SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 4, Pāda 2

प्रयुक्तिः

अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्

13adhikaraṇas
30sūtras
4.2.1 प्रथमे स्वरोश्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि 1-6
स्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वात्।। 1।।
जात्यन्तराच्च शङ्कते।। 2।।
तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात्।। 3।।
शकलश्रुतेश्च।। 4।।
प्रतियूपं च दर्शनात्।। 5।।
आदाने करोतिशब्दः।। 6।।
द्वितीये पादे प्रथमाधिकरणमारचयति-

1विषयः

स्वरुं कुरुत इत्यत्र स्वरुर्यूपात्पृथक्छिदाम्
प्रयोजयेन्न वाद्योऽस्तु विशिष्टस्य विधानतः

3पूर्वपक्षः

आद्यस्य यूपखण्डस्य स्वरुत्वाख्यविशेषणे
विहिते लाघवं तस्मादनुनिष्पन्न एव सः
अग्नीषोमीयपशौ श्रूयते ''यूपस्य स्वरुं करोति'' इति। तत्र यूपो यथा छेदनस्य प्रयोजकः, तथा स्वरुरपि च्छेदनं प्रयोजयति। कुतः- 'करोति' इत्यनेन विशिष्टविधिप्रतीतेः। करोतिधातोर्हि भावना मुख्योऽर्थः। तत्र यूपशब्दोपलक्षितः स्वादिरवृक्षः करणम्। छेदनादिरितिकर्तव्यता, 'छिन्नेन वृक्षेण स्वरुरुत्पादनीयः' इति विशिष्टविधिः। उत्पन्नस्य स्वरोर्विनियोग एवमाम्नातः- ''स्वरुणा पशुमनक्ति'' इति। तस्मात्- स्वरुश्छेदनस्य प्रयोजकः- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- 'छिद्यमानस्य यूपस्य यः प्रथमं पतितः शकलः स स्वरुः' इति स्वरुत्वनाममात्रविधौ लाघवाद्यूपवत्स्वरुर्न च्छेदनस्य प्रयोजकः
किंतु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते।
1
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- उपभृति द्विचतुर्गृहीताचरणाधिकरणे सूत्राणि 46-48”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य प्रथमः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.2 द्वितीये शाखाया आहार्यताधिकरणे सूत्रम्
शाखायां तत्प्रधानत्वात्।। 7।।
द्वितीयाधिकरणमारचयति-

1विषयः

प्राचीमाहरतीत्यत्र दिक्शाखा वाऽस्तु दिक्श्रुतैः

3पूर्वपक्षः

आहार्यत्वं दिशो नास्ति शाखा तेनोपलक्ष्यते
दर्शपूर्णमासयोः ''यत्पलाशशाखया वत्सानपाकरोति'' इति पलाशशाखां प्रकृत्य श्रूयते ''यत्प्राचीमाहरेत्, देवलोकमभिजयेत्'' इति। तत्र प्राचीशब्दस्य दिग्वाचित्वाद्दिगाहरणं विधीयत इति चेत्-

4सिद्धान्तः

मैवम्
अशक्यत्वात्
अतो वृक्षस्य प्राची शाखाऽत्रोपलक्ष्यते
तथा सति प्रकृतानुग्रहो भवति

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे स्वरोश्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि 1-6”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- 'छिद्यमानस्य यूपस्य यः प्रथमं पतितः शकलः स स्वरुः' इति स्वरुत्वनाममात्रविधौ लाघवाद्यूपवत्स्वरुर्न च्छेदनस्य प्रयोजकः किंतु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.3 तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे 8-9
शाखायां तत्प्रधानत्वादुपवेषेण विभागः स्याद्वैषम्यं तत्।। 8।।
श्रुत्यपायाच्च।। 9।।
तृतीयाधिकरणमारचयति-

1विषयः

शाखां छित्त्वोपवेषं च मूले कुर्वीत शाखया
नुदेद्वत्सान्कपालानि स्थापयेदुपवेषतः

3पूर्वपक्षः

द्वयं प्रयोजकं छित्तेर्वत्सापाकृतिरेव वा
आद्योऽग्रमूलयोरत्र विभज्य विनियोगतः
दर्शपूर्णमासयोः श्रूयते ''मूलतः शाखां परिवास्योपवेषं करोति'' इति। येयं पलाशशाखा छित्त्वा वृक्षादाहृता, तां पुनश्छित्त्वा मूलभागः प्रादेशपरिमित उपवेषः कार्यः। तयोरग्रमूलयोः शाखाभागयोः पृथग्विनियोग आम्नातः- ''शाखया वत्सानपाकरोति। उपवेषेण कपालान्युपदधाति'' इति। तदिदं कार्यद्वयं वृक्षच्छेदेन समाहृतया शाखया निष्पद्यते। तस्मात्- उभयमपि च्छेदनाहरणादेः प्रयोजकम्- इति चेत् ।
मैवम्। ''उपवेषं करोति'' इत्युक्ते 'केन द्रव्येण' इत्याकाङ्क्षायां 'मूलतः' इति वक्तव्यम्। पुनरपि 'कस्य मूलम्' इत्याकाङ्क्षायां 'वत्सापाकरणार्थं छिन्नायाः पलाशशाखाया मूलम्' इत्याकाङ्क्षा पूरणीया। तस्माच्छेदने वत्सापाकरणमेव प्रयोजकम्। उपवेषस्त्वनुनिष्पादी।
ननु- आद्यच्छेदने तथाऽस्तु, द्वितीयच्छेदनस्योपवेषः प्रयोजकः। परिवासनसंपन्नेन मूलेनोपवेषकर्तव्यताविधानात्। अन्यथा ''परिवास्योपवेषं करोति'' इति समानकर्तृत्वपूर्वकालत्ववाचिनो ल्यप्प्रत्ययस्यानुपपत्तेः, इति चेत्-
मैवम्। परिवासनस्योपवेषसंबन्धो वाक्येन प्रतीयते। शाखासंबन्धस्तु 'शाखाम्' इति द्वितीयाश्रुत्या। पूर्वच्छिन्नाया अपि शाखायाः पुनर्मूलापादानकश्छेदोऽपेक्षितः। अन्यथा समूलां शाखां हस्तेनोद्यम्य वत्सापाकरणं दुःशकं स्यात्। अत एव 'मूलतः' इत्यपादाने पञ्चमी श्रुता। तथा सति प्रथमच्छेदनापादानभूतो वृक्षोऽसंस्कृतत्वाद्यथा लौकिकः, तथा द्वितीयच्छेदनापादानभूतं मूलमपि लौकिककाष्ठम्। अवश्यमङ्गारेषु कपालोपधाने कस्यचित्काष्ठस्योपादानमर्थात्प्राप्तं तदेवात्र 'उपवेषं करोति' इत्यनूद्यते। शाखां परिवास्य परित्यक्ते मूले संनिहिते सति कपालोपधानार्थं काष्ठान्तरान्वेषणप्रयासो न कर्तव्यः- इति वाक्यार्थः। एवं च सति दोहनरहितायां पौर्णमास्यां वत्सापाकरणार्थायाः शाखाया अभावादुपवेषाय शाखाछेदो न कर्तव्यः।। 4।। 5।। 6।।

4सिद्धान्तः

उपवेषं करोतीति साकाङ्क्षोऽन्यार्थमूलतः
पूर्यतेऽतोऽनुनिष्पादी स तस्माद्युज्यतेऽन्तिमः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये शाखाया आहार्यताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अशक्यत्वात् अतो वृक्षस्य प्राची शाखाऽत्रोपलक्ष्यते तथा सति प्रकृतानुग्रहो भवति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.4 चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 10-13
हरणे तु जुहोतिर्योगसामान्यात्, द्रव्याणां चार्थशेषत्वात्।। 10।।
प्रतिपत्तिर्वा शब्दस्य तत्प्रधानत्वात्।। 11।।
अर्थेऽपीति चेत्।। 12।।
न तस्यानधिकारादर्थस्य च कुतत्वात्।। 13।।
चतुर्थाधिकरणमारचयति-

1विषयः

प्रस्तरं शाखया सार्धं प्रहरेत्प्रहृतिस्त्वियम्
शाखाया अर्थकर्मत्वं प्रतिपत्तिरुतोचिता

3पूर्वपक्षः

विहितः प्रस्तरे यागः शाखायाः साहचर्यतः
तथात्वादर्थकर्मत्वे हृतिः शाखां प्रयोजयेत्
दर्शपूर्णमासयोः श्रूयते ''सह शाखया प्रस्तरं प्रहरति'' इति। तत्र शाखाप्रहरणमर्थकर्म। कुतः-प्रहृतिशब्देन यागस्याभिधानात्। एतच्च ''सूक्तवाकेन प्रस्तरं प्रहरति'' इत्येतद्वाक्यमुदाहृत्य विचारितम्। प्रस्तरप्रहरणस्य यागत्वे तत्साहचर्याच्छाखाप्रहरणमपि याग एवेत्यर्थकर्म स्यात्। अर्थाय क्रतुसाफल्यप्रयोजनाय क्रियमाणमर्थकर्म। ततः प्रहरणेन पौर्णमास्यामपि पलाशशाखा प्रयुज्यते- इति प्राप्ते-

4सिद्धान्तः

हरतिर्यागवाची नो प्रतिपत्तिस्ततो भवेत्
पौर्णमास्यां ततो नैव हृतिः शाखां प्रयोजयेत्
ब्रूमः- ''सूक्तवाकेन प्रस्तरं प्रहरति'' इत्यत्र हरतिधातोर्यागवाचित्वं नोक्तम्। किंतु मान्त्रवर्णिकदेवतामुपलभ्य द्रव्यदेवताभ्यां यागः कल्पितः। शाखाप्रहरणे तु नास्ति देवता। ततो यागस्य कल्पयितुमशक्यतया हरतिधातुरत्र स्ववाच्यार्थपरित्यागमेवाचष्टे। तथा सति वत्सापाकरण उपयुक्तायाः पलाशशाखाया उपयोगान्तराभावाद्यागदेशेऽवकाशलाभाय यत्र क्वाप्यवश्यं परित्यागे प्राप्ते शास्त्रेणाहवनीय एव त्यागो नियम्यते। अनेन च शास्त्रीयत्यागेन शाखायाः प्रतिपत्तिर्भवति। प्रतिपत्तिर्नाम संस्काररूपो दृष्टोऽर्थः। यथा राज्ञा चर्वितस्य ताम्बूलस्य सौवर्णे पतद्ग्रहे प्रक्षेपः, तद्वत्। ततः प्रहरणं प्रतिपत्तिकर्म। तेन च तदभावेऽपि क्रतुवैकल्याभावात्, पौर्णमास्यां स्वसिद्धिहेतुभूतां शाखां न प्रयोजयति।। 7।। 8।। 9।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे 8-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उपवेषं करोतीति साकाङ्क्षोऽन्यार्थमूलतः पूर्यतेऽतोऽनुनिष्पादी स तस्माद्युज्यतेऽन्तिमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.5 पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे 14-15
उत्पत्त्यसंयोगात्प्रणीतानामाज्यवद्विभागः स्यात्।। 14।।
संयवनार्थानां वा प्रतिपत्तिरितरासां तत्प्रधानत्वात्।। 15।।
पञ्चमाधिकरणमारचयति-

1विषयः

प्रणीताभिस्तु संयौति वेद्यां निनयतीति किम्

3पूर्वपक्षः

अपां द्वे प्रापके किंवा हविःसंयवनं तथा
दर्शपूर्णमासयोः श्रूयते ''अपः प्रणयति'' इति। चमसेन पात्रेण प्रणीतानां तासामपां प्रयोजनमेवं श्रूयते ''प्रणीताभिर्हवींषि संयौति'' इति, ''अन्तर्वेदि प्रणीता निनयति'' इति च। हवींषि पुरोडाशार्थानि पिष्टानि। तत्र हविःसंयवनं वेद्यां निनयनं चेत्यतदुभयमपां प्रणयनस्य प्रयोजकम्। कुतः- ''अपः प्रणयति'' इत्यस्य प्रणयनोत्पत्तिवाक्यस्योभयत्र समानत्वात्। न ह्यस्मिन्वाक्ये संयवनस्य कश्चिद्विशेषसंबन्धः प्रतीयते- इति चेत्-
मैवम्। विनियोगवाक्ये 'प्रणीताभिः' इति तृतीयाश्रुत्या संयवनसाधनत्वावगमात्, संयवनमेव प्रयोजकम्। निनयनवाक्ये तु 'प्रणीताः' इत्यनया द्वितीयया संस्कार्यत्वावगमान्निनयनं प्रतिपत्तिरूपः संस्कार इति न प्रणयनस्य प्रयोजकम्।

4सिद्धान्तः

अपः प्रणयतीत्युक्तेः समत्वादुभयार्थता
श्रुत्या संयवनार्थास्ता निनीतेः प्रतिप्रत्तिता

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 10-13”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “हरतिर्यागवाची नो प्रतिपत्तिस्ततो भवेत् पौर्णमास्यां ततो नैव हृतिः शाखां प्रयोजयेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.6 षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि 16-18
प्रासनवन्मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात्।। 16।।
अर्थकर्म वा कर्तृसंयोगात्, स्रग्वत्।। 17।।
कर्मयुक्ते च दर्शनात्।। 18।।
षष्ठाधिकरणमारचयति-

1विषयः

मैत्रावरुणके दण्डदानस्य प्रतिपत्तिता

3पूर्वपक्षः

उतार्थकर्मताद्योऽस्तु धारणे कृतकृत्यतः
ज्योतिष्टोमे श्रूयते ''क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति'' इति। तदेतद्दण्डदानं प्रतिपत्तिकर्म। कुतः- दण्डस्य यजमानधारणेन कृतकृत्यत्वात्। यजमानो ह्यध्वर्युणा दीक्षासिद्धयर्थं दत्तं दण्डमासोमक्रयाद्धारयति। अत एवाम्नातम्- ''दण्डेन दीक्षयति'' इति, ''यद्दीक्षिताय दण्डं प्रयच्छति'' इति च। तस्मादुपयुक्तस्य दण्डस्य दानं प्रतिपत्तिः- इति चेत्-
मैवम्। दण्डे भविष्यदुपयोगस्यापि सद्भावात्। यदा मैत्रावरुणः स्थित्वा प्रैषाननुवदति, तदानीमवलम्बनाय दण्डोऽपेक्षितः। अत एवाम्नातम्- ''दण्डीप्रैषानन्वाह'' इति। तथा सति प्रतिपत्तिकर्मरूपादुपयुक्तसंस्कारादर्थकर्मरूप उपयोक्ष्यमाणसंस्कारः प्रशस्तः। उपयोजयितुमेव हि सर्वत्र संस्कारस्य प्रवृत्तिः। उपयुक्ते तु प्रतिपत्तिरूपस्य संस्कारस्याक्षरमात्रपर्यवसायित्वेन कार्ये पर्यवसानाभावादप्रशस्तत्वम्। तस्मात्- मैत्रावरुणसंस्काराय दण्डदानमर्थकर्म। तथा सति निरूढपशावसत्यपि दीक्षिते दण्डसंपादनस्यैतद्दानं प्रयोजकम्।। 12।। 13।।

4सिद्धान्तः

युक्तोपयुक्तसंस्कारादुपयोक्तव्यसंस्क्रिया
स्थित्वा प्रैषानुवचने दण्डोऽपेक्ष्योऽर्थकर्म तत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे 14-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अपः प्रणयतीत्युक्तेः समत्वादुभयार्थता श्रुत्या संयवनार्थास्ता निनीतेः प्रतिप्रत्तिता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.7 सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम्
उत्पत्तौ येन संयुक्तं तदर्थं तत्, श्रुतिहेतुत्वात्, तस्यार्थान्तरगमने शेषत्वात्प्रतिपत्तिः स्यात्।। 19।।
सप्तमाधिकरणमारचयति-

1विषयः

चात्वाले कृष्णशृङ्गस्य प्रासो यः सोऽर्थकर्म वा

3पूर्वपक्षः

प्रतिपत्तिः सार्थकत्वादाद्योऽन्त्योऽस्तूपयोगतः
ज्योतिष्टोमे श्रूयते ''प्रत्तासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति'' इति। यजमानेन दत्ता दक्षिणा ऋत्विग्भिर्यदा नीताः, तदा यजमानः स्वहस्ते धृतं कृष्णमृगस्य शृङ्गं चात्वालनामके गर्ते परित्यजेत्। सोऽयं परित्यागोऽर्थकर्म। कुतः- सप्रयोजनत्वात्। प्रतिपत्तितयाऽपूर्वाभावेन निरर्थकः स्यात्। अतोऽपूर्वलाभायार्थकर्मत्वम्- इति चेत्-

4सिद्धान्तः

मैवम्
''कृष्णविषाणया कण्डूयते'' इति तृतीयाश्रुत्या यजमानशिरःकण्डूतावुपयुक्तस्य विषाणस्य प्रतिपत्यपेक्षत्वात्
न च प्रतिपत्तावत्यन्तमपूर्वाभावः, 'चात्वाल एव प्रासनम्' इत्येवंविधस्य नियमस्य वैधत्वेन प्रासनक्रियाप्रयुक्तापूर्वाभावेऽपि नियमापूर्वसद्भावात्
तस्मात्- प्रासनं प्रतिपत्तिकर्म

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि 16-18”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “युक्तोपयुक्तसंस्कारादुपयोक्तव्यसंस्क्रिया स्थित्वा प्रैषानुवचने दण्डोऽपेक्ष्योऽर्थकर्म तत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.8 अष्टमे- अवभृथगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 20-22
सौमिके च कृतार्तत्वात्।। 20।।
अर्थकर्म वाऽभिधानसंयोगात्।। 21।।
प्रतिपत्तिर्वा तन्न्यायत्वाद्देशार्थाऽवभृथश्रुतिः।। 22।।
अष्टमाधिकरणमारचयति-

1विषयः

पात्रस्यावमृथे सोमलिप्तस्य नयनं तु किम्

3पूर्वपक्षः

साधनं प्रतिपत्तिर्वा यन्ति तेनेत्यतः श्रुतेः
ज्योतिष्टोमे श्रूयते ''चतुर्गृहीतं वा एतद्यज्ञस्य यदृजीषम्, यद्ग्रावाणः, यदौदुम्वरी, यदधिषवणफलके, तस्माद्यत्किंचित्सोमलिप्तं द्रव्यम्, तेनावभृथं यन्ति'' इति। निष्पीडितस्य सोमस्य नीरसो भाग ऋजीषम्। तदेतदृजीषग्रावादिकं सोमाभिषवादौ सोमेन लिप्यते। तस्य लिप्तस्य सर्वस्यावभृथसाधनत्वमभ्युपेयम्। कुतः- 'तेनावमृथं यन्ति' इति तृतीयाश्रुत्याऽवभृथसाधनत्वावगमात्। तस्मात्सोमलिप्तं द्रव्यमवभृथे हविष्ट्वेन नीयते- इति चेत्-
मैवम्। ''वारुणेन कपालेनावभृथमवयन्ति'' इत्यनेनोत्पत्तिवाक्यशिष्टपुरोडाशहविषाऽवरुद्धेऽवभृथे सोमलिप्तपात्रस्य हविष्ट्वेन संबन्धासंभवात्। तथा सत्यवभृथशब्देन तदर्थं देशं लक्षयित्वा तस्मिन्देशे सोमलिप्तस्य पात्रस्य नयनमत्र विधीयते। तच्च नयनं प्रतिपत्तये भवति, पात्रस्य पूर्वमुपयुक्तत्वात्। तस्मात्- एतत्प्रतिपत्तिकर्म।। 15।। 16।।

4सिद्धान्तः

प्राप्ता साधनता मैवं पुरोडाशहविष्ट्वतः
पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''कृष्णविषाणया कण्डूयते'' इति तृतीयाश्रुत्या यजमानशिरःकण्डूतावुपयुक्तस्य विषाणस्य प्रतिपत्यपेक्षत्वात् न च प्रतिपत्तावत्यन्तमपूर्वाभावः, 'चात्वाल एव प्रासनम्' इत्येवंविधस्य नियमस्य वैधत्वेन प्रासनक्रियाप्रयुक्तापूर्वाभावेऽपि नियमापूर्वसद्भावात् तस्मात्- प्रासनं प्रतिपत्तिकर्म”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.9 नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे 23-24
कर्तृदेशकालानामचोदनं प्रयोगे नित्यसमवायात्।। 23।।
नियमार्था वा श्रुतिः।। 24।।
नवमाधिकरणमारचयति-

1विषयः

समे यजेत देशादेरनुवादोऽथवा विधिः
प्रयोगानुपपत्त्यैव प्राप्तत्वादनुवादता

3पूर्वपक्षः

समे वा विषमे वेति पाक्षिकत्वनिवृत्तये
अप्राप्तांशानुपातेन नियमोऽत्र विधीयते
इदमाम्नायते-
''समे दर्शपूर्णमासाभ्यां यजेत'' ''प्राचीनप्रवणे वैश्वदेवेन यजेत'' ''पौर्णमास्यां पौर्णमास्या यजेत'' ''अमावास्यायाममावास्यया यजेत'' ''पशुबन्धस्य यज्ञक्रतोः षडृत्विजः'' ''दर्शपूर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विजः'' ''चातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजः'' ''अग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्'' ''सौम्यस्याध्वरस्य यज्ञक्रतोःसप्तदशर्त्विजः'' ''सोमेन यजेत'' इति। क्रतुशब्दो मानस उपासनेऽपि वर्तते। ''स क्रतुं कुर्वीत मनोमयः प्राणशरीरः'' इत्यत्र क्रतुशब्देन ध्यानविधानात्। तद्व्यावृत्तये 'यज्ञक्रतोः' इति विशेष्यते। तत्र देशकालकर्तृद्रव्याणि न विधीयन्ते, किंत्वनुश्रूयन्ते। कुतः- प्राप्तत्वात्। न हि देशादिभिर्विना प्रयोगः संभवति। अतोऽर्थापत्त्या तत्प्राप्तिः- इति चेत्-

4सिद्धान्तः

मैवम्
अर्थापत्त्या पाक्षिकी समदेशादिप्राप्तिः
विषमदेशादीनामपि संभवात्
ततो यस्मिन्पक्षे प्राप्तिर्नास्ति तस्मिन्पक्षे समदेशादयो विधीयन्ते।
17

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- अवभृथगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 20-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्राप्ता साधनता मैवं पुरोडाशहविष्ट्वतः पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.10 दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम्
तथा द्रव्येषु गुणश्रुतिरुत्पत्तिसंयोगात्।। 25।।
दशमाधिकरणमारचयति-

1विषयः

श्वेतालम्भोऽनुवादो वा श्वैत्यस्य विधिरग्रिमः

3पूर्वपक्षः

द्रव्यद्वारेण तत्प्राप्तेः पूर्ववत्तन्नियम्यते
इदमाम्नायते- ''वायव्यं श्वेतमालभेत भूतिकामः'' इति। तत्र श्वैत्यगुणस्य द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यविधिनैवावर्जनीयतया तत्प्राप्तेरनुवादः श्वैत्यस्य- इति चेत्-

4सिद्धान्तः

मैवम्
पूर्वन्यायेन पाक्षिकत्वनिवृत्तये नियमविधित्वाङ्गीकारात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे 23-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अर्थापत्त्या पाक्षिकी समदेशादिप्राप्तिः विषमदेशादीनामपि संभवात् ततो यस्मिन्पक्षे प्राप्तिर्नास्ति तस्मिन्पक्षे समदेशादयो विधीयन्ते। 17”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.11 एकादशे- अवघातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम्
संस्कारे च तत्प्रधानत्वात्।। 26।।
एकादशाधिकरणमारचयति-

1विषयः

अवघातेऽपि नियमो देशादाविव तेन सः

3पूर्वपक्षः

प्रधानेन प्रयुक्तः स्यात्संबन्धः प्रक्रियोक्तितः
यथा देशकालकर्तृद्रव्याणां पक्षे प्राप्तौ नियमो विहितः, एवमवघातोऽपि तण्डुलनिष्पत्त्यर्थं लोकतः प्राप्तोऽपि पाक्षिकनखविदलनादिव्यावृत्तये नियम्यते। सति चावघातस्य विधौ प्रधानेनाग्नेयादियागेनासौ प्रयुज्यते।

4सिद्धान्तः

न चात्र संबन्धाभावादप्रयुक्तिरिति वाच्यम्
प्रधानयागप्रकरणपठितत्वेन संबन्धसिद्धेः
तस्मात्- अवघातादयो विधीयन्ते प्रधानेन प्रयुज्यन्ते च

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् पूर्वन्यायेन पाक्षिकत्वनिवृत्तये नियमविधित्वाङ्गीकारात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.12 द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे 27-28
यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात्।। 27।।
तदुक्ते श्रवणाज्जुहोतिरासेचनाधिकः स्यात्।। 28।।
द्वादशाधिकरणमारचयति-

1विषयः

अनिरूप्या निरूप्या वा यागहोमददातयः
त्यागादाद्यो यजिस्त्यागः प्रक्षेपो होम इष्यते

3पूर्वपक्षः

आकाङ्क्षा यागशब्दस्य त्यागेनैव निवर्तते
यागस्योपरि होमस्य विधेः क्षेपावसानता
इदमाम्नायते-
''सोमेन यजेत'' ''अग्निहोत्रं जुहोति'' ''हिरण्यमात्रेयाय ददाति'' इति। तत्र याग-होम-दान-शब्दानामर्था न निरूपयितुं शक्यन्ते। त्रिष्वपि द्रव्यत्यागस्य सद्भावात्। ततो विधेयानामर्थानां प्रधानभूतानामनिर्णयात्, इतरत्र विध्यनुवादविवेकः पूर्वोक्तो व्यर्थः- इति चेत्-
मैवम्। देवतामुद्दिश्य द्रव्यत्यागो यागः। त्यक्तस्य वह्नौ प्रक्षेपो होमः। स्वकीयद्रव्यस्य स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनं दानम्। इति सुनिरूपा एते पदार्थाः। ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति विहितस्य यागस्योपरि ''चतुरवत्तं जुहोति'' इति होमस्य विधानात् 'त्यागमात्रात्मको यागः, प्रक्षेपाधिको होमः' इत्यवगम्यते। यत्र तु यजत्यादिपदं न श्रुतम्, किंतु 'आग्नेयोऽष्टाकपालः' इत्येतावदेव श्रुतम्, तत्राप्युद्देश्याया देवतायास्थानीयद्रव्यस्य च श्रुतत्वादुद्देशत्यागरूपो यागोऽर्थसिद्धः। तस्मात्- प्रधानविधेयानां यागादीनां सुनिरूपितत्वाद्विधिविवेको न व्यर्थः।। 21।। 22।। 23।।

4सिद्धान्तः

स्वीयं द्रव्यं परित्यज्य परकीयं यथा भवेत्
तथा संपादनं दानं त्यागेऽप्येषामियं भिदा

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- अवघातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न चात्र संबन्धाभावादप्रयुक्तिरिति वाच्यम् प्रधानयागप्रकरणपठितत्वेन संबन्धसिद्धेः तस्मात्- अवघातादयो विधीयन्ते प्रधानेन प्रयुज्यन्ते च”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.13 त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे 29-30
विधेः कर्मापवर्गित्वादर्थान्तरे विधिप्रदेशः स्यात्।। 29।।
अपि वोत्पत्तिसंयोगादर्थसंबन्धोऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात्।। 30।।
त्रयोदशाधिकरणमारचयति-

1विषयः

यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम्
साधारण्यविधिर्वाद्यस्तदीयस्योपसंहृतेः

3पूर्वपक्षः

बर्हिः श्रुत्यैकताभानान्नातिदेशस्य लक्षणा
आतिथ्ययोपसद्भिश्च बर्हिरेतत्प्रयुज्यते
ज्योतिष्टोमे श्रूयते ''यदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्य च'' इति। क्रीतं सोमं शकटेऽवस्थाप्य प्राचीनवंशं प्रत्यानयनेऽभिमुखो यामिष्टिं निर्वपति सेयमातिथ्या। तत ऊर्ध्वं त्रिषु दिनेष्वनुष्ठीयमाना उपसदः। औपवसथ्ये दिनेऽनुष्ठेयोऽग्नीषोमीयः। तत्र- आतिथ्येष्टौ विहितं यद्बर्हिः, तद्यदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत, तदानीमातिथ्यायां विधानमनर्थकं स्यात्। यदि च तत्रोपयुक्तमितरत्र विधीयेत, तदा विनियुक्तविनियोगरूपो विरोधः स्यात्। तस्मात्- आतिथ्याबर्हिषो ये धर्मा आश्ववालत्वादयः, ते धर्मा उपसत्सूपसंह्रियन्ते- इत्यतिदेशपरं वाक्यम्- इति प्राप्ते-

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य द्वितीयः पादः
ब्रूमः- बर्हिः शब्दस्य धर्मातिदेशत्वे लक्षणा प्रसज्येत। श्रुत्या तु बर्हिष आतिथ्योपसदग्नीषोमीयेष्येकत्वं प्रतिभाति। अतः साधारण्यमत्र विधेयम्। आतिथ्यार्थं यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थम्, किंतूपसदर्थमग्नीषोमीयार्थं चोपादेयमिति विधिवाक्यस्यार्थः। तस्मात्- आतिथ्योपसदग्नीषोमीयास्त्रयोऽप्यस्य बर्हिषः प्रयोजकाः।। 24।। 25।।
अत्र पादे- अधिकरणानि 13, सूत्राणि 30।
आदितः- अधिकरणानि 276, सूत्राणि 735।
चतुर्थाध्यायस्य तृतीयः पादः ।
जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे 27-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्वीयं द्रव्यं परित्यज्य परकीयं यथा भवेत् तथा संपादनं दानं त्यागेऽप्येषामियं भिदा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 4, Pāda 1 Contents Adhyāya 4, Pāda 3 →