SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 5, Pāda 2

क्रमः

वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः

12adhikaraṇas
23sūtras
5.2.1 प्रथमे वाजपेयपशूनां सर्वेषामेकदोपाकरणादिधर्मानुष्ठानाधिकरणे,पदार्थानुसमयन्याये सूत्राणि 1-3
संनिपाते प्रधानानामेकैकस्य गुणानां सर्वकर्मस्यात्।। 1।।
सर्वेषां वैकजातीयं कृतानुपूर्वत्वात्।। 2।।
कारणादभ्यावृत्तिः।। 3।।
द्वितीये पादे प्रथमाधिकरणमारचयति-

1विषयः

वाजपेये किमेकैकपशौ सर्वसमापनम्

3पूर्वपक्षः

सर्वेषु वैकैकधर्म आद्यः साहित्यसिद्धये
वाजपेये सप्तदशसु प्राजापत्येषु पशुष्वेकैकस्मिन्पशावुपाकरणनियोजनादिसंस्काराः सर्वे समापनीयाः। तथा सति 'साङ्गं प्रधानं कर्तव्यम्' इति प्रयोगवचनेनावगतं धर्माणां साहित्यं सिध्यति। चोदकोऽपि धर्मसाहित्यं प्रापयति। प्रकृतावुपाकरणनियोजनादीनां साहित्यदर्शनात्। तस्मात्- अत्र काण्डानुसमयः, न तु पदार्थानुसमयः- इति प्राप्ते-

4सिद्धान्तः

वचनात्पशुसाहित्यं प्रयोगोक्त्या तु कल्प्यते
धर्मसाहित्यमेतच्च सिद्धान्तेऽपि न हीयते
ब्रूमः- ''सप्तदश प्राजापत्यान्पशूनालभते'' इति वचनात्पशुसाहित्यमवगतम्। तच्च प्रबलम्, प्रत्यक्षेण 'पशून्' इत्यनेनैकशब्देन परिकल्प्यते। यद्येकस्मिन्प्रयोगे धर्मसाहित्यं न स्यात्, तदा कतिपयधर्मवैकल्येन साङ्गप्रधानानुष्ठानविधिर्नापद्येत- इत्यर्थाक्षेपः। चोदकेनापि विकृतौ धर्मसाहित्यवचनमनुमीयते। तदुभयं प्रत्यक्षात्पशुसाहित्यवचनाद्दुर्बलम्। तस्मात् ''वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ति'' इत्यनेन प्रत्यक्षवचनेनावगतं पशुसाहित्यमबाधितुम् 'सर्वेषु पशुष्वेकैक उपाकरणादिधर्मः कर्तव्यः' इत्येवं पदार्थानुसमयोऽभ्युपेतव्यः, न तु काण्डानुसमयः। अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं धर्मसाहित्यं न विरुध्यते। एकस्मिन्नेव प्रयोगे कृत्स्नधर्माणामनुष्ठितत्वात्।। 1।। 2।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- उक्थ्यानुरोधेन षोडश्युत्कर्षाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.2 द्वितीये सहस्त्राश्वप्रतिग्रहणस्थले- एकैकस्यैकदा सर्वधर्मानुष्ठानाधिकरणे काण्डानुसमयन्याये वा सूत्रम्
कारणादभ्यावृत्तिः।। 3।।
द्वितीयाधिकरणमारचयति-

1विषयः

प्रतिग्रहे तु बह्वश्वे पूर्वन्यायोऽस्ति वा न वा

3पूर्वपक्षः

अस्ति तत्साम्यतो मैवं पुरोडाशस्य शोषतः
''यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्'' इति। अत्र शतसंख्यादियुक्तबह्वश्वप्रतिग्रहे बहुपुरोडाशेषूदाहृतप्रत्यक्षवचनेन साहित्यं प्राप्तम्। तत्र पूर्वन्यायेन सर्वेषु पुरोडाशेष्वेकैकोऽधिश्रयणादिधर्मोऽनुष्ठेयः- इति चेत्-

4सिद्धान्तः

मैवम्
तप्तेषु कपालेषु क्रमेण पुरोडाशानधिश्रित्य यावता कालेन प्रथमपुरोडाशे द्वितीयसंस्कारं कर्तुमागच्छति, तावताऽसौ शुष्को भवति
तस्मात्- एकैकस्मिन्पुरोडाशे कृत्स्नधर्मसमापनम्- इत्येवं काण्डानुसमयोऽभ्युपेतव्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे वाजपेयपशूनां सर्वेषामेकदोपाकरणादिधर्मानुष्ठानाधिकरणे,पदार्थानुसमयन्याये सूत्राणि 1-3”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वचनात्पशुसाहित्यं प्रयोगोक्त्या तु कल्प्यते धर्मसाहित्यमेतच्च सिद्धान्तेऽपि न हीयते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.3 तृतीये मुष्टिकपालादीनां समुदायानुसमयाधिकरणे सूत्रे 4-5
मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन।। 4।।
सर्वाणि त्वेककार्यत्वादेषां तद्गुणत्वात्।। 5।।
तृतीयाधिकरणमारचयति-

1विषयः

निर्वापे तु किमेकैकमुष्टेरस्त्यङ्गता न वा
अस्त्येकैकप्रतिष्ठानात्कपालादिषु तत्समम्

3पूर्वपक्षः

चतुरो निर्वपेन्मुष्टीनिति निर्वापसंश्रयात्
एकैकमुष्टेरंशत्वात्पदार्थत्वं चतुष्टये
दर्शपूर्णमासयोराग्नेयाग्नीषोमीयनिर्वापयोः श्रूयते ''चतुरो मुष्टीन्निर्पति'' इति। तत्र- एकैको मुष्टिर्मुष्ट्यन्तरनैरपेक्ष्येण प्रतितिष्ठति- इत्येकैकस्य मुष्टेर्निर्वापाङ्गभूतपदार्थत्वमस्ति। ततो द्वयोर्निर्वापयोः क्रमेण- एकं मुष्टिं निरुप्य, ततो द्वितीयमुष्टिः- इत्येवं विधः पदार्थानुसमयः कर्तव्यः। एवं कपालोपधानादिषु योजनीयम्। द्वयोः पुरोडाशयोरर्थे क्रमेण- एकं कपालमुपधाय, पश्चाद्द्वितीयम्-। उभयत्र क्रमेणोपधेयम्- इति प्राप्ते-

4सिद्धान्तः

एवम्- आग्नेयपुरोडाशे कपालाष्टकोपधानमेकः पदार्थः
अग्नीषोमीये त्वेकादशकपालोपधानम्
एवम्- सर्वत्रैकविधिविहितस्यैव पदार्थत्वान्नांशानामनुसमयोऽस्ति।
4
ब्रूमः- यदि पदार्थत्वं लौकिकं स्यात्, तर्ह्येकस्य मुष्टेस्तदस्तु। इह तु- एकविधिगम्य एकः पदार्थः। विधिश्च चतुःसंख्याविशिष्टानेव मुष्टीन्विदधाति- इति मुष्टिचतुष्टयमेकः पदार्थः। एकमुष्टिस्तु तदंशः, न तु पूर्णपदार्थः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये सहस्त्राश्वप्रतिग्रहणस्थले- एकैकस्यैकदा सर्वधर्मानुष्ठानाधिकरणे काण्डानुसमयन्याये वा सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् तप्तेषु कपालेषु क्रमेण पुरोडाशानधिश्रित्य यावता कालेन प्रथमपुरोडाशे द्वितीयसंस्कारं कर्तुमागच्छति, तावताऽसौ शुष्को भवति तस्मात्- एकैकस्मिन्पुरोडाशे कृत्स्नधर्मसमापनम्- इत्येवं काण्डानुसमयोऽभ्युपेतव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.4 चुतुर्थे- अवदानस्य प्रदानान्तानुसमयाधिकरणे सूत्रम्
संयुक्ते तु प्रक्रमात्तदङ्गं स्यादितरस्य तदर्थत्वात्।। 6।।
चतुर्थाधिकरणमारचयति-

1विषयः

अवदानेऽनुसमयो होमान्ते वाऽवदानके

3पूर्वपक्षः

पदार्थत्वं विधेयत्वात्तेनानुसमयस्ततः
दर्शपूर्णमासयोः- ''द्विर्हविषोऽवद्यति'' इत्येकेन विधिना विहितत्वाद्द्विसंख्याविशिष्टमवदानमेकः पदार्थः। ततस्तेनावदानमात्रेणानुसमयः कार्यः। आग्नेयस्य द्विरवदानं कृत्वा तद्धोमात्प्रागेवाग्नीषोमीयस्य द्विरवदानम्- इति प्राप्ते-

4सिद्धान्तः

अवद्यतिः प्रदानान्तोऽवदानस्य तदर्थता
अतोऽनुसमयस्तत्र होमान्तान्न तु केवलात्
ब्रूमः- अवदानं होमपर्यन्तमेकः पदार्थः। होमस्यावदानमन्तरेणानुपपत्तौ होमविधिनैवाक्षिप्तं होमार्थमवदानम्। अत एव ''चतुरवत्तं जुहोति'' इत्येकेन विधिना सावदानक एको होमपदार्थो विहितः। उपस्तरणाभिधारणाभ्यां सह यच्चत्तुरवत्तम्, तस्मिन्हविर्विषयमवदानद्वित्वं विधातुम् ''द्विर्हविषोऽवद्यति'' इत्युच्यते। ततो होमान्तस्यावदानस्यैकपदार्थत्वादाग्नेयमवदाय हुत्वा पश्चादग्नीपोमीयावदानमित्यनुसमयः।। 6।। 7।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये मुष्टिकपालादीनां समुदायानुसमयाधिकरणे सूत्रे 4-5”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एवम्- आग्नेयपुरोडाशे कपालाष्टकोपधानमेकः पदार्थः अग्नीषोमीये त्वेकादशकपालोपधानम् एवम्- सर्वत्रैकविधिविहितस्यैव पदार्थत्वान्नांशानामनुसमयोऽस्ति। 4”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.5 पञ्चमे- अञ्जनादेः परिव्याणान्तानुसमयाधिकरणे सूत्राणि 7-9
वचनात्तु परिव्याणान्तमञ्जनादि स्यात्।। 7।।
कारणाद्वाऽनवसर्गः स्याद्यथा पात्रवृद्धिः।। 8।।
न वा शब्दकृतत्वान्न्यायमात्रमितरदर्थात्पात्रविवृद्धिः।। 9।।
पञ्चमाधिकरणमारचयति-

1विषयः

यूपाञ्जनादिरेवैकः संघो वाऽनुसमीयते

3पूर्वपक्षः

एकैकः पूर्ववन्मैवं वचनात्काण्डसंगतेः
ज्योतिष्टोमेऽग्नीषोमीयपशौ- यूपस्य घृतेनाञ्जनमुच्छ्रयणम्, अवटस्य समूहनम्, यूपमूलस्य परिबृंहणम्, मध्ये रशनया परिव्याणम्, इत्येते पदार्था आम्नाताः। ते चैकयूपपक्षे तथैव कर्तव्याः। एकयूपस्य च विकल्पः श्रूयते ''एकयूपो वैकादशिनी वाऽन्येषां यज्ञानां यूपा भवन्ति, एकविंशिन्यश्वमेधस्य'' इति। तत्र बहुयूपेष्वञ्जनादिरेकैकः पदार्थः प्राजापत्यपशूपाकरणादिवदनुसमेतव्यः- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- ''अञ्जनादिपरिव्याणान्तं यजमानो यूपं नावसृजेत्'' इति वचनेन यजमानस्य यूपत्यागनिषेधोऽञ्जनादिकाण्डानुसमये सत्युपपद्यते
तस्मान्नात्र पदार्थानुसमयः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चुतुर्थे- अवदानस्य प्रदानान्तानुसमयाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अवद्यतिः प्रदानान्तोऽवदानस्य तदर्थता अतोऽनुसमयस्तत्र होमान्तान्न तु केवलात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.6 षष्ठे दैवताद्यवदानेषु पदार्थानुसमयाधिकरणे सूत्राणि 10-12
पशुगणे तस्य तस्यापवर्जयेत्पश्वेकत्वात्।। 10।।
दैवतैर्वैककर्म्यात्।। 11।।
मन्त्रस्य चार्थवत्त्वात्।। 12।।
षष्ठाधिकरणमारचयति-

1विषयः

किं दैवाद्यवदानेषु काण्डानुसमयोऽथवा

3पूर्वपक्षः

एकानुसमयोऽस्त्वाद्यः प्रकृतौ तस्य दर्शनात्
अग्नीषोमीयपशौ श्रूयते ''दैवतान्यवदाय न तावत्येव होतव्यम्, सौविष्टकृतान्यवद्यति। सौविष्टकृतान्यवदाय न तावत्येव होतव्यम्, ऐडान्यवद्यपि'' इति। तत्र- प्रधानदेवतार्थानि, स्विष्टकृदर्तानि, इडाभक्षणार्थानि च, इति विविधान्यवदानानि। तानि च तेनैव क्रमेणानुष्ठीयन्ते। प्राजापत्येषु सप्तदशसु पशुषु तानि चोदकप्राप्तानि। तत्र तेषां त्रिविधानामवदानानां काण्डमेकैकस्मिन्पशावनुसमेतव्यम्। तथा सति प्रकृतिसादृश्यलाभात्- इति प्राप्ते-

4सिद्धान्तः

पश्वैक्यात्प्रकृतौ सोऽस्तु विकृतौ तद्बहुत्वतः
सजातीयपदार्थानुसमयोऽनन्तरत्वतः
ब्रूमः- प्रकृतौ पश्वेकत्वेन पदार्थानुसमयप्रसक्त्यभावादस्तु काण्डानुष्ठानम्। इह तु पदार्थानुसमयो युज्यते। दैवावदानरूपमेकं पदार्थं सर्वेषु पशुषु संपाद्य पश्चात्सौविष्टकृतावदानम्। तच्च सर्वेषु कृत्वा पश्चादैडावदानम्। एवं च सत्युपाकरणादिष्विव पशूनां साहित्यमबाधितं भवति। ततः पश्वानन्तर्याय सजातीयो दैवावदानरूपो यः पदार्थः स एव सर्वेषु पशुष्वनुसमेतव्यः।। 9।। 10।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- अञ्जनादेः परिव्याणान्तानुसमयाधिकरणे सूत्राणि 7-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ''अञ्जनादिपरिव्याणान्तं यजमानो यूपं नावसृजेत्'' इति वचनेन यजमानस्य यूपत्यागनिषेधोऽञ्जनादिकाण्डानुसमये सत्युपपद्यते तस्मान्नात्र पदार्थानुसमयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.7 सप्तमे नानाबीजेष्टावुलूखलादीनां तन्त्रताधिकरणे सूत्राणि 13-15
नानाबीजेष्वेकमुलूखलं विभवात्।। 13।।
विवृद्धिर्वा नियमादानुपूर्व्यस्य तदर्थत्वात्।। 14।।
एकं वा तण्डुलभावाद्धन्तेस्तदर्थत्वात्।। 15।।
सप्तमाधिकरणमारचयति-

1विषयः

नानाबीजेषु नानात्वमुलूखल उतैकता
अजिनास्तरणादीनां भिन्नत्वात्स्यादनेकता

3पूर्वपक्षः

स्तरणादौ तण्डुलान्ते पदार्थैक्यादनुक्रमात्
उलूखलैक्यं नीवारश्यामाकादिष्ववस्थितम्
राजसूये नानाबीजेष्टिराम्नाता- ''अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां व्रीहिणाम्''
''सोमाय वनस्पतये श्यामाकं चरुम्'' इत्यादि। तत्र तेषां बीजानामवघातायाजिनास्तरणादयश्चोदकेनातिदिष्टाः। कृष्णाजिनास्तरणमुपर्युलूखलस्थापनम्। तत्र बीजावापोऽवघातः शूर्पेण परावपणं कणेभ्यस्तण्डुलानां विवेचनम्। ते चैते कृष्णाजिनास्तरणादयः पृथग्विधिभिर्विहितत्वाद्भिन्नाः पदार्थाः। ततो नानाबीजेषु कृष्णाजिनास्तरणमनुसमेतव्यम्। तथा सति यावत्यो बीजजातयस्तावन्ति कृष्णाजिनानि। तद्वदुलूखलस्याप्यनेकत्वम्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- ''व्रीहीनवहन्ति'' इति विहितोऽवघात एकः पदार्थः
स च कृष्णाजिनास्तरणादितण्डुलनिष्पत्त्यवसानः
तं च पदार्थं कृष्णव्रीहिष्वनुष्ठाय श्यामाकेषु स एव पदार्थोऽनुष्ठेयः
तथा सत्यनुक्रमेणैकमेवोलूखलं सर्वेषु बीजेष्वन्वेतुं शक्नोति
तत उलूखलकृष्णाजिनादीनां नास्त्यनेकत्वम्।
11
,

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे दैवताद्यवदानेषु पदार्थानुसमयाधिकरणे सूत्राणि 10-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पश्वैक्यात्प्रकृतौ सोऽस्तु विकृतौ तद्बहुत्वतः सजातीयपदार्थानुसमयोऽनन्तरत्वतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.8 अष्टमे- अग्नीषोमीयपशौ प्रयाजानुयाजयोः पात्रभेदाधिकरणे सूत्रम्
विकारे त्वनुयाजानां पात्रभेदोर्थभेदात्स्यात्।। 16।।
अष्टमाधिकरणमारचयति-

1विषयः

प्रयाजानुयाजसिद्ध्यै पात्रैक्यमुत भिन्नता
एकोपभृद्द्वयोरर्थे दृष्टाऽतो विकृतौ तथा

3पूर्वपक्षः

विकृतौ पात्रभेदोऽस्तु शुद्धाज्यपृषदाज्ययोः
एकपात्रे ग्रहाशक्तेर्द्रव्यैक्यं प्रकृतौ द्वयोः
अग्नीषोमीयपशौ प्रयाजानुयाजसाधनद्रव्यं धारयितुमेकमेव पात्रं कर्तव्यम्। कुतः- प्रकृतादुभयार्थस्याज्यस्यैकयैवोपभृता धृतत्वेन विकृतावपि तदतिदेशात्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- प्रकृतिवत्केवलेनाज्येन प्रयाजा इज्यन्ते
अनुयाजास्तु पृषदाज्येन यष्टव्याः
''पृषदाज्येनानुयाजान्यजति'' इति तद्विधानात्
पृषदाज्यं नाम दधिमिश्रमाज्यम्
नहि शुद्धमिश्रयोरेकेन पात्रेण धारणं भवति
तस्मात्- अत्र पृथक्पात्रम्।
13
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे नानाबीजेष्टावुलूखलादीनां तन्त्रताधिकरणे सूत्राणि 13-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ''व्रीहीनवहन्ति'' इति विहितोऽवघात एकः पदार्थः स च कृष्णाजिनास्तरणादितण्डुलनिष्पत्त्यवसानः तं च पदार्थं कृष्णव्रीहिष्वनुष्ठाय श्यामाकेषु स एव पदार्थोऽनुष्ठेयः तथा सत्यनुक्रमेणैकमेवोलूखलं सर्वेषु बीजेष्वन्वेतुं शक्नोति तत उलूखलकृष्णाजिनादीनां नास्त्यनेकत्वम्। 11”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.9 नवमे नारिष्ठहोमस्योपहोमपूर्वताधिकरणे, नारिष्ठन्याये, सूत्राणि 17-20
प्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यान्न ह्यचोदितस्यशेषाम्नातम्।। 17।।
मुख्यानन्तर्यमात्रेयः, तेन तुस्यश्रुतित्वादशब्दत्वात्प्राकृतानां व्यवायः स्यात्।। 18।।
अन्ते तु बादरायणस्तेषां प्रधानशब्दत्वात्।। 19।।
तथा चान्यार्थदर्शनम्।। 20।।
नवमाधिकरणमारचयति-

1विषयः

नक्षत्रेष्ट्युपहोमाः किं नारिष्ठेभ्यः पुरा न वा

3पूर्वपक्षः

प्रत्यक्षपाठान्मुख्यस्य सामीप्यायास्तु पूर्वता
अग्न्यादिदेवतायुक्तानां कृत्तिकादिनक्षत्राणामिष्टयः काम्या विहिताः- ''अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालम्'' इत्यादयः। तत्र प्रधानहोमाः ''अग्निर्न पातु कृत्तिकाः'' इत्यादियाज्यानुवाक्यापुरःसरं हूयन्ते। तत्रोपहोमा एवमाम्नाताः- ''सोऽत्र जुहोति- अग्नये स्वाहा, कृतिकाभ्यः स्वाहा, अम्बायै स्वाहा, दुलायै स्वाहा'' इति। नारिष्ठहोमाश्च चोदकेन प्राप्ताः। ''दश ते तनुवो यज्ञ यज्ञियाः'' इत्यादिभिर्मन्त्रैराज्याहुतयो नारिष्ठहोमाः। एतेभ्यो नारिष्ठहोमेभ्यः पूर्वमुपहोमाः कर्तव्याः। कुतः- ''अष्टाकपालं निर्वपेत्'' ''सोऽत्र जुहोति'' इति प्रत्यक्षपाठेन मुख्यसामीप्यमुपहोमानां प्रतीयते। तच्चातिदिष्टैर्नारिष्ठहोमैर्व्यवधाने बाध्येत। तस्मादुपहोमानां पूर्वत्वम्- इति प्राप्ते,

4सिद्धान्तः

प्राकृते प्रथमो बोधो वैकृते चरमस्ततः
नारिष्ठहोमाः पूर्वं स्युरुपहोमास्तु पृष्ठतः
ब्रूमः- नक्षत्रेष्टिरूपा विकृतिर्विधीयमाना स्वोपकारकमङ्गजातमपेक्षते। तदा चोदकः प्राकृतं नारिष्ठहोमादिकमङ्गं बोधयति। प्रत्यक्षवाक्यं तु वैकृतमुपहोमादिकम्। तयोर्मध्ये क्लृप्तोपकारतया नारिष्ठहोमाद्यङ्गत्वं सहसा बुध्यते। उपहोमाद्यङ्गता तूपकारे कल्पिते पश्चाद्बुध्यते। ततः प्रधानप्रत्यासत्त्या नारिष्ठहोमाः पूर्वमनुष्ठेयाः। उपहोमाः पश्चादनुष्ठेयाः।। 15।। 16।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- अग्नीषोमीयपशौ प्रयाजानुयाजयोः पात्रभेदाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रकृतिवत्केवलेनाज्येन प्रयाजा इज्यन्ते अनुयाजास्तु पृषदाज्येन यष्टव्याः ''पृषदाज्येनानुयाजान्यजति'' इति तद्विधानात् पृषदाज्यं नाम दधिमिश्रमाज्यम् नहि शुद्धमिश्रयोरेकेन पात्रेण धारणं भवति तस्मात्- अत्र पृथक्पात्रम्। 13”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.10 दशमे विदेवनादीनामभिषेकपूर्वताधिकरणे सूत्रम्
कृतदेशात्तु पूर्वेषां स देशः स्यात्तेन प्रत्यक्षसंयोगान्न्यायमात्रमितरत्।। 21।।
दशमाधिकरणमारचयति-

1विषयः

अभिषेच्यप्राकृताङ्गसमाप्तौ देवनादिकम्
मध्ये वा पूर्ववत्सर्वसमाप्तौ देवनादयः

3पूर्वपक्षः

अभिषेकोऽपकृष्टोऽस्मात्पूर्वे प्रत्यक्षपाठतः
देवनाद्यास्ततो मध्ये माहेन्द्रस्तोत्रतः पुरा
राजसूये सोमयागस्याभिषेचनीयस्य संनिधौ विदेवनशौनःशेपाख्यानाभिषेकाः क्रमेणाम्नाताः। तत्र अभिषेचनीये चोदकप्राप्तमङ्गजातं नारिष्ठन्यायेन प्रथमं समाप्य पश्चाद्विदेवनादयः कार्याः- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- ''माहेन्द्रस्तोत्रं प्रत्यभिषिच्यते'' इति वाक्येन तस्य सोमयागस्य मध्येऽभिषेकोऽपकृष्टः
अभिषेकात्पूर्वभावित्वं विदेवनादीनां प्रत्यक्षपाठप्राप्तम्
ततो माहेन्द्रस्तोत्रादपि पूर्वस्मिन्काले प्रयाजाघारवद्विदेवनादीनामपकर्षः कर्तव्यः।
17
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे नारिष्ठहोमस्योपहोमपूर्वताधिकरणे, नारिष्ठन्याये, सूत्राणि 17-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्राकृते प्रथमो बोधो वैकृते चरमस्ततः नारिष्ठहोमाः पूर्वं स्युरुपहोमास्तु पृष्ठतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.11 एकादशे सावित्रहोमादीनां दीक्षणीयपूर्वप्रयोगाधिकरणे सूत्रम्
प्राकृताच्च पुरस्ताद्यत्।। 22।।
एकादशाधिकरणमारचयति-

1विषयः

चयने दीक्षणीयादि सावित्राद्यथवा पुरा

3पूर्वपक्षः

प्राकृतत्वादिहाद्यः स्यादन्त्यः प्रत्यक्षपाठतः
अग्निचयने ''सावित्राणि जुहोति'' इति सावित्रहोम आम्नातः। ततो महता प्रबन्धेनोखासंभरणादिकमाम्नाय पश्चात् ''आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः'' इत्यादिना दीक्षणीयादिकमाम्नातम्। तत्र दीक्षणीयादिकं प्रकृतौ क्लृप्तोपकारतया शीघ्रं बुद्ध्यमानत्वात्सावित्रहोमादिभ्यः पूर्वमनुष्ठेयम्- इति चेत्-

4सिद्धान्तः

मैवम्
प्रत्यक्षपाठेन क्रमावगमात्
चोदकप्राप्तस्यापि दीक्षणीयादेरग्निकाण्डे सावित्रादिभ्य ऊर्ध्वं पुनः पाठात्सावित्रादिष्वनुष्ठितेषु पश्चादनुष्ठानं कार्यम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे विदेवनादीनामभिषेकपूर्वताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ''माहेन्द्रस्तोत्रं प्रत्यभिषिच्यते'' इति वाक्येन तस्य सोमयागस्य मध्येऽभिषेकोऽपकृष्टः अभिषेकात्पूर्वभावित्वं विदेवनादीनां प्रत्यक्षपाठप्राप्तम् ततो माहेन्द्रस्तोत्रादपि पूर्वस्मिन्काले प्रयाजाघारवद्विदेवनादीनामपकर्षः कर्तव्यः। 17”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
5.2.12 द्वादशे यजमानसंस्काराणां रुक्मप्रतिमोकात्पूर्वभाविताधिकरणे सूत्रम्
द्वादशाधिकरणमारचयति-

1विषयः

चयने रुक्मभृत्यादिः पुरोत स्वामिसंस्कृतिः

3पूर्वपक्षः

पाठादाद्योऽन्तिमः क्लृप्तक्रमात्पाठस्य न क्षतिः
अग्निचयने दीक्षणीयादेरुर्ध्वं रुक्मधारणमाम्नातम्। कण्ठे धृतः सन्नुरसि लम्बमानः सौवर्ण आभरणविशेषो रुक्मशब्दार्थः। उखास्थितोऽग्निः शिक्येऽवस्थापितः कण्ठे धार्यमाण उरःप्रदेशं यथा न दहति तथा व्यवधायकत्वेन तद्धारणम्। अत एव ब्राह्मणम्- ''रुक्ममन्तरं प्रतिमुञ्चतेऽमृतमेव मृत्योरन्तर्धत्ते'' इति। यजमानसंस्काराश्च वपनादयः प्रकृतौ दीक्षणीयानन्तरभाविन इह चोदकेन प्राप्ताः। तेभ्यः पूर्वमेव रुक्मप्रतिमोकः कार्यः, तस्य प्रत्यक्षपाठात्सावित्रादिषु तस्यादृतत्वात्- इति चेत्-
मैवम्। यजमानसंस्काराणां दीक्षणीयानन्तर्यं प्रकृतौ क्लृप्तम्। रुक्मस्य तु पाठेन तत्कल्पनीयम्। तस्मात्संस्काराः पूर्वभाविनः। न च सावित्रदृष्टान्तो युक्तः। दीक्षणीयाया इव संस्काराणां रुक्मप्रतिमोकादूर्ध्वं पुनः पाठाभावात्। न च दीक्षणीयानन्तर्ये बाधिते रुक्मप्रतिमोकपाठवैयर्थ्यम्, स्वरूपबोधनेन चरितार्थत्वात्। ततो रुक्मप्रतिमोकः पश्चात्कार्यः।। 20।।
अत्र पादे- अधिकरणानि 12, सूत्राणि 23।
आदितः- अधिकरणानि 338, सूत्राणि 874।
पञ्चमाध्यायस्य तृतीयः पादः
पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः।

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे पञ्चमाध्यायस्य द्वितीयः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “क्रमनियतिविधेयत्वादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे सावित्रहोमादीनां दीक्षणीयपूर्वप्रयोगाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रत्यक्षपाठेन क्रमावगमात् चोदकप्राप्तस्यापि दीक्षणीयादेरग्निकाण्डे सावित्रादिभ्य ऊर्ध्वं पुनः पाठात्सावित्रादिष्वनुष्ठितेषु पश्चादनुष्ठानं कार्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 5, Pāda 1 Contents Adhyāya 5, Pāda 3 →