6.3.1
प्रथमे नित्ये यथाशक्त्यङ्गानुष्ठानाधिकरणे सूत्राणि 1-7
SŪसर्वशक्तौ प्रवृत्तिः स्यात्तथाभूतोपदेशात्।। 1।।
SŪअपि वाऽप्येकदेशे स्यात्प्रधाने ह्यर्थनिर्वृत्तिर्गुणमात्रमितरत्तदर्थत्वात्।। 2।।
SŪतदकर्मणि च दोषः, तस्मात्ततो विशेषः स्यात्प्रधानेनाभिसंबन्धात्।। 3।।
SŪकर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात्सर्वेषामुपदेशः स्यादिति।। 4।।
SŪसर्वस्य व्यपवर्गित्वादेकस्यापि प्रयोगे स्याद्यथा क्रत्वन्तरेषु।। 5।।
SŪविध्यपराधे च दर्शनात्समाप्तेः।। 6।।
SŪप्रायश्चित्तविधानाच्च।। 7।।
तृतीयपादे प्रथमाधिकरणमारचयति-
1विषयः
नित्ये सर्वाङ्गसंहारः शक्त्या वाद्यः फलित्वतः
3पूर्वपक्षः
शक्त्या त्यागासंभवेन निमित्ते जीवने स्थिते
''यावज्जीवमग्निहोत्रं जुहोति'' इत्यादौ नित्ये कर्मणि सर्वाण्यङ्गान्युपसंहृत्य तद्विशिष्ट एव प्रयोगः कर्तव्यः। कुतः- भावनांशस्य कथंभावस्य समुच्चितैः सर्वैरङ्गैः परिपूरणेन सर्वाङ्गोपेतस्यैव प्रधानस्य फलवत्त्वात्। इति चेत्-
4सिद्धान्तः
मैवम्
अग्निहोत्रदर्शपूर्णमासादिशब्दवाच्यं प्रधानम्
तस्य च स्ववाक्यगतजीवननिमित्तेनान्वयात्सति जीवने प्रधानं कर्म त्यक्तुमशक्यम्
ततो वाक्यान्तरावगतेष्वङ्गेष्वशक्यं किंचिदङ्गं परित्यज्यापि शक्यैरङ्गैरुपेतं प्रधानं कर्मानुष्ठेयम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- ऋणत्रयापाकरणस्य ब्राह्मणक्षात्रयवैश्यानां नित्यताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य द्वितीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.2
द्वितीये- अङ्गवैकल्ये काम्यस्य निष्फलत्वाधिकरणे सूत्राणि 8- 10
SŪकाम्येषु चैवमर्थित्वात्।। 8।।
SŪअसंयोगात्तु नैवं स्याद्विधेः शब्दप्रमाणत्वात्।। 9।।
SŪअकर्मणि चाप्रत्यवायात्।। 10।।
द्वितीयाधिकरणमारचयति-
1विषयः
काम्ये शक्त्योत सर्वाङ्गं शक्त्या लोपस्य संभवात्
3पूर्वपक्षः
मैवं लोपे निष्फलत्वाच्छाब्दमङ्गं न लुप्यते
यथा नित्येष्वग्निहोत्रादिकर्मस्वशक्यमङ्गं परित्यक्तम्, तथा काम्येऽष्वप्यैन्द्राग्नसौर्यादिष्वशक्याङ्गलोप-संभवाच्छक्याङ्गोपेतमनुष्ठेयम्। इति चेत्-
मैवम्। अङ्गलोपे काम्यमानफलानुत्पत्तेः। सर्वाङ्गोपेतमेव हि प्रधानं फलसाधनत्वेन विहितम्। तत्र प्रधानस्य त्यागे यथा नास्ति फलम्, तथाऽङ्गत्यागेऽपि। फलसाधनत्वं हि शास्त्रसमधिगम्यम्। ततो यद्यावदङ्गं वा प्रधानं वा शब्दोपात्तम्, तस्य लोपे साधनत्वं नास्ति। नहि गमनसाधनस्य रथस्य चक्राद्यङ्गेष्वन्यतमस्य वैकल्येन गमनसाधनत्वं दृष्टम्। तस्मात्- यदा सर्वाङ्गोपसंहारः कर्तुं शक्यते, तदैव काम्यमनुष्ठेयम्। न च नित्येऽप्येवमस्तु- इति शङ्कनीयम्। जीवनं निमित्तीकृत्य तत्र विधानात्। यथा गृहदाहं निमित्तीकृत्य विहिता क्षामवतीष्टिरवश्यं कर्तव्या। यथा वा लोके निमित्तभूतायां बुभुक्षायां सत्यां भोजनमवश्यं कर्तव्यम्, तथा जीवने सति कर्मावश्यमनुष्ठेयम्। न च- जीवनवत्फलकामनाया अपि निमित्तत्वं शङ्कनीयम्। सत्यामपि कामनायां कर्मणोऽवश्यंभावाभावात्। नहि कामिनः कर्माननुष्ठाने प्रत्यवायः श्रूयते। ननु- शास्त्रीयप्रत्यवायाभावेऽपि फलानुत्पत्तिलक्षणो बाधोऽस्त्येव। यथा बुभुक्षोरभोजने राजदण्डाभावेऽपि पित्तक्षोभादिरूपो बाधोऽस्ति तद्वत्। इति चेत्-
मैवम्। तर्हि यथा फलं सिध्यति, तथा कामिना प्रयतितव्यम्। फलं च शब्दावगतसर्वाङ्गोपसंहारमन्तरेण न सिध्यतीत्युक्तम्। नित्ये तु न फलसाधनत्वेन विधिः, किं तु जीवननिमित्तसंयोगेन। तथा सत्यङ्गवैकल्येऽपि निमित्तेन नैमित्तिकसंयोगः श्रुत्यभिमतो नापैति। ततो विकलाङ्गमपि कर्तव्यमेव। अत एव नित्यस्याकरणे प्रत्यवायप्रायश्चित्ते शास्त्रेष्ववगम्येते। काम्येष्वङ्गवैकल्ये शास्त्राभिमतफलसाधनत्वाभावाद्विकलाङ्गं काम्यं न प्रयोक्तव्यम्। अत एव तत्त्यागेऽपि प्रत्यवायप्रायश्चित्ते न स्तः। तस्मात्- काम्यं कृत्स्नाङ्गोपेतं कर्तुं यदा शक्नुयात्तदा कुर्यात्। नित्यं तु यथा शक्नुयात्, तथा कुर्यात्। एतदेवाभिप्रेत्य श्रुतम्- ''तदेव यादृक्कीदृक्च होतव्यम्'' इति। तस्मात्- नित्येष्वङ्गलोपेऽपि काम्येष्वङ्गलोपो न सोढुं शक्यः।। 2।। 3।।
4सिद्धान्तः
प्रधानानुष्ठितौ यद्वज्जीवनस्य निमित्तता
कामस्य न तथा यस्मात्काम्यं त्यक्तुं च शक्यते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे नित्ये यथाशक्त्यङ्गानुष्ठानाधिकरणे सूत्राणि 1-7”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अग्निहोत्रदर्शपूर्णमासादिशब्दवाच्यं प्रधानम् तस्य च स्ववाक्यगतजीवननिमित्तेनान्वयात्सति जीवने प्रधानं कर्म त्यक्तुमशक्यम् ततो वाक्यान्तरावगतेष्वङ्गेष्वशक्यं किंचिदङ्गं परित्यज्यापि शक्यैरङ्गैरुपेतं प्रधानं कर्मानुष्ठेयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.3
तृतीये द्रव्यभेदेऽपि कर्माभेदाधिकरणे सूत्रे 11-12
SŪक्रियाणामाश्रितत्वाद्द्रव्यान्तरे विभागः स्यात्।। 11।।
SŪअपि वाऽव्यतिरेकाद्रूपशब्दाविभागाच्च गोत्ववदैककर्म्यं स्यान्नामधेयं च सत्त्ववत्।। 12।।
तृतीयाधिकरणमारचयति-
1विषयः
नीवारादिद्रव्यभेदात्कर्मान्यत्स्यात्तदेव वा
3पूर्वपक्षः
द्रव्यकर्मैक्यतः पूर्वस्तत्रेषद्भेदतोऽन्तिमः
दर्शपूर्णमासयोर्वीह्यसंभवे नीवारा यदि स्वीक्रियन्ते तदा नीवारादिद्रव्यभेदात्कर्मान्तरं तदित्यभ्युपेयम्। कुतः- द्रव्यकर्मणोरेकत्वात्। द्रव्यं हि कर्मणः स्वरूपम्। ततो द्रव्यान्तरत्वे कर्मान्तरत्वमनिवार्यम्। इति चेत्-
4सिद्धान्तः
मैवम्
द्रव्यकर्मणोरीषद्भेदस्यापि भावात्
द्रव्यमाश्रयः, कर्माश्रितम्
आश्रयाश्रितयोर्भेदाभेदावभ्युपगम्य तादात्म्यसंबन्धो वर्ण्यते
तस्मात्- द्रव्यभेदेऽपि न कर्म भिद्यते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- अङ्गवैकल्ये काम्यस्य निष्फलत्वाधिकरणे सूत्राणि 8- 10”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रधानानुष्ठितौ यद्वज्जीवनस्य निमित्तता कामस्य न तथा यस्मात्काम्यं त्यक्तुं च शक्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.4
चतुर्थे द्रव्यापचारे प्रतिनिधिना समापनाधिकरणे सूत्राणि 13-18
SŪश्रुतिप्रमाणत्वाच्छिष्टाभावे नागमोऽन्यस्याशिष्टत्वात्।। 13।।
SŪक्वचिद्विधानाच्च।। 14।।
SŪआगमो वा चोदनार्थाविशेषात्।। 15।।
SŪनियमार्थः क्वचिद्विधिः।। 16।।
SŪतन्नित्यं तच्चिकीर्षा हि।। 17।।
चतुर्थाधिकरणमारचयति-
1विषयः
द्रव्ये प्रतिनिधिर्नास्ति विद्यते वा, न विद्यते
मानाभावादस्ति कर्मचोदनाक्षेपिका यतः
3पूर्वपक्षः
नित्यकाम्यकर्मणोः श्रुतस्य व्रीह्यदिद्रव्यस्यापचारे द्रव्यान्तरं प्रतिनिधित्वेन कुत्रापि न विहितम्। अतो मानाभावान्नास्ति प्रतिनिधिः। इति चेत्-
मैवम्। कर्मचोदना हि द्रव्यमन्तरेणानुपपन्ना द्रव्यसामान्यमाक्षिपति। तत्र व्रीहिशास्त्रं नियामकम्। तच्चासंभवाद्यदा न प्रवर्तेत, तदा मा भून्नियमः। तथाऽपि सामान्याक्षेपस्य वारयितुमशक्यत्वात्तत्सामान्यं क्वचिद्विशेषे पर्यवस्यतीति प्रमाणसद्भावादस्ति प्रतिनिधिः। ततो द्रव्यान्तरेणापि तत्कर्मानुष्ठातव्यमेव। न तु श्रुतद्रव्याभावमात्रात्कर्मलोपः।। 5।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये द्रव्यभेदेऽपि कर्माभेदाधिकरणे सूत्रे 11-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् द्रव्यकर्मणोरीषद्भेदस्यापि भावात् द्रव्यमाश्रयः, कर्माश्रितम् आश्रयाश्रितयोर्भेदाभेदावभ्युपगम्य तादात्म्यसंबन्धो वर्ण्यते तस्मात्- द्रव्यभेदेऽपि न कर्म भिद्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.5
पञ्चमे देवतामन्त्रक्रियापचारे प्रतिनिध्यभावाधिकरणे सूत्रे 18-19
SŪन देवताग्निशब्दक्रियमन्यार्थसंयोगात्।। 18।।
SŪदेवतायां च तदर्थत्वात्।। 19।।
पञ्चमाधिकरणमारचयति-
1विषयः
देवाग्निमन्त्रोक्षणादावस्ति प्रतिनिधिर्न वा
पुरेवास्तीह यन्मुख्ये कार्यं तन्नेति नास्त्यसौ
3पूर्वपक्षः
''आग्नेयोऽष्टाकपालः'' ''सौर्यं चरुम्'' इत्यादावुक्ता अग्निसूर्यादयो देवाः, आहवनीयादयोऽग्नयः, ''बर्हिर्देवसदनं दामि'' इत्यादयो मन्त्राः, प्रोक्षणादयः क्रियाः। एतेषां देवादीनामपचारे द्रव्यवत्प्रतिनिधिरस्ति। इति चेत्-
मैवम्। कार्यसिद्ध्यभावात्। पुरोडाशनिष्पादनं कार्यं व्रीह्यपचारेऽपि नीवारेण सिध्यति। देवादिकार्यं तु नान्येन सिध्यति। न ह्याग्नेययागो विष्णुना निष्पद्यते। नाप्याहवनीयकार्यो होमोऽसंस्कृतेन वह्निना सिध्यति। नापि 'बर्हिर्देवसदनं दामि' इत्येतन्मन्त्रसाध्यमर्थप्रकाशनमन्येन मन्त्रेण सिध्यति। नापि प्रोक्षणकार्यमदृष्टमविहितेनान्यार्थं विहितेन वा क्रियान्तरेणापि सिध्यति। तस्मात्- नास्ति देवादीनां प्रतिनिधिः।। 6।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे द्रव्यापचारे प्रतिनिधिना समापनाधिकरणे सूत्राणि 13-18”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.6
षष्ठे प्रतिषिद्धद्रव्यस्य प्रतिनिधित्वाभावाधिकरणे सूत्रम्
SŪप्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः।। 20।।
षष्ठाधिकरणमारचयति-
1विषयः
माषाद्याः प्रतिनिध्यर्हा न वाद्यस्तदवारणात्
3पूर्वपक्षः
नार्हा अयज्ञियत्वोक्तेरर्थात्तद्विनिवारणात्
''मौद्गं चरुं निर्वपेच्छ्रीकामः'' इत्यत्र मुद्गाभावे माषाद्याः प्रतिनिधित्वमर्हन्ति। कुतः- मुद्गकार्ये चरुनिष्पादने समर्थत्वात्। निवारकस्य प्रतिषेधवचनस्याभावाच्च। इति चेत्-
4सिद्धान्तः
मैवम्
''अयज्ञिया वै माषाश्चणकाः कोद्रवाः'' इति माषादिधान्यत्रयस्यायज्ञियत्ववचनस्य तन्निषेधे पर्यवसानात्
तस्मात्- नार्हा माषाद्याः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे देवतामन्त्रक्रियापचारे प्रतिनिध्यभावाधिकरणे सूत्रे 18-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.7
सप्तमे स्वामिनः प्रतिनिध्यभावाधिकरणे सूत्रम्
SŪस्वामिनः फलसमवायात्फलस्य कर्मयोगित्वात्।। 21।।
सप्तमाधिकरणमारचयति-
1विषयः
स्वामिनोऽस्ति प्रतिनिधिर्न वा द्रव्यवदस्ति सः
न मृते प्रेरकाभावाज्जीवनेऽप्यफलित्वतः
3पूर्वपक्षः
यथा यागसाधनद्रव्यस्य प्रतिनिधिः, तथा कर्तुर्यजमानस्यापि प्रतिनिधिरस्तु। इति चेत्-
मैवम्। किं यजमाने मृते सति प्रतिनिधिरन्विष्यते, किंवा कार्यान्तरव्यापृते। नाद्यः। असंभवात्। अन्यस्मिन्नपचरिते यजमानः प्रतिनिधिं गृह्णाति। वजमानेऽपचरिते कोऽन्यः प्रतिनिधिं गृह्णीयात्। को वाऽध्वर्युप्रभृतीन्प्रेरयेत्। न द्वितीयः। यजमानकार्यस्य फलित्वस्यान्यस्मिन्नसंभवात्। संभवे वा तस्यैव स्वामित्वेन प्रतिनिधित्वाभावात्। तस्मात्- नास्ति यजमानस्य प्रतिनिधिः।। 8।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे प्रतिषिद्धद्रव्यस्य प्रतिनिधित्वाभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''अयज्ञिया वै माषाश्चणकाः कोद्रवाः'' इति माषादिधान्यत्रयस्यायज्ञियत्ववचनस्य तन्निषेधे पर्यवसानात् तस्मात्- नार्हा माषाद्याः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.8
अष्टमे सत्रे कस्यचित्स्वामिनोऽपचारे प्रतिनिध्यादानाधिकरणे (सत्रन्याये) सूत्रम्
SŪबहूनां तु प्रवृत्तेऽन्यमागमयेदवैगुण्यात्।। 22।।
अष्टमाधिकरणमारचयति-
1विषयः
मृते सत्रिणि नान्यः स्यात्स्याद्वा नात्रापि पूर्ववत्
स्यादस्वाम्येऽपि कर्त्रंशे साप्तदश्यस्य सिद्धये
3पूर्वपक्षः
सत्रिषु बहुषु यजमानेष्वेकस्मिन्मृते प्रतिनिधिर्नास्ति। पूर्वाधिकरणे यजमानप्रतिनिधेर्निराकृतत्वात्। इति चेत्-
मैवम्। भङ्ग्यन्तरेण तत्सिद्धेः। सत्रिणां कार्यद्वयम्- फलभोक्तृत्वम्, यागकर्तृत्वं च। तत्र प्रतिनिधेः फलित्वाभावेऽपि कर्तृत्वं संभवति। ऋत्विक्कार्ये कर्तत्वे प्रतिनिधिमन्तरेण साप्तदश्याभावात्षोडशैव कार्याणि निष्पद्येरन्, एकं कार्यं लुप्येत। तस्मात्- यजमानस्य प्रतिनिध्यभावेऽप्यृत्विजः प्रतिनिधिसद्भावात्पुरुषान्तरं प्रतिनिधापयितव्यम्।। 9।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे स्वामिनः प्रतिनिध्यभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.9
नवमे- प्रतिनिहितस्यास्वामित्वाधिकरणे सूत्राणि 23-25
SŪस स्वामी स्यात्तत्संयोगात्।। 23।।
SŪकर्मकरो वा भृतत्वात्।। 24।।
SŪतस्मिंश्च फलदर्शनात्।। 25।।
नवमाधिकरणमारचयति-
1विषयः
स स्वाम्यप्युत कर्तैव स्वामी तत्स्थानगत्वतः
3पूर्वपक्षः
अनारब्धुः फलाभावादस्वामी कर्तृमात्रता
यः सत्रिणः प्रतिनिधिः, तस्य यजमानस्थाने स्वीकृतत्वेन यजमानत्वमप्यस्ति। इति चेत्-
4सिद्धान्तः
मैवम्
आरभ्य समाप्तिपर्यन्तमनुतिष्ठतः फलं युक्तत्
प्रतिनिधिस्तु नारब्धवान्
अतः फलाभावाद्यजमानत्वं नास्ति
किंतु कर्तृत्वमात्रमेव
मृतस्य तु समाप्त्यभावेऽपि फलं समाम्नायते- 'यो दीक्षितानां प्रमीयेत, अपि तस्य फलम्' इति
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे सत्रे कस्यचित्स्वामिनोऽपचारे प्रतिनिध्यादानाधिकरणे (सत्रन्याये) सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.10
दशमे- सत्रे प्रतिनिहितस्य यजमानधर्मग्राहिताधिकरणे सूत्रम्
SŪस तद्धर्मा स्यात्कर्मसंयोगात्।। 26।।
दशमाधिकरणमारचयति-
1विषयः
नास्य स्युः फलिसंस्काराः कार्या वा, नाफलित्वतः
अन्येषां साप्तदश्यार्थमफलिन्यपि ते मताः
3पूर्वपक्षः
सत्रे योऽयं प्रतिनिधिः, तस्य फलित्वाभावात्फलयोग्यताहेतवो वपनादिसंस्कारा न कर्तव्याः। इति चेत्-
मैवम्। अस्य फलाभावेऽप्यस्मिन्संस्कृते सत्यन्येषां यत्साप्तदश्यम्, तत्संस्कृतेषु सप्तदशसु स्थितं भवति। ततः 'सप्तदशावराः सत्रमासीरन्' इत्येतच्छास्त्रमनुगृहीतं भवति। अन्यथा संस्कृताः षोडशैवेति तच्छास्त्रं बाध्येत। यदि बहूनां यजमानानामलाभादवरा अल्पसंख्या यजमानाः स्युः, तदाऽपि सप्तदशापेक्षिताः। न तु ततोऽप्यल्पसंख्या इत्यर्थः। तस्मात्- अफलिन्यपि तस्मिन्संस्काराः कर्तव्याः।। 11।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- प्रतिनिहितस्यास्वामित्वाधिकरणे सूत्राणि 23-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् आरभ्य समाप्तिपर्यन्तमनुतिष्ठतः फलं युक्तत् प्रतिनिधिस्तु नारब्धवान् अतः फलाभावाद्यजमानत्वं नास्ति किंतु कर्तृत्वमात्रमेव मृतस्य तु समाप्त्यभावेऽपि फलं समाम्नायते- 'यो दीक्षितानां प्रमीयेत, अपि तस्य फलम्' इति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.11
एकादशे- श्रुतद्रव्यापचारे तत्सदृशस्यैव प्रतिनिधित्वाधिकरणे सूत्रम्
SŪसामान्यं तच्चिकीर्षा हि।। 27।।
एकादशाधिकरणमारचयति-
1विषयः
किंचित्प्रतिनिधेयं स्याच्छ्रुततुल्यमुताग्रिमः
3पूर्वपक्षः
आक्षेपान्न समद्रव्ये मुख्यांशानुगमो यतः
श्रुतव्रीह्यपचारे नीवारप्रियङ्ग्वादि किंचिद्द्रव्यं प्रतिनिधातव्यम्। प्रधानविधिना सामान्यतो द्रव्यमात्रस्याक्षिप्तत्वात्। इति चेत्-
4सिद्धान्तः
मैवम्
''ब्रीहिभिर्यजेत'' इत्यत्र न व्रीहिः पुरोडाशं निष्पादयति
किंतु व्रीहित्वजात्युपलक्षिता अंशा एव तन्निष्पादका इत्यंशानां मुख्यद्रव्यत्वम्
ते चावयवाः सदृशे नीवारादौ बहवोऽनुगच्छन्ति
'भूयोऽवयवसामान्यं सादृश्यम्' इत्यभ्युपगमात्
तस्मात्- अत्यन्तसदृशमेव प्रतिनिधेयम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- सत्रे प्रतिनिहितस्य यजमानधर्मग्राहिताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.12
द्वादशे- द्रव्यापचारे वैकल्पिकद्रव्यान्तरानुपादानाधिकरणे सूत्राणि 28-30
SŪनिर्देशात्तु विकल्पे यत्प्रवृत्तम्।। 28।।
SŪअशब्दमिति चेत्। 29।।
SŪनानङ्गत्वात्।। 30।।
द्वादशाधिकरणमारचयति-
1विषयः
यवाः प्रतिनिधेयाः किं व्रीह्यर्थे तत्समा उत
3पूर्वपक्षः
मुख्यलाभादग्रिमोऽन्त्यो व्रीहिपक्षे यवाविधेः
ब्रीहीणामसंभवे यवानां प्रतिधित्वं युक्तम्। ''यवैर्यजेत'' इति विहितत्वेन मुख्यद्रव्यलाभात्। इति चेत्-
4सिद्धान्तः
मैवम्
व्रीहियवयोर्विकल्पितत्वेन व्रीहिपक्षे यवविध्यभावात्
तस्मात्- सदृशमेव प्रतिनिधातव्यम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- श्रुतद्रव्यापचारे तत्सदृशस्यैव प्रतिनिधित्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''ब्रीहिभिर्यजेत'' इत्यत्र न व्रीहिः पुरोडाशं निष्पादयति किंतु व्रीहित्वजात्युपलक्षिता अंशा एव तन्निष्पादका इत्यंशानां मुख्यद्रव्यत्वम् ते चावयवाः सदृशे नीवारादौ बहवोऽनुगच्छन्ति 'भूयोऽवयवसामान्यं सादृश्यम्' इत्यभ्युपगमात् तस्मात्- अत्यन्तसदृशमेव प्रतिनिधेयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.13
त्रयोदशे- पूतिकस्य सोमप्रतिनिधित्वाधिकरणे सूत्रम्
SŪवचनाच्चान्याय्यमभावे तत्सामान्येन प्रतिनिधिरभावादितरस्य।। 31।।
त्रयोदशाधिकरणमारचयति-
1विषयः
सोमाभावे भवेत्पूतीविधिः प्रतिनिधावुत
3पूर्वपक्षः
नियमो वचनादाद्यो लाघवात्तन्नियम्यते
'यदि सोमं न विन्देत्, पूतीकानभिषुणुयात्' इति लिङ्प्रत्ययस्य विधिवाचित्वादिदं वाक्यं पूतीकलताखण्डानां विधायकम्। इति चेत्-
4सिद्धान्तः
मैवम्
सदृशतया प्रतिनिधित्वेन प्राप्तेषु पूतीकादिद्रव्येषु नियममात्रविधौ लाघवात्
तस्मात्- पूतीकद्रव्यं नियम्यते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- द्रव्यापचारे वैकल्पिकद्रव्यान्तरानुपादानाधिकरणे सूत्राणि 28-30”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् व्रीहियवयोर्विकल्पितत्वेन व्रीहिपक्षे यवविध्यभावात् तस्मात्- सदृशमेव प्रतिनिधातव्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.14
चतुर्दशे- प्रतिनिध्यपचारे उपात्तद्रव्यसदृशस्य पुनः प्रतिनिधित्वाधिकणे सूत्रम्
SŪन प्रतिनिधौ समत्वात्।। 32।।
चतुर्दशाधिकरणमारचयति-
1विषयः
प्रतिनिध्यपचारे तु तेन मुख्येन वा समम्
3पूर्वपक्षः
प्रक्रान्तत्वादग्रिमोऽन्त्यः श्रुतांशसमलाभतः
सत्रे प्रवृत्तः पुरुषो ब्रह्मा वेदत्रयमधीतवान्। तस्मिन्मृते तादृशस्यालाभात्स्वशाखामात्राध्यायी प्रतिनिधापितः। तेन च प्रयोगः प्रक्रान्तः। तस्मिन्नप्यपचरिते पुनः पुरुषान्तरान्वषेणायां लब्धेऽपि त्रिवेदिनि तमुपेक्ष्य प्रतिनिधिना समं स्वशाखामात्राध्यायिनं गृह्णीयात्। एकवेदाध्यायिकर्तृकस्य प्रयोगस्य प्रक्रान्तत्वात्। इति चेत्-
4सिद्धान्तः
मैवम्
अध्वर्यूद्गातृहोतॄणां प्रयोगेषु प्रसक्तं वैकल्यं समाधातुं ब्रह्मणो वेदत्रयाध्ययनमपेक्षितम्
अतो मुख्येन सदृशं त्रिवेदिनमेव गृह्णीयात्
तथा सति त्रिवेदिब्रह्मप्रतिपादकश्रुत्यभिमतैर्बहुभिरंशैर्मुख्यसादृश्यं लभ्येत
तस्मात्- मुख्येन सदृशस्य ग्रहणम्, न तु प्रतिनिधिना सदृशस्य
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- पूतिकस्य सोमप्रतिनिधित्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् सदृशतया प्रतिनिधित्वेन प्राप्तेषु पूतीकादिद्रव्येषु नियममात्रविधौ लाघवात् तस्मात्- पूतीकद्रव्यं नियम्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.15
पञ्चदशे- श्रुतस्यापि प्रतिनिधेरपचार उपात्तसदृशस्य पुनः प्रतिनिधित्वाधिकरणे सूत्रे 33-34
SŪस्याच्छ्रुतिलक्षणे नियतत्वात्।। 33।।
SŪन तदीप्सा हि।। 34।।
पञ्चदशाधिकरणमारचयति-
1विषयः
पूतीकस्यापचारे स्यात्तेन सोमेन वा समम्
3पूर्वपक्षः
आद्यः श्रुतांशसादृश्यात्पूतीकाविधितोऽन्तिमः
यदा सोमप्रतिनिधेः पूतीकस्यापचारः स्यात्, तदा तेन पूतीकेन सदृशं द्रव्यान्तरमुपादेयम्। ''पूतीकानभिषुणुयात्'' इति श्रुतेः पूतीकांशैः सादृश्यस्य लाभात्। इति चेत्-
4सिद्धान्तः
मैवम्
नास्ति पूतीकानां विधिः, किंतु 'नियमार्थं तद्वचनम्' इत्युक्तम्
ततः श्रुतस्य सोमसमांशस्य लाभाय सोमसमं द्रव्यान्तरमुपादेयम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- प्रतिनिध्यपचारे उपात्तद्रव्यसदृशस्य पुनः प्रतिनिधित्वाधिकणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अध्वर्यूद्गातृहोतॄणां प्रयोगेषु प्रसक्तं वैकल्यं समाधातुं ब्रह्मणो वेदत्रयाध्ययनमपेक्षितम् अतो मुख्येन सदृशं त्रिवेदिनमेव गृह्णीयात् तथा सति त्रिवेदिब्रह्मप्रतिपादकश्रुत्यभिमतैर्बहुभिरंशैर्मुख्यसादृश्यं लभ्येत तस्मात्- मुख्येन सदृशस्य ग्रहणम्, न तु प्रतिनिधिना सदृशस्य”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.16
षोडशे- मुख्यापचारे तत्प्राप्तौ तस्यैवोपादानाधिकरणे सूत्रम्
SŪमुख्याधिगमे मुख्यमागमो हि तदभावात्।। 35।।
षोडशाधिकरणमारचयति-
1विषयः
प्रतिनिध्युद्यमे मुख्यलाभे ग्राह्यं तु किं द्वयोः
3पूर्वपक्षः
संकल्पेन प्रतिनिधिर्मुख्यं शास्त्रार्थलाभतः
यदा मुख्यान्व्रीहीनलब्ध्वा नीवारैः संकल्पः कृतः। तदा कथंचिद्व्रीहिलाभेऽपि संकल्पभ्रंशो मा भूदिति नीवारा एवोपादेयाः। इति चेत्-
4सिद्धान्तः
मैवम्
मुख्याः शास्त्रार्थलाभेन संकल्पं बाधित्वा व्रीहय एव कर्तव्याः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- श्रुतस्यापि प्रतिनिधेरपचार उपात्तसदृशस्य पुनः प्रतिनिधित्वाधिकरणे सूत्रे 33-34”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् नास्ति पूतीकानां विधिः, किंतु 'नियमार्थं तद्वचनम्' इत्युक्तम् ततः श्रुतस्य सोमसमांशस्य लाभाय सोमसमं द्रव्यान्तरमुपादेयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.17
सप्तदशे- प्रतिनिधिना प्रारब्धे कर्मणि श्रुतद्रव्यलाभे श्रुतद्रव्येणैव समापनाधिकरणे सूत्रम्
SŪप्रवृत्तेऽपीति चेत्। 36।।
सप्तदशाधिकरणमारचयति-
1विषयः
अमुख्ये संस्कृते मुख्यलाभे किं ग्राह्यमेतयोः
3पूर्वपक्षः
अमुख्यस्तक्षणाद्यूपः खादिरस्तक्षणात्पुनः
यदा यूपार्थं खदिरमलब्ध्वा कदरे तक्षणादिसंस्कृते सति पश्चान्मुख्यः खदिरो यदि पशुनियोजनात्प्रागेव लभ्येत, तदा तक्षणादिसंस्कृतः प्रतिनिधिः कदर एव ग्राह्यः, असंस्कृतात्संस्कृतस्य प्रशस्तत्वात्। इति चेत्-
4सिद्धान्तः
मैवम्
मुख्ये खदिरे लब्धे पुनस्तक्षणादिसंस्कारः कर्तव्यः
तथा सति संस्कृतस्य मुख्यस्य लाभात्प्रतिनिधिः संस्कृतोऽपि परित्याज्यः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- मुख्यापचारे तत्प्राप्तौ तस्यैवोपादानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् मुख्याः शास्त्रार्थलाभेन संकल्पं बाधित्वा व्रीहय एव कर्तव्याः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.18
अष्टादशे- प्रतिनिधौ पशौ नियुक्ते श्रुतद्रव्यलाभेऽपि प्रतिनिधिनैव समापनाधिकरणे सूत्रम्
SŪनानर्थकत्वात्।। 37।।
अष्टादशाधिकरणमारचयति-
1विषयः
पशौ नियुक्ते खदिरलाभे कार्यं पुनर्न वा
3पूर्वपक्षः
साद्गुण्याय पुनः कार्यं मुख्यावृत्तिर्गुणान्न हि
यदा संस्कृते प्रतिनिधौ पशुर्नियुज्यते, तदूर्ध्वं खदिरो यदि लभ्येत, तदाऽपि पूर्वन्यायेन मुख्यलाभात्साद्गुण्याय मुख्ये यूपे पुनर्नियोजनं कार्यम्। इति चेत्-
4सिद्धान्तः
मैवम्
गुणभूतो यूपः
पशुनियोजनं प्रधानभूतम्
नहि गुणानुसारेण प्रधानस्यावृत्तिर्युक्ता
तस्मात्- नियोजनं पुनर्न कार्यम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- प्रतिनिधिना प्रारब्धे कर्मणि श्रुतद्रव्यलाभे श्रुतद्रव्येणैव समापनाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् मुख्ये खदिरे लब्धे पुनस्तक्षणादिसंस्कारः कर्तव्यः तथा सति संस्कृतस्य मुख्यस्य लाभात्प्रतिनिधिः संस्कृतोऽपि परित्याज्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.19
एकोनविंशे- संस्कारायोग्यस्यापि मुख्यस्यैवोपादानाधिकरणे सूत्रम्
SŪद्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्।। 38।।
एकोनविंशाधिकरणमारचयति-
1विषयः
अमुख्यमुख्ये संस्कारयोग्यायोग्ये तदा नु किम्
3पूर्वपक्षः
आद्यो बहुगुणालोपान्न मुख्यायास्तु लोपनम्
अमुख्यः कदरः स्थूलत्वात्तक्षणादिसंस्कारयोग्यः, मुख्यस्तु खदिरः सूक्ष्मत्वात्तदयोग्यः। तदा तक्षणादिबहुगुणलोपो मा भूदिति प्रतिनिधिरेवादरणीयः। इति चेत्-
4सिद्धान्तः
मैवम्
मुख्यसिद्धये गुणलोपस्य सोढुं शक्यत्वात्
तस्मात्- कृशोऽपि मुख्य एवोपादेयः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- प्रतिनिधौ पशौ नियुक्ते श्रुतद्रव्यलाभेऽपि प्रतिनिधिनैव समापनाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् गुणभूतो यूपः पशुनियोजनं प्रधानभूतम् नहि गुणानुसारेण प्रधानस्यावृत्तिर्युक्ता तस्मात्- नियोजनं पुनर्न कार्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.20
विंशे- मुख्यस्य कार्यासाधकत्वे प्रतिनिधेरेवोपादेयताधिकरणे सूत्रम्
SŪअर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तेर्द्रव्याणामर्थशेषत्वात्।। 39।।
विंशाधिकरणमारचयति-
1विषयः
नियोजनेऽप्ययोग्यश्चेत्खदिरः किं तदा भवेत्
3पूर्वपक्षः
मुख्यत्वेन स एव स्यात्तद्वैयर्थ्येन हीतरः
यदा त्वत्यन्तकृशत्वात्तक्षणादिरहितोऽपि खदिरो नियोजनेऽप्ययोग्यः, तदाऽपि मुख्यत्वात्खदिर एवोपादेयः। इति चेत्-
4सिद्धान्तः
मैवम्
उपात्तस्य प्रयोजनाभावान्नियोजनयोग्यः प्रतिनिधिरेवोपादेयः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- संस्कारायोग्यस्यापि मुख्यस्यैवोपादानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् मुख्यसिद्धये गुणलोपस्य सोढुं शक्यत्वात् तस्मात्- कृशोऽपि मुख्य एवोपादेयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.3.21
एकविंशे- प्रधाननिर्वाहकत्वेऽङ्गनिर्वाहापर्याप्तस्यापि मुख्यस्योपादानाधिकरणे सूत्रे 40-41
SŪविधिरप्येकदेशे स्यात्।। 40।।
SŪअपि वाऽर्थस्य शक्यत्वादेकदेशेन निर्वर्तेतार्थानामविभक्तत्वाद्गुणमात्रमितरत्तदर्थत्वात्।। 41।।
एकविंशाधिकरणमारचयति-
3पूर्वपक्षः
स्विष्टकृदिडाप्राशित्रभक्षणादीनि शेषकार्याणि तेष्वपर्याप्ताः प्रधानमात्रपर्याप्ता व्रीहयो यदा लभ्यन्ते, तदानीं सर्वकार्यसिद्धये व्रीहिभ्य इतरन्नीवारादिकमुपादेयम्। इति चेत्-
अत्र पादे- अधिकरणानि 21, सूत्राणि41।
आदितः- अधिकरणानि 407, सूत्राणि 1068।
षष्ठाध्यायस्य चतुर्थः पादः
पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- मुख्यस्य कार्यासाधकत्वे प्रतिनिधेरेवोपादेयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् उपात्तस्य प्रयोजनाभावान्नियोजनयोग्यः प्रतिनिधिरेवोपादेयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]