वा तत्प्रायवचनार्थवत्त्वाभ्याम्।। 42।।
नवमाधिकरणमारचयति-

3पूर्वपक्षः

ज्योतिष्टोमे श्रूयते ''अग्नीषोमीयं पशुमालभेत'' इति। तत्र- विहिते पशौ विशेषाश्रयणाद्यः कोऽपि पशुरालब्धव्यः। इति चेत्-
अत्र पादे- अधिकरणानि9, सूत्राणि 42।
आदितः- अधिकरणानि471, सूत्राणि 1292।
सप्तमोऽध्यायः
''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनातिदेशः।
अनेन षष्ठसप्तमयोरध्याययोः पूर्वोत्तरभाव उपपादितः। तथा हि- यत्रापेक्षितस्यार्थजातस्य प्रतिपादको ग्रन्थसंदर्भः पठ्यते, स उपदेशः। अतिदेशस्तु पूर्वाचार्यैर्दर्शितः-
अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसंततेः।अन्यत्र कार्यतः प्राप्तिरतिदेशोऽभिधीयते।।इति।
प्राकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु । धर्मोपदेशो येन स्यात्सोऽतिदेश इति स्मृतः।। इति च ।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- अपररात्रे व्रतस्यानित्यताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् रोगोत्पत्त्या प्रधानानुष्ठाने विघ्नप्रसङ्गात् तस्मात्- तथाविधवेलायां वयो वर्जयेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.8.9 प्रथमे- प्रयाजादिधर्माणामपूर्वप्रयुक्तताधिकरणे सूत्राणि 1-12
श्रुतिप्रमाणत्वाच्छेषाणां मुखभेदे यथाधिकारं भावः स्यात्।। 1।।
उत्पत्त्यर्थाविभागाद्वा सत्त्ववदैकधर्म्यं स्यात्।। 2।।
चोदनाशेषभावाद्वा तद्भेदाद्व्यवतिष्ठेरन् उत्पत्तेर्गुणभूतत्वात्।। 3।।
सत्त्वे लक्षणसंयोगात्सार्वत्रिकं प्रतीयेत।। 4।।
अविभागात्तु नैवं स्यात्।। 5।।
द्व्यर्थत्वं च विप्रतिषिद्धम्।। 6।।
उत्पत्तौ विध्यभावाद्वा चोदनायां प्रवृत्तिः स्यात्ततश्च कर्मभेदः स्यात्।। 7।।
यदि वाऽप्यभिधानवत्सामान्यात्सर्वधर्मः स्यात्।। 8।।
अर्थस्य त्वविभक्तत्वात्तथा स्यादभिधानेषु पूर्ववत्त्वाप्रयोगस्य, कर्मणः शब्दभाव्यत्वाद्विभागाच्छेषाणामप्रवृत्तिः स्यात्।। 9।।
स्मृतिरिति चेत्। 10।।
न पूर्ववत्त्वात्।। 11।।
अर्थस्य शब्दभाव्यत्वात्प्रकरणनिबन्धनाच्छब्दादेवान्यत्र भावः स्यात्।। 12।।
सप्तमाध्यायस्य प्रथमे पादे प्रथमाधिकरणमारचयति-

1विषयः

सर्वार्थं प्रकृतार्थं वा प्रयाजाद्युपदेशनम्

3पूर्वपक्षः

यज्यन्वयेन सार्वाथ्यान्नातिदेशो विचार्यताम्
दर्शपूर्णमासप्रकरणे प्रयाजादय उपदिष्टाः। ज्योतिष्टोमप्रकरणे दीक्षणीयादयः। तत्र- एते सर्वे धर्माः सर्वयागार्थत्वेनोपदिश्यन्ते। कुतः- यज्यन्वयात्। यागः करणम्, प्रयाजादय इतिकर्तव्यता, इत्येतावत्तावदविवादम्। तत्र यदि प्रयाजादयो यागवदानुपूर्व्येणान्विताः स्युस्तदानीम्, अपूर्वनिष्पादकत्वमुभयत्र समानम्- इति कृत्वा करणोपकरणत्वलक्षणं सर्वसंमतमवान्तरवैषम्यं बाध्येत। किंच- अवघातपेषणादीनां यागनिष्पादकत्वेन यज्यन्वयो दृष्टः। तद्वदङ्गत्वसामान्यात्प्रयाजादीनामपि यज्यन्वयो युक्तः। यजिधातुश्च दर्शपूर्णमासज्योतिष्टोमसौर्यश्येनादिषु सर्वेषु विशेषेष्वनुगतं यागमात्रं ब्रूते। तथा सति सौर्यश्येनादिष्वप्युपदेशेनैव कृत्स्नधर्मप्राप्तेरतिदेशविचारो न कर्तव्यः। इति प्राप्ते-

4सिद्धान्तः

अङ्गप्रधानयोर्मुख्यापूर्वभेदसमन्वयात्
प्रकृतार्थं ततः कार्यमतिदेशविचारणम्
ब्रूमः- अपूर्वं हि मुख्यं फलित्वात्। यजिर्न मुख्यः। फलरहितत्वात्। फलवति मुख्ये प्रयाजविधानं युक्तम्। अतः करणेतिकर्तव्यतयोरुभयोरपूर्वेण प्रथममन्वयः। पश्चात्तु परस्परं गुणप्रधानभावेनान्वयः। तथा सत्यपूर्वभेदस्य द्वितीयाध्याये निरूपितत्वादपूर्वविशेषेण तत्करणभूतयजिविशेषेण वाऽन्विताः प्रयाजादिधर्मा ये यस्मिन्प्रकरण आम्नाताः, ते तत्रैव व्यवतिष्ठन्ते। सत्येवं प्रकरणमर्थवद्भवति। सर्वेषां धर्माणां सर्वत्र प्राप्तौ प्रकरणमनर्थकं स्यात्। तस्मात्- सौर्यश्येनादिप्रकरणे धर्मोपदेशाभावाद्धर्माकाङ्क्षां पूरयितुमतिदेशविचारः कर्तव्यः।। 2।। 3।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- छागस्यौवाग्नीषोमीयपशुताधिकरणे सूत्राणि 30-42”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 6, Pāda 7 Contents Adhyāya 7, Pāda 1 →