SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 6, Pāda 2

अधिकारः

तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः

11adhikaraṇas
31sūtras
6.2.1 प्रथमे सत्रे प्रत्येकस्य सत्त्रिणः फलसंबन्धाधिकरणे सूत्रे 1-2
SŪपुरुषार्थैकसिद्धित्वात्तस्य तस्याधिकारः स्यात्।। 1।।
SŪअपि चोत्पत्तिसंयोगो यथा स्यात्सत्त्वदर्शनम्, तथाभावो विकल्पे स्यात्।। 2।।
द्वितीयपादे प्रथमाधिकरणमारचयति-

1विषयः

सत्रे फलांशः प्रत्येकं सर्वं वाद्यः समूहके

3पूर्वपक्षः

कर्तृत्वादन्त्य एकैकस्यापि तत्त्वाद्बहुत्वतः
इदमाम्नायते- ''ऋद्धिकामाः सत्रमासीरन्'' इति। तत्र सत्रे बहूनां समुदायस्य कर्तृत्वमवगतम्। ''सप्तदशावराः सत्रमासीरन्'' इति श्रवणात्। कर्तृत्वेन समुदायस्यैव फलश्रवणात्। पुरुषाणां प्रत्येकं फलांश एव न तु सर्वं फलमेकैकस्य। इति चेत्-

4सिद्धान्तः

मैवम्
एकस्यापि समुदायान्तःपातिनः कर्तृत्वसद्भावात्
अन्यथा समुदायस्यैकत्वेन 'सत्रमासीरन्' इति श्रुतं कर्तृबहुत्वं नोपपद्यते
तस्मात्- एकैकस्य कर्तुः सर्वफलसद्भावात्सर्वफलकामिनामेवाधिकारः, न त्वंशकामिनाम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे निषादस्थपत्यधिकरणे सूत्रे 51- 52”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य प्रथमः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.2.2 द्वितीये दर्शादौ कर्त्रैक्यनियमाधिकरणे सूत्राणि 3-12
SŪप्रयोगे पुरुषश्रुतेर्यथाकामी प्रयोगे स्यात्।। 3।।
SŪप्रत्यर्थं श्रुतिभाव इति चेत्। 4।।
SŪतादर्थे न गुणार्थताऽनुक्तेऽर्थान्तरत्वात्कर्तुः प्रधानभूतत्वात्।। 5।।
SŪअपि वा कामसंयोगे संबन्धात्प्रयोगोऽपदिश्येत प्रत्यर्थं हि विधिश्रुतिर्विषाणा(ण)वत्।। 6।।
SŪअन्यस्य स्यादिति चेत्। 7।।
SŪअन्यार्थेनाभिसंबन्धः।। 8।।
SŪफलकामो निमित्तमिति चेत्। 9।।
SŪन नित्यत्वात्।। 10।।
SŪकर्म तथोति चेत्। 11।।
SŪन समवायात्।। 12।।
द्वितीयाधिकरणमारचयति-

1विषयः

दर्शे कर्त्रैक्यनियमो नास्त्युतास्ति न कामिनि
उद्देश्ये ग्रहवत्संख्या यतो नैव विवक्षिता

3पूर्वपक्षः

आख्यातोपात्तसंख्याऽत्र विधेयस्य विशेषणम्
विवक्षिताऽतः सेत्यत्र कर्त्रैक्यं विनियम्यते
'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यत्र स्वर्गकाम उद्देश्यः। तद्गतं चैकत्वं ग्रहैकत्ववदविवक्षितम्। तस्मात्- एको द्वौ बहवो वा दर्शपूर्णमासयोरधिकारिणः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- मा भूत्स्वर्गकामगतस्यैकत्वविवक्षा, 'यजेत' इत्याख्यातगतं तु यदेकत्वम्, तद्विधेयस्य विशेषणम्
विधेया च क्रिया
सा च स्वसिद्धये कारकान्तरवत्कर्तारमप्याक्षिपतीति क्रियाद्वारा कर्ताऽपि विधेयः
अतो विधेयकर्तृगता येयमेकत्वसंख्या सा विवक्षितेति कर्तुरेकत्वं नियम्यते।
2
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे सत्रे प्रत्येकस्य सत्त्रिणः फलसंबन्धाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् एकस्यापि समुदायान्तःपातिनः कर्तृत्वसद्भावात् अन्यथा समुदायस्यैकत्वेन 'सत्रमासीरन्' इति श्रुतं कर्तृबहुत्वं नोपपद्यते तस्मात्- एकैकस्य कर्तुः सर्वफलसद्भावात्सर्वफलकामिनामेवाधिकारः, न त्वंशकामिनाम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.2.3 तृतीये- आरब्धकाम्यकर्मणोऽपि समाप्तिनियमाधिकरणे सूत्राणि 13-15
SŪप्रक्रमात्तु नियम्येतारम्भस्य क्रियानिमित्तत्वात्।। 13।।
SŪफलार्थित्वाद्वाऽनियमो यथाऽनुपक्रान्ते।। 14।।
SŪनियमो वा तन्निमित्तत्वात्कर्तुस्तत्कारणं स्यात्।। 15।।
तृतीयाधिकरणमारचयति-

1विषयः

असमाप्यं समाप्यं वा काम्यं कामे निवर्तिते

3पूर्वपक्षः

आद्यः प्रयोजनाभावादन्त्यो निन्दादिसंश्रवात्
''चित्रया यजेत पशुकामः'' ''कारीर्या वृष्टिकामो यजेत'' इत्यादिषु कामप्रेरितेन पुरुषेण कर्मोपक्रान्तम्। तस्य च समाप्तेः प्रागेव केनापि निमित्तेन तत्फलप्राप्तौ दोषदर्शनने वा कामो निवर्तते, तदा कर्मानुष्ठाने प्रयोजनाभावान्न समापनीयम्। इति चेत्-

4सिद्धान्तः

मैवम्
प्रक्रान्तस्य कर्मणोऽसमाप्तौ निन्दाप्रायश्चित्तयोः श्रवणात्
''देवताभ्यो वा एष आवृश्च्यते यो यक्ष्ये'' इत्युक्त्वा ''न यजते, त्रैधातवीयेन यजेत'' इति तदुभयं श्रुतम्
तस्मात्- समापनीयम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये दर्शादौ कर्त्रैक्यनियमाधिकरणे सूत्राणि 3-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- मा भूत्स्वर्गकामगतस्यैकत्वविवक्षा, 'यजेत' इत्याख्यातगतं तु यदेकत्वम्, तद्विधेयस्य विशेषणम् विधेया च क्रिया सा च स्वसिद्धये कारकान्तरवत्कर्तारमप्याक्षिपतीति क्रियाद्वारा कर्ताऽपि विधेयः अतो विधेयकर्तृगता येयमेकत्वसंख्या सा विवक्षितेति कर्तुरेकत्वं नियम्यते। 2”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.2.4 चतुर्थे लौकिककर्मणि समाप्त्यनियमाधिकरणे सूत्राणि 16-18
SŪलोक कर्माणि वेदवत्ततोऽधिपुरुषज्ञानम्।। 16।।
SŪअपराधेऽपि च तैः शास्त्रम्।। 17।।
SŪअशास्त्रातूपसंप्राप्तिः, शास्त्रं स्यान्न प्रकल्पकम्, तस्मादर्थेन गम्येत, अप्राप्ते शास्त्रमर्थवत्।। 18।।
चतुर्थाधिकरणमारचयति-

1विषयः

समाप्यमसमाप्यं वा लौकिकं शास्त्रकल्पनात्

3पूर्वपक्षः

आद्यो नो गृहकृष्यादौ शास्त्रकल्पकवर्णनात्
रथगृहनिर्माणादिरूपं यल्लौकिकं कर्म तदपि तक्षस्मृतावुक्तमिति वेदमूलत्वकल्पनाच्चित्रायागादिवन्निवृत्तेऽपि कामे समापनीयम्। इति चेत्-

4सिद्धान्तः

मैवम्
रथादौ रमणीयत्वस्य दृष्टप्रयोजनस्यान्वयव्यतिरेकाभ्यामेव सिद्ध्युपायावगमात्
तत्रोहापोहकुशलपुरुषोत्प्रेक्षामूला तक्षस्मृतिर्न वेदं कल्पयितुं प्रभवति
तस्मात्- 'अवश्यं समापनीयम्' इति नास्ति नियमः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- आरब्धकाम्यकर्मणोऽपि समाप्तिनियमाधिकरणे सूत्राणि 13-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रक्रान्तस्य कर्मणोऽसमाप्तौ निन्दाप्रायश्चित्तयोः श्रवणात् ''देवताभ्यो वा एष आवृश्च्यते यो यक्ष्ये'' इत्युक्त्वा ''न यजते, त्रैधातवीयेन यजेत'' इति तदुभयं श्रुतम् तस्मात्- समापनीयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.2.5 पञ्चमे प्रतिषिद्धकर्मणामनुष्ठानेऽनिष्टापाताधिकरणे कलञ्जन्याये सूत्रे 19-20
SŪप्रतिषेधे त्वकर्मत्वात्क्रिया स्यात्प्रतिषिद्धानां विभक्तत्वादकर्मणाम्।। 19।।
SŪशास्त्राणां त्वर्थवत्त्वेन पुरुषार्थो विधीयते, तयोरसमवायित्वात्तादर्थ्ये विध्यतिक्रमः।। 20।।
पञ्चमाधिकरणमारचयति-

1विषयः

पर्युदासो निषेधो वा नाद्याद्गृञ्जनमित्यसौ

3पूर्वपक्षः

नञ्धात्वोरन्वयादाद्यः कल्प्यं संकल्पतः फलम्
अनारभ्य श्रूयते ''न कलञ्जं भक्षयेत्' न लशुनम्, न गृञ्जनम्'' इति। तत्र 'न भक्षयेत्' इति संनिधिवशान्नञ्धात्वोरन्वये सति 'अभक्षणम्' इति पर्युदासः संपद्यते। तथा सति 'नेक्षेतोद्यन्तमादित्यम्' इत्यादाविव संकल्पो विधेयः। तस्य चाभक्षणसंकल्पस्य विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः। इति चेत्-
मैवम्। पदैकदेशस्य धातोः पदान्तरेणान्वेतुमयोग्यत्वाद्विधायकपदस्य नञ्पदेनान्वये सति रागप्राप्तां भक्षणप्रवृत्तिमनूद्य निषेधस्य विधेयत्वात्। न च निषेधो व्यर्थः। नरकपातनिवारकत्वात्। एवं च सति- अश्रुतं न किमपि कल्पनीयम्। त्वत्पक्षे तु- अश्रुतः संकल्पः कल्पनीय इति तदर्थं भक्षणशब्दे लक्षणाश्रयितव्या। तस्मात्- स्वर्गकामिनो नात्राधिकारः, किंतु नरकाद्भीतस्य।। 6।। 7।।

4सिद्धान्तः

पदान्वयात्तु नञ्विध्योर्निषेधोऽनर्थहानये
संकल्पे लक्षणाप्राप्तिर्नैष काम्यविधिस्तथा

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे लौकिककर्मणि समाप्त्यनियमाधिकरणे सूत्राणि 16-18”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् रथादौ रमणीयत्वस्य दृष्टप्रयोजनस्यान्वयव्यतिरेकाभ्यामेव सिद्ध्युपायावगमात् तत्रोहापोहकुशलपुरुषोत्प्रेक्षामूला तक्षस्मृतिर्न वेदं कल्पयितुं प्रभवति तस्मात्- 'अवश्यं समापनीयम्' इति नास्ति नियमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.2.6 षष्ठे गुर्वनुगमनादीनामुपनयनोचरकालकर्तव्यताधिकरणे सूत्रे 21-22
SŪतस्मिंस्तु शिष्यमाणानि जनने न प्रवर्तेरन्।। 21।।
SŪअपि वा वेदतुल्यत्वादुपायेन प्रवर्तेरन्।। 22।।
षष्ठाधिकरणमारचयति-

1विषयः

प्राङ्मुखत्वादिनियम उपनीतेः पुराऽप्युत

3पूर्वपक्षः

ऊर्ध्वं मन्त्राग्न्यसाध्यत्वादाद्योऽन्त्योऽस्तु तथा स्मृतेः
''प्राङ्मुखोऽन्नानि भुञ्जीत'' ''गुरुरनुगन्तव्योऽभिवादयितव्यश्च'' ''वृद्धः प्रत्युत्थेयः, संमन्तव्यश्च'' इत्यादिस्मार्तनियम उपनयनात्प्रागप्यनुसर्तव्यः। तस्य नियमस्य वैदिकैर्मन्त्रैराहवनीयाद्यग्निभिर्वा साध्यत्वं नास्तीति प्रागपि तत्संभवात्। इति चेत्-

4सिद्धान्तः

मैवम्
श्रौतस्याध्ययनादिनियमस्योपनयनानन्तरभावित्वेन वेदमूलस्मृतिप्राप्तनियमस्याप्युत्तरस्मिन्नेव काले युक्तत्वात्
अत एव स्मर्यते- 'उपनयनादिर्नियमः' इति, 'प्रागुपनयनात्कामचारवादभक्षः' इति च
तस्मात्- उपनयनात्पूर्वं नास्ति नियमः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे प्रतिषिद्धकर्मणामनुष्ठानेऽनिष्टापाताधिकरणे कलञ्जन्याये सूत्रे 19-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पदान्वयात्तु नञ्विध्योर्निषेधोऽनर्थहानये संकल्पे लक्षणाप्राप्तिर्नैष काम्यविधिस्तथा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.2.7 सप्तमे- अग्नहोत्रादियावज्जीवकर्मणां स्वकालमात्रकर्तव्यताधिकरणेऽग्निहोत्रन्याये सूत्राणि 23-26
SŪअभ्यासोऽकर्मशेषत्वात्पुरुषार्थो विधीयते।। 23।।
SŪतस्मिन्नसंभवन्नर्थात्।। 24।।
SŪन कालेभ्य उपदिश्यन्ते।। 25।।
SŪदर्शनात्काललिङ्गानां कालविधानम्।। 26।।
सप्तमाधिकरणमारचयति-

1विषयः

यावज्जीवेति सातत्यं स्वकाले वा निमित्ततः
कालाङ्गलोपादाद्यः स्यादवैधात्यागतोऽन्तिमः

3पूर्वपक्षः

इदमाम्नायते-
''यावज्जीवमग्निहोत्रं जुहोति'' 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेत'' इति। तत्र- जीवनस्य निमित्तत्वेनोपन्यासात्सति निमित्ते नैमित्तिकस्यावश्यंभावाज्जीवतोऽनुष्ठानसातत्यमत्र वर्ण्यते। ननु सायंप्रातःकालावग्निहोत्राङ्गत्वेन चोदितौ, अमावास्यापौर्णमासीकालौ दर्शपूर्णमासयोः। तथा सत्यङ्गलोपः सातत्ये प्रसज्येत। नायं दोषः। 'प्रधानलोपाद्वरमङ्गलोपः' इति न्यायात्। तस्मात्- सातत्यम्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- यद्यपि सायंप्रातरादिकालोऽङ्गम्, तथाऽप्यनुपादेयतया प्रयाजादिवद्विधेयो न भवति, किंतु- तस्मिन्काले स्वतः प्राप्ते सति कर्मानुष्ठेयतया विधीयते। तस्य च कालस्य जीवनरूपनिमित्तसंकोचकत्वेनैवान्वयः। तथा सति- उक्तकालविशिष्टमेव जीवनं निमित्तम्। तस्मिन्निमित्ते जीवनरूपो विशेष्यांशो यथा न वैधो नापि त्यक्तुं शक्यः। तथा विशेषणांशः कालोऽप्यविधेयो न त्यक्तुं शक्यश्च। तस्मात्- अवैधस्य त्यागसंभवान्न सातत्यम्, किंतु- स्वकालेऽनुष्ठानम्।। 9।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे गुर्वनुगमनादीनामुपनयनोचरकालकर्तव्यताधिकरणे सूत्रे 21-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् श्रौतस्याध्ययनादिनियमस्योपनयनानन्तरभावित्वेन वेदमूलस्मृतिप्राप्तनियमस्याप्युत्तरस्मिन्नेव काले युक्तत्वात् अत एव स्मर्यते- 'उपनयनादिर्नियमः' इति, 'प्रागुपनयनात्कामचारवादभक्षः' इति च तस्मात्- उपनयनात्पूर्वं नास्ति नियमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.2.8 अष्टमे- अग्निहोत्रादीनां स्वकालावृत्त्यावृत्त्यधिकरणे सूत्रे 27-28
SŪतेषामौत्पत्तिकत्वादागमेन प्रवर्तेत।। 27।।
SŪतथा हि लिङ्गदर्शनम्।। 28।।
अष्टमाधिकरणमारचयति-

1विषयः

सकृत्कृतिरुतावृत्तिर्दर्शादेः शास्त्रसार्थ्यतः

3पूर्वपक्षः

सकृत्स्यात्कालसंयुक्तजीवनावृत्तितोऽन्तिमः
दर्शपूर्णमासादीनां सकृदेवानुष्ठानम्। तावता विधिशास्त्रस्य चरितार्थत्वात्। इति चेत्-

4सिद्धान्तः

मैवम्
कालविशिष्टजीवननिमित्तस्यावृत्तौ नैमित्तिकस्याप्यावर्तनीयत्वात्
तस्मात्- आवृत्तिः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- अग्नहोत्रादियावज्जीवकर्मणां स्वकालमात्रकर्तव्यताधिकरणेऽग्निहोत्रन्याये सूत्राणि 23-26”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.2.9 नवमे दर्शादौ भेदाद्यावृत्त्या होमावृत्त्यधिकरणे सूत्रम्
SŪतथाऽन्तःक्रतुप्रयुक्तानि।। 29।।
नवमाधिकरणमारचयति-

1विषयः

क्रतौ सकृद्भेदहोमोऽसकृद्वा, क्रतुसिद्धितः

3पूर्वपक्षः

सकृन्निमित्तभेदस्यावृत्तौ होमोऽसकृद्भवेत्
दर्शपूर्णमासयोः कुम्भ्यादिपात्रभेदमाज्यादिस्कन्दनं च निमित्तीकृत्य होम आम्नायते- ''भिन्ने जुहोति'' ''स्कन्ने जुहोति'' इति। सोऽयं होमः सकृत्कार्यः। तावतैव क्रतूपकारसिद्धेः। इति चेत्-

4सिद्धान्तः

मैवम्
भेदस्य स्कन्दनस्य वा निमित्तस्यावृत्तौ नैमित्तिकस्याप्यावर्तनीयत्वात्
तस्मात्- नास्ति सकृत्त्वनियमः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- अग्निहोत्रादीनां स्वकालावृत्त्यावृत्त्यधिकरणे सूत्रे 27-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् कालविशिष्टजीवननिमित्तस्यावृत्तौ नैमित्तिकस्याप्यावर्तनीयत्वात् तस्मात्- आवृत्तिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.2.10 दशमे गुर्वनुगमादीनां प्रतिनिमित्तमावृत्त्यधिकरणे सूत्रम्
SŪआचाराद्गृह्यमाणेषु तथा स्यात्पुरुषार्थत्वात्।। 30।।
दशमाधिकरणमारचयति-

1विषयः

याथाकाम्यमुतावृत्तिर्गुरोरनुगमादिषु

3पूर्वपक्षः

स्यादाद्यः प्रीतिहेतुत्वान्नियमादृष्टतोऽन्तिमः
''गुरुरनुगन्तव्योऽभिवाद्यश्च'' इति विहितेषु गुरुप्रीतिरूपस्य दृष्टस्यैव प्रयोजनत्वात्प्रीत्यनुसारेणानुगमनादिकं सकृदसकृद्वा स्वेच्छया कर्तव्यम्। इति चेत्-

4सिद्धान्तः

मैवम्
दृष्टार्थेष्वपि विहितेषु नियमादृष्टसंभवाद्यदा यदा गुरुगमनादि निमित्तं संपद्यते तदा तदाऽनुगमनादीन्यनुष्ठेयानि

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे दर्शादौ भेदाद्यावृत्त्या होमावृत्त्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् भेदस्य स्कन्दनस्य वा निमित्तस्यावृत्तौ नैमित्तिकस्याप्यावर्तनीयत्वात् तस्मात्- नास्ति सकृत्त्वनियमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.2.11 एकादशे- ऋणत्रयापाकरणस्य ब्राह्मणक्षात्रयवैश्यानां नित्यताधिकरणे सूत्रम्
SŪब्राह्मणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगात्।। 31।।
एकादशाधिकरणमारचयति-

1विषयः

सोमाधीतिप्रजं काम्यं नित्यं वा कामतोऽग्रिमः

3पूर्वपक्षः

वीप्सानुष्ठेयविज्ञानलोकैस्तन्नित्यतेष्यते
इदमाम्नायते- ''सोमेन यजेत'' ''स्वाध्यायमधीयीत'' ''प्रजामुत्पादयेत्'' इति। तत्र सोमः काम्यः। 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इति कामसंयोगेनाम्नातत्वात्। अध्ययनप्रजोत्पादनयोरपि विश्वजिन्न्यायेन स्वर्गे फलत्वेन कल्पिते कमियोगोऽपि कल्प्यते। तस्मात्- इदं त्रयं काम्यम्। इति चेत्-
मैवम्। वीप्सादिना नित्यत्वसिद्धेः। ''वसन्ते वसन्ते ज्योतिषा यजेत'' इति वीप्सा प्रतिवसन्तं निमित्तीकृत्य सोमयागं विधत्ते। अध्ययनस्य तु न स्वर्गः फलम्, दृष्टप्रयोजनस्यानुष्ठेयविज्ञानस्य संभवात्। तत्र क्रत्वनुष्ठानस्य नित्यत्वात्तद्धेतोरध्ययनस्यापि नित्यत्वमनिवार्यम्। 'अनुत्पाद्य सुतान्न लोकं गच्छति' इति स्मृतेर्लोकसिद्ध्यर्थमुत्पादनस्यापि नित्यत्वम्। अनेनैवाभिप्रायेणेदमाम्नातम्- ''जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते। ब्रह्मचर्येण ऋषिभ्यः, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः। एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी'' इति। अत्र ब्राह्मणग्रहणमितरयोरप्युपलक्षणार्थम्। सोमादिविधिषु विशेषस्याश्रवणात्। तस्मात्- सोमादिकं नित्यम्।। 13।।
अत्र पादे- अधिकरणानि 11, सूत्राणि31।
आदितः- अधिकरणानि 386, सूत्राणि1027।
षष्ठाध्यायस्य तृतीयः पादः
द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्।

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य द्वितीयः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे गुर्वनुगमादीनां प्रतिनिमित्तमावृत्त्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् दृष्टार्थेष्वपि विहितेषु नियमादृष्टसंभवाद्यदा यदा गुरुगमनादि निमित्तं संपद्यते तदा तदाऽनुगमनादीन्यनुष्ठेयानि”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 6, Pāda 1 Contents Adhyāya 6, Pāda 3 →