SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 4, Pāda 3

प्रयुक्तिः

जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता

20adhikaraṇas
45sūtras
4.3.1 प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि- 1-3
द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्।। 1।।
उत्पत्तेश्चातत्प्रधानत्वात्।। 2।।
फलं तु तत्प्रधानायाम्।। 3।।
तृतीयपादे प्रथमाधिकरणमारचयति-

1विषयः

जुह्वाः पर्णमयीत्वेन न पापश्रुतिरञ्जनात्

3पूर्वपक्षः

वैरिदृग्वृञ्जनं, वर्म प्रयाजैः, पुरुषाय किम्
इदमाम्नायते- ''यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति'' ''यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते'' ''यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानस्य भ्रातृव्याभिभूत्यै'' इति। तत्र- यज्जुहूप्रकृतिभूतं पर्णद्रव्यम्, यश्चाञ्जनेन चक्षुषः संस्कारः, यच्च प्रयाजानुयाजरूपं वर्म, तत्त्रियं पुरुषार्थत्वेन विधीयते। कुतः- पापश्लोकश्रवणादिराहित्यादेः पुरुषसंबन्धिफलस्य प्रतिभानात्- इति चेत्-
मैवम्। फलं हि साध्यं भवति। न चात्र साध्यता प्रतिभासते। 'न शृणोति, वृङ्क्ते, वर्म क्रियते' इति वर्तमानत्वनिर्देशात्। अतः क्रत्वर्था एते विधयः। तत्र पर्णमयीत्वस्यानारभ्याधीतस्यापि वाक्येन क्रतुसंबन्धः। संस्कारवर्मणोस्तु प्रकरणेन। क्रत्वर्थानां तु क्रतुनिष्पादनव्यतिरेकेण फलाकाङ्क्षाया अभावाद्वर्तमाननिर्देशस्व विपरिणामं कृत्वाऽपि फलं कल्पयितुं न शक्यम्। तस्मात्- फलवत्त्वभ्रमहेतुः पापश्लोकश्रवणराहित्यादिरर्थवादः।। 1।। 2।।

4सिद्धान्तः

क्रतवे वाऽग्रिमो मानात्फलस्य न हि साध्यता
विभाति क्रतवे तस्मादर्थवादः फलं भवेत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे 29-30”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य द्वितीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.2 द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम्
नैमित्तिके विकारत्वात्क्रतुप्रधानमन्यत्स्यात्।। 4।।
द्वितीयाधिकरणमारचयति-

1विषयः

मृन्मये प्रणयेत्कामी नित्येऽप्येतदुतेतरत्

3पूर्वपक्षः

आकाङ्क्षा संनिधिश्चास्ति तस्मान्नित्येऽपि मृन्मयम्
''अपः प्रणयति'' इति प्रकृत्य श्रूयते ''मृन्मयेन प्रतिष्ठाकामस्य प्रणयेत्'' इति। तत्र- अपां प्रणयनस्य नित्यप्रयोगेऽपि मृन्मयपात्रमेव साधनम्। कृतः- नित्येऽपि पात्रस्याकाङ्क्षितत्वात्। न च लोकसिद्धं किंचित्पात्रमुपादीयते-इति वाच्यम्। श्रौते कर्मण्यत्यन्तमश्रुताच्छ्रुतस्य संनिहितत्वात्- इति प्राप्ते-

4सिद्धान्तः

कामार्थत्वादयोग्यत्वं सामान्यविहितेन च
आकाङ्क्षाया निवृत्तत्वान्नित्यार्थमितरद्भवेत्
ब्रूमः- कामार्थं मृन्मयमाम्नातम्। तच्च सति कामे योग्यम्। न हि पाक्षिकं कामं निमित्तीकृत्य प्रवृत्तं नित्यस्य योग्यं भवति। पात्राकाङ्क्षा तु सामान्यतो विहितेन निवर्तते। 'अपः प्रणयति' इति हि पात्रविशेषमनुपन्यस्य विहितम्। तच्चान्यथाऽनुपपन्नं तत्पात्रं किंचित्सामान्येन कल्पयति। तस्मान्नित्यप्रयोगे तत्काम्यं मृन्मयं नान्वेति, किंत्वितरत्पात्रं यत्किंचिदुपादेयम्। ''चमसेनापः प्रणयेत्'' इति नित्ये पात्रं विधीयते इति चेत्- तर्हि कृत्वाचिन्ताऽस्तु।। 3।। 4।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि- 1-3”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “क्रतवे वाऽग्रिमो मानात्फलस्य न हि साध्यता विभाति क्रतवे तस्मादर्थवादः फलं भवेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.3 तृतीये- संयोगपृथक्त्वन्याये, दध्यादेर्नित्यनैमित्तिकोभयार्थताधिकरणे सूत्राणि 5-7
एकस्य तूभयत्वे संयोगपृथक्त्वम्।। 5।।
शेष इति चेत्।। 6।।
नार्थपृथक्त्वात्।। 7।।

1विषयः

दघ्ना त्विन्द्रियकामस्य नित्येऽन्यदुत तद्दधि

3पूर्वपक्षः

अन्यत्स्यात्पूर्ववन्मैवं संयोगस्य पृथक्त्वतः
तृतीयाधिकरणमाचरयति-
अग्निहोत्रे श्रूयते ''दध्नेन्द्रियकामस्य जुहुयात्'' इति। तत्र दध्नः काम्यत्वान्नित्येऽग्निहोत्रे पूर्वन्यायेन तद्दधि न प्रयोक्तव्यम्। किंत्वन्यदेव किंचिद्द्रव्यम्- इति चेत्-

4सिद्धान्तः

मैवम्
''दध्ना जुहोति'' इत्यस्मिन्वाक्यान्तरे कामसंयोगमनुपन्यस्य नित्यहोमसंयोगेन दधिविधानात्
तस्मात्- एकस्यापि दध्नो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविरुद्धम्
एवमग्नीषोमीयपशौ- ''खादिरे बध्नाति'' ''खादिरं वीर्यकामस्य यूपं कुर्वीत'' इत्युदाहरणीयम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कामार्थत्वादयोग्यत्वं सामान्यविहितेन च आकाङ्क्षाया निवृत्तत्वान्नित्यार्थमितरद्भवेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.4 चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे 8-9
द्रव्याणां तु क्रियार्थानां संस्कारः क्रतुधर्मः स्यात्।। 8।।
पृथक्त्वाद्व्यवतिष्ठेत।। 9।।
चतुर्थाधिकरणमारचयति-

1विषयः

पयो व्रतं ब्राह्मणस्य पुंसे तत्क्रतवेऽथवा

3पूर्वपक्षः

पुंयोगादग्रिमो मैवं नैष्फल्यात्क्रतुशेषता
ज्योतिष्टोमे दीक्षितस्यान्नभोजनाभावे व्रतमाम्नायते- ''पयो व्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्य'' इति। तत्र- ब्राह्मणादिपुरुषसंयोगादेतद्व्रतं पुरुषार्थम्- इति चेत्-

4सिद्धान्तः

मैवम्
इन्द्रियवीर्यादिवत्फलस्यात्रानुक्तत्वात्
क्रतुशेषत्वं तु प्रकरणादवगम्यते
ब्राह्मणादिपुरुषा द्रव्यविशेषव्यवस्थायै निमित्तत्वेनोपन्यस्यन्ते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- संयोगपृथक्त्वन्याये, दध्यादेर्नित्यनैमित्तिकोभयार्थताधिकरणे सूत्राणि 5-7”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''दध्ना जुहोति'' इत्यस्मिन्वाक्यान्तरे कामसंयोगमनुपन्यस्य नित्यहोमसंयोगेन दधिविधानात् तस्मात्- एकस्यापि दध्नो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविरुद्धम् एवमग्नीषोमीयपशौ- ''खादिरे बध्नाति'' ''खादिरं वीर्यकामस्य यूपं कुर्वीत'' इत्युदाहरणीयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.5 पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि 10-12
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत, न ह्यशब्दं प्रतीयते।। 10।।
अपि वाम्नानसामर्थ्याच्चोदनार्थेन गम्यते, अर्थानां ह्यर्थवत्त्वेन वचनानि प्रतीयन्ते, अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसंबन्धः, तस्माच्छ्रुत्येकदेशः।। 11।।
वाक्यार्थश्च गुणार्थवत्।। 12।।
पञ्चमाधिकरणमारचयति-

1विषयः

नैवास्ति विश्वजिद्यागे फलमस्त्युत नाश्रुतेः
भाव्यापेक्षाद्विधेः कल्प्यं फलं पुंसः प्रवृत्तये

3पूर्वपक्षः

इदमाम्नायते- ''विश्वजिता यजेत'' इति। तत्र फलस्याश्रुतत्वान्नास्ति विश्वजिद्यागे फलम्- इति चेत्-
मैवम्। फलस्य कल्पनीयत्वात्। 'विश्वजिन्नाम्ना यागेन कुर्यात्' इत्युक्ता भावना भाव्यमपेक्षते। 'किं कुर्यात्' इत्याङ्काक्षाया अनिवृत्तेः। अतो वाक्यपूरणाय किंचित्फलमवश्यमध्याहर्तव्यम्। अध्याहृते च तत्कामिनः पुरुषस्यात्र प्रवृत्त्या यागानुष्ठानं सिध्यति। अन्यथा निरधिकारत्वादनुष्ठाने विधिर्निरर्थकः स्यात्। तस्मात्- फलं कल्पनीयम्।। 7।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे 8-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् इन्द्रियवीर्यादिवत्फलस्यात्रानुक्तत्वात् क्रतुशेषत्वं तु प्रकरणादवगम्यते ब्राह्मणादिपुरुषा द्रव्यविशेषव्यवस्थायै निमित्तत्वेनोपन्यस्यन्ते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.6 षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधिकरणे सूत्रे 13-14
तत्सर्वार्थमनादेशात्।। 13।।
एकं वा चोदनैकत्वात्।। 14।।
षष्ठाधिकरणमारचयति-

1विषयः

सर्वं फलमुतैकं स्यात्सर्वमस्त्वविशेषतः

3पूर्वपक्षः

एकेन तन्निराङ्क्षमतोऽनेकं न कल्प्यते
तस्मिन्विश्वजिति पशुपुत्रवीर्येन्द्रियादिकं सर्वं फलत्वेन कल्पनीयम्। कुतः- 'एतदेवास्य फलम्' इत्यत्र विशेषहेतोरभावात्- इति चेत्-

4सिद्धान्तः

मैवम्
लाघवस्यैव विशेषहेतुत्वात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि 10-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.7 सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे 15-16
स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात्।। 15।।
प्रत्ययाच्च।। 16।।
सप्तमाधिकरणमारचयति-

1विषयः

एकं यत्किंचिदथवा नियतं न नियामकम्

3पूर्वपक्षः

तस्मादाद्यः सर्वपुंसामिष्टत्वात्स्वर्ग एव तत्
विश्वजिति कल्प्यमानं यदेकं फलं तत् 'इदमेव' इति नियामकं नास्ति। तस्मादिच्छया केनचित्कस्मिंश्चित्फले कल्प्यमानेऽर्थात्सर्वफलत्वे गौरवमेव स्यात्- इति चेत्-

4सिद्धान्तः

मैवम्
स्वर्गस्य पश्वादिफलवद्दुःखमिश्रितत्वाभावात्, निरतिशयसुखत्वाच्च सर्वपुरुषाणामिष्टत्वात्स्वर्ग एव विश्वजितः फलम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधिकरणे सूत्रे 13-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् लाघवस्यैव विशेषहेतुत्वात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.8 अष्टमे रात्रिसत्रन्याये रात्रिसत्रस्यार्थवादिकफलकताधिकरणे सूत्राणि 17-19
क्रतौ फलार्थवादमङ्गवत्कार्ष्णाजिनिः।। 17।।
फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्।। 18।।
अङ्गेषु स्तुतिः परार्थत्वात्।। 19।।
अष्टमाधिकरणमारचयति-

1विषयः

स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रमिहादिमः

3पूर्वपक्षः

पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेनाश्रुताद्वरम्
सत्रकाण्डे प्रत्येकं श्रूयते ''प्रतितिष्ठन्ति ह वा एते, य एता रात्रीरुपयन्ति'' इति, ''ब्रह्मवर्चस्विनोऽन्नादा भवन्ति, य एता उपयन्ति'' इति च। द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरात्रादयः सर्वे सत्रविशेषाः। 'त्रयोदशसंख्याका रात्रयो यस्मिन्सत्रविशेषे सोऽयं त्रयोदशरात्रः' इति समुदायप्राधान्येनैकवचनान्ततया प्रायेण निर्देशो भवति। क्वचित्तु समुदायिनां रात्रिविशेषाणां प्रत्येकं प्राधान्यमभ्युपेत्यैक एव रात्रिविशेषो बहुवचनान्तेन रात्रिशब्देनाम्नायते। तद्यथा- ''त एता विशतिं रात्रीरपश्यन्'' इति तादृशे रात्रिसत्रे विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- अस्य रात्रिसत्रविधेः स्तावकेऽर्थवादे प्रतिष्ठा श्रुता
सा चास्मिन्वाक्येऽत्यन्तमश्रुतात्स्वर्गात्प्रत्यासन्ना
तस्मात्- 'प्रतिष्ठाकामो रात्रिसत्रं कुर्यात्' इत्येवं प्रतिष्ठैव फलत्वेन कल्पनीया
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे 15-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् स्वर्गस्य पश्वादिफलवद्दुःखमिश्रितत्वाभावात्, निरतिशयसुखत्वाच्च सर्वपुरुषाणामिष्टत्वात्स्वर्ग एव विश्वजितः फलम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.9 नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि 20-24
काम्ये कर्मणि नित्यःस्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः।। 20।।
वीते च कारणे नियमात्।। 21।।
कामो वा तत्संयोगेन चोद्यते।। 22।।
अङ्गे गुणत्वात्।। 23।।
वीते च नियमस्तदर्थम्।। 24।।
नवमाधिकरणमारचयति-

1विषयः

श्रुताश्रुते श्रुतं वैकं सौर्ये सर्वप्रवृत्तये

3पूर्वपक्षः

आद्यो मैवं श्रुतेनैव फलाकाङ्क्षानिवर्तनात्
''सौर्यं चरुं र्निवपेद्ब्रह्मवर्चसकामः'' इत्यत्र ब्रह्मवर्चसं फलं श्रुतम्। स्वर्गोऽश्रुतं फलम्। तदुभयमप्यभ्युपेयम्। तथा सति स्वर्गस्य सर्वैरपेक्ष्यमाणत्वात्सर्वेषां तत्र प्रवृत्तिर्लभ्येत- इति चेत्-

4सिद्धान्तः

मैवम्
श्रुतेन ब्रह्मवर्चसफलेनैव निराकाङ्क्षे विधिवाक्ये विश्वजिन्न्यायेन स्वर्गफलकल्पानाया असंभवात्
तस्मात्- श्रुतमेव फलम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे रात्रिसत्रन्याये रात्रिसत्रस्यार्थवादिकफलकताधिकरणे सूत्राणि 17-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- अस्य रात्रिसत्रविधेः स्तावकेऽर्थवादे प्रतिष्ठा श्रुता सा चास्मिन्वाक्येऽत्यन्तमश्रुतात्स्वर्गात्प्रत्यासन्ना तस्मात्- 'प्रतिष्ठाकामो रात्रिसत्रं कुर्यात्' इत्येवं प्रतिष्ठैव फलत्वेन कल्पनीया”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.10 दशमे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां सर्वकामार्थताधिकरणे - सूत्रे 25-26
सार्वकाम्यमङ्गकामैः प्रकरणात्।। 25।।
फलोपदेशो वा प्रधानशब्दसंयोगात्।। 26।।
दशमाधिकरणमारचयति-

1विषयः

दर्शादिः सर्वकामेभ्योऽनुवादो वा फले विधिः
अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते

3पूर्वपक्षः

उत्पत्तिचोदनासिद्धे आश्रित्य विधिभावने
फलसंयोगबोधेन भवेदेष फले विधिः
इदमाम्नायते-
''एकस्मै वा अन्या इष्टयः कामायाह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौ'' इति। ''एकस्मै वा अन्ये यज्ञक्रतवः कामायाह्रियन्ते, सर्वेभ्यो ज्योतिष्टोमः'' इति।
तत्र- 'सर्वेभ्यः' इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः, विधायकस्य लिङादेर्भावनावाचिन आख्यातस्य चाभावात्। अनुवादस्तु भविष्यति, सर्वकामानां प्राप्तत्वात्। न च 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरम्- इति वाच्यम्। अङ्गोपाङ्गकामानामपि प्राप्तत्वात्। सामिधेन्यो दर्शपूर्णमासयोरङ्गम्। तत्र कामाः श्रृयन्ते- ''एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य, चतुर्विंशतिमनुब्रूयाद्ब्रह्मवर्चसकामस्य'' इति। तथा सांनाय्ययागस्य दोहनमङ्गम्। तत्साधनं वत्सापाकरणमुपाङ्गम्। तत्र पलाशशाखाहरणे काम आम्नातः- ''यः कामयेत- पशुमान्स्यात्'' इति, ''बहुपर्णां तस्मै बहुशाखामाहरेत्''। ''पशुमन्तमेवैनं करोति'' इति। त एते सर्वे कामा अनूद्यन्ते- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- मा भूतामस्मिन्वाक्ये विधिभावने
तथाऽप्युत्पत्तिवाक्यसिद्धे ते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते
तस्मात्- एष फले विधिः।
12
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि 20-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् श्रुतेन ब्रह्मवर्चसफलेनैव निराकाङ्क्षे विधिवाक्ये विश्वजिन्न्यायेन स्वर्गफलकल्पानाया असंभवात् तस्मात्- श्रुतमेव फलम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.11 एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे 27-28
तत्र सर्वेऽविशेषात्।। 27।।
योगसिद्धिर्वाऽर्थस्योत्पत्त्यसंयोगित्वात्।। 28।।
एकादशाधिकरणमारचयति-

1विषयः

ज्योतिष्टोमश्च सर्वार्थः सर्वं सकृदनुष्ठितेः

3पूर्वपक्षः

दद्यात्पृथक्प्रयोगाद्वा सकृत्तस्याविशेषतः
यथा दर्शपूर्णमासौ सर्वकामार्थौ, तथा ज्योतिष्टोमश्च सर्वकामार्थ इति पूर्वाधिकरणेनैव सिद्धम्। तत्रोभयत्र कामा नैमित्तिकाः। ज्योतिष्टोमादिस्वरूपं निचित्तम्। तच्च सर्वेषु कामेष्वविशिष्टम्। न हि निमित्तसाधारण्ये सति नैमित्तिकानां पर्यायो भवति। वह्निसामीप्ये सति दाहप्रकाशयोः पर्यायादर्शनात्। तस्मज्ज्योतिष्टोमे सकृदनुष्ठिते सत्येकं फलं यथा निष्पद्यते, तथा फलान्तराणामपि वारयितुमशक्यत्वाद्युगपत्सर्वफलसिद्धिः- इति प्राप्ते-

4सिद्धान्तः

एकैकस्यानपेक्षस्य फलस्यैव हि साधनम्
चोदितं तेन कामास्ते पर्यायेण भवन्त्यमी
ब्रूमः- नहि ज्योतिष्टोयं निमित्तीकृत्य कामा विधीयन्ते, कामानामननुष्ठेयत्वात्। किं तर्हि- पुरुषस्य स्वत एव प्राप्तान्कामानुद्दिश्य तत्साधनत्वेनैव ज्योतिष्टोमो विधीयते। यद्यपि 'सर्वेभ्यः कामेभ्यः' इति स्वर्गपश्वादिफलानामेकेनैव शब्देनोद्दिश्यमानत्वात्साहित्यं प्रतिभाति, तथाऽपि न तदस्ति, उद्देश्यगतत्वेन साहित्यस्याविवक्षितत्वात्। न च शब्दतः साहित्यनियमाभावेऽप्येककर्मफलत्वादर्थतः साहित्यम्- इति वाच्यम्। स्वर्गपश्वादीनां परस्परनिरपेक्षाणामेव फलत्वात्। तस्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते। अत एव 'सर्वेभ्यः' इति निर्देशोपपत्तिः। अन्यथा हि साहित्यनियमान्मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते। तस्माद्यदा यत्फलं काम्यम्, तदा तत्सिद्धये ज्योतिष्टोमः प्रयोक्तव्यः। एकमपि सद्वृष्ट्यादिफलं यदा यदा काम्यते, तदा तदा कारीरीष्टिः पुनः पुनः प्रयुज्यते। किमु वक्तव्यम्- फलभेदे प्रयोगभेदः- इति। तस्मात्प्रतिफलं पृथक्प्रयोगः।। 14।। 15।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां सर्वकामार्थताधिकरणे - सूत्रे 25-26”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- मा भूतामस्मिन्वाक्ये विधिभावने तथाऽप्युत्पत्तिवाक्यसिद्धे ते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते तस्मात्- एष फले विधिः। 12”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.12 द्वादशे काम्यानामैहिकामुष्मिकफलवत्त्वाधिकरणे वर्णकान्तरेण ते एव सूत्रे 27-28
तत्र सर्वेऽविशेषात्।। 27।।
योगसिद्धिर्वाऽर्थस्योत्पत्त्यसंयोगित्वात्।। 28।।
द्वादशाधिकरणमारचयति-

1विषयः

चित्रया पशवोऽमुष्मिन्नेव स्युर्नियता न वा

3पूर्वपक्षः

आद्यः स्वर्गेण तुत्यत्वाद्देहस्योत्पादकत्वतः
काम्यकर्माण्येवं श्रूयन्ते-
''चित्रया यजेत पशुकामः'' ''ऐन्द्रमेकादशकपालं निवपेत्प्रजाकामः'' इति। तत्र यथा स्वर्गफलस्यामुष्मिकत्वं नियतम्। एवं पश्वादिफलस्यापि। यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथाऽस्तु- इति चेत्-
मैवम्। वैषम्यात्। अस्मिन्देहे स्वर्गस्य भोक्तुमशक्यत्वादश्रुताऽप्यन्यदेहोत्पत्तिरर्थापत्त्या कल्प्यते। 'चित्रया त्वन्यदेहोऽवश्यमुत्पाद्यते' इति नियमो न श्रुतः, नापि किंचित्तस्य कल्पकमस्ति। अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात्। अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधचित्रादिफलमामुष्मिकमेव- इति चेत्- न। प्रतिग्रहादेः प्रतिबन्धनिवृत्तावुपयुक्तत्वात्। तस्मात्- असति प्रतिबन्धे फलमैहिकम्, सति त्वामुष्मिकम्।। 16।। 17।।

4सिद्धान्तः

चित्रोत्पत्तौ तु नियमो न श्रुतो नापि कल्पनम्
पुंस्प्रवृत्त्यादिनाऽपेते प्रतिबन्धे भवेत्फलम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे 27-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एकैकस्यानपेक्षस्य फलस्यैव हि साधनम् चोदितं तेन कामास्ते पर्यायेण भवन्त्यमी”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.13 त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि 29-31
समवाये चोदनासंयोगस्यार्थवत्त्वात्।। 29।।
कालश्रुतौ काल इति चेत्।। 30।।
नासमवायात्प्रयोजनेन स्यात्।। 31।।
त्रयोदशाधिकरणमारचयति-

1विषयः

इष्ट्रवा तु वाजपेयेन बृहस्पतिसवं यजेत्

3पूर्वपक्षः

कालं वा बोधयेद्वाक्यमुताङ्गत्वस्य बोधकम्
इदमाम्नायते-
''वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत'' इति। ''अग्निं चित्वासौत्रामण्या यजेत'' इति। तत्र- 'इष्ट्वा' इति क्त्वाप्रत्ययो वाजपेयस्य पूर्वकालीनतां ब्रूते। तस्माद्वाक्यमिदं बृहस्पतिसवस्य वाजपेयोत्तरकालीनतां बोधयति- इति प्राप्ते-

4सिद्धान्तः

क्त्वाश्रुत्या भाति कालोऽत्र मैवमङ्गत्वबोधनम्
श्रुतेर्मुख्यं प्रक्रिया च तथासत्यनुगृह्यते
ब्रूमः- बृहस्पतिसवस्य वाजपेयाङ्गत्वबोधनमेव क्त्वाश्रुतेर्मुख्योऽर्थः, 'समानकर्तृकयोः पूर्वकाले' (3।4।21) इति (पाणिनि) सूत्रेण क्रियाद्वयस्यैककर्तृकतायां तद्विधानात्। यद्यपि सूत्रे 'पूर्वकाले' इत्युक्तम्, तथाऽपि तन्न नियतम्। 'मुखं व्यादाय स्वपिति' इत्यत्र कालैक्येऽपि प्रयोगात्। वाजपेयप्रकरणमप्यङ्गत्वेऽनुगृह्यते। अन्यथा त्वप्रकृते बृहस्पतिसवे कालविधानात्प्रकरणं बाध्येत। अङ्गत्वे कर्मान्तरत्वेन प्रसिद्धबृहस्पतिसवत्वाभावात्तच्छब्दोऽनुपपन्नः- इति चेत्- न। मासाग्निहोत्रन्यायेन तद्धर्मातिदेशार्थत्वात्। तस्मात्- वाक्यमिदमङ्गत्वबोधकम्। 'अग्निंचित्वा'- इत्यत्राप्येवं योजनीयम्।। 18।। 19।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे काम्यानामैहिकामुष्मिकफलवत्त्वाधिकरणे वर्णकान्तरेण ते एव सूत्रे 27-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “चित्रोत्पत्तौ तु नियमो न श्रुतो नापि कल्पनम् पुंस्प्रवृत्त्यादिनाऽपेते प्रतिबन्धे भवेत्फलम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.14 चतुर्दशे वैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि 32-35
उभयार्थमिति चेत्।। 32।।
न शब्दैकत्वात्।। 33।।
प्रकरणादिति चेत्।। 34।।
नोत्पत्तिसंयोगात्।। 35।।
चतुर्दशाधिकरणमारचयति-

1विषयः

संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः
द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात्

3पूर्वपक्षः

उत्पत्तिवाक्यतः पूर्णमासे संयोगभासनात्
तस्यैवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता
दर्शपूर्णमासप्रकरणे श्रूयते ''संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपति'' इति। तत्र-इयं वैमृधेष्टिः प्रकरणबलात्प्रयाजादिवद्दर्शपूर्णमासयोरुभयोरप्यङ्गम्- इति चेत्-

4सिद्धान्तः

वाक्यस्य प्रबलत्वात्
न च 'संस्थाप्य' इति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तम्- इति वाच्यम्, दर्शसाधारणाङ्गसमाप्त्यभिप्रायेण तदुपपत्तेः
तस्मात्- उत्पत्तिवाक्यात्, एककर्तृकत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम्।
20

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि 29-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “क्त्वाश्रुत्या भाति कालोऽत्र मैवमङ्गत्वबोधनम् श्रुतेर्मुख्यं प्रक्रिया च तथासत्यनुगृह्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.15 पञ्चदशे- अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम्
अनुत्पत्तौ तु कालः स्यात्प्रयोजनेन संबन्धात्।। 36।।
पञ्चदशाधिकरणमारचयति-

1विषयः

किमाग्निमारुतादूर्ध्वमनुयाजैश्चरेदिति
अङ्गं कालोऽथवाऽङ्गं स्यादतिपारार्थ्यमन्यथा

3पूर्वपक्षः

पुराऽग्निमारुतस्यास्य ज्ञाता सोमार्थता तथा
अनुयाजाश्च पश्वर्थाः संयोगः कालसिद्धये
ज्योतिष्टोमे श्रूयते ''आग्निमारुतादूर्ध्वमनुयाजैश्चरति'' इति। आग्निमारुतं नाम किंचिच्छस्त्रम्। अनुयाजाः ''देवं बर्हिः'' इत्यादिभिः पाशुकहौत्रकाण्डपठितैरेकादशभिर्मन्त्रैः साध्या होमाः। तत्र-'आग्निमारुतशस्त्रस्यानुयाजा अङ्गम्' इत्येवमङ्गाङ्गिभावबोधनायायं संयोगः। यदि-अनुयाजानामयं कालोपदेशः स्यात्, तदानीमाग्निमारुतोपन्यासस्य स्वार्थो न कश्चित्- इत्यत्यन्तपारार्थ्यं स्यात्। तस्मात्- बृहस्पतिसववत्, वैमृधवच्च, अनुयाजा अङ्गम्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- इतरस्तोत्रशस्त्रवदाग्निमारुतशस्त्रस्य सोमाङ्गत्वं पूर्वमेवावगतम्
अग्नीषोमीयविकृतौ सवनीयपशावतिदेशतः प्राप्तानामेकादशानामनुयाजानामपि प्रधाणवत्पश्वङ्गत्वमवगतम्
ततः परस्परमङ्गाङ्गिभावासंभवात्कालोपदेशार्थोऽयं संयोगः।
22
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे वैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि 32-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न वाक्यस्य प्रबलत्वात् न च 'संस्थाप्य' इति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तम्- इति वाच्यम्, दर्शसाधारणाङ्गसमाप्त्यभिप्रायेण तदुपपत्तेः तस्मात्- उत्पत्तिवाक्यात्, एककर्तृकत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम्। 20”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.16 षोडशे सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम्
उत्पत्तिकालविशये कालः स्याद्वाक्यस्य तत्प्रधानत्वात्।। 37।।
षोडशाधिकरणमारचयति-

1विषयः

किं दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यागकः

3पूर्वपक्षः

अङ्गाङ्गिभावः कालो वा ह्यपारार्थ्याय चाङ्गता
इदमाम्नायते- ''दर्शपूर्णमासाभ्यामिष्ट्वा सोमन यजेत'' इति। तत्र- उभयोराग्निमारुतानुयाजवदन्याधीनत्वाभावाद्दर्शपूर्णमासोक्तेः पारार्थ्यपरिहाराय सोमस्य दर्शपूर्णमासाङ्गत्वबोधकोऽयं संयोगः- इति चेत्-
मैवम्। स्वतन्त्रफलवतः सोमस्याङ्गत्वासंभवात्। 'फलवत्संनिधावफलं तदङ्गं भवति' इति न्यायात्। न च- अत्र बृहस्पतिसवन्यायेन सोमधर्मकमफलं कर्मान्तरं विधीयते- इति शक्यं वक्तुम्। सोमशब्दस्य बृहस्पतिसवशब्दवन्नामत्वाभावेन धर्मातिदेशकत्वाभावात्। क्त्वाप्रत्ययस्त्वसत्यप्यङ्गाङ्गिभावे कर्त्रैक्यमात्रेणोपपद्यते। तस्माद्दर्शपूर्णमासशब्दस्य पारार्थ्यमभ्युपेत्यापि तदिष्ट्युपलक्षित उत्तरकाले सोमविधिरयम्। एतदेवाभिप्रेत्य रथत्वरूपमस्याम्नायते- ''एष वै देवरथो यद्दर्शपूर्णमासौ। यो दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामवस्यति'' इति। अवसने निश्चिते। वरे मार्गे।'यथा रथेन क्षुण्णे मार्गे गन्तुः कण्टकपाषणादिबाधाराहित्येन सुखं भवति, तथा प्रथमं दर्शपूर्णमासाविष्टवत उत्तरकाले तदिष्टिविकृतिषु सोमाङ्गभूतदीक्षणीयप्रायणीयादिषु धर्मानुष्ठानं सुकरं भवति' इत्यर्थः। तस्मात्कालार्थः संयोगः।। 24।। 25।।

4सिद्धान्तः

दर्शादिलक्षिते काले सोमयागो विधीयते
स्वतन्त्रफलवत्वेन न युक्ताऽङ्गाङ्गिता तयोः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- इतरस्तोत्रशस्त्रवदाग्निमारुतशस्त्रस्य सोमाङ्गत्वं पूर्वमेवावगतम् अग्नीषोमीयविकृतौ सवनीयपशावतिदेशतः प्राप्तानामेकादशानामनुयाजानामपि प्रधाणवत्पश्वङ्गत्वमवगतम् ततः परस्परमङ्गाङ्गिभावासंभवात्कालोपदेशार्थोऽयं संयोगः। 22”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.17 सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे 38-39
फलसंयोगस्त्वचोदिते न स्यादशेषभूतत्वात्।। 38।।
अङ्गानां तूपघातसंयोगो निमित्तार्थः।। 39।।
सप्तदशाधिकरणमारचयति-

1विषयः

वैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाऽग्रिमः
कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि

3पूर्वपक्षः

जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतता
तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते
काम्येष्टिकाण्डे ''वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते'' इति प्रकृत्य श्रूयते ''यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुनान्भवति'' इति। तत्र पितुः प्रबुद्धस्य कर्तृत्वम्, न तु मुग्धस्य पुत्रस्य। ततोऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादि फलम्- इति चेत्-
मैवम्। 'यस्मिञ्जाते निर्वपति स पूतः' इति वाक्येन फलस्य पुत्रसंबन्धावगमात्।

4सिद्धान्तः

न च- अत्र निष्फलस्य पितुरप्रवृत्तिः- इति वाच्यम्
पुत्रनिष्ठपूतत्वादेरीप्सितत्वेन स्वफलबुद्ध्या प्रवृत्तिसंभवात्
तस्मात्- पुत्रस्य पूतत्वादिकम्।
26

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “दर्शादिलक्षिते काले सोमयागो विधीयते स्वतन्त्रफलवत्वेन न युक्ताऽङ्गाङ्गिता तयोः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.18 अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्
अङ्गानां तूपघातसंयोगो निमित्तार्थः।। 31।।
अष्टादशाधिकरणमारचयति-

1विषयः

जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते
निमित्तानन्तरं कार्यं नैमित्तिकमतोऽग्रिमः

3पूर्वपक्षः

जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात्
प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा
पुत्रजन्मनो वैश्वानरेष्टिनिमित्तित्वात्, नैमित्तिकस्य कालविलम्बायोगात्, जन्मानन्तरमेवेष्टिः- इति चेत् ।

4सिद्धान्तः

मैवम्
स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम्
यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्येत, तदा स्तनप्राशनस्यात्यन्तविलम्बात्पुत्रो विपद्येत
तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात्
तस्मात्- न जन्मानन्तरम्, किंतु जातकर्मण ऊर्ध्वं सेष्ठिः।
28

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे 38-39”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न च- अत्र निष्फलस्य पितुरप्रवृत्तिः- इति वाच्यम् पुत्रनिष्ठपूतत्वादेरीप्सितत्वेन स्वफलबुद्ध्या प्रवृत्तिसंभवात् तस्मात्- पुत्रस्य पूतत्वादिकम्। 26”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.19 एकोनविंशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमोत्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्
अङ्गानां तूपघातसंयोगो निमित्तार्थः।। 39।।
एकोनविंशाधिकरणमारचयति-

1विषयः

जातकर्मानन्तरं स्यादाशौचेऽपगतेऽथवा

3पूर्वपक्षः

निमित्तसंनिधेराद्यः कर्तृशुद्ध्यर्थमुत्तरः

4सिद्धान्तः

यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति, तथाऽप्यशुचिना पित्राऽनुष्ठीयमानमङ्गविकलं भवेत्
जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिः शास्त्रेणैव दर्शिता
ततो मुख्यसंनिधेरवश्यं बाधितत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम् यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्येत, तदा स्तनप्राशनस्यात्यन्तविलम्बात्पुत्रो विपद्येत तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात् तस्मात्- न जन्मानन्तरम्, किंतु जातकर्मण ऊर्ध्वं सेष्ठिः। 28”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.3.20 विंशे सौत्रामण्याद्यङ्गानां स्वकालकर्तव्यताधिकरणे सूत्रे 40-41
प्रधानेनाभिसंयोगादङ्गानां मुख्यकालत्वम्।। 40।।
अप्रवृत्ते तु चोदना तत्सामान्यात्स्वकाले स्यात्।। 41।।
विंशाधिकरणमारचयति-

3पूर्वपक्षः

''अग्निं चित्वा सौत्रामण्या यजेत'' ''वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत'' इत्यत्र सौत्रामणीबृहस्पतिसवयोरङ्गत्वं पूर्वमुक्तम्। तच्चाङ्गमङ्गिकालेऽङ्गिना सह प्रयोक्तव्यम्। इतरेषामङ्गानां तथा प्रयुज्यमानत्वात्- इति चेत्-
मैवम्। क्त्वाप्रत्ययेन पूर्वकालवाचिना साङ्गे चयनादौ निर्वृत्ते सति पश्चात्कर्मान्तरत्वेन सौत्रामण्यादेर्विहितत्वात्। यदि- अङ्गिना सहैकप्रयोगः स्यात्, तदा क्त्वाप्रत्ययप्रापितः पूर्वोत्तरकालविभागो बाध्येत। न हि- अङ्गिना सह प्रयोक्तव्यानामुखासंभरणादीनां चयने निर्वृत्ते पश्चाद्विधानं श्रुतम्। ततः पृथग्प्रयोगेऽवश्यंभाविनि सति स्वस्वचोदकप्रापिते तदनुष्ठानं युक्तम्। सौत्रामण्या इष्टिप्रकृतिकत्वात्पर्वकालश्चोदकप्राप्तः। चयनेन सहैकप्रयोगे तु पर्वण्युखासंभरणादिविधानादन्यस्मिन्दने सौत्रामणी प्रसज्येत। तथा बृहस्पतिसवस्य ज्योतिष्टोमविकृतित्वात्, वसन्तकालश्चोदकप्राप्तः। वाजपेयेन सह प्रयोगैक्ये शरदि वाजपेयस्य विहितत्वाद्बृहस्पतिसवोऽपि शरदि प्रसज्येत। तस्मात्- अतिदिष्टे पर्वणि वसन्ते च तदनुष्ठानम्।
ननु सर्वत्राङ्गापूर्वैः प्रधानापूर्वं जनयितव्यम्, इह तु पूर्वकालीनेन साङ्गप्रधानानुष्ठानेन फलापूर्वस्य निष्पन्नत्वादुत्तरकालीनमङ्गं निरर्थकम्- इति चेत्-
अत्र पादे- अधिकरणानि20, सूत्राणि41।
आदितः- अधिकरणानि 296, सूत्राणि 775।
चतुर्थाध्यायस्य चतुर्थ पादः
राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमोत्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति, तथाऽप्यशुचिना पित्राऽनुष्ठीयमानमङ्गविकलं भवेत् जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिः शास्त्रेणैव दर्शिता ततो मुख्यसंनिधेरवश्यं बाधितत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 4, Pāda 2 Contents Adhyāya 4, Pāda 4 →