SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 5, Pāda 1

क्रमः

श्रुत्यर्थपाठादिभिः क्रमो निरूपितः

18adhikaraṇas
35sūtras
5.1.1 प्रथमे क्रमनिरूपणाधिकरणे श्रुतिबलीयस्त्वन्याये सूत्रम्
श्रुतिलक्षणमानुपूर्व्ये तत्प्रधानत्वात्।। 1।।
पञ्चमाध्यायस्य प्रथमपादे प्रथमाधिकरणे प्रथमवर्णकमारचयति-

1विषयः

पदार्थानां क्रमो नैव नियतोऽथ नियम्यते
अमानत्वादनियतिर्नियतिर्वेदमानतः

3पूर्वपक्षः

य एतेऽनुष्ठेयाः पदार्था गृहपतिब्रह्मोद्गातृहोतृदीक्षादयः, तेषां पदार्थानां नास्ति क्रमनियमः। क्रमबोधकस्य प्रमाणस्याभावात्- इति चेत्-
मैवम्। पदार्थेषु तदनुष्ठाने च यथा वेदः प्रमाणम्, तथैव क्रमेऽपि वेदः प्रमाणम्। तस्मात्क्रमस्य नियतत्वात्क्रमनिरूपकः पञ्चमाध्याय आरम्भणीयः। 1। 2 ।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे ज्येतिष्टोमे दीक्षणीयादीनामङ्गताधिकरणे सूत्राणि 39-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “द्वितीयादित्रये प्रोक्तं भेदशेषप्रयुक्तिभिः अनुष्ठेयमनुष्ठानक्रमः पञ्चम ईर्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयवर्णकमारचयति-

1विषयः

न विधेयो विधेयो वा क्रमो नैवाक्रियात्वतः

3पूर्वपक्षः

क्रियाविशेषणत्वेन द्रव्यवद्युज्यते विधिः

4सिद्धान्तः

यद्यपि क्रमस्य क्रियात्वाभावात्स्वरूपेण न विधियोग्यता, तथाऽपि ''दध्ना जुहोति'' इत्यादावक्रियारूपं दधिद्रव्यं क्रियाविशेषणं सद्विधीयते- 'दधिसाधनकं होमं कुर्यात्' इति
एवम् 'अनेन क्रमेण कर्तव्यम्' इति क्रियाविशेषणतया क्रमो विधीयताम्
वर्णकान्तरम्
तृतीयवर्णकमारचयति-

1विषयः

दीक्षयित्वा गृहपतिं ब्रह्माणं दीक्षयेदिति
क्रमः पाठाद्विधेयो वा पाठाद्दीक्षाविधिः श्रुतेः

3पूर्वपक्षः

द्वादशाहस्य सत्रत्वात्सर्वेषां याजमान्यतः
चोदकेनैव दीक्षायाः प्राप्तेः क्रमविधिर्मतः
द्वादशाहे श्रूयते ''अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारम्, ततो होतारम्'' इति। तत्र- गृहपत्यादिदीक्षाणां क्रमः पाठादवगम्यते। विधेयत्वं तु गृहपत्यादिदीक्षाणामेव। कुतः 'दीक्षयेत्' इति श्रुत्या तद्विध्यवगमात्। न हि श्रौतस्य विधेयस्य संभवे सति वाक्यार्थरूपः क्रमो विधातुमुचितः। तस्मात्- न विधेयः- इति प्राप्ते-

4सिद्धान्तः

विशेषस्याप्राप्तत्वात्
व्युत्क्रमेणाप्यनुष्ठातुं शक्यत्वात्
तस्मात्- वाक्यावगतं क्रमविशेषं नियन्तुमयं विधिः।
4
ब्रूमः- द्वादशाहे सत्रे 'य ऋत्विजः, ते यजमानाः' इति ब्रह्मादीनां सर्वेषामृत्विजां यजमानत्वे सति चोदकप्राप्ता दीक्षा न विधातव्या। ततो दीक्षामनूद्याख्यातेन क्रमो विधीयते। यद्यप्यत्र क्रमस्य वाचकः शब्दो नास्ति, तथाऽपि वाक्येन प्रतीयते। स च प्रतीयमानः क्रमो मानान्तरेण कर्तव्यतया प्राप्त्यभावादिह विधीयते। एकस्य कर्तुर्युगपदनेकपदार्थानुष्ठानान्यथानुपपत्त्या क्रमस्य कर्तव्यताऽपि प्राप्तैव- इति चेत्-
5.1.2 द्वितीये क्रमस्य क्वचिदार्थिकत्वाधिकरणे सूत्रम्
अर्थाच्च।। 2।।
द्वितीयाधिकरणमारचयति-

1विषयः

अग्निहोत्रं जुहोतीति यवागूं पचतीति च
क्रमः पाठादर्थतो वा पाठात्सर्वत्र दर्शनात्

3पूर्वपक्षः

होमद्रव्यसमुत्पत्त्यै पूर्वपाकोऽवगम्यते
यवाग्वेति श्रुता होमद्रव्यताऽतोऽर्थतः क्रमः
गृहपत्यादिदीक्षासु पाठक्रमस्यैवादृतत्वदर्शनादिहापि होमपाकयोः पाठात्प्राप्तः क्रम आदरणीयः- इति चेत्-

4सिद्धान्तः

मैवम्
द्रव्यमन्तरेण होमासंभवात्
द्रव्यनिष्पत्यै पाकस्यैव प्राथमिकत्वावश्यंभावात्
होमद्रव्यत्वं च यवाग्याः ''यवाग्वाऽग्निहोत्रं जुहोति'' इति तृतीययावगम्यते
तस्मात्- पाठक्रमं बाधित्वाऽर्थतः क्रमोऽत्राभ्युपगन्तव्यः।
6

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे क्रमनिरूपणाधिकरणे श्रुतिबलीयस्त्वन्याये सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.3 तृतीये क्रमस्य क्वचिदनियमाधिकरणे सूत्रम्
अनियमोऽन्यत्र।। 3।।
तृतीयाधिकरणमारचयति-

1विषयः

स्याद्वसन्तादिमन्त्राणां क्रमो नो वाऽन्यवद्भवेत्
शाखान्तरे व्यत्ययेन न क्रमो नियतोऽत्र हि

3पूर्वपक्षः

दर्शपूर्णमासयोर्याजमाने काण्डे प्रयाजानुमन्त्रणमन्त्रा आम्नाताः ''वसन्तमृतूनां प्रीणामि, ग्रीष्ममृतूनां प्रीणामि'' इत्यादयः। तेषां नियतः क्रमोऽभ्युपगन्तव्यः। कुतः- अन्येष्वाग्नेयोपांशुयाजाद्यनुमन्त्रणेषु नियतक्रमदर्शनेनात्रापि क्रमानियमस्य बुद्धिस्थत्वात्- इति चेत्-
मैवम्। अत्र नियामकाभावात्। न तावदत्र पाठो नियामकः। वसन्तग्रीष्मवर्षाशरद्धेमन्तमन्त्राणामनेन क्रमेण तैत्तिरीयशाखायां पठितानां शास्त्रान्तरे व्यत्ययेन पाठदर्शनात्। नाप्यत्र यवागूपाकवदर्थो नियामकः, वसन्तमन्त्रेण यस्य कस्यचित्प्रयाजस्यानुमन्त्रणेऽप्यनुपपत्त्यभावात्। नाप्यत्र लिङ्गं नियामकम्। वसन्तमन्त्रे समिद्यागविषयस्य विशेषस्यादर्शनात्। तस्मात्- अत्र नास्ति नियतः क्रमः।। 8।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये क्रमस्य क्वचिदार्थिकत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् द्रव्यमन्तरेण होमासंभवात् द्रव्यनिष्पत्यै पाकस्यैव प्राथमिकत्वावश्यंभावात् होमद्रव्यत्वं च यवाग्याः ''यवाग्वाऽग्निहोत्रं जुहोति'' इति तृतीययावगम्यते तस्मात्- पाठक्रमं बाधित्वाऽर्थतः क्रमोऽत्राभ्युपगन्तव्यः। 6”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.4 चतुर्थे क्रमस्य क्वचित्पाठानुसारिताधिकरणे पाठक्रमन्याये सूत्राणि 4-7
क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात्।। 4।।
अशाब्द इति चेत्स्याद्वाक्यशब्दत्वात्।। 5।।
अर्थकृते वाऽनुमानं स्यात्, क्रत्वेकत्वे परार्थत्वात्, स्वेन त्वर्थेन संबन्धः, तस्मात्स्वशब्दमुच्यते।। 6।।
तथा चान्यार्थदर्शनम्।। 7।।
चतुर्थाधिकरणमारचयति-

1विषयः

प्रयाजेषु क्रमो नास्ति विद्यते वा न विद्यते

3पूर्वपक्षः

श्रुत्यर्थाभावतो मैवं क्रमः पाठान्नियम्यताम्
''समिधो यजति'' ''तनूनपातं यजति'' इत्यादिषु प्रयाजेषु नियतः क्रमो नास्ति। कुतः- क्रमप्रापकप्रमाणाभावात्। यथा गृहपत्यादिदीक्षानुवादेनाख्यातश्रुत्या क्रमो विहितः, तथा क्रमविधायिका श्रुतिर्नास्ति, 'यजति' इत्याख्यातेन समिद्यागादिपदार्थानामन्यतोऽप्राप्तानां विधानात्। यथा च 'दीक्षयित्वा' इति क्त्वाश्रुतिः, 'तत उद्गातारम्' इति पञ्चमीश्रुतिर्वा, तादृश्यपि नात्र श्रुतिरुपलभ्यते। न च पाकहोमयोरिवार्थतः क्रमो वक्तुं शक्यः। समिद्यागमन्तेरेणापि तनूनपाद्यागस्य कर्तुं शक्यत्वात्। तस्मान्नास्त्यत्र क्रमनियमः- इति चेत्-

4सिद्धान्तः

मैवम्
वाक्यपाठेन प्रतीतस्य क्रमस्य बाधाभावेनाभ्युपेयत्वात्
तस्मादस्ति क्रमनियमः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये क्रमस्य क्वचिदनियमाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.5 पञ्चमे क्रमस्य क्वचित्प्रथमप्रवृत्त्यनुसारिताधिकरणे प्रावृत्तिकक्रमन्याये सूत्राणि8-12
प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात्।। 8।।
सर्वमिति चेत्।। 9।।
नाकृतत्वात्।। 10।।
क्रत्वन्तरवादिति चेत्।। 11।।
नासमवायात्।। 12।।
पञ्चमाधिकरणमारचयति-

1विषयः

उपाकृतानां किं सप्तदशानां यूपबन्धने

3पूर्वपक्षः

क्रमो नास्त्यस्ति वा नास्ति नियामकविवर्जनात्
वाजपेये ''सप्तदश प्राजापत्यान्पशूनालभते'' इति विहितानां पशूनामुपाकरणनियोजनादयः संस्काराः कर्तव्याः। तत्र- 'ईदृशे पशावुपक्रमः, ईदृशे च समाप्तिः' इति नियमकारिणः शास्त्रस्याभावादैच्छिकेन क्रमेणोपाकरणरूपः प्रथमः संस्कारोऽनुष्ठितः। उपाकृतानां यूपे नियोजनं संस्कारान्तरं कर्तव्यम्। 'तदानीमीदृशः पशुः प्रथमं नियोक्तव्यः' इति क्रमनियमकारिणां श्रुत्यर्थपाठानामभावान्नास्ति क्रमनियमः- इति चेत्-
मैवम्। उपाकरणे यः क्रमः स्वीकृतः, तस्यैव नियोजनादिसंस्कारेषु स्वीकर्तव्यत्वात्। श्रुत्यर्थपाठा इव प्रथमप्रवृत्तिरपि क्रमं नियन्तुमर्हति, प्रवृत्त्या बुद्धिस्थस्य क्रमस्य त्यागे कारणाभावात्। प्रावृत्तिकक्रमस्वीकारे प्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयोर्मध्ये पश्वन्तरेष्वनुष्ठितैः षोडशभिरेवोपाकरणपदार्थैर्व्यवधानं भवति। तच्च व्यवधानम् 'सप्तदश' इति विधिबलादभ्यनुज्ञातम्। प्रावृत्तिकं क्रमं परित्यज्य पश्वन्तराणां पूर्वं नियोजनं कृत्वा पश्चात्प्रथमपशोर्यदि नियोजनं क्रियेत, तदा द्वात्रिंशद्भिः पदार्थैर्व्यवधानं स्यात्। तत्तु नाभ्यनुज्ञातम्। तस्मात्- प्रवृत्त्या क्रमो नियम्यते।। 10।। 11।।

4सिद्धान्तः

आद्यसंस्कृत्यनुष्ठानं यत्क्रमेण स एव हि
क्रमोऽन्यत्र प्रवृत्तिस्तु क्रमस्यात्र नियामिका

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे क्रमस्य क्वचित्पाठानुसारिताधिकरणे पाठक्रमन्याये सूत्राणि 4-7”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् वाक्यपाठेन प्रतीतस्य क्रमस्य बाधाभावेनाभ्युपेयत्वात् तस्मादस्ति क्रमनियमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.6 षष्ठे क्रमस्य क्वचित्स्थानानुसारिताधिकरणे सूत्रम्
स्थानच्चोत्पत्तिसंयोगात्।। 13।।
षष्ठाधिकरणमारचयति-

1विषयः

प्राथम्यमग्नीषोमीये साद्यस्काख्यक्रतावुत
सवनीयेऽग्रिमो यस्मात्प्रकृतौ तदपेक्षितम्

3पूर्वपक्षः

आश्विनग्रहसामीप्ये सवनीयपशोः स्थितिः
नियते तत्क्रमे स्थानाच्छिष्टयोः प्राकृतो नयः
साद्यस्कनामकः कश्चित्सोमयागः। तत्र श्रूयते ''सह पशूनालभते'' इति। प्रकृतौ- अग्नीषोमीयः पशुरौपवसथ्ये पूर्वदिन आलभ्यते, सवनीयपशुः सुत्यादिने प्रातःसवन आश्विनग्रहादूर्ध्वमालभ्यते, अनुबन्ध्यपशुरवभृथादूर्ध्वमालभ्यते। इह तु त्रयोऽपि पशवः सहालब्धव्याः। सोऽयं सहालम्भः सुत्यादिन आश्विनग्रहादूर्ध्वं सवनीयस्थाने भवति- इत्येतदवश्यमभ्युपेयम्। तथा सति प्रधानसोमप्रत्यासत्तिलाभात्तेषु त्रिषु पशुष्वग्नीषोमीयस्य प्रथममुपाकरणम्। कुतः- प्रकृतौ तत्प्राथम्यस्यापेक्षितत्वात्- इति चेत्-

4सिद्धान्तः

मैवम्
सवनीयो हि स्वस्थान एव वर्तते
आश्विनग्रहसामीप्यस्य सवनीयस्थानत्वात्
आश्विने गृहीते सति सवनीय एव बुद्धिस्थो भवति, प्रकृतौ तदानन्तर्यस्य क्लृप्तत्वात्
ततः सवनीयस्य प्राथम्ये स्थानान्निश्चिते सति स्थानभ्रष्टयोरग्नीषोमीधानुबन्ध्ययोः प्रकृताविव पूर्वोत्तरभावो द्रष्टव्यः।
12

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे क्रमस्य क्वचित्प्रथमप्रवृत्त्यनुसारिताधिकरणे प्रावृत्तिकक्रमन्याये सूत्राणि8-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आद्यसंस्कृत्यनुष्ठानं यत्क्रमेण स एव हि क्रमोऽन्यत्र प्रवृत्तिस्तु क्रमस्यात्र नियामिका”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.7 सप्तमे- अङ्गक्रमस्य मुख्यक्रमानुसारिताधिकरणे सूत्रम्
मुख्यक्रमेण वाऽङ्गानां तदर्थत्वात्।। 14।।
सप्तमाधिकरणमारचयति-

1विषयः

स्त्रीपुंसदेवकौ सारस्वतौ तद्धर्मगः क्रमः

3पूर्वपक्षः

नास्त्यस्ति वाऽत्र नास्त्येष तन्नियामकवर्जनात्
चित्रायागे सप्तानां हविषां मध्ये चतुर्थपञ्चमे इत्थमाम्नायेते- ''सारस्वतौ भवतः। एतद्वै दैव्यं मिथुनम्'' इति। 'सरस्वती च सरस्वांश्च' इति विगृह्य समासे कृते 'पुमान्स्त्रिया' (पा.सू.1। 2। 67) इति सूत्रेणैकशेषात् 'सरस्वन्तौ' इति भवति। तौ देवते ययोर्यागयोस्तौ सारस्वतौ यागौ। एतच्च 'मिथुनम्' इति वाक्यशेषादवगम्यते। तयोर्यागयोर्निर्वापादयो धर्माश्चोदकतः प्राप्ताः, तत्र- स्वेच्छया स्त्रीयागस्य पुंयागस्य वा प्रथमं निर्वापः कार्यः। कुतः- श्रुत्यर्थपाठप्रवृत्तिस्थानानामन्यतमस्य नियामकस्याभावात्- इति प्राप्ते-

4सिद्धान्तः

याज्यानुवाक्यापाठेन स्त्रीप्राथम्यं हि मुख्ययोः
मुख्यार्थत्वेन धर्माणां स्यान्मुख्यक्रमतः क्रमः
ब्रूमः- हौत्रकाण्डे स्त्रीदेवतायाः पूर्वं याज्वानुवाक्ये समाम्नाते- ''प्रणो देवी सरस्वती'' इति। पश्चात्पुंदेवतायाः ''पीपिवांसं सरस्वतः'' इति। अनेन याज्यानुवाक्याक्रमेण मुख्ययोर्द्वयोर्यागयोर्मध्ये स्त्रीयागस्य प्रथम्यमवगम्यते। ततो धर्माणां मुख्ययागार्थत्वान्मुख्यक्रमेणैव क्रमे सति स्त्रीयागस्यैव प्रथमं निर्वापः कार्यः।। 14।। 15।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे क्रमस्य क्वचित्स्थानानुसारिताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् सवनीयो हि स्वस्थान एव वर्तते आश्विनग्रहसामीप्यस्य सवनीयस्थानत्वात् आश्विने गृहीते सति सवनीय एव बुद्धिस्थो भवति, प्रकृतौ तदानन्तर्यस्य क्लृप्तत्वात् ततः सवनीयस्य प्राथम्ये स्थानान्निश्चिते सति स्थानभ्रष्टयोरग्नीषोमीधानुबन्ध्ययोः प्रकृताविव पूर्वोत्तरभावो द्रष्टव्यः। 12”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.8 अष्टमे- अङ्गेषु मुख्यक्रमापेक्षया पाठस्य बलवत्त्वाधिकरणे सूत्रम्
प्रकृतौ तु स्वशब्दत्वाद्यथाक्रमं प्रतीयेत।। 15।।
अष्टमाधिकरणमारचयति-

1विषयः

उपांशुयाजे पूर्वत्वमग्नीषोमीयकेऽथवा

3पूर्वपक्षः

धर्मानुष्ठान आद्योऽस्तु मुख्ययोस्तादृशक्रमात्
दर्शपूर्णमासयोः- उपांशुयाजोऽग्नीषोमीयश्च- इत्येतदुभयं पौर्णमास्यामाम्नातम्। तत्र- उपांशुयाजस्याज्यं द्रव्यम्। आज्वधर्मा उत्पवनचतुर्गहीतत्वादयः। अग्नीषोमीयस्य पुरोडाशो द्रव्यम्। तस्य धर्मा निर्वापावघातादयः। तत्र मुख्यौ यागावुपांशुयाजाग्नीषोमीयौ पूर्वोत्तरभाविनौ। तथा सति पूर्वन्यायेन धर्मक्रमस्य मुख्यक्रमाधीनत्वादाज्यधर्माणामनुष्ठाने प्राथम्यम्- इति प्राप्ते-

4सिद्धान्तः

युक्तमौषधधर्माणां प्राथम्यं पूर्वपाठतः
पाठक्रमस्याविलम्बादाज्यधर्मास्तु पश्चिमाः
ब्रूमः- औषधधर्मा निर्वापादयः पूर्वमाम्नाताः, पश्चादाज्यधर्माः। तत्र मुख्यक्रमप्रयुक्तमाज्यधर्माणां प्राथम्यं बाधित्वा पाठक्रमानुसारेणौषधधर्मा एव प्रथम मनुष्ठेयाः। पाठक्रमो हि वैदिकैः शब्दैः सहसा प्रतीयते। मुख्यक्रमानुसारी तु क्रम उपपत्त्या कल्पनीयः। तस्मात्- अग्नीषोमीयपुरोडाशार्थेभ्य औषधधर्मेभ्य ऊर्ध्वमाज्यधर्मा अनुष्ठेयाः।। 16।। 17।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- अङ्गक्रमस्य मुख्यक्रमानुसारिताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “याज्यानुवाक्यापाठेन स्त्रीप्राथम्यं हि मुख्ययोः मुख्यार्थत्वेन धर्माणां स्यान्मुख्यक्रमतः क्रमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.9 नवमे ब्राह्मणपाठान्मन्त्रपाठस्य बलीयस्त्वाधिकरणे सूत्रम्
मन्त्रतस्तु विरोधे स्यात्प्रयोगरूपसामर्थ्यात्तस्मादुत्पत्तिदेशः सः।। 16।।
नवमाधिकरणमारचयति-

1विषयः

अग्नीषोमीय आग्नेयात्पूर्वो नो वाऽस्तु पूर्वता

3पूर्वपक्षः

ब्राह्मणक्रमतो मैवं मन्त्रक्रमबलित्वतः
अग्नीषोमीययागस्तैत्तिरीयसंहितायां पञ्चमप्रपाठके द्वितीयानुवाके समाम्नातः- ''ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्'' इति। आग्नेययागस्तु षष्ठप्रपाठके तृतीयानुवाके समाम्नातः- ''यदाग्नेयोऽष्टाकपालोऽमावस्यायां च पौर्णमास्यां चाच्युतो भवति'' इति। तत्र- अनुष्ठानस्य ब्राह्मणोक्तविध्यधीनत्वादग्नीषोमीयस्य प्रथममनुष्ठानम्- इति प्राप्ते-

4सिद्धान्तः

स्मृतिक्रमादनुष्ठानं मन्त्राणां स्मारकत्वतः
प्राबल्यं ब्राह्मणस्यास्ति विधिनाऽपि कृतार्थता
ब्रूमः- मन्त्रकाण्डे पूर्वं पठिता आग्नेयमन्त्राः।
तथा हि- हौत्रकाण्डे- आज्यभागमन्त्रानुवाकादुत्तरस्मिन्ननुवाके प्रथमम्, ''अग्निर्मूर्धा'' इत्यादिके आग्नेय्यौ याज्यानुवाक्ये आम्नाते। ततः ''प्रजापते न त्वदेतानि'' इत्यादिके प्राजापत्त्ये। ततः ''अग्नीषोमा सवेदसा'' इत्यादिके अग्नीषोमीये। आध्वर्यवकाण्डेऽपि- ''अग्नये जुष्टं निर्वपामि'' ''अग्नीषोमाभ्याम्'' इत्याग्नेयः पूर्वमाम्नातः। यजमानकाण्डेऽपि ''अग्नेरहं देवयज्ययाऽन्नादो भूयासम्'' इत्याम्नाय पश्चात् ''अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम्'' इत्याम्नायते। मन्त्रक्रमश्च प्रबलः, मन्त्रैः स्मृत्वा पश्चादनुष्ठेयत्वात्। ब्राह्मणं त्वप्राप्तपदार्थविधिनाऽपि चरितार्थम्। अतोऽनुष्ठानस्मरणायैवोत्पन्नान्मन्त्रान्बाधितुं नालम्- इति मन्त्रक्रमेणाग्नेयस्यैव प्रथमानुष्ठानम्।। 18।। 19।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- अङ्गेषु मुख्यक्रमापेक्षया पाठस्य बलवत्त्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “युक्तमौषधधर्माणां प्राथम्यं पूर्वपाठतः पाठक्रमस्याविलम्बादाज्यधर्मास्तु पश्चिमाः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.10 दशमे प्रयोगवचनाच्चोदकस्य बलवत्त्वाधिकरणे सूत्रे 17-18
तद्वचनाद्विकृतौ यथाप्रधानं स्यात्।। 17।।
विप्रतिपत्तौ वा प्रकृत्यन्वयाद्यथाप्रकृति।। 18।।
दशमाधिकरणमारचयति-

1विषयः

सारस्वताज्ये पूर्वत्वं बार्हस्पत्यचरावुत

3पूर्वपक्षः

धर्माणामाज्यनिष्ठानां प्राथम्यमुपदेशतः
अध्वरकल्पाभिधायामिष्टौ हविस्त्रयं श्रूयते ''आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्'' ''सरस्वत्याज्यभागा स्यात्'' ''बार्हस्पत्यश्चरुः'' इति। अत्र- सारस्वता ये धर्माः, त एव पूर्वमनुष्ठेयाः। कुतः- सारस्वतयागस्य बार्हस्पत्यात्पूर्वमुपदिष्टत्वात्। मुख्यक्रमेण हि धर्माणां क्रमो युक्तः- इति प्राप्ते-

4सिद्धान्तः

सक्रमाणां पदार्थानां चोदक्रप्रापितत्वतः
प्राथम्यमन्तरङ्गत्वादाग्नेयविकृतौ चरौ
ब्रूमः- न तावदत्राज्यधर्मा औषधधर्मा वोपदिश्यन्ते। किं तु चोदकेन प्राप्यन्ते। चोदकश्च सक्रमानेव पदार्थानतिदिशति। प्रकृतौ चौषधधर्माणां प्रथममनुष्ठेयत्वात्। इहापि बार्हस्पत्यचरुधर्मा एव प्रथममनुष्ठेयाः। किंच- आग्नेयस्य प्रथमभाविनो विकृतिर्बार्हस्पत्यचरुः, उपांशुयाजस्य पश्चाद्भाविनो विकृतिः सारस्वतमाज्यम्। अतोऽन्तरङ्गत्वाच्चरुधर्मा एव पूर्वभाविनः।। 20।। 21।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे ब्राह्मणपाठान्मन्त्रपाठस्य बलीयस्त्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्मृतिक्रमादनुष्ठानं मन्त्राणां स्मारकत्वतः प्राबल्यं ब्राह्मणस्यास्ति विधिनाऽपि कृतार्थता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.11 एकादशे विकृतौ क्वचित्प्रकृतिधर्मानतिदेशाधिकरणे साकमेधीयन्याये सूत्राणि 19-22
विकृतिः प्रकृतिधर्मत्वात्तत्काला स्याद्यथाशिष्टम्।। 19।।
अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेरनुमानात्प्रकृतिधर्मलोपः स्यात्।। 20।।
कालोत्कर्ष इति चेत्।। 21।।
न तत्संबन्धात्।। 22।।
एकादशाधिकरणमारचयति-

1विषयः

साकमेधेष्टयस्तिस्रो द्व्यहे स्युः सद्य एव वा

3पूर्वपक्षः

प्रातरादेर्द्वयोरह्नोः सत्त्वात्प्रकृतिवद्द्व्यहे
चातुर्मास्येषु साकमेधनामके तृतीये पर्वणि श्रूयते ''अग्नयेऽनीकवते प्रातरष्टाकपालं निर्वपेत्। मरुद्भ्यः सांतपनेभ्यो माध्यंदिने चरुम्। मरुद्भ्यो गृहमेधिभ्यः सर्वाषां दुग्धे सायमोदनम्'' इति। ता एतास्तिस्त्र इष्टयो द्व्यहकालीनाः। यथा प्रकृतौ पर्वण्यग्न्यन्वाधानादिकम्, प्रतिपदीष्टिः- इति द्व्यहकालीनत्वम्, तद्वत्।
ननु प्रातर्माध्यंदिनसायंशब्दैरेकस्मिन्नेवाह्नि त्रयः कालास्तिसृणामिष्टीनां विहिताः। तन्न। द्वयोरध्वह्नोः प्रातरादिकालसद्भावात्। पूर्वेद्युः प्रातरादिकालेषु स्वकीयेषु तासामुपक्रमः। परेद्युः प्रातरादिषु ताः समापनीयाः। ततो द्व्यहकालीनत्वम्- इति प्राप्ते-

4सिद्धान्तः

साङ्गमुख्यानुरोधेन प्रातरादेर्विधानतः
श्रौतं सद्यस्त्वमन्यत्तु चोदकात्तेन दुर्बलम्
ब्रूमः- अत्र ''अग्नयेऽनीकवते प्रातरष्टाकपालं निर्वपेत्'' इति साङ्गं प्रधानं प्रातः कालीनतया विधीयते। प्रातः शब्दश्च स्वत एकमेव प्रातः कालमभिधाय पर्यवस्यति। 'प्रातरग्निहोत्रम्' इत्यादौ तद्दर्शनात्। तस्मात्साङ्गस्य प्रधानस्यैकस्मिन्नेव प्रातः काले विधानात्सद्यस्कालीनत्वं श्रौतम्। चोदकेन तु- अन्वाधानाद्यङ्गं पूर्वेद्युः प्रातः, प्रधानं परेद्युः प्रातः- इति कल्प्यते। उपदेशश्चोदकाद्बलीयान्। तस्मात्- एकाहकालीना इष्टयः।। 22।। 23।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे प्रयोगवचनाच्चोदकस्य बलवत्त्वाधिकरणे सूत्रे 17-18”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सक्रमाणां पदार्थानां चोदक्रप्रापितत्वतः प्राथम्यमन्तरङ्गत्वादाग्नेयविकृतौ चरौ”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.12 द्वादशे- अनुयाजाद्युत्कर्षप्रयाजान्तापकर्षाधिकरणे तदादितदन्तन्याये सूत्रे 23-24
अङ्गानां मुख्यकालत्वाद्यथोक्तमुत्कर्षे स्यात्।। 23।।
तदादि वाऽभिसंबन्धात्, तदन्तमपकर्षे स्यात्।। 24।।
द्वादशाधिकरणमारचयति-

1विषयः

प्रयाजेष्वपकर्षोऽनुयाजेषूत्कर्ष इत्यमू
श्रुतमात्रे तदन्तेषु तदाद्येषु च वाऽग्रिमः

3पूर्वपक्षः

अन्येषां मुख्यकालत्वान्मैवं व्युत्क्रमशक्तितः
प्रयाजान्ते ह्यनुयाजादिके चैतौ समूहके
अग्नीषोमीयपशौ प्रयाजानामपकर्षः श्रूयते ''तिष्ठन्तं पशुं प्रयजन्ति'' इति। प्रकृतौ हविष्यासादिते पश्चात्प्रयाजा इज्यन्ते। इहापि पशुसंज्ञपनादूर्ध्वं हविष्यासादिते पश्चादेव प्रयाजाश्चोदकेन प्राप्ताः। ते चात्र वचनाज्जीवत्येव पशावपकृष्वन्ते। तथा सवनीयपशावनुयाजानामुत्कर्षः श्रूयते ''आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति'' इति। तत्र- प्रयाजमात्रस्यापकर्षः श्रुतः। अनुयाजमात्रस्य चोत्कर्षः। तावुभौ श्रुत्यनुसारेण तथैवाङ्गीकर्तव्यौ। यदि प्रयाजान्तस्याङ्गकलापस्यापकर्षः स्यात्, तदा प्रयाजेभ्यः पूर्वभाविनामाघारसामिधेन्यादीनां ततोऽप्यपकर्षादत्यन्तव्यवहितानां प्रधानकालीनत्वं न स्यात्। प्रयाजमात्रे त्वपकृष्टे सत्याघारादीनां मुख्यकालीनत्वं न लुप्यते। एवम्- अनुयाजमात्र उत्कृष्टे तत ऊर्ध्वभाविनां सूक्तवाकशंयुवाकादीनामनुत्कर्षात्प्रधानसंनिधिर्न विनश्यति। तस्मात्- प्रयाजमात्रस्यापकर्षः, अनुयाजमात्रस्योत्कर्षः- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- प्रकृतौ पदार्थानुष्ठानक्रमस्य क्लृप्तत्वात्, सक्रमाणामेव पदार्थानां चोदेकेनातिदेशात्
व्युत्क्रमे सति पूर्वेण पदार्थेनोत्तरपदार्थस्य बुद्धावनुपस्थापितत्वादनुष्ठानमेव लुप्येत
तस्मात्- प्रयाजान्तस्याङ्गसमूहस्यापकर्षः, अनुयाजादेरङ्गसमूहस्योत्कर्षः।
24
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे विकृतौ क्वचित्प्रकृतिधर्मानतिदेशाधिकरणे साकमेधीयन्याये सूत्राणि 19-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “साङ्गमुख्यानुरोधेन प्रातरादेर्विधानतः श्रौतं सद्यस्त्वमन्यत्तु चोदकात्तेन दुर्बलम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.13 त्रयोदशे प्रवृत्त्या प्रोक्षणादीनां सौमिकपूर्वभाविताधिकरणे सूत्रे 25-26
प्रवृत्त्या कृतकालानाम्।। 25।।
शब्दविप्रतिषेधाच्च।। 26।।
त्रयोदशाधिकरणमारचयति-

1विषयः

सावनेष्वैष्टिकानां किं सौमिकेभ्यो न पूर्वता
पूर्वता वाऽत्र नियमो नास्ति तद्धेतुवर्जनात्

3पूर्वपक्षः

प्रतिप्रस्थातृकर्तृत्वे ह्यध्वर्योरपि कर्तृता
प्रोक्षणाद्याः पुरा पश्चात्सौमिकाः स्युः प्रवृत्तितः
सोमे प्रातरनुष्ठेयोऽनुवाकः पठितः। ततः प्रचरणीहोमादयः पठिताः। ततः सवनीयादयः। ते च चोदकागतनिर्वापादियुक्ताः। ततो बहिष्पवमानस्तोत्रं पठितम्। तत्र- अध्वर्युर्होत्रे प्रातरनुवाकप्रैषं दत्त्वा तदानीमेव प्रतिप्रस्थातारमेवं प्रेष्यति- ''प्रतिप्रस्थातः सवनीयान्निर्वपस्व'' इति। ततः प्रचरणीहोमादिभ्य ऊर्ध्वं प्राप्तोऽपि सवनीयपुरोडाशनिर्वापः पूर्वस्मिन्नेव प्रातरनुवाककाले प्रैषवशादपकृष्टः। सवनीयपुरोडाशानामलंकारप्रैषोत्कर्ष एवमाम्नातः- ''बहिष्पवमाने स्तुत आह- अग्नीदग्नीन्विहर, बर्हिः स्तृणीहि, पुरोडाशानलंकुरु''- इति। एवं स्थिते सति प्रकृतौ निर्वापोत्तरभाविनोऽलंकरणपूर्वभाविनः प्रोक्षणादयो ये पदार्थाः, तेऽत्र चोदकप्राप्ताः, तेषां निर्वापवदपकर्षस्य, अलंकरणवदुत्कर्षस्य चानुक्तत्वादुभयोर्मध्यकाल एवानुष्ठानं प्राप्तम्। तथा सति प्रचरणीहोमादिभिर्बहिष्पवमानान्तैः सोमिकपदार्थैः प्रोक्षणादिपदार्थानामैष्टिकानामेककालत्वेनानुष्ठानात्पौर्वापर्यकलहे सति नियामकाभावादैच्छिकः क्रमः- इति प्राप्ते-

4सिद्धान्तः

मैवम्
प्रयोजकत्वेन निर्वापेऽध्वर्योरपि कर्तृत्वात्
तस्मात्- ऐष्टिकाः प्रोक्षणाद्याः पूर्वमनुष्ठेयाः पश्चात्सौमिकाः प्रचरणीहोमादयः।
26
ब्रूमः- प्रातरनुवाकप्रचरणीहोमयोः सौमिकयोः पाठप्राप्तमनुक्रमं विच्छिद्य प्रैषविधिबलादैष्टिको निर्वापः प्रवृत्तः। तेन च निर्वापेण तदनन्तरभाविप्रोक्षणादिकं बुद्धावुपस्थाप्यते। न तु सौमिकं प्रचरणीहोमादिकं तदा केनचिदुपस्थाप्यते। ननु निर्वापः प्रतिप्रस्थातृकर्तृकः, प्रोक्षणादिकमध्वर्युकर्तृकम्- इति न निर्वापः प्रोक्षण्याद्युपस्थापकः- इति चेत्-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- अनुयाजाद्युत्कर्षप्रयाजान्तापकर्षाधिकरणे तदादितदन्तन्याये सूत्रे 23-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रकृतौ पदार्थानुष्ठानक्रमस्य क्लृप्तत्वात्, सक्रमाणामेव पदार्थानां चोदेकेनातिदेशात् व्युत्क्रमे सति पूर्वेण पदार्थेनोत्तरपदार्थस्य बुद्धावनुपस्थापितत्वादनुष्ठानमेव लुप्येत तस्मात्- प्रयाजान्तस्याङ्गसमूहस्यापकर्षः, अनुयाजादेरङ्गसमूहस्योत्कर्षः। 24”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.14 चतुर्दशे वैकृतयूपकर्ममात्रापकर्षाधिकरणे यूपकर्मन्याये सूत्रम्
असंयोगात्तु वैकृतं तदेव प्रतिकृष्येत।। 27।।
चतुर्दशाधिकरणमारचयति-

1विषयः

यूपच्छेदापकर्षः किं तदन्ते श्रुत एव वा

3पूर्वपक्षः

प्रयाजवत्तदन्तत्वान्नयनं चापकृष्यताम्
ज्योतिष्टोमे वैसर्जनहोमादूर्ध्वं प्राचीनवंशगतो वह्निराग्नीध्रीये प्रणेतव्यः। सोमश्च प्राचीनवंशे पूर्वमवस्थापित इदानीं हविर्धाने प्रणेतव्यः। तयोरुभयोः प्रणयनादूर्ध्वं यूपच्छेद आम्नातः। तदेतत्सर्वं सुत्यादिनात्प्राचीन औपवसथ्ये दिने प्राप्तम्। तत्र यूपच्छेदो दिनत्रयात्पूर्वस्मिन्दीक्षाकालेऽपकृष्टः। ''दीक्षासु यूपं छिनत्ति'' इति तद्विधानात्। तस्मिन्नपकृष्टे प्रयाजन्यायेन तदन्ताङ्गसमूहस्यापकर्पणात्प्रणयनमप्यपकृष्यताम्- इति प्राप्ते-

4सिद्धान्तः

अग्नीषोमप्रणयनं सौमिकं पाशुकी छिदा
प्रयाजाघारवैषम्याछ्रुतमात्रापकर्षणम्
ब्रूमः- प्रयाजाघारादीनामेकप्रधानं प्रत्यङ्गत्वेनैकप्रयोगान्तःपातित्वादवश्यंभावी परस्परक्रमः, इति प्रयाजापकर्षे तदन्ताङ्गसमूहापकर्षो युक्तः। इह तु प्रणयनं सोमयागाङ्गम्, यूपच्छेदस्त्वग्नीषोमीयपशोरङ्गमिति प्रणयनच्छेदनयोर्नान्योन्यं क्रमोऽपेक्षितः। तस्मात्- श्रुतस्य यूपच्छेदमात्रस्यापकर्षः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे प्रवृत्त्या प्रोक्षणादीनां सौमिकपूर्वभाविताधिकरणे सूत्रे 25-26”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रयोजकत्वेन निर्वापेऽध्वर्योरपि कर्तृत्वात् तस्मात्- ऐष्टिकाः प्रोक्षणाद्याः पूर्वमनुष्ठेयाः पश्चात्सौमिकाः प्रचरणीहोमादयः। 26”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.15 पञ्चदशे दक्षिणाग्निकहोमानपकर्षाधिकरणे सूत्रम्
प्रासङ्गिकं च नोत्कर्षेदसंयोगात्।। 28।।
पञ्चदशाधिकरणमारचयति-

1विषयः

सवनीये पिष्टलेपफलीकरणहोमकौ
उत्क्रष्टव्यौ न वाद्यः स्यादनूयाजोत्तरत्वतः

3पूर्वपक्षः

पश्वार्थाः स्युरनूयाजाः पुरोडाशगताविमौ
उभौ होमौ प्रयोगस्य भेदान्नोत्कर्षमर्हतः
सवनीयपुरोडाशे पिष्टलेपफलीकरणहोमौ चोदकेन प्राप्तौ दृषदुपलकपालादिष्वाश्लिष्टो यः पिष्टलेपः, तमुद्धृत्य जुह्वा चतुर्गृहीत आज्ये प्रक्षिप्य दक्षिणाग्नौ जुहोति। फलीकरणशब्देन तण्डुलकणा उच्यन्ते, तानपि तथा जुहोति। तावेतौ होमौ प्रकृतिवदिहाप्यनुयाजोत्तरकालीनौ। ते चानुयाजा आग्निमारुतादूर्ध्वमुत्कृष्टा इति सूक्तवाकादिवदेतौ होमावुत्क्रष्टव्यौ- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- उत्कृष्यमाणा एतेऽनुयाजाः पश्वर्थाः, न तु पुरोडाशार्थाः
पुरोडाशे प्रसङ्गसिद्धेर्वक्ष्यमाणत्वात्
उक्तहोमौ तु पुरोडाशार्थौ
न च तयोः प्रसङ्गसिद्धिः, पशौ पिष्टाद्यभावेन तद्धोमासंभवात्
एवं च सत्युक्तप्रणयनवद्धोमयोः प्रयोगभेदान्नास्त्यनुयाजैः सहोत्कर्षः।
30
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे वैकृतयूपकर्ममात्रापकर्षाधिकरणे यूपकर्मन्याये सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अग्नीषोमप्रणयनं सौमिकं पाशुकी छिदा प्रयाजाघारवैषम्याछ्रुतमात्रापकर्षणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.16 षोडशे पुरोडाशाभिवासनान्तस्य दर्शेऽनपकर्षाधिकरणे सूत्रम्
तथाऽपूर्वम्।। 29।।
षोडशाधिकरणमारचयति-

1विषयः

पुरोडाशाभिवासान्तस्यापकर्षोऽस्ति दर्शके

3पूर्वपक्षः

न वाद्योऽस्त्वपकृष्टाया वेदेर्वैगुण्यहानये
दर्शपूर्णमासयोः पूरोडाशस्य कपालेषु श्रपितस्याच्छादनमाम्नातम्- ''भस्मनाऽभिवासयति'' इति। तत ऊर्ध्वं वेदिराम्नाता। तेनैव क्रमेण पौर्णमासीयागे प्रतिपद्यनुष्ठानं कृतम्। दर्शयागे तु वेदेरपकर्ष आम्नातः- ''पूर्वेद्युरमावास्यायां वेदिं करोति'' इति। तत्र वेदेः पूर्वभाविनोऽभिवासनान्तस्याङ्गसमूहस्यापकर्षः कर्तव्यः। अन्यथा वेदेर्वैगुण्यप्रसङ्गात्- इति प्राप्ते-

4सिद्धान्तः

अभिवासात्परा वेदिरिति तत्क्रमबोधतः
प्रागेव विहिता दर्शे वेदिर्नातोऽपकर्षणम्
ब्रूमः- यदि दर्शः पौर्णमासीविकारः स्यात्, तदा पूर्णमास्यां क्लृप्तः क्रमोऽतिदिश्येत। न त्वसौ विकार इति कश्चित्क्रमोऽत्र स्वातन्त्र्येणोन्नेयः। क्रमोन्नयनं च सर्वेषु पदार्थेष्वाम्नातेषु पश्चात्पाठादिभिः संपद्यते। वेदिपदार्थश्चाभिवासनादूर्ध्वं दर्शपूर्णमाससाधारण्येनाम्नातः। विशेषतस्तु दर्शयागे पूर्वेद्युरेवाम्नायते। तथा सत्यभिवासनवेद्योः क्रमबोधात्प्रागेव दार्शिकवेदेः पूर्वदिनसंबन्धावगमात्तदेव तस्याः स्थानमिति वेदेरपि तावन्नास्त्यपकर्षः, तत्र कुतोऽभिवासनान्तस्याङ्गसमूहस्यापकर्षः।। 32।। 33।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे दक्षिणाग्निकहोमानपकर्षाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- उत्कृष्यमाणा एतेऽनुयाजाः पश्वर्थाः, न तु पुरोडाशार्थाः पुरोडाशे प्रसङ्गसिद्धेर्वक्ष्यमाणत्वात् उक्तहोमौ तु पुरोडाशार्थौ न च तयोः प्रसङ्गसिद्धिः, पशौ पिष्टाद्यभावेन तद्धोमासंभवात् एवं च सत्युक्तप्रणयनवद्धोमयोः प्रयोगभेदान्नास्त्यनुयाजैः सहोत्कर्षः। 30”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.17 सप्तदशे सांतपनीयाया अग्निहोत्रानुत्कर्षकताधिकरणे सूत्राणि 30-34
सांतपनीया तूत्कर्षेदग्निहोत्रं सवनवद्वैगुण्यात्।। 30।।
अव्यवायाच्च।। 31।।
असंबन्धात्तु नोत्कर्षेत्।। 32।।
प्रापणाच्च निमित्तस्य।। 33।।
संबन्धात्सवनोत्कर्षः।। 34।।
सप्तदशाधिकरणमारचयति-

1विषयः

दैवात्सांतपनी सायं प्राप्ता चेदग्निहोत्रकम्
उत्कर्षति न वोत्कर्षः पौर्वापर्यस्य भावतः

3पूर्वपक्षः

मिन्नप्रयोगप्राप्तत्वादग्निहोत्रं स्वकालके
इष्टिमध्येऽपि हुत्वाऽथ यागशेषः समाप्यताम्
चातुर्मास्येषु साकमेधनामके पर्वणि सांतपनीष्टिः श्रूयते ''मरुद्भ्यः सांतपनेभ्यो माध्यंदिने चरुम्'' इति। तां चेष्टिं समाप्य सायंकालेऽग्निहोत्रं हूयते। यदि कदाचिद्दैविकान्मानुषाद्वा प्रतिबन्धात्सेष्टिः सायमुपक्रान्ता, तदा सेष्टिरग्निहोत्रस्योत्कर्षमापादयति। कुतः- इष्ट्यग्निहोत्रयोः पौर्वापर्यसद्भावेनेष्टिं समाप्यैवाग्निहोत्रस्यानुष्ठेयत्वात्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- प्रयोगभेदान्नानयोः शास्त्रीयः कश्चित्क्रमोऽस्ति
सांतपनी तु स्वकालाद्भ्रष्टा
अग्निहोत्रस्यापि तद्भ्रंशो ना भूदितीष्टिमध्येऽप्यग्निहोत्रं स्वकालेऽनुष्ठाय पश्चादिष्टिशेषः समापनीयः।
34
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे पुरोडाशाभिवासनान्तस्य दर्शेऽनपकर्षाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अभिवासात्परा वेदिरिति तत्क्रमबोधतः प्रागेव विहिता दर्शे वेदिर्नातोऽपकर्षणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.1.18 अष्टादशे- उक्थ्यानुरोधेन षोडश्युत्कर्षाधिकरणे सूत्रम्
षोडशी चोक्थ्यसंयोगात्।। 35।।
अष्टादशाधिकरणमारचयति-

3पूर्वपक्षः

ज्योतिष्टोमे षोडशिग्रहं प्रकृत्य श्रूयते ''तं पराञ्चमुक्थ्येभ्यो निगृह्णाति'' इति। तृतीयसवसे सूर्यास्तमयात्प्रगेवोक्थ्यग्रहास्त्रयो गृह्यन्ते। तेभ्यः परस्तादयं षोडशी विहितः। यदि कदाचिद्दैवादुक्थ्यग्रहा अस्तमयादूर्ध्वमुत्कृष्येरन्, तदा तत ऊर्ध्वं विहितस्यापि षोडशिग्रहस्य नास्त्युत्कर्षः। कुतः- पूर्वन्यायेन कालस्यानुसरणीयत्वात्। कालो ह्येवमाम्नातः- ''समयाध्युषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति'' इति। समयोऽस्तसमयः, तं प्राप्ते सूर्ये स्तोत्रप्रारम्भकालः। सोऽयमुत्कर्षे सति बाध्येत। तच्चायुक्तम्। पूर्वत्राग्निहोत्रस्य स्वकालमबाधितुमेवेष्टिमध्येऽनुष्ठानाङ्गीकारात्- इति प्राप्ते

4सिद्धान्तः

-
अत्र पादे- अधिकरणानि 18, सूत्राणि 35।
आदितः- अधिकरणानि 326, सूत्राणि 851।
पञ्चमाध्यायस्य द्वितीयः पादः
वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रुत्यर्थपाठादिभिः क्रमो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे सांतपनीयाया अग्निहोत्रानुत्कर्षकताधिकरणे सूत्राणि 30-34”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रयोगभेदान्नानयोः शास्त्रीयः कश्चित्क्रमोऽस्ति सांतपनी तु स्वकालाद्भ्रष्टा अग्निहोत्रस्यापि तद्भ्रंशो ना भूदितीष्टिमध्येऽप्यग्निहोत्रं स्वकालेऽनुष्ठाय पश्चादिष्टिशेषः समापनीयः। 34”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 4, Pāda 4 Contents Adhyāya 5, Pāda 2 →