SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 6, Pāda 4

अधिकारः

पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्

14adhikaraṇas
47sūtras
6.4.1 प्रथमे- अवत्तनाशे पुनरवदानार्थं प्रतिनिध्यादानाधिकरणे सूत्रे 1-2
शेषाद्द्व्यवदाननाशे स्यात्तदर्थत्वात्।। 1।।
निर्देशाद्वाऽन्यदागमयेत्।। 2।।
चतुर्थपादस्य प्रथमाधिकरणमारचयति-

1विषयः

अवत्तनाशे तच्छेषात्पुरोडाशादवद्यति

3पूर्वपक्षः

यजेदाज्येन वाद्योऽत्र मध्यपूर्वार्धसंभवात्
दर्शपूर्णमासयोः पुरोडाशावदाने श्रूयते ''मध्यादवद्यति, पूर्वार्धादवद्यति'' इति। तत्र- यद्यवत्तं नश्येत्, तदानीमवशिष्टात्पुरोडाशात्पुनरप्यवदातव्यम्। कुतः- अवदानापादानयोर्मध्यपूर्वार्धयोः शिष्टेऽपि संभवात्। इति चेत्-
मैवम्। कृत्स्नपुरोडाशगते मध्यपूर्वार्धे अपादानत्वेन श्रूयेते, न त्ववशिष्टभागगते मध्यपूर्वार्धे। ततो मुख्यस्य हविषो नाशादाज्यं प्रतिनिधाय यष्टव्यम्। अत एव श्रूयते ''यस्य सर्वाणि हवींषि नश्येयुः, दुष्येयुः, अपहरेयुर्वा, आज्येन ता देवताः परिसंख्याय यजेत'' इति। तत्र- सर्वशब्दस्य निमित्तविशेषणत्वेनाविवक्षितत्वान्नाशमात्रे सर्वत्राज्यस्य विधिः।। 1।। 2।।

4सिद्धान्तः

कृत्स्नस्य मध्यपूर्वार्धे ये शेषस्थे न ते ततः
हविर्नाशादाज्यविधिः सुतरां सर्वनाशने

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे- प्रधाननिर्वाहकत्वेऽङ्गनिर्वाहापर्याप्तस्यापि मुख्यस्योपादानाधिकरणे सूत्रे 40-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.2 द्वितीये- स्विष्टकृदर्थावत्तनाशे पुनरवदाननिराकरणाधिकरणे सूत्रम्
अपि वा शेषभाजां स्याद्विशिष्टकारणात्।। 3।।
द्वितीयाधिकरणमारचयति-

1विषयः

इडाद्यर्थस्य नाशेऽन्यः शेषाद्ग्राह्यो न वाऽग्रिमः

3पूर्वपक्षः

शेषसत्त्वान्न शेषेऽन्यप्रतिपत्त्यवरोधनात्
इडाभक्षणार्थं प्राशित्रभक्षणार्थं वाऽवत्तं यदि नश्येत्, तदा शेषस्य सद्भावात्तस्माच्छेषात्पुनरवदेयम्। इति चेत्-

4सिद्धान्तः

मैवम्
तस्य शेषस्यान्यया प्रतिपत्त्या शंयुवाककालीनभक्षणरूपयाऽवरुद्धत्वात्
तस्मात्- अवत्तनाशे द्रव्याभावादिडादिकं लुप्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- अवत्तनाशे पुनरवदानार्थं प्रतिनिध्यादानाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कृत्स्नस्य मध्यपूर्वार्धे ये शेषस्थे न ते ततः हविर्नाशादाज्यविधिः सुतरां सर्वनाशने”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.3 तृतीये- ऋत्विजामेव शेषभक्षणाधिकरणे सूत्राणि 4-9
निर्देशाच्छेषभक्षोऽन्यैः प्रधानवत्।। 4।।
सर्वैर्वा समवायात्स्यात्।। 5।।
निर्देशस्य गुणार्थत्वम्।। 6।।
प्रधाने श्रुतिलक्षणम्।। 7।।
अर्थवदिति चेत्। 8।।
न चोदनाविरोधात्।। 9।।
तृतीयाधिकरणमारचयति-

1विषयः

शेषभक्षाः किमन्येषामृत्विजां वाऽन्यभक्षणम्

3पूर्वपक्षः

ऋत्विजां परिसंख्यानात्स्वाम्यप्राप्तोक्तितोऽन्तिमः
दर्शपूर्णमासयोर्ये प्राशित्रादिशेषभक्षाः, तेषां भक्षणमृत्विग्भ्योन्यैः कर्तव्यम्। कुतः- ऋत्विजां परिसंख्यातत्वात्। ऋत्विजां कर्मकरत्वादेव भक्षणप्राप्तौ सत्यां पुनरप्येवमाम्नायते- ''यजमानपञ्चमा इडां भक्षयन्ति'' इति। तदेतत्पुनराम्नानं परिसंख्यार्थम्- ''यजमानसहिता ऋत्विजः प्राशित्रादिकं न भक्षयेयुः'' इत्यर्थः। तस्मात्- ऋत्विग्भ्योऽन्येषां प्राशित्रादिभक्षणम्। इति चेत्-

4सिद्धान्तः

मैवम्
यजमानस्य कर्मकरत्वाभावेन पूर्वमप्राप्तं भक्षणमनेन विधीयते
तस्मात्- अपरिसंख्यातत्वादृत्विजामेव प्राशित्रादिभक्षणम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- स्विष्टकृदर्थावत्तनाशे पुनरवदाननिराकरणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् तस्य शेषस्यान्यया प्रतिपत्त्या शंयुवाककालीनभक्षणरूपयाऽवरुद्धत्वात् तस्मात्- अवत्तनाशे द्रव्याभावादिडादिकं लुप्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.4 चतुर्थे- कृत्स्नैकदेशभेदे प्रायश्चित्तानुष्ठानाधिकरणे सूत्राणि 10-16
अर्थसमवायात्प्रायश्चित्तमेकदेशेऽपि।। 10।।
न त्वशेषे वैगुण्यात्तदर्थं हि।। 11।।
स्याद्वा प्राप्तिनिमित्तत्वादतद्धर्मो नित्यसंयोगात्, न हि तस्य गुणार्थेनानित्यत्वात्।। 12।।
गुणानां च परार्थत्वाद्वचनाद्व्यपाश्रयः स्यात्।। 13।।
भेदार्थमिति चेत्। 14।।
शेषभूतत्वात्।। 15।।
अनर्थकश्च सर्वनाशे स्यात्।। 16।।
चतुर्थाधिकरणमारचयति-

1विषयः

कपालभेदने होमो भग्ने घृष्टेऽथवोभयोः

3पूर्वपक्षः

आद्यो भेदस्य भङ्गत्वात्संस्कार्यत्वेन मध्यमः
दर्शपूर्णमासयोः कपालं प्रकृत्य श्रूयते ''भिन्ने जुहोति'' इति। तत्र- भेदशब्दस्य भङ्गवाचित्वात्कपालभङ्गे सोऽयं होमः- इत्येकः पक्षः।
होमस्य संस्काररूपत्वादत्यन्तभङ्गे संस्कार्याभावात्संघर्षमात्रजन्यस्येषद्भङ्गस्यापि भेदशब्दार्थत्वात्कपाले घृष्टे सत्ययं होमः- इति द्वितीयः पक्षः।
संस्कारपक्षे भिन्नशब्दस्य संस्कार्यप्रतिपादकत्वेनोपक्षयान्निमित्तप्रतिपादकत्वं न स्यात्। तथा सति होमस्य नैमित्तिकत्वाभावेन नित्यत्वं वक्तव्यम्, कपालभेदस्य कादाचित्कत्वात्संस्कार्यमनित्यम्, इति नित्यानित्यसंयोगविरोधः प्राप्नोति। ततो भिन्नशब्दो निमित्तप्रतिपादकः। निमित्तत्वं च भङ्गसंघर्षयोः समानम्। तस्मात्- उभयोरपि निमित्तयोर्नैमित्तिको होमः कर्तव्य इति सिद्धान्तः।। 5।। 6।।

4सिद्धान्तः

संस्कृतावनिमित्तत्वान्नित्यानित्यविरोधनम्
निमित्तता समा भङ्गे घर्षे वाऽतो द्वयोर्हुतिः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- ऋत्विजामेव शेषभक्षणाधिकरणे सूत्राणि 4-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् यजमानस्य कर्मकरत्वाभावेन पूर्वमप्राप्तं भक्षणमनेन विधीयते तस्मात्- अपरिसंख्यातत्वादृत्विजामेव प्राशित्रादिभक्षणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.5 पञ्चमे- क्षामे सर्वदाहे प्रायश्चित्तानुष्ठानाधिकरणे (क्षामेष्टिन्याये) सूत्राणि 17-21
क्षामे तु सर्वदाहे स्यादेकदेशस्यावर्जनीयत्वात्।। 17।।
दर्शनाद्वैकदेशे स्यात्।। 18।।
अन्येन वैतच्छास्त्राद्धि कारणप्राप्तिः।। 19।।
तद्धविःशब्दान्नैति चेत्। 20।।
स्यादन्यायत्वादिज्यागामी हविःशब्दस्तल्लिङ्गसंयोगात्।। 21।।
पञ्चमाधिकरणमारचयति-

1विषयः

क्षामे यागो द्वयोः सर्वदाहे वा पूर्ववद्द्वयोः

3पूर्वपक्षः

अंशदाहस्य नित्यत्वात्सर्वदाहे पुनर्यजिः
दर्शपूर्णमासयोः श्रूयते ''अथ यस्य पुरोडाशौ क्षायतः, तं यज्ञं वरुणो गृह्णाति। यदा तद्धविः संतिष्ठेत, अथ स तदेव हविर्निर्वपेत्। यज्ञो हि यज्ञस्य प्रायश्चित्तिः'' इति। अस्यायमर्थः- 'यस्य यज्ञस्य पुरोडाशावाग्नेयाग्नीषोमीयौ क्षायतोऽत्यन्तदाहेन भस्मी भवतः, तं यज्ञं वरुणो गृह्णाति। न त्वयं यज्ञो यजमानस्य फलं प्रयच्छति। यदि तादृशहविष्को यज्ञ आ समाप्तेरनुष्ठीयेत, तदा तत्प्रत्यवायपरिहाराय पुनस्तदेव हविर्निरूप्य यजमानो यज्ञमनुतिष्ठेत्' इति। तत्र- पुरोडाशे क्षामे सति यो यागो विहितः स पूर्वोक्तभेदन्यायेनाल्पदाहसर्वदाहयोर्द्वयोरपि कर्तव्यः। इति चेत्-

4सिद्धान्तः

मैवम्
तप्तेषु कपालेषु पुरोडाशमवस्थाप्योपर्यङ्गारैरधिवासने कृते सति सूक्ष्मांशदाहस्य वर्जयितुमशक्यत्वेन नित्यत्वात्पुनर्यागस्यांशदाहो निमित्तं न भवति
सर्वदाहस्तु कादाचित्कत्वान्निमित्तम्- इति तत्रैवेयं प्रायश्चित्तरूपेष्टिः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- कृत्स्नैकदेशभेदे प्रायश्चित्तानुष्ठानाधिकरणे सूत्राणि 10-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “संस्कृतावनिमित्तत्वान्नित्यानित्यविरोधनम् निमित्तता समा भङ्गे घर्षे वाऽतो द्वयोर्हुतिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.6 षष्ठे- एकहविरार्तावपि पञ्चशरावनिर्वापाधिकरणे सूत्रे 22-23
यथाश्रुतीति चेत्।। 22।।
न तल्लक्षणत्वादुपपातो हि कारणम्।। 23।।
षष्ठाधिकरणमारचयति-

1विषयः

आर्तौ पञ्चशरावो यः स दोहद्वयसंक्षये

3पूर्वपक्षः

एकनाशेऽपि वाद्योऽस्तु हविर्वदुभयोक्तितः
दर्शपूर्णमासयोर्दोहौ प्रकृत्य श्रूयते ''यस्योभयं हविरार्तिमार्छेत्- ऐन्द्रं पञ्चशरावमोदनं निर्वपेत्'' इति। सोऽयं यागो दोहद्वयक्षयं निमित्तीकृत्यानुष्ठेयः। न त्वेकदोहक्षयम्। कुतः- उभयशब्दस्य श्रुतत्वात्। आर्तिशब्दविशेषणत्वेन श्रूयमाणो हविःशब्दो यथा विवक्षितार्थः, तथा हविःशब्दविशेषणस्योभयशब्दस्यापि विवक्षितार्थत्वादुभयहविरार्तिरेव निमित्तम्। इति चेत्-
मैवम्। आर्तिमात्रोपन्यासे साकाङ्क्षत्वान्निमित्तं न पर्यवस्यतीति हविःशब्दार्थो विवक्षितव्यः। तावतैव निमित्तस्य पर्यवसितत्वादुभयशब्दार्थो न विवक्षितः। हविरार्तिमात्रस्य निमित्तत्वे सति सायंदोहप्रातर्दोहार्त्योरुभयोर्निमित्तत्वं सिद्धमेवात्रोभयशब्देनानूद्यते। तस्मात्- एकनाशे द्वयनाशेऽप्यसावोदनो निर्वपणीयः।। 8।। 9।।

4सिद्धान्तः

हविरार्त्युक्तिमात्रेण निमित्तं पर्यवस्यति
उभयोक्त्यविवक्षायामेकनाशेऽप्यसौ भवेत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- क्षामे सर्वदाहे प्रायश्चित्तानुष्ठानाधिकरणे (क्षामेष्टिन्याये) सूत्राणि 17-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् तप्तेषु कपालेषु पुरोडाशमवस्थाप्योपर्यङ्गारैरधिवासने कृते सति सूक्ष्मांशदाहस्य वर्जयितुमशक्यत्वेन नित्यत्वात्पुनर्यागस्यांशदाहो निमित्तं न भवति सर्वदाहस्तु कादाचित्कत्वान्निमित्तम्- इति तत्रैवेयं प्रायश्चित्तरूपेष्टिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.7 सप्तमे- होमाभिषवोभयकर्तुरेव भक्षणाधिकरणे सूत्रे 24-25
होमाभिषवभक्षणं च तद्वत्।। 24।।
उभाभ्यां वा न हि तयोर्धर्मशास्त्रम्।। 25।।
सप्तमाधिकरणमारचयति-

1विषयः

अभिषुत्य ततो हुत्वा खादेदेकैकहेतुता
संहत्य वा निमित्तोक्तौ साहित्याविधितोऽग्रिमः

3पूर्वपक्षः

होमाभिषवकर्ताऽत्र भक्षाङ्गत्वेन चोद्यते
निमित्ततार्थिकी तस्मात्साहित्यं हेतुगं मतम्
ज्योतिष्टोमे श्रूयते ''हविर्धाने ग्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्भक्षयन्ति'' इति। तत्र- अभिषवहोमयोरेकैक एव भक्षणहेतुः। कुतः- साहित्यस्याविधेयत्वात्। अभिषवहोमावत्र निमित्तत्वेनोच्येते। तत्र- साहित्यविधौ वाक्यं भिद्येत। अभिषवहोमौ भक्षणहेतू, तौ च सहितावित्येवं तद्भेदः। तस्मात्- 'साहित्यस्याविधेयत्वादभिषवहोमयोः प्रत्येकं भक्षणनिमित्तत्वम्' इति प्राप्ते

4सिद्धान्तः

ब्रूमः- नात्र निमित्तत्वमुपन्यस्यते, किंतु सोमाभिषवयोः कर्तुर्भक्षणं प्रत्यङ्गत्वेन पूर्वमप्राप्तत्वाद्विधीयते
तथा सत्यभिषवहोमयोर्यन्निमित्तत्वं प्रतीयते तदार्थिकमिति वाक्यभेददोषाभावात्साहित्यं प्रतीयमानं विवक्षितमिति सहितयोरेव तयोर्निमित्तत्वम्।
10
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- एकहविरार्तावपि पञ्चशरावनिर्वापाधिकरणे सूत्रे 22-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “हविरार्त्युक्तिमात्रेण निमित्तं पर्यवस्यति उभयोक्त्यविवक्षायामेकनाशेऽप्यसौ भवेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.8 अष्टमे पुनराधानं प्रति बह्न्यनुगमद्वयस्य निमित्तताधिकरणे सूत्रे 26-27
पुनराधेयमोदनवत्।। 26।।
द्रव्योत्पत्तेर्वोभयोः स्यात्।। 27।।
अष्टमाधिकरणमारचयति-

1विषयः

एकोऽपि वह्न्यनुगमः पुनराधेयकारणम्
द्वावेव वाद्यो द्वित्वोपेक्षणात्पञ्चशराववत्

3पूर्वपक्षः

द्वयोरुत्पादकत्वेन पुनराधेयचोदना
नैकस्यातो द्व्यनुगमो हेतुः सूर्योदयादि वा
अग्निहोत्रे श्रूयते ''यस्योभावग्नी अनुगतावभिम्लोचेयाताम्, सूर्यो वाऽभ्युदियात्, पुनराधेयं तस्य प्रायश्चित्तिः'' इति। 'आहवनीयगार्हपत्यावुभावग्नी अनुगतौ नष्टौ यदा भवतः, तदा सूर्यास्तमय उदयो वा यदि भवेत्, तदा पुनराधेयं कर्तव्यम्' इत्यर्थः। तत्र- यथा पञ्चशराववाक्ये निमित्तविशेषणभूत उभयशब्दार्थो न विवक्षितः, तथा निमित्तस्य वह्न्यनुगमविशेषणं द्वित्वमुपेक्षणीयम्। तत् एकस्याप्यनुगमस्य निमित्तत्वमस्ति। इति चेत्-

4सिद्धान्तः

मैवम्
'अग्नी आदधीत' इति द्वित्वविशिष्टयोरग्न्योरुत्पादनाय पुनराधेयं चोदितम्, न त्वेकस्योत्पादनाय
न ह्येकस्मिन्ननुगते द्वयोरुत्पादनं संभवति
तस्मात्- नैमित्तिकद्वित्वोपपत्तये निमित्तयोरपि वह्न्यनुगमयोर्द्वित्वं विवक्षितव्यम्
तस्मात्- अस्तमयकाल उदयकाले वा वह्निद्वयनाशः पुनरोधेयहेतुः।
12

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- होमाभिषवोभयकर्तुरेव भक्षणाधिकरणे सूत्रे 24-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- नात्र निमित्तत्वमुपन्यस्यते, किंतु सोमाभिषवयोः कर्तुर्भक्षणं प्रत्यङ्गत्वेन पूर्वमप्राप्तत्वाद्विधीयते तथा सत्यभिषवहोमयोर्यन्निमित्तत्वं प्रतीयते तदार्थिकमिति वाक्यभेददोषाभावात्साहित्यं प्रतीयमानं विवक्षितमिति सहितयोरेव तयोर्निमित्तत्वम्। 10”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.9 नवमे पञ्चशरावनिर्वापस्य कर्मान्तरताधिकरणे सूत्रे 28-29
पञ्चशरावस्तु द्रव्यश्रुतेः स्तात्।। 28।।
चोदना वा द्रव्यदेवताविधिरवाच्ये हि।। 29।।
नवमाधिकरणमारचयति-

1विषयः

द्रव्यप्रतिनिधिः पञ्चशरावो भिन्नकर्म वा
दोहद्वयार्तितो दर्शे द्रव्यं स्यादीप्सितत्वतः

3पूर्वपक्षः

प्राप्ते कर्मणि नैकेन विधिना द्रव्यदेवते
शक्ये विधातुं ताभ्यां तु विशिष्टं कर्म चोद्यते
योऽयं पञ्चशराव ओदनः पूर्वमुदाहृतः, नासौ कर्मान्तररूपः। किंतु- पूर्वस्मिन्नेव कर्मणि दोहद्वयरूपे द्रव्येऽपचरिते सति तत्प्रतिनिधिद्रव्यत्वेनायं विधीयते। कुतः- दर्शयागे द्रव्यस्यापेक्षितत्त्वात्। इति चेत्-

4सिद्धान्तः

मैवम्
''ऐन्द्रं पञ्चशरावम्'' इति द्रव्यदेवतयोः प्रतीतौ कर्मान्तरविधेर्वाररयितुमशक्यत्वात्
यदि पूर्वस्मिन्नेव कर्मण्युभयं विधीयेत, तदा कर्मणः प्राप्तत्वादुभकयोर्द्रव्यदेवतयोर्विधौ वाक्यं भिद्येत
तस्मात्- द्रव्यदेवताभ्यां विशिष्टं कर्मान्तरं विधीयते।
14

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे पुनराधानं प्रति बह्न्यनुगमद्वयस्य निमित्तताधिकरणे सूत्रे 26-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'अग्नी आदधीत' इति द्वित्वविशिष्टयोरग्न्योरुत्पादनाय पुनराधेयं चोदितम्, न त्वेकस्योत्पादनाय न ह्येकस्मिन्ननुगते द्वयोरुत्पादनं संभवति तस्मात्- नैमित्तिकद्वित्वोपपत्तये निमित्तयोरपि वह्न्यनुगमयोर्द्वित्वं विवक्षितव्यम् तस्मात्- अस्तमयकाल उदयकाले वा वह्निद्वयनाशः पुनरोधेयहेतुः। 12”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.10 दशमे पञ्चशरावयागस्य नैमित्तिकदर्शयागाङ्गताधिकरणे सूत्रे 30-31
स प्रत्यामनेत्स्थानात्।। 30।।
अङ्गविधिर्वा निमित्तसंयोगात्।। 31।।
दशमाधिकरणमारचयति-

1विषयः

दर्शे प्रत्याम्नाय एतदङ्गं वा हविरार्तितः
दर्शयागे निवृत्तेऽस्य प्रत्याम्नायतया विधिः

3पूर्वपक्षः

पूर्वद्रव्यविनाशेऽपि द्रव्यस्यान्यस्य संभवात्
अनिवृत्तेस्तदङ्गं स्यादार्तिवैगुण्यहानये
पञ्चशरावद्रव्यकमिन्द्रदेवताकं यत्कर्मान्तरं कथितम्, तदेतद्दर्शयागस्य प्रतिनिधित्वेन विधीयते। कुतः- उभयहविरार्त्या दर्शयागस्य निवृत्तत्वात्। इति चेत्-

4सिद्धान्तः

मैवम्
पूर्वयोर्दधिपयसोर्नाशेऽपि पयोन्तरणे दध्यन्तरेण च दर्शेऽनुष्ठीयमाने हविरार्तिकृतं वैगुण्यं परिहरन्नयं पञ्चशरावयागो दर्शयागस्याङ्गं भवति।
16

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे पञ्चशरावनिर्वापस्य कर्मान्तरताधिकरणे सूत्रे 28-29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''ऐन्द्रं पञ्चशरावम्'' इति द्रव्यदेवतयोः प्रतीतौ कर्मान्तरविधेर्वाररयितुमशक्यत्वात् यदि पूर्वस्मिन्नेव कर्मण्युभयं विधीयेत, तदा कर्मणः प्राप्तत्वादुभकयोर्द्रव्यदेवतयोर्विधौ वाक्यं भिद्येत तस्मात्- द्रव्यदेवताभ्यां विशिष्टं कर्मान्तरं विधीयते। 14”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.11 एकादशे- सत्रायागूर्याप्रवृत्तस्य विश्वजिदावश्यकताधिकरणे सूत्रे 32-33
विश्वजित्त्वप्रवृत्ते भावः कर्मणि स्यात्।। 32।।
निष्क्रयवादाच्च।। 33।।
एकादशाधिकरणमारचयति-

1विषयः

सत्रायागुरते योऽयं यजेद्विश्वजितेत्यसौ
यः कोऽप्युत प्रवृत्तः स्यादप्रवृत्तोऽथ वाऽग्रिमः

3पूर्वपक्षः

अविशेषात्प्रवृत्तोऽस्तु सत्राङ्गं हि तथा भवेत्
निमित्तोक्तेरप्रवृत्तः प्रायश्चित्तं चरेदिदम्
इदमाम्नायते- ''यः सत्रायागुरते स विश्वजिता यजेत'' इति। आगुरते संकल्पयतीत्यर्थः। तत्र- सत्रं संकल्प्य कश्चिदनुष्ठातुं प्रवृत्तः। अपरो न प्रवृत्तः। तयोरुभयोर्मध्ये यः कोऽपि विश्वजिता यजेतेति विशेषस्याश्रवणात्। एवम् 'अप्रवृत्त एव यजेत' इत्यपि विशेषो न श्रूयते। तस्मात्- 'अन्यतरः' इत्याद्यः पक्षः।
सत्रे प्रवृत्तस्य विश्वजिदनुष्ठाने सत्राङ्गत्वं विश्वजितो लभ्यते। तस्मात्- 'प्रवृत्त एव विश्वजितं कुर्यात्'। इति द्वितीयः पक्षः।

4सिद्धान्तः

'यः सत्रायागुरते' इति निमित्तत्वेनोपन्यासात्संकल्प्य यदि सत्रं नानुतिष्ठते, तदा प्रायश्चित्तार्थं विश्वजिद्यागं कुर्यात्- इति राद्धान्तः।
18

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे पञ्चशरावयागस्य नैमित्तिकदर्शयागाङ्गताधिकरणे सूत्रे 30-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् पूर्वयोर्दधिपयसोर्नाशेऽपि पयोन्तरणे दध्यन्तरेण च दर्शेऽनुष्ठीयमाने हविरार्तिकृतं वैगुण्यं परिहरन्नयं पञ्चशरावयागो दर्शयागस्याङ्गं भवति। 16”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.12 द्वादशे- बर्हिर्वत्सयोः कालोपलक्षकताधिकरणे सूत्राणि 34-40
वत्ससंयोगे व्रतचोदना स्यात्।। 34।।
कालो वोत्पन्नसंयोगात्।। 35।।
अर्थापरिमाणाच्च।। 36।।
वत्सस्तु श्रुतिसंयोगात्तदङ्गं स्यात्।। 37।।
कालस्तु स्यादचोदना।। 38।।
अनर्थकश्च कर्मसंयोगे।। 39।।
अवचनाच्च स्वशब्दस्य।। 40।।
द्वादशाधिकरणमारचयति-

1विषयः

वत्सैर्दर्शे सवत्सस्य वत्समात्रस्य वा विधिः
व्रतकालं लक्षयेद्वा वत्सयुक्ते व्रते विधिः

3पूर्वपक्षः

भाति रागाद्व्रतप्राप्तेर्वत्समात्रं विधीयते
व्रतस्याकरणं वत्सः कालगीस्तदपाकृतेः
दर्शपूर्णमासयोः श्रूयते ''बर्हिषा पूर्णमासे व्रतमुपैति, वत्सैरमावास्यायाम्'' इति। व्रतं भोजनम्। अत एवाम्नायते- ''अमाषममांसं बहुसर्पिष्कं व्रतयति'' इति। तदेतद्व्रतं वत्सयुक्तमत्र विधीयते। कुतः- 'वत्सैः' इति तृतीयया साहित्यस्य प्रतिभानात्- इत्येकः पक्षः।
रागत एव प्राप्तत्वाद्व्रतं न विधातव्यम्, किंतु- वत्समात्रं विधेयम्- इति द्वितीयः पक्षः।

4सिद्धान्तः

न हि वत्सः पाण्यादिवद्व्रतस्य करणम्
ततो न तस्य विधिः
किंतु- वत्सानामपाकरणेन काल उपलक्ष्यते
तस्मिन्काले व्रतमुपेयात्
एवं पूर्णमासे बर्हिः संपादनकाले व्रतमुपेयात्।
20

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- सत्रायागूर्याप्रवृत्तस्य विश्वजिदावश्यकताधिकरणे सूत्रे 32-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “'यः सत्रायागुरते' इति निमित्तत्वेनोपन्यासात्संकल्प्य यदि सत्रं नानुतिष्ठते, तदा प्रायश्चित्तार्थं विश्वजिद्यागं कुर्यात्- इति राद्धान्तः। 18”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.13 त्रयोदशे- वत्सापाकरणकालस्य संनयदसंनयदुभयसाधारणताधिकरणे सूत्रे 41-42
कालश्चेत्संनयत्पक्षे तल्लिङ्गसंयोगात्।। 41।।
कालार्थत्वाद्वोभयोः प्रतीयेत।। 42।।
त्रयोदशाधिकरणमारचयति-

1विषयः

सांनाय्यिनः स कालः स्यादितरस्यापि वाऽग्रिमः

3पूर्वपक्षः

वत्ससत्त्वाल्लक्ष्यकालो ह्यन्यस्याप्यस्त्यतोऽन्तिमः
यस्य सांनाय्यमस्ति, तस्यैवायं व्रतकालः। कुतः- लक्षकस्य वत्सापाकरणस्य सद्भावात्। यस्त्वमावास्यायां सांनाय्यं न करोति किंत्वैन्द्राग्नपुरोडाशं करोति। न तस्य वत्सापाकरणमस्ति। नापि पौर्णमास्यां तद्विद्यते। तस्मात्- सांनाय्यिन एव स कालः। इति चेत्-

4सिद्धान्तः

मैवम्
वत्सापाकरणाभावेऽपि तदुपलक्षितकालस्य विद्यमानत्वात्
तस्मात्- सर्वस्यापि स कालः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- बर्हिर्वत्सयोः कालोपलक्षकताधिकरणे सूत्राणि 34-40”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न हि वत्सः पाण्यादिवद्व्रतस्य करणम् ततो न तस्य विधिः किंतु- वत्सानामपाकरणेन काल उपलक्ष्यते तस्मिन्काले व्रतमुपेयात् एवं पूर्णमासे बर्हिः संपादनकाले व्रतमुपेयात्। 20”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.4.14 चतुर्दशे- सांनाय्यरहितस्य शाखाहरणनिराकरणाधिकरणे सूत्राणि 43-47
प्रस्तरे शाखा श्रयणवत्।। 43।।
कालविधिर्वोभयोर्विद्यमानत्वात्।। 44।।
अतत्संस्कारार्थत्वाच्च।। 45।।
तस्माच्च विप्रयोगे स्यात्।। 46।।
उपवेषश्च पक्षे स्यात्।। 47।।
चतुर्दशाधिकरणमारचयति-

3पूर्वपक्षः

दर्शपूर्णमासयोराम्नायते- ''सह शाखया प्रस्तरं प्रहरति'' इति। तत्र- प्रस्तरप्रहरणं प्रति शाखाया अनङ्गत्वेन विधिर्भासते। सत्यङ्गत्वे शाखया विना प्रस्तरप्रहरणस्य वैगुण्यप्रसङ्गात्। सांनाय्यरहितेनापि शाखा संपादनीया। इति चेत्-
अत्र पादे- अधिकरणानि14, सूत्राणि47।
आदितः- अधिकरणानि 421, सूत्राणि 1115।
षष्ठाध्यायस्य पञ्चमः पादः
कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- वत्सापाकरणकालस्य संनयदसंनयदुभयसाधारणताधिकरणे सूत्रे 41-42”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् वत्सापाकरणाभावेऽपि तदुपलक्षितकालस्य विद्यमानत्वात् तस्मात्- सर्वस्यापि स कालः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 6, Pāda 3 Contents Adhyāya 6, Pāda 5 →