SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 6, Pāda 1

अधिकारः

कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः

13adhikaraṇas
52sūtras
6.1.1 प्रथमे यागादिकर्मणां स्वर्गादिफलसाधनताधिकरणे, अधिकारन्याये सूत्राणि 1-3
द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः।। 1।।
असाधकं तु तादर्थ्यात्।। 2।।
प्रत्यर्थं चाभिसंयोगात्, कर्मतो ह्यभिसंबन्धः, तस्मात्कर्मोपदेशः स्यात्।। 3।।
षष्ठाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-

1विषयः

कर्माधिकारः कर्तुर्नो किंवाऽस्ति, न पदश्रुतेः

3पूर्वपक्षः

धात्वर्थभाव्यताभानात्फलभोगविवर्जनात्
''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति श्रूयते। तत्र यागक्रियानिष्पादकत्वं कर्तृत्वम्। फलभोक्तृतया स्वामित्वमधिकारः। तादृशोऽधिकारो यागकर्तुर्नास्ति। कुतः- फलभोगाभावात्। तथा हि 'यजेत' इत्यत्राख्यातेन भावनाऽभिधीयते। तस्याश्च धात्वर्थो भाव्यः एकपदोपात्तत्वात्। स्वर्गस्तु पदान्तरोपात्तत्वाद्वाक्येन भाव्यतयाऽन्वेतव्यः। तच्च वाक्यमेकपदरूपया श्रुत्या बाध्यते। स्वर्गस्य भाव्यत्वाभावे सति गुणत्वमभ्युपेयम्। स्वर्गशब्दो नात्र सुखवाची, किंतु सुखसाधनं चन्दनादिद्रव्यं ब्रूते। लोके तथा व्यवहारात्। तच्च कामयितुं योग्यम्। तेन द्रव्येण विना यागानिष्पत्तेः। तस्मात्- अस्मिन्वाक्ये फलानभिधानेन तद्भोगाभावात्कर्तुर्यागे कर्तृत्वमेव, न त्वधिकार इत्यधिकारलक्षणं नारब्धव्यम्। इति प्राप्ते-

4सिद्धान्तः

बलीयस्या विधिश्रुत्याऽवरुद्धा भावनाऽत्र च
भाव्यः स्वर्गः पुमर्थत्वात्कमियोगाच्च सोऽस्त्यतः
ब्रूमः- 'यजेत' इत्यत्र प्रत्ययस्य केवलमाख्यातरूपत्वमेवेति न मन्तव्यम्। किंतु लिङ्प्रत्ययत्वेन विधिरूपत्वमप्यस्ति। तत्राख्यातत्वाकारेण भावनामाचष्टे, विधित्वाकारेण पुरुषं प्रवर्तयति। पुरुषश्च स्वामिमतं फलमन्तरेण न प्रवर्तत इति तदपेक्षितं स्वर्गमेव भाव्यतया विधिरुपादत्ते। स्वर्गशब्दश्चोत्कृष्टसुखे रूढः, द्रव्ये तु लाक्षणिकः। तस्मात्- सुखस्य भाव्यत्वं विधिश्रुत्या सिद्धम्। धात्वर्थस्य तु भाव्यत्वमेकेन पदेन प्रतीयमानमपि न प्रत्ययेनावगम्यते, किंतु प्रकृत्या। तथा सति स्वर्गभाव्यत्वं भावनायां प्रत्यासन्नम्। एकेनैव विधिरूपेणाख्यातेनावगमात्। कमियोगादपि स्वर्गस्य भाव्यत्वम्। तस्मात्- फलभोगसंभवेन कर्तुरधिकारोऽस्तीत्यधिकारलक्षणमारब्धव्यम्।। 2।। 3।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे सोमविकाराणां दर्शपूर्णमासात्प्रागकर्तव्यताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.2 द्वितीये- अशक्तानामधिकारनिराकरणाधिकरणे सूत्रे 4-5
फलार्थत्वात्कर्मणः शास्त्रं सर्वाधिकारं स्यात्।। 4।।
कर्तुर्वा श्रुतिसंयोगाद्विधिः कार्त्स्न्येन गम्यते।। 5।।
द्वितीयाधिकरणमारचयति-

1विषयः

अन्धादेरस्त्यसौ नो वा, स्वर्गेच्छुत्वात्स विद्यते
प्रधानोक्त्यनुसारेण यथाशक्त्यङ्गवर्णनम्

3पूर्वपक्षः

नैवाज्यावेक्षणादीनां पुरुषं प्रति चोदना
क्रतुं प्रति विधिस्तस्मान्नाशक्तस्याधिकारिता
अन्धः, पङ्गुः, बधिरः, मूकः, गवाश्वादयस्तिर्यञ्चः, इत्यादीनां चेतनत्वेन निरतिशयसुखरूपे स्वर्गे कामना संभवति।
अथोच्येत- 'केषुचिदङ्गेषु शक्तिर्नास्ति। तथा हि- अन्धो नाज्यमवेक्षितुं क्षमः। पङ्गुर्विष्णुक्रमेष्वशक्तः। बधिरो नाध्वर्युप्रोक्तं शृणोति। ततः 'क्लृप्तीर्वाचयति' इति विहितस्यानुष्ठानं न सिध्येत्। मूकोऽनुमन्त्राणादावशक्तः। तिर्यञ्चो बहुष्वशक्ताः' इति। तन्न। यथाशक्त्यङ्गानामनुष्ठेयत्वात्। 'स्वर्गकामो यजेत' इत्यनेन प्रधानवाक्येन सर्वाधिकारः प्रतीयते। स चाज्यावेक्षणाद्यङ्गवाक्यानुसारेण न संकोचयितुं युक्तः। किंतु प्रधानानुसारेणाङ्गानुष्ठानमेव संकोचयितुं युक्तम्। तस्मात्- अन्धादेरप्यधिकारोऽस्ति। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- यद्याज्यावेक्षणादयः पुरुषार्थतया विधीयेरन्, तदा तल्लोपेऽपि न क्रतोर्वैकल्यम्
इह तु- क्रत्वङ्गताया ते विहिता इति तल्लोपे क्रतुरेव न निष्पद्यते
तस्मात्- अशक्तस्य नास्त्यधिकारः।
4
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे यागादिकर्मणां स्वर्गादिफलसाधनताधिकरणे, अधिकारन्याये सूत्राणि 1-3”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “बलीयस्या विधिश्रुत्याऽवरुद्धा भावनाऽत्र च भाव्यः स्वर्गः पुमर्थत्वात्कमियोगाच्च सोऽस्त्यतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.3 तृतीये स्त्रिया अनधिकारनिराकरणाधिकरणे सूत्राणि 6-16
लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायनः।। 6।।
तदुक्तित्वाच्च दोषश्रुतिरविज्ञाते।। 7।।
जातिं तु बादरायणोऽविशेषात्, तस्मास्त्र्यिपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्।। 8।।
चोदितत्वाद्यथाश्रुति।। 9।।
द्रव्यवत्त्वात्तु पुंसां स्यात्, द्रव्यसंयुक्तं क्रयविक्रयाभ्याम्, अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात्।। 10।।
तया चान्यार्थदर्शनम्।। 11।।
तादर्थ्यात्कर्मतादर्थ्यम्।। 12।।
फलोत्साहाविशेषात्तु।। 13।।
अर्थेन च समवेतत्वात्।। 14।।
क्रयस्य धर्ममात्रत्वम्।। 15।।
स्ववत्तामपि दर्शयति।। 16।।
तृतीयाधिकरणमारचयति-

1विषयः

स्त्रिया न सोऽस्त्यस्ति वा, नो पुंलिङ्गेन तदीरणात्

3पूर्वपक्षः

प्रकृत्यर्थतया लिङ्गं संख्यावन्नाविवक्षितम्
'स्वर्गकामो यजेत' इति पुंलिङ्गशब्देनाधिकारिणो विधानात्सोऽधिकारः स्त्रिया नास्ति। न च ग्रहैकत्ववल्लिङ्गमविवक्षितम्- इति वाच्यम्, एकत्ववल्लिङ्गस्य प्रत्ययार्थत्वाभावात्। प्रकृत्यर्थतया तु ग्रहवद्विवक्षितं पुंलिङ्गम्। इति प्राप्ते-

4सिद्धान्तः

अस्त्युद्देश्यगतत्वेन संख्यया सदृशत्वतः
यद्विभक्तिविकारादेरर्थस्तत्प्रकृतेर्न तु
ब्रूमः- अस्ति स्त्रियाः कर्माधिकारः। कुतः- पुंलिङ्गस्याविवक्षितत्वात्। न ह्येकत्वस्य प्रत्ययार्थत्वमविवक्षायां निमित्तम्। किंतूद्देश्यगतत्वम्। इहापि 'यः स्वर्गकामः, स यजेत' इति वचनव्यक्तौ पुंलिङ्गस्योद्देश्यगतत्वेनैकत्वसंख्यया सदृशत्वान्नास्ति विवक्षितत्वम्। न च प्रकृत्यर्थो लिङ्गम्। किंतु स्त्रीलिङ्गं तावट्टाबादिभिः स्त्रीप्रत्ययैरभिधीयते। पुंलिङ्गं तु 'वृक्षान्' इत्यस्मिन्द्वितीयाबहुवचने विभक्तिविकारेण नकारादेशलक्षणेनाभिव्यज्यते। एवम् 'कुलम्' इत्यस्मिन्प्रथमैकवचने नपुंसकाभिव्यक्तिः। तस्मात्- लिङ्गस्य प्रकृत्यर्थत्वाभावादुद्देश्यगतत्वेनाविवक्षितत्वाच्च स्त्रिया अप्यधिकारः।। 6।। 7।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- अशक्तानामधिकारनिराकरणाधिकरणे सूत्रे 4-5”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- यद्याज्यावेक्षणादयः पुरुषार्थतया विधीयेरन्, तदा तल्लोपेऽपि न क्रतोर्वैकल्यम् इह तु- क्रत्वङ्गताया ते विहिता इति तल्लोपे क्रतुरेव न निष्पद्यते तस्मात्- अशक्तस्य नास्त्यधिकारः। 4”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.4 चतुर्थे यागे दंपत्योः सहाधिकाराधिकरणे सूत्राणि 17- 21
स्ववतोस्तु वचनादैककर्म्यं स्यात्।। 17।।
लिङ्गदर्शनाच्च।। 18।।
क्रीतत्वात्तु भक्त्या स्वामित्वमुच्यते।। 19।।
फलार्थित्वात्तु स्वामित्वेनाभिसंबन्धः।। 20।।
फलवत्तां दर्शयति।। 21।।
चतुर्थाधिकरणमारचयति-

1विषयः

दंपतिभ्यां पृथक्कार्यं सह वाख्यातसंख्यया
पृथग्मैवमवैगुण्यात्कर्त्रैक्यं दैवतैक्यवत्

3पूर्वपक्षः

'यजेत' इत्याख्यातप्रत्ययगतायाः संख्याया उद्देश्यगतत्वाभावेन विवक्षाया वारयितुमशक्यत्वादेककर्तृत्वाय दंपतिभ्यां पृथगेव कर्मानुष्ठेयम्। इति चेत्-
मैवम्। वैगुण्यप्रसङ्गात्। कर्मणि तत्र तत्र पत्न्यवेक्षणं यजमानावेक्षणं चेत्युभयमप्याम्नातम्। तत्र यजमानप्रयोगे पत्न्यवेक्षणं लुप्येत, पत्नीप्रयोगे यजमानावेक्षणं लुप्येत, इत्यवैगुण्याय द्वयोः सहाधिकारः। न च- यजेतेत्येकत्वं विरुद्धम्। 'अग्नीषोमौ देवता' इत्यत्र यथा व्यासक्तयोर्देवत्वाद्देवतैक्यम्, तथा दंपत्योरेकमेव कर्तृत्वमित्यङ्गीकारात्। तस्मात्- सहाधिकारः।। 8।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये स्त्रिया अनधिकारनिराकरणाधिकरणे सूत्राणि 6-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अस्त्युद्देश्यगतत्वेन संख्यया सदृशत्वतः यद्विभक्तिविकारादेरर्थस्तत्प्रकृतेर्न तु”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.5 पञ्चमे- आधाने पुरुषद्वयकर्तृकत्वनिराकरणाधिकरणे सूत्रे 22-23
द्व्याधानं च द्वियज्ञवत्।। 22।।
गुणस्य तु विधानत्वात्पत्न्या द्वितीयशब्दः स्यात्।। 23।।
पञ्चमाधिकरणमारचयति-

1विषयः

पुंसोरेकस्य वाधानं वसानावित्यतो द्वयोः

3पूर्वपक्षः

एष क्षौमविधिर्द्वित्वं दंपत्योरेकता ततः
आधाने श्रूयते ''क्षौमे वसानावग्नी आदधीयाताम्'' इति। तत्र- 'वसानौ' इति पुंलिङ्गद्विवचनादुभयोः पुंसोराधानेऽधिकारः। इति चेत्-

4सिद्धान्तः

मैवम्
क्षौमस्याप्राप्तस्य विधेयतया पुंद्वित्वस्यापि विधाने वाक्यभेदान्न तद्विधीयते
किंतु- दंपत्योः सहाधिकारेण प्राप्तं द्वित्वमनुद्यते
पतिश्च पत्नी चेति विगृह्य पतिशब्दस्यैकशेषात्पुंलिङ्गद्विवचनमविरुद्धम्
तस्मात्- आधानेऽधिकारिणः पुंस एकत्वमेव

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे यागे दंपत्योः सहाधिकाराधिकरणे सूत्राणि 17- 21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.6 षष्ठे पुंस एवोपस्थानाद्यधिकाराधिकरणे सूत्रम्
तस्या यावदुक्तमाशीर्ब्रह्मचर्यमतुल्यत्वात्।। 24।।
षष्ठाधिकरणमारचयति-

1विषयः

उपस्थानादि दंपत्योरुत पुंसो द्वयोरिदम्

3पूर्वपक्षः

यजमानत्वसाम्येन विद्वत्त्वात्पुंस एव तत्
''अगन्म सुवः सुवरगन्म '' इत्यनेन मन्त्रेण ''उद्यन्नद्य मित्रमहः'' इत्याद्यैर्मन्त्रैश्च कर्तव्यमादित्यविषयमुपस्थानम्। आदिशब्देन ''वसन्तमृतूनां प्रीणामि'' इत्यादिना विहितमनुमन्त्रणादि। तत्सर्वं दंपतिभ्यामुभाभ्यां कर्तव्यम्। कुतः- यजमानत्वस्योभयोः समानत्वात्। ततो याजमानत्वसमाख्यया यथा पुंसाऽनुष्ठीयते, तथा स्त्रियाऽपि। इति चेत्-

4सिद्धान्तः

मैवम्
अध्ययनरहितया स्त्रिया तदनुष्ठातुमशक्यत्वात्
तस्मात्- पुंस एवोपस्थानादिकम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- आधाने पुरुषद्वयकर्तृकत्वनिराकरणाधिकरणे सूत्रे 22-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् क्षौमस्याप्राप्तस्य विधेयतया पुंद्वित्वस्यापि विधाने वाक्यभेदान्न तद्विधीयते किंतु- दंपत्योः सहाधिकारेण प्राप्तं द्वित्वमनुद्यते पतिश्च पत्नी चेति विगृह्य पतिशब्दस्यैकशेषात्पुंलिङ्गद्विवचनमविरुद्धम् तस्मात्- आधानेऽधिकारिणः पुंस एकत्वमेव”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.7 सप्तमे शूद्रस्यानधिकाराधिकरणे सूत्राणि 25-38
चातुर्वर्ण्यमविशेषात्।। 25।।
निर्देशाद्वा त्रयाणां स्यादग्न्याधेये ह्यसंबन्धः क्रतुषु ब्राह्मणश्रुतिरित्यात्रेयः।। 26।।
निमित्तार्थेन बादरिः, तस्मात्सर्वाधिकारं स्यात्।। 27।।
अपि वाऽन्यार्थादर्शनाद्यथाश्रुति प्रतीयेत।। 28।।
निर्देशात्तु पक्षे स्यातू।। 29।।
वैगुण्यान्नेति चेत्। 30।।
न काम्यत्वात्।। 31।।
संस्कारे च तत्प्रधानत्वात्।। 32।।
अपि वा वेदनिर्देशादपशूद्राणां प्रतीयेत।। 33।।
गुणार्थित्वान्नेति चेत्। 34।।
संस्कारस्य तदर्थत्वात्, विद्यायां पुरुषश्रुतिः।। 35।।
विद्यानिर्देशान्नेति चेत्। 36।।
अवैद्यत्वादभावः कर्मणि स्यात्।। 37।।
तथा चान्यार्थदर्शनम्।। 38।।
सप्तमाधिकरणमारचयति-

1विषयः

शूद्रोऽपि यष्टा नो वा स्यादवैधाध्ययनेन वा

3पूर्वपक्षः

उपदेष्टुमुखाद्वाऽस्य क्रतुवित्त्वेन यष्टृता
लिखितपाठादिना तात्कालिकाचार्योपदेशेन वा शूद्रस्याप्यनुष्ठानहेतुभूतविद्यासंभवाच्छूद्रोऽपि यागाधिकारी। इति चेत्- मैवम्। क्रतुविधिवैयर्थ्यपरिहाराय हि शूद्रस्याविहिताऽपि विद्या कल्प्यते (ल्प्येत)। क्रतुविधयश्च त्रैवर्णिकानुष्ठानेनैव चरितार्थाः सन्तो न शूद्रस्य विद्यां कल्पयन्ति। त्रैवर्णिकानां तु विद्या न कल्पनीया, अध्ययनविधिनैव विहितत्वात्। तस्मात्- न शूद्रस्य यागाधिकारः।। 11।। 12।।

4सिद्धान्तः

त्रिवर्णैर्वेदविद्वद्भिः कृतार्था विधयः क्रतोः
नाक्षिपन्ति चतुर्थस्य विद्यां तद्यष्टृता कुतः-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे पुंस एवोपस्थानाद्यधिकाराधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अध्ययनरहितया स्त्रिया तदनुष्ठातुमशक्यत्वात् तस्मात्- पुंस एवोपस्थानादिकम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.8 अष्टमे निर्धनाधिकाराधिकरणे सूत्रे 39-40
त्रयाणां द्रव्यसंपन्नः कर्मणो द्रव्यसिद्धित्वात्।। 39।।
अनित्यत्वात्तु नैवं स्यादर्थाद्धि द्रव्यसंयोगः।। 40।।
अष्टमाधिकरणमारचयति-

1विषयः

धन्येव कर्तोतान्योऽपि धन्येव विधिसार्थ्यतः

3पूर्वपक्षः

अन्योऽधिकुरुते द्रव्यमाक्षिपेद्भुक्तिवत्क्रतुः
यथा विद्याऽधिकारहेतुः, तथा धनमपीति धनिन एव यागाधिकारः, तावता विधीनां सार्थकत्वात्। विध्यन्यथानुपपत्त्या हि दरिद्रस्य धनार्जनमाक्षेप्तुं शक्येत। तस्मात्- शूद्रवद्दरिद्रोऽपि न कर्मण्यधिकारी- इति चेत्-

4सिद्धान्तः

मैवम्, धनिकस्यापि धनार्जनं न यागविधिभिराक्षिप्तम्
भोजनादिभिर्धनकार्यैरेव तस्याक्षिप्तत्वात्
अत एव विद्याया अध्ययनविधिरिव धनार्जनस्य न कोऽपि विधिरस्ति
याजनादिविधय उपायनियमार्था इत्युक्तम्
तस्मात्- भोजनादिवत्क्रतोरपि धनकार्यत्वेन धनार्जनापेक्षत्वाद्दरिद्रोऽपि धनार्जनं कृत्वा क्रतावधिकरोति

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे शूद्रस्यानधिकाराधिकरणे सूत्राणि 25-38”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “त्रिवर्णैर्वेदविद्वद्भिः कृतार्था विधयः क्रतोः नाक्षिपन्ति चतुर्थस्य विद्यां तद्यष्टृता कुतः-”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.9 नवमे- अङ्गहीनाधिकराधिकरणे सूत्रम्
अङ्गहीनश्च तद्धर्मा।। 41।।
नवमाधिकरणमारचयति-

1विषयः

अङ्गहीनो न कुरुते कर्ता वा, नाक्षमत्वतः

3पूर्वपक्षः

समाधायाङ्गवैकल्यं करोति द्रव्यहीनवत्
कश्चिदक्षिरोगेणाज्यमवेक्षितुमसर्थः। अन्यो वातरोगेणास्वाधीनपादो विष्णुक्रमेष्वसमर्थः। अतो नाङ्गहीनः कर्माधिकारी। इति चेत्-

4सिद्धान्तः

मैवम्
धनहीनो यथा धनं संपाद्याधिकरोति, तथा विकलाङ्गोऽप्यौषधादिना वैकल्यं समाधायाधिकरोतु

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे निर्धनाधिकाराधिकरणे सूत्रे 39-40”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम्, धनिकस्यापि धनार्जनं न यागविधिभिराक्षिप्तम् भोजनादिभिर्धनकार्यैरेव तस्याक्षिप्तत्वात् अत एव विद्याया अध्ययनविधिरिव धनार्जनस्य न कोऽपि विधिरस्ति याजनादिविधय उपायनियमार्था इत्युक्तम् तस्मात्- भोजनादिवत्क्रतोरपि धनकार्यत्वेन धनार्जनापेक्षत्वाद्दरिद्रोऽपि धनार्जनं कृत्वा क्रतावधिकरोति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.10 दशमेऽचिकित्स्याङ्गवैकल्यस्यानधिकाराधिकरणे सूत्रम्
उत्पत्तौ नित्यसंयोगात्।। 42।।
दशमाधिकरणमारचयति-

1विषयः

असमाधेयवैकल्ये कथं, काम्येष्वकर्तृता

2संशयः

'कथम्' इत्यनेन संशयः सूचितः।

3पूर्वपक्षः

नित्येषु त्वाहिताग्निश्चेद्यथाशक्ति करोति हि
वैकल्यस्य समाधातुमशक्यत्वेनाक्षमत्वादत्यन्तमनधिकार एव। इति चेत्-

4सिद्धान्तः

मैवम्
काम्येष्वङ्गवैकल्ये फलासिद्धेर्माऽस्तु तत्राधिकारः
नित्यानां त्वाहिताग्निना त्यक्तुमशक्यत्वादीषदङ्गलोपं सोढ्वाऽपि नित्येष्वधिकारोऽस्ति

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- अङ्गहीनाधिकराधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् धनहीनो यथा धनं संपाद्याधिकरोति, तथा विकलाङ्गोऽप्यौषधादिना वैकल्यं समाधायाधिकरोतु”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.11 एकादशे दर्शपूर्णमासयोस्त्र्यार्षेयस्यैवाधिकाराधिकरणे सूत्रम्
अत्र्यार्षेयस्य हानं स्यात्।। 43।।
एकादशाधिकरणमारचयति-

1विषयः

विधिर्वरण एकादावपि स्यात्त्रिक एव वा
अविशेषात्पक्ष आद्यो वाक्याभेदाय तूत्तरः

3पूर्वपक्षः

दर्शपूर्णमासयोः ''आर्षेयं वृणीते'' इति विधायेदमाम्नातम्- ''एकं वृणीते, द्वौ वृणीते, त्रीन्वृणीते, न चुतुरो वृणीते, न पञ्चातिवृणीते'' इति। 'ऋषिर्गोत्रप्रवर्तकः कश्यपभरद्वाजादिः, तस्य संबन्ध आर्षेयः, तं वृणीते कथयत्युच्चारयति। 'कश्यपगोत्रोऽहम्, भरद्वाजगोत्रोऽहम्' इति तदुच्चारणम्। एकमार्षेयमुच्चारयति तदुदाहृतम्।द्वावार्षेयावुच्चारयति- 'उपमन्युवसिष्ठगोत्रोऽहम्' इत्यादि। त्रीनार्षेयानुच्चारयति- 'आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रोऽहम्' इत्यादि। चतुर आर्षेयान्नोच्चारयेत्। पञ्चार्षेयानतिक्रम्य षडादीनार्षेयान्नोच्चारयेत्, इत्यर्थः। तत्र- एकार्षेयद्व्यार्षेयत्र्यार्षेयवाक्येषु विशेषादर्शनात् 'एकं वृणीते' इत्यादयस्त्रयोऽपि विधयः। इति चेत्-
मैवम्। वाक्यभेदप्रसङ्गात्। तत्परिहाराय 'त्रीन्वृणीते' इत्यस्यैव विधित्वमस्तु। 'एकं वृणीते, द्वौ वृणीते' इत्यवयुत्यानुवादेन स्तावकम्। 'एकवरण- द्विवरणे अप्रशस्ते अपि यदा कर्तव्ये, तदा त्रिवरणस्य प्रशस्तस्य कर्तव्यत्वं किमु वक्तव्यम्' इति स्तुतिः। चतुर्निषेध- पञ्चातिक्रमनिषेधाभ्यामपि त्रित्वमेव स्तूयते। न च- तयोर्निषेधो विधातव्यः। प्रसक्त्यभावादेव तदप्रवृत्तेः। चतुरादयोऽतिविलम्बकारित्वादप्रशस्ताः। त्रित्वं तु न तथेति प्रशस्तम्। तस्मात्- कर्मण्यधिकुर्वन्यजमानस्त्रीनेवोच्चारयेत्, न न्यूनम्, नाप्यधिकम्, इति तात्पर्यार्थः।। 16।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमेऽचिकित्स्याङ्गवैकल्यस्यानधिकाराधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् काम्येष्वङ्गवैकल्ये फलासिद्धेर्माऽस्तु तत्राधिकारः नित्यानां त्वाहिताग्निना त्यक्तुमशक्यत्वादीषदङ्गलोपं सोढ्वाऽपि नित्येष्वधिकारोऽस्ति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.12 द्वादशे रथकाराधिकाराधिकरणे सूत्राणि 44-50
वचनाद्रथकारस्याधानेऽस्य सर्वशेषत्वात्।। 44।।
न्याय्यो वा कर्मसंयोगात्, शूद्रस्य प्रतिषिद्धत्वात्।। 45।।
अकर्मत्वात्तु नैवं स्यात्।। 46।।
आनर्थक्यं च संयोगात्।। 47।।
गुणार्थेनेति चेत्।। 48।।
उक्तमनिमित्तत्वम्।। 49।।
सौधन्वनास्तु हीनत्वात्, मन्त्रवर्णात्प्रतीयेरन्।। 50।।
द्वादशाधिकरणमारचयति-

1विषयः

विप्रादिरेव रथकृदन्यो वाद्योऽस्तु योगतः

3पूर्वपक्षः

रूढेर्वर्णान्तरं तस्याधाने वर्षर्तुरुच्यते
आधाने श्रूयते ''वर्षासु रथकार आदधीत'' इति। तत्र- 'रथं करोति' इति व्युत्पत्त्या त्रैवर्णिको रथकारः। इति चेत्-
मैवम्। संकीर्णजातिविशेषे रूढत्वात्। वैश्यायां क्षत्त्रियादुत्पन्नो माहिष्यः। शूद्रायां वैश्यादुत्पन्ना करणी। तस्यां करण्यां माहिष्यादुत्पन्नो रथकारः। तथा च याज्ञवल्क्यः-
'माहिष्येण करण्यां तु रथकारः प्रजायते'

4सिद्धान्तः

इति
तस्य च रथकारस्याधानकालो वर्षर्तुः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे दर्शपूर्णमासयोस्त्र्यार्षेयस्यैवाधिकाराधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
6.1.13 त्रयोदशे निषादस्थपत्यधिकरणे सूत्रे 51- 52
स्थपतिर्निषादः स्याच्छब्दसामर्थ्यात्।। 51।।
लिङ्गदर्शनाच्च।। 52।।
त्रयोदशाधिकरणमारचयति-

1विषयः

द्विजः स्थपतिरन्यो वा द्विजः षष्ठीसमासतः
कर्मधारयमुख्यत्वान्निषादो रौद्रयागकृत्

3पूर्वपक्षः

मैवम्
'निषादश्चासौ स्थपतिश्च' इति कर्मधारयसमासस्य मुख्यत्वात्
षष्ठीसमासे तु संकीर्णजातिविशेषवाचिना निषादशब्देन तत्संबन्ध उपलक्ष्येत
न त्वयं कर्मधारये दोषोऽस्ति
ततस्तात्कालिकाचार्योपदेशादिना विद्यां संपाद्य धनिको निषादो रौद्रयागं कुर्यात्
''वास्तुमयं रौद्रं चरुं निर्वपेत्'' इति प्रकृत्य श्रूयते ''एतया निषादस्थपतिं याजयेत्'' इति। वास्तुशब्दः किंचित्प्रकृतिद्रव्यविशेषमाह। एतस्यामिष्टावधिकारी स्थपतिशब्दवाच्यस्त्रैवर्णिकः। कुतः- 'निषादानामधिपतिः' इति षष्ठीसमासस्य त्रैवर्णिके संभवात्। तस्य चाधीतवेदत्वेन विद्यासंभवाच्च। इति चेत्-
अत्र पादे- अधिकरणानि 13, सूत्राणि 52।
आदितः- अधिकरणानि 375, सूत्राणि 996।
षष्ठाध्यायस्य द्वितीयः पादः
तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः।

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य प्रथमः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'कर्तुरधिकारो नान्धादेः' इत्यादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे रथकाराधिकाराधिकरणे सूत्राणि 44-50”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति तस्य च रथकारस्याधानकालो वर्षर्तुः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 5, Pāda 4 Contents Adhyāya 6, Pāda 2 →