SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 4, Pāda 4

प्रयुक्तिः

राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता

12adhikaraṇas
41sūtras
4.4.1 प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे 1-2
प्रकरणशब्दसामान्याच्चोदनानामनङ्गत्वम्।। 1।।
अपि वाऽङ्गमनिज्याः स्युस्ततो विशिष्टत्वात्।। 2।।
चतुर्थपादे प्रथमाधिकरणमारचयति-

1विषयः

राजसूयेऽनुमत्यादि देवनादि च ते उभे

3पूर्वपक्षः

मुख्ये उतैकमुख्यत्वं स्यादाद्यः प्रक्रियैक्यतः
राजसूयप्रकरणे यागरूपा अनुमत्यादयो बहवः श्रुताः- ''अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति'' ''नैर्ऋतमेककपालम्'' ''आदित्यं चरु निर्वपति'' ''आग्नावैष्णवमेकादशकपालम्'' इत्यादयः। यथैता इष्टयः, तथा पशवोऽपि श्रुताः- ''आदित्यां मल्हां गर्भिणीमालभते'' ''मारुतीं पृश्निम्'' ''प्रष्ठौहीमश्विभ्याम्'' इत्यादि। मल्हा मणिला गलस्तनयुक्तेत्यर्थः। तस्या अदितिर्देवता। पृश्निरल्पतनुः। तस्या मरुतो देवता। यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति, तावद्वयस्का प्रष्ठौही। तस्या आश्विनौ देवता। एवमभिषेचनीयदशपेयादयः सोमयागाः श्रुताः। तथा 'वल्मीकवपायां होमः' इत्यादयो दर्विहोमाः। यथैत इष्टिपशुसोमदर्विहोमाश्चतुर्विधा यागरूपाः, एवमयागरूपा अपि द्यूतादयः श्रुताः-
''प्रष्ठौहीं दीव्यति'' ''अक्षैर्दीव्यति'' ''राजन्यं जिनाति'' ''शौनःशेपमा ख्यापयति'' इत्यादयः। तत्र यागा यथा मुख्याः, तथा देवनादीनामपि मुख्यत्वं युक्तम्। प्रकरणपाठस्योभयत्र समानत्वात्- इति प्राप्ते-

4सिद्धान्तः

यागानां राजसूयत्वादङ्गित्वं फलवत्त्वतः
देवनाद्यफलं यत्तदङ्गं फलवतो यजेः
ब्रूमः- ''राजा स्वाराज्यकामो राजसूयेन यजेत'' इत्यत्राख्यातवाच्यायां भावनायां धातुवाच्यो यागः करणम्। राजसूयशब्दश्चाप्रसिद्धार्थत्वाद्यागसामानाधिकरण्येन तन्नामधेयं भवति। तथा सति 'राजसूयेन यागेन स्वाराज्यं भावयेत्' इति वाक्यार्थपर्यवसानादनुमत्यादीनां यागानामेव फलवत्त्वादङ्गित्वम्, तत्संनिधौ श्रूयमाणमफलं देवनादिकं यागाङ्गम्।। 1।। 2।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे सौत्रामण्याद्यङ्गानां स्वकालकर्तव्यताधिकरणे सूत्रे 40-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.2 द्वितीये देवनस्य कृत्स्नराजसूयाङ्गताधिकरणे सूत्रे 3-4
मध्यस्थं यस्य तन्मध्ये।। 3।।
सर्वासां वा समत्वाच्चोदनातः स्यान्नहि तस्य प्रकरणं देशार्थमुच्यते मध्ये।। 4।।
द्वितीयाधिकरणमारचयति-

1विषयः

एकस्यैवाभिषेच्यस्य तदङ्गं निखिलस्य वा
राजसूयस्यापकर्षादाद्यः प्रक्रिययोत्तरः

3पूर्वपक्षः

यदेतत्- देवनादिकमङ्गम्- इत्युक्तम्, तदेतदभिषेचनीयस्य सोमयागस्यैकस्यैवाङ्गम्। कुतः- अपकर्षात्। यद्यपि- अभिषेचनीयविधेरूर्ध्वं तत्संनिधौ देवनादयः समाम्नाताः, तथाऽपि- अभिषेचनीयमध्ये तेऽपकृष्यन्ते। 'माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते' इति वाक्येन राज्ञो यजमानस्याभिषेको माध्यंदिनसवने स्तोत्रकालेऽपकृष्यते। तस्मिन्नपकृष्टे सति ततः पूर्वमाम्नातानां देवनादीनामर्थसिद्धोऽपकर्षः। ततो माहेन्द्रस्तोत्रादिवदभिषेचनीयप्रयोगान्तःपातित्वाद्देवनादिकमभिषेचनीयस्यैवाङ्गम्- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- किं तदङ्गत्वे संनिधिः प्रमाणम्, किंवा प्रयोगपरिकल्पितमवान्तरप्रकरणम्। उभयथाऽपि प्रत्यक्षस्य महाप्रकरणस्य प्रबलत्वाद्देवनादिकं राजसूयस्याङ्गम्। राजसूयशब्दश्चानुमत्यादीन्सर्वान्यागानभिधत्ते। तस्मात्सर्वेषामेतदङ्गम्। अनुष्ठानं तु राजसूयमध्ये क्वचिदपेक्षितमिति वचनबलादभिषेचनीयगतमाहेन्द्रस्तोत्रकाले तदनुष्ठीयते।। 3।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यागानां राजसूयत्वादङ्गित्वं फलवत्त्वतः देवनाद्यफलं यत्तदङ्गं फलवतो यजेः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.3 तृतीये सौम्यादीनामुपसत्कालकत्वाधिकरणे सूत्रे 5-6
प्रकरणाविभागे च विप्रतिषिद्धं ह्युभयम्।। 5।।
अपि वा कालमात्रं स्याददर्शनाद्विशेषस्य।। 6।।
तृतीयाधिकरणमारचयति-

1विषयः

किं पुरस्तादुपसदां सौम्येन प्रचरेदिति
अङ्गाङ्गिभावः कालो वा वाक्यादाद्यः प्रतीयते

3पूर्वपक्षः

पुरस्तादिति कालोऽत्र भाति कालविधिस्ततः
नाङ्गं कस्यापि सौम्यादि प्रधानमितरेष्टिवत्
राजसूये संसृच्छब्दवाच्यान्याग्नेयाष्टाकपालादीनि दश हवींष्याम्नातानि। तेष्वष्टमनवमदशमानि सौम्य- त्वाष्ट्र-वैष्णवानि। तद्विषयमिदं वाक्यमाम्नायते- ''पुरस्तादुपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद्वैष्णवेन'' इति। योऽयं राजसूये सोमयागः, तस्मिन्नतिदिष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां त्रयाणामनुष्ठानमनेन वाक्येन चोद्यते। ततो वाक्यात्सौम्यादीन्युपसदामङ्गानि- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- 'उपसदाम्' इति षष्ठ्याः कालवाचिना 'पुरस्तात्' इति शब्देनान्वयात्
सौम्यादीनां कालविशेषसंबन्धपरमिदं वाक्यम्, न त्वङ्गाङ्गिभावपरम्
ततो न कस्याप्यङ्गं सौम्यादिकम्, किंतु- अनुमत्यादिवत्प्रधानम्।
4
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये देवनस्य कृत्स्नराजसूयाङ्गताधिकरणे सूत्रे 3-4”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.4 चतुर्थे- आमनहोमानां सांग्रहण्यङ्गताधिकरणे सूत्रम्
फलवद्वोक्तहेतुत्वादितरस्य प्रधानं स्यात्।। 7।।
चतुर्थाधिकरणमारचयति-

1विषयः

मुख्यतामनहोमस्य सांग्रहण्यङ्गताऽथवा

3पूर्वपक्षः

मुख्यत्वमविरुद्धत्वात्फलाय स्यात्तदङ्गता
काम्येष्टिकाण्डे श्रूयते ''वैश्वदेवीं सांग्रहणीं निर्वपेद्ग्रामकामः'' इति। तत्र- आमनहोमाः श्रुताः- ''आमनस्यामनस्य देवाः इति तिस्र आहुतीर्जुहोति'' इति। त एत आमनहोमाः सांग्रहण्येष्ट्या सह समप्रधानभूताः। न हि तेषां मुख्यत्वे कश्चिद्विरोधोऽस्ति। दृष्टं ह्याग्नेयादिष्वनुमत्यादिषु च बहूनां मुख्यत्वम्- इति चेत् ।

4सिद्धान्तः

मैवम्
'दर्शपूर्णमासाभ्यां स्वर्गकामः' इति वाक्येन 'स्वाराज्यकामो राजसूयेन' इति वाक्येन च यथा बहूनां फलसंबन्धावगमः, न तथामनहोमानाम्, फलसंबन्धाभावे सति प्राधान्यायोगात्
''सांग्रहणीं निर्वपेद्ग्रामकामः'' इति वाक्यं तु सांग्रहण्याः संनिधावाम्नाता अफला आमनहोमास्तदङ्गम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये सौम्यादीनामुपसत्कालकत्वाधिकरणे सूत्रे 5-6”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- 'उपसदाम्' इति षष्ठ्याः कालवाचिना 'पुरस्तात्' इति शब्देनान्वयात् सौम्यादीनां कालविशेषसंबन्धपरमिदं वाक्यम्, न त्वङ्गाङ्गिभावपरम् ततो न कस्याप्यङ्गं सौम्यादिकम्, किंतु- अनुमत्यादिवत्प्रधानम्। 4”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.5 पञ्चमे दधिग्रहस्य नित्यताधिकरणे सूत्राणि 8-11
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात्।। 8।।
नित्यश्च ज्येष्ठशब्दात्।। 9।।
सार्वरूप्याच्च।। 10।।
नित्वो वा स्यादर्थवादस्तयोः कर्मण्यसंबन्धाद्भङ्गित्वाच्चान्तरायस्य।। 11।।
पञ्चमाधिकरणमारचयति-

1विषयः

नित्यनैमित्तिकत्वे वा नित्यतैव दधिग्रहे

3पूर्वपक्षः

देवान्तरायाज्ज्यैष्ठ्याच्च स्यादस्योभयरूपता
ज्योतिष्टोमे श्रूयते ''यां वै कांचिदध्वर्युर्यजमानश्च देवतामन्तरितः, तस्या आवृश्च्येते। यत्प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्येवैनाम्'' इति सोऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः। कुतः- आकारद्वयसाधकसद्भावात्। देवतान्तरायेण तद्देवताक्षोभमुपन्यस्य ग्रहेण शमनाभिधानात्, अन्तरायो निमित्तम्, ग्रहो नैमित्तिक इति प्रतिभाति। तथा ज्येष्ठत्वमाम्नातम्- ''ज्येष्ठो वा एष ग्रहाणाम्'' इति। ज्येष्ठत्वं नाम प्रशस्तत्वम्। तच्च नित्यत्वे सत्युपपद्यते। नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम्। तस्मात्- हेतुद्वयबलादुभयात्मकः- इति चेत्-
मैवम्। देवतान्तरायस्य निमित्तत्वाभावात्। निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयेत। यच्छब्दो वाऽन्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत। ''यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्'' ''भिन्ने जुहोति'' ''यो वै संवत्सरमुख्यमभृत्वाऽग्निं चिनुते'' इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात्। तस्मात्- केवलनित्यत्वमेव दधिग्रहस्योचितम्। देवताक्षोभतत्समाधानोपन्यासो विधेयदधिग्रहस्तुतयेऽर्थवादः।। 7।। 8।।

4सिद्धान्तः

निमित्तत्वद्योतिनोऽत्र यदिशब्दादयो न हि
अतोऽस्य न निमित्तत्वं केवला नित्यतोचिता

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- आमनहोमानां सांग्रहण्यङ्गताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'दर्शपूर्णमासाभ्यां स्वर्गकामः' इति वाक्येन 'स्वाराज्यकामो राजसूयेन' इति वाक्येन च यथा बहूनां फलसंबन्धावगमः, न तथामनहोमानाम्, फलसंबन्धाभावे सति प्राधान्यायोगात् ''सांग्रहणीं निर्वपेद्ग्रामकामः'' इति वाक्यं तु सांग्रहण्याः संनिधावाम्नाता अफला आमनहोमास्तदङ्गम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.6 षष्ठे वैश्वानरस्य नैमित्तिकत्वाधिकरणे सूत्रे 12-13
वैश्वानरश्च नित्यः स्यान्नित्यैः समानसंख्यत्वात्।। 12।।
पक्षे वोत्पन्नसंयोगात्।। 13।।
षष्ठाधिकरणमारचयति-

1विषयः

नित्यो नौमित्तिको वा स्याद्यागो वैश्वानरश्चितौ

3पूर्वपक्षः

नित्यः पुरेव यच्छब्दादविरोधाच्च पश्चिमः
अग्निचयने श्रूयते ''यो वै संवत्सरमुख्यमभृत्वाऽग्निं चिनुते। यथा सामि गर्भोवपद्यते, तादृगेव तदार्तिमार्छेत्। वैश्वानरं द्वादशकपालं पुरस्तान्निर्वपेत्'' इति। उखा पिठरः। तामुखाम् ''युञ्जानः प्रथमं मनः'' इत्यादिप्रपाठकाम्नातैर्मन्त्रैः संपाद्य, 'तस्यामुखायामग्निं निधाय, षडुद्यामे द्वादशोद्यामे वा शिक्ये तामुखामवस्थाप्य, तच्छिक्यं स्वकण्ठे बद्ध्वा, तमुख्यमग्निं संवत्सरं भृत्वा, पश्चादिष्टकाभिरग्निश्चेतव्यः। अभरणे त्वपूर्णगर्भपातवद्विनाशः स्यात्। ततो वैश्वानरेष्टिं चयनात्प्रागेव कुर्यात्' इत्यर्थः। अत्राप्यन्तरायवाक्यवदभरणवाक्यस्यार्थवादत्वान्नित्या वैश्वानरेष्टिः- इति चेत्-

4सिद्धान्तः

मैवम्
''यः पुमानभृत्वाऽग्निं चिनुते, स निवपेत्'' इति कर्तृसमानाधिकृतयच्छब्दबलादभरणेष्ट्योर्निमित्तनैमित्तिकभावावभासात्
किंच दधिग्रहस्य नित्वयस्य पाक्षिकत्वरूपं नैमित्तिकत्वं विरुद्धम्
इह तु नित्यत्वे प्रमाणाभावादेकमेव नैमित्तिकत्वमित्वविरोधः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे दधिग्रहस्य नित्यताधिकरणे सूत्राणि 8-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “निमित्तत्वद्योतिनोऽत्र यदिशब्दादयो न हि अतोऽस्य न निमित्तत्वं केवला नित्यतोचिता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.7 सप्तमे षष्ठचितेर्नैमित्तिकत्वाधिकरणे सूत्राणि 14-18
षट्चितिः पूर्ववत्त्वात्।। 14।।
ताभिश्च तुल्यसंख्यानात्।। 15।।
अर्थवादोपपत्तेश्च।। 16।।
एकचितिर्वा स्यादपवृक्ते हि चोद्यते निमित्तेन।। 17।।
विप्रतिषेधात्ताभिः समानसंख्यम्।। 18।।
सप्तमाधिकरणमारचयति-

1विषयः

नित्या षष्ठी चितिर्नो वा पञ्चापेक्षत्वतोऽग्रिमः
अपवृक्तावप्रतिष्ठानिमित्तीकृतितोऽन्तिमः

3पूर्वपक्षः

अग्नौ श्रूयते ''संवत्सरो वा एनं प्रतिष्ठायै नुदते, योग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश्चितयो भवन्ति, अथ षष्ठीं चितिं चिनुते'' इति। लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टकाभिः पक्ष्याकारेण स्थानं निष्पाद्यते, सेयं चितिः। तादृश्यः पञ्च चितयः पूर्वाः क्रियन्ते। ततः षष्ठी चितिः। तत्र 'षण्णां पूरणी षष्ठी' इति व्युत्पत्तौ पूर्वाः पञ्च चितीरपेक्षते। अन्यथा षट्संख्यापूरकत्वासंभवात्। तस्मात्- एकप्रयोगनियमादितरचितिवन्नित्या- इति चेत्-
मैवम्। 'अग्निं चित्वा' इति पूर्वाभिरेव पञ्चभिश्चितिभिर्नित्यस्याग्निचयनस्य समाप्तौ सत्यां पश्चात्- 'योऽत्र न प्रतितिष्ठति, असौ षष्ठीं चिनुते' इति कर्तृसमानाधिकृतेन यच्छब्देनाप्रतिष्ठां निमित्तीकृत्त्य विधानात्षष्ठी नैमित्तिकी। ततः- पञ्चचितिको नित्योऽग्निः, नैमित्तिकस्त्वेकचितिकः, इति प्रयोगैक्यम्। पूरणप्रत्ययस्त्वभिधानापेक्षयोपपद्यते। 'पूर्वाः पञ्च चितयोऽभिहिताः। अथाभिधास्यमानां षष्ठीं चितिं चिनुते' इति वचनव्यक्तिः।। 10।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे वैश्वानरस्य नैमित्तिकत्वाधिकरणे सूत्रे 12-13”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''यः पुमानभृत्वाऽग्निं चिनुते, स निवपेत्'' इति कर्तृसमानाधिकृतयच्छब्दबलादभरणेष्ट्योर्निमित्तनैमित्तिकभावावभासात् किंच दधिग्रहस्य नित्वयस्य पाक्षिकत्वरूपं नैमित्तिकत्वं विरुद्धम् इह तु नित्यत्वे प्रमाणाभावादेकमेव नैमित्तिकत्वमित्वविरोधः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.8 अष्टमे पिण्डपितृयज्ञस्यानङ्गताधिकरणे सूत्राणि 19-21
पितृयज्ञः स्वकालत्वादनङ्गं स्यात्।। 19।।
तुल्यवत्प्रसंख्यानात्।। 20।।
प्रतिषिद्धे च दर्शनात्।। 21।।
अष्टमाधिकरणमारचयति-

1विषयः

क्रत्वङ्गं स्यान्न वा पिण्डपितृयज्ञः क्रतौ हि सः

3पूर्वपक्षः

अमावास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता
इदमाम्नायते- ''अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ति'' इति। तत्र- अमावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः क्रत्वङ्गम्- इति चेत् ।

4सिद्धान्तः

मैवम्
अमावास्याशब्दस्य कालवाचित्वात्
कर्मणि त्वयं शब्दो लाक्षणिकः
न च- वाक्येन क्रत्वङ्गत्वाभावेऽपि प्रकरणेन तद्भवेत्- इति वाच्यम्, तस्यानारभ्याधीतत्वात्
तस्मात्- अयं पुरुषार्थः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे षष्ठचितेर्नैमित्तिकत्वाधिकरणे सूत्राणि 14-18”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.9 नवमे रशनाया यूपाङ्गताधिकरणे सूत्राणि 22-24
पश्वङ्गे रशना स्यात्तदागमे विधानात्।। 22।।
यूपाङ्गं वा तत्संस्कारात्।। 23।।
अर्थवादश्च तदर्थवत्।। 24।।
नवमाधिकरणमारचयति-

1विषयः

रज्जुर्द्वितीया पश्वर्था यूपार्था वाऽन्वयात्पशौ

3पूर्वपक्षः

पश्वर्था त्रिवृता यूपं परिवीयेति यूपगा
ज्योतिष्टोमे श्रूयते ''आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति'' इति। तत्र- सवनीयपशोरग्नीषोमीयविकृतित्वाच्चोदकप्राप्तं यूपपरिव्याणं कालोपलक्षणार्थमनूद्य परिव्याणोत्तरकाले त्रिवृद्रशनोपलक्षितपशोरुपाकरणं विधीयते। ततोऽत्र रशनायाः पश्वन्वयात्पशुबन्धनेन पशोरितस्ततोऽपक्रमणनिवारणरूपदृष्टार्थलाभाच्च पश्वर्था रशना- इति चेत्-
मैवम्। 'त्रिवृता' इति तृतीयया 'यूपम्' इति द्वितीयया च शेषशेषिभावावगमात्, अव्यवहितान्वयलाभाच्च रशना यूपार्था। कालस्तु ''आश्विनं ग्रहं गृहीत्वा'' इत्यनेनैवोपलक्षितः। पश्वनपक्रमणवद्यूपदार्ढ्यमपि दृष्टमेव प्रयोजनम्।

4सिद्धान्तः

न च- परिव्याणेन दोर्ढ्यं चोदकादेव सिद्धम्- इति वाच्यम्, तस्मिन्सिद्धे सति पुनर्विधानादेव द्वितीयया रशनया परिव्याणान्तराङ्गीकारात्
तस्मात्- इयं द्वितीया रशना यूपार्था

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे पिण्डपितृयज्ञस्यानङ्गताधिकरणे सूत्राणि 19-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अमावास्याशब्दस्य कालवाचित्वात् कर्मणि त्वयं शब्दो लाक्षणिकः न च- वाक्येन क्रत्वङ्गत्वाभावेऽपि प्रकरणेन तद्भवेत्- इति वाच्यम्, तस्यानारभ्याधीतत्वात् तस्मात्- अयं पुरुषार्थः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.10 दशमे स्वरोः पश्वङ्गताधिकरणे सूत्राणि 25-28
स्वरुश्चाप्येकदेशत्वात्।। 25।।
निष्क्रयश्च तद्ङ्गवत्।। 26।।
पश्वङ्गं वा तदर्थः स्यात्।। 27।।
भक्त्या निष्क्रयवादः स्यात्।। 28।।
दशमाधिकरणमारचयति-

1विषयः

स्वरुर्यूपे पशौ वाऽङ्गं यूपस्येत्युक्तितोऽग्रिमः

3पूर्वपक्षः

स्वरुणा पशुमञ्ज्यादित्युक्तेः पश्वङ्गता स्फुटा
अग्नीषोमीयपशौ श्रूयते ''यूपस्य स्वरुं करोति'' ''स्वरुणा पशुमनक्ति'' इति। तत्र- स्वरोर्यूपसंबन्धाभिधानाद्यूपाङ्गत्वम्- इति चेत्-

4सिद्धान्तः

मैवम्
'स्वरुणा पशुम्' इति तृतीयया द्वितीयया चाङ्गाङ्गिभावावगतौ संबंन्धसामान्यवाचिन्याः षष्ठ्या यूपीयच्छेदनजन्यत्वाभिप्रायेणापि नेतुं शक्यत्वात्
तस्मात्- स्वरुः पश्वङ्गम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे रशनाया यूपाङ्गताधिकरणे सूत्राणि 22-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न च- परिव्याणेन दोर्ढ्यं चोदकादेव सिद्धम्- इति वाच्यम्, तस्मिन्सिद्धे सति पुनर्विधानादेव द्वितीयया रशनया परिव्याणान्तराङ्गीकारात् तस्मात्- इयं द्वितीया रशना यूपार्था”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.11 एकादशे- आघारादीनामङ्गताधिकरणे सूत्राणि 29-38
दर्शपूर्णमासयोरिज्याः प्रधानान्यविशेषात्।। 29।।
अपि वाऽङ्गानि कानिचित्, येष्वङ्गत्वेन संस्तुतिः सामान्यो ह्यभिसंबन्धः।। 30।।
तथा चान्यार्थदर्शनम्।। 31।।
अविशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात्।। 32।।
नानुक्तेऽन्यार्थदर्शनं परार्थत्वात्।। 33।।
पृथक्त्वे त्वभिधानयोर्निवेशः, श्रुतितो व्यपदेशाच्च, तत्पुनर्मुख्यलक्षणं यत्फलवत्त्वम्, तत्संनिधावसंयुक्तं तदङ्गं स्यात्, भागित्वात्कारणस्याश्रुतश्चान्यसंबन्धः।। 34।।
गुणाश्च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते।। 35।।
तुल्या च कारणश्रुतिरन्यैरङ्गाङ्गिसंबन्धः।। 36।।
उत्पत्तावभिसंबन्धस्तस्मादङ्गोपदेशःस्यात्।। 37।।
तथा चान्यार्थदर्शनम्।। 38।।
एकादशाधिकरणमारचयति-

1विषयः

आघारादेश्च मुख्यत्वं न वाग्नेयादिवत्तु तत्
षण्मुख्या नामतः सिद्धाः शेषा अन्येऽङ्गसंस्तुतेः

3पूर्वपक्षः

दर्शपूर्णमासयोराघाराज्यभागप्रयाजानुयाजादयः कालसंयोगमन्तरेणाम्नाताः। आग्नेयादयः षड्यागाः कालसंयोगेन चोदिताः। तत्र- आग्नेयादीनां यथा प्राधान्यमङ्गीकृतम्, तथैवाघारादीनामप्यङ्गीकर्तव्यम्। यथा राजसूये परस्परविलक्षणानामिष्टिपशुसोमानां बहूनां समप्राधान्यम्, तद्वत्। एकप्रकरणपाठश्चोभयत्रापि समानः। तस्मात्- आघारादीनामाग्नेयादीनां च समप्राधान्यम्- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- ''राजा स्वाराज्यकामो राजसूयेन यजेत'' इत्यत्र राजसूयशब्दो राजसंबन्धात्प्रवर्तमानो राजकर्तृकाणामेकप्रकरणपठितानां सर्वेषां यागानां नामधेयं भवति। दर्शपूर्णमासशब्दौ तु कालवाचिनौ सन्तौ कालसंयोगेन विहितानामेवाग्नेयादीनां षण्णां यागानां नामधेयतां प्रतिपद्येते। ततः ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति वाक्येन तन्नामधेयवशादाग्नेयादयः षडेव यागाः फलसंबन्धित्वेन प्रतीयमाना मुख्याः। अन्ये त्वाज्यभागाघारादयस्तन्नामरहिता निष्फला आग्नेयादीनां शेषाः। एवं सत्यङ्गत्वेन स्तुतिरुपपद्यते। ''चक्षुषी वा एते यज्ञस्य, यदाज्यभागौ'' इत्याज्यभागौ यज्ञशरीरस्याङ्गिनोऽङ्गत्वेन स्तूयेते। ''यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञाय क्रियते'' इति यज्ञशरीरोपकारकवर्मत्वेन प्रयाजानुयाजाः स्तूयन्ते। एवमाघारादिषूदाहार्यम्। एतच्च सति सादृश्ये संभवति। तस्मात्- आधारादीनां नास्ति मुख्यत्वम्।। 14।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे स्वरोः पश्वङ्गताधिकरणे सूत्राणि 25-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'स्वरुणा पशुम्' इति तृतीयया द्वितीयया चाङ्गाङ्गिभावावगतौ संबंन्धसामान्यवाचिन्याः षष्ठ्या यूपीयच्छेदनजन्यत्वाभिप्रायेणापि नेतुं शक्यत्वात् तस्मात्- स्वरुः पश्वङ्गम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.4.12 द्वादशे ज्येतिष्टोमे दीक्षणीयादीनामङ्गताधिकरणे सूत्राणि 39-41
ज्योतिष्टोमे तुल्यान्यविशिष्टं हि कारणम्।। 39।।
गुणानां तूत्पत्तिवाक्येन संबन्धात्कारणश्रुतिः, तस्मात्सोमः प्रधानं स्यात्।। 40।।
तथा चान्यार्थदर्शनम्।। 41।।
द्वादशाधिकरणमारचयति-

1विषयः

मुख्या न वा दीक्षणीया मुख्या स्यात्सोमसाम्यतः
ज्योतींषि यस्य स्तोमाः स्युरिति सोमैकमुख्यता

3पूर्वपक्षः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य चतुर्थपादः
''ज्योतिष्टोमेन स्वर्गकामो यजेत'' इत्यस्य प्रकरणे- ऐन्द्रवायवग्रहादयः सोमयागाः, दीक्षणीयादीष्टयः, अग्नीषोमीयादिपशवः, आम्नाताः। तत्र- आग्नेयादिपक्षपातिदर्शपूर्णमासनामवज्ज्योतिष्टोमनाम्नः सोमपक्षपाते हेत्वभावेन राजसूयनामवत्प्रकृतसर्वयागसाधारणत्वात्, सोमसमानानां दीक्षणीयादीनामप्यस्ति मुख्यत्वम्- इति चेत्-
मैवम्। सोमयागपक्षपाते हेतुसद्भावात्। 'ज्योतींषि स्तोमा यस्य यज्ञस्य सोऽयं ज्योतिष्टोमः' इति हि तद्व्युत्पत्तिः। अत एव ब्राह्मणम्- ''त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः'' इति। स्तोमानां ज्योतिष्ट्वं यज्ञप्रकाशकत्वम्। न चेष्टयः पशवो वा त्रिवृदादिस्तोमयुक्ताः प्रतिभासन्ते। तस्मात्- ज्योतिष्टोमनाम्ना सोमयागानामेव फलसंबन्धावगमादफला इष्टिपशवो न मुख्या इति सोमयागानामेव प्राधान्यम्।। 15।।
चतुर्थोऽध्यायश्च समाप्तः।।
अत्र पादे- अधिकरणानि 12, सूत्राणि 41।
आदितः- अधिकरणानि 308, सूत्राणि 816।
पञ्चमाध्यायस्य प्रथमः पादः
श्रुत्यर्थपाठादिभिः क्रमो निरूपितः।
अनेन चतुर्थपञ्चमयोरध्याययोः पौर्वापर्यं निरूपितम्। द्वितीयाध्याये कर्मभेदनिरूपणात्पृथगनुष्ठेयत्वमवगतम्। तृतीयाध्याये शेषनिरूपणात्- ''निवेशनः संगमनः'' इ ति मन्त्रेण बह्व्युपस्थानमनुष्ठेयम्, नत्विन्द्रोपस्थानम्- इत्याद्यनुष्ठेयव्यवस्थाऽवगता। चतुर्थाध्याये प्रयुक्तिनिरूपणादनुष्ठेयमेव निश्चीयते- पलाशशाखाछेदनस्य वत्सापाकरणमेव प्रयोजकम्, न तु प्रस्तरेण सह प्रहृतिः प्रयोजिका। तथा सति षौर्णमास्यां वत्सापाकरणाभावे सत्यप्रयोजकप्रहृत्यर्थं शाखाछेदनं न कर्तव्यम्- इति। एवं त्रिभिरध्यायैरनुष्ठेयस्वरूपे निश्चिते सत्यनुष्ठानक्रमस्याकाङ्क्षितत्वात्पञ्चमेऽध्याये सोऽभिधीयते।

4सिद्धान्तः

द्वितीयादित्रये प्रोक्तं भेदशेषप्रयुक्तिभिः
अनुष्ठेयमनुष्ठानक्रमः पञ्चम ईर्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- आघारादीनामङ्गताधिकरणे सूत्राणि 29-38”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 4, Pāda 3 Contents Adhyāya 5, Pāda 1 →