SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 4, Pāda 1

प्रयुक्तिः

प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्

17adhikaraṇas
48sūtras
4.1.1 प्रथमे प्रतिज्ञाधिकरणे सूत्रम्
अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा।। 1।।
चतुर्थाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-

1विषयः

चिन्ता न कार्या कार्या वा क्रत्वर्थपुरुषार्थयोः
अफलत्वान्न कर्तव्या प्रयुक्तौक्रियतामियम्

3पूर्वपक्षः

क्वचिदेतद्विचारेण क्वचित्फलविधेर्वशात्
क्वचित्साक्षादिहाध्याये प्रयुक्तिर्बहुधोच्यते
'क्रत्वर्थोऽयम्, पुरुषार्थोऽयम्' इति विवेकस्य प्रयोजनं किमपि न पश्यामः। तस्मात्- काकदन्तविचारवदयं विचार उपेक्षणीयः- इति चेत्-

4सिद्धान्तः

मैवम्
तेन विचारेण प्रयुक्तेर्ज्ञातुं शक्यत्वात्
साक्षाद्वा परम्परया वा प्रयुक्तिनिर्णयोपयुक्तं सर्वमिह चिन्तनीयम्।
2

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोविंशे सवनीयानां मांसमयताधिकरणे सूत्राणि 42-44”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.2 द्वितीये क्रत्वर्थपुरुषार्थलक्षणाधिकरणे सूत्रम्
यस्मिन्प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात्।। 2।।
द्वितीयाधिकरणे प्रथमवर्णकमारचयति-

1विषयः

क्रत्वर्थादेर्नास्ति वाऽस्ति लक्ष्म नास्त्यनिरूपणात्

3पूर्वपक्षः

क्रतवे यस्तदर्थोऽसाविति तस्य निरूपणम्
'क्रतावनुष्ठेयः क्रत्वर्थः' इत्युक्ते गोदोहनादावतिव्याप्तिः। 'पुरुषेणार्थ्यमानः पुरुषार्थः' इत्युक्ते प्रयाजादीनामप्यनुष्ठेयतया पुरुषेणार्थ्यमानत्वादतिव्याप्तिः। तस्मात्- तयोरदुष्टं लक्षणं दुर्निरूपम्- इति चेत् ।
मैवम्। क्रतुस्वरूपपौष्कल्यायैव यो विधीयते स क्रत्वर्थः। प्रयाजादयस्तादृशाः। नहि प्रयाजादिभिः पुरुषस्य कश्चित्प्रीतिविशेष उत्पद्यते, येनैते पुरुषार्था भवेयुः। दर्शपूर्णमासक्रतुस्तु तैः प्रयाजादिभिः फलजननसामर्थ्यलक्षणं पौष्कल्यं प्राप्नोति। तस्मात्- ते क्रत्वर्थाः।

4सिद्धान्तः

पुरुषप्रीतये विधीयमानः पुरुषार्थः
दर्शपूर्णमासादयो गोदोहनादयश्च तादृशाः
न हि दर्शपूर्णमासाभ्यां कस्यचित्क्रतोः पौष्कल्यं भवति तयोरेव क्रतुत्वात्
नापि गोदोहनं क्रत्वर्थम्
तदभावेऽपि चमसेन क्रतुपौष्कल्यसिद्धेः
तस्मात्- सुनिरूपणं तदुभयलक्षणम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे प्रतिज्ञाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् तेन विचारेण प्रयुक्तेर्ज्ञातुं शक्यत्वात् साक्षाद्वा परम्परया वा प्रयुक्तिनिर्णयोपयुक्तं सर्वमिह चिन्तनीयम्। 2”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयवर्णकमारचयति-

1विषयः

फलं विधेयं नो वाद्यो भावनांशत्वतोऽन्यवत्

3पूर्वपक्षः

न भाव्यांशो विधेयः स्याद्रागात्तत्र प्रवर्तनात्
''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति स्वर्गः फलत्वेन श्रूयते। तत्र- विमतं फलं विधेयम्, भावनांशत्वात्, करणवत्, इतिकर्तव्यतावच्च- इति चेत्-

4सिद्धान्तः

मैवम्
अप्रवृत्तप्रवर्तनं हि विधानम्
फले तु पुरुषः सौन्दर्यं जानन्स्वयं रागादेव प्रवृत्तः- इति व्यर्थस्तत्र विधिः
वर्णकान्तरम्
तृतीयवर्णकमारचयति-

1विषयः

गोदोहनं द्वयार्थं स्यान्न वा भानाद्द्वयार्थता

3पूर्वपक्षः

अन्यथाऽपि क्रतोः सिद्धेः केवलं पुरुषाय तत्
दर्शपूर्णमासयोः श्रूयते ''चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य'' इति। तत्र- गोदोहनस्य क्रत्वर्थत्वं पुरुषार्थत्वं च, इत्याकारद्वयमस्ति पशुफलजननेन पुरुषप्रीतिर्भाति, अपां प्रणयनेन क्रतुपौष्कल्यमपि भाति- इति चेत्-

4सिद्धान्तः

मैवम्
गोदोहनमन्तरेण फलासिद्धेर्भवतु पुरुषार्थत्वम्
क्रतुस्तु तदभावेऽपि चमसेन सिध्यतीति न क्रत्वर्थता
वर्णकान्तरम्
चतुर्थवर्णकमारचयति-

1विषयः

द्रव्यार्जनं स्यात्क्रत्वर्थं पुमर्थं वा क्रताविदम्

3पूर्वपक्षः

नियतत्वात्पुमर्थत्वं दृष्टं क्रत्वर्थतार्थिकी
ब्राह्मणस्य द्रव्यार्जने प्रतिग्रहयाजनाध्यापनान्येव नियतानि तत्र तत्र श्रुतानि, राजन्यस्य जयादिकम्, वैश्यस्य कृष्यादिकम्, शूद्रस्य सेवादिकम्। तच्च यदेतद्द्रव्यसंपादनं तदेतत्क्रत्वर्थम्। कुतः- अर्जनोपायानां नियतत्वात्। पुरुषप्रीतेस्तु येन केनापि द्रव्येण सिद्धत्वादर्जनोपायनियमस्तत्र निरर्थकः। क्रतौ तु नियमापूर्वं परमापूर्वोपयोगीति सार्थको नियमः- इति प्राप्ते-

4सिद्धान्तः

क्रत्वर्थत्वे तु जीवनाभावात्क्रतुरेव न सिध्येत्
पुरुषार्थतायां त्वैहिकप्रीतिकारिभोजनादिवत्क्रतोरामुष्मिकप्रीतिकारितया पुरुषार्थेष्वन्तर्भावात्क्रत्वर्थताऽप्यार्थिकी सिध्यति
उपायनियमस्तूपायान्तरेषु प्रत्यवायविवक्षयोपपद्यते
तस्मात्- द्रव्यार्जनं पुरुषार्थम्
ब्रूमः- द्रव्यार्जने रागः प्रवर्तको दृष्ट इति न विधिरपेक्ष्यते। फलं च क्षुन्निवृत्त्यादिरूपं दृष्टमेव। अत एव स्मर्यते-
षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ।याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः।। इति।
4.1.3 तृतीये प्रजापतिव्रतानां पुरुषार्थताधिकरणे सूत्राणि 3-6
तदुत्सर्गे कर्माणि पुरुषार्थाय, शास्त्रस्यानतिशङ्क्यत्वान्न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसंबन्धात्क्रियायां पुरुषश्रुतिः।। 3।।
अविशेषात्तु शास्त्रस्य यथाश्रुतिफलानि स्युः।। 4।।
अपि वा कारणाग्रहणे तदर्थमर्थस्यानभिसंबन्धात्।। 5।।
तथा च लोकभूतेषु।। 6।।
तृतीयाधिकरणमारचयति-

1विषयः

नेक्षेतोद्यन्तमादित्यं क्रत्वर्थं तन्न वाऽग्रिमः

3पूर्वपक्षः

फलस्याकल्पनीयत्वात्क्रतौ प्राप्तं निषिध्यते
अनारभ्य श्रूयते ''नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन'' इति। अत्र नञ्पदमभिधावृत्त्या प्रतिषेधं ब्रूते, न तु पर्युदासम्। प्रतिषेधश्च प्राप्तिपूर्वकः। प्राप्तिश्च वैदिकस्य निषेधस्य वैदिकी प्रत्यासन्ना। तथा सति क्रतौ यत्रादित्येक्षणं विहितम्, तत्रायं निषेध उदयास्तमयोद्देशेन प्रवर्तते। एवं च सति फलं न कल्पनीयम्। पर्युदासमाश्रित्य पुरुषार्थत्वाङ्गीकारेऽधिकारसिद्धये फलं कल्पनीयं स्यात्। तस्मात्- क्रत्वर्थो निषेधः- इति प्राप्ते-

4सिद्धान्तः

व्रतोक्त्या पर्युदासत्वे संकल्पोऽनीक्षणेऽत्र सः
न क्रत्वङ्गममानत्वात्पुमर्थः पापहानये
ब्रूमः- ''तस्य व्रतम्'' इत्युपक्तम्य 'नेक्षेतोद्यन्तमादित्यम्' इत्याम्नातत्वादनीक्षणरूपं किंचिदनुष्ठेयम्। तच्च पर्युदासत्वे सत्यवकल्पते। ईक्षणस्याभावः प्रतिषेधपक्षे नञर्थः। पर्युदासपक्षे त्वीक्षणादितरः संकल्पो नञ्पदेन लक्ष्यते। स च संकल्पोऽत्रानुष्ठेयव्रतत्वेन विधीयते। यद्यपीक्षणादितरे बहवो व्यापारा अनुष्ठानयोग्याः सन्ति, तथाऽपि कायिकवाचिकव्यापारविशेषस्याप्रतीयमानत्वात्, मानसव्यापारस्यावर्जनीयत्वाच्च संकल्प एव परिशिष्यते। संकल्पनीयश्चार्थः प्रत्यासत्त्या धात्वर्थनिषेधः। तथा सति 'उद्यन्तम्, अस्तं यन्तं चादित्यं नेक्षिष्ये' इत्येवंरूपः संकल्पोऽत्रानुष्ठेयत्वेन विधीयते। न च तस्य संकल्पस्य क्रत्वङ्गत्वम्। तद्बोधकश्रुतिलिङ्गादिप्रमाणाभावात्। न च पुरुषार्थत्वेऽपि प्रमाणाभावः। 'एतावता हैनसा मुक्तो भवति' इत्यनेन वाक्येनेक्षितुः पुरुषस्य प्रत्यवायसंबन्धमुपन्यस्य तत्प्रत्यवायनिवारणफलकस्यानीक्षणसंकल्पस्य विधानेन पुरुषार्थत्वावगमात्। क्रत्वङ्गत्वविवक्षायां तु क्रतुवैकल्यरूपो विपक्षबाध उपन्यस्येत। तस्मात्- अनीक्षणसंकल्पादीनि प्रजापतिव्रतानि पुरुषार्थानि।। 8।। 9।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये क्रत्वर्थपुरुषार्थलक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पुरुषप्रीतये विधीयमानः पुरुषार्थः दर्शपूर्णमासादयो गोदोहनादयश्च तादृशाः न हि दर्शपूर्णमासाभ्यां कस्यचित्क्रतोः पौष्कल्यं भवति तयोरेव क्रतुत्वात् नापि गोदोहनं क्रत्वर्थम् तदभावेऽपि चमसेन क्रतुपौष्कल्यसिद्धेः तस्मात्- सुनिरूपणं तदुभयलक्षणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.4 चतुर्थे यज्ञायुधानामनुवादताधिकरणे सूत्राणि 7-10
द्रव्याणि त्वविशेषेणानर्थक्यात्प्रदीयेरन्।। 7।।
स्वेन त्वर्थेन संबन्धो द्रव्याणां पृथगर्थत्वात्, तस्माद्यथाश्रुति स्युः।। 8।।
चोद्यन्ते चार्थकथासु।। 9।।
लिङ्गदर्शनाच्च।। 10।।
चतुर्थाधिकरणमारचयति-

1विषयः

दश यज्ञायुधानीति हविष्ट्वेन विधिर्न वा

3पूर्वपक्षः

आद्योऽप्राप्तेः पुरोडाशे समुच्चयविकल्पते
दर्शपूर्णमासयोः- ''स्फ्यश्च कपालानि च'' इत्याद्युपक्रम्य ''एतानि वै दशयज्ञायुधानि'' इत्याम्नातम्। तानि चात्र हविष्ट्वेन विधीयन्ते। कुतः- मानान्तरैरप्राप्तत्वेनापूर्वार्थत्वात्। यदि तत्र पुरोडाशो हविर्भवत्, तदा तेन सहैतेषां समुच्चयो विकल्पो वाऽस्तु- इति प्राप्ते-

4सिद्धान्तः

सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते
स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः
ब्रूमः- ''आग्नेयोऽष्टाकपालः'' इत्युत्पत्तिशिष्टेन पुरोडाशेन सह पश्चाच्छिष्टानामायुधानां विकल्पः समुच्चयो वा न संभवति। आयुधत्वं यज्ञसाधनत्वम्। तच्च ''स्फ्येनोद्धन्ति, कपालेषु श्रपयति'' इत्यादिशास्त्रसिद्धमेवात्रानूद्य ''यज्ञायुधानि संभरति'' इत्येष संभरणविधिः स्तूयते। तस्मात्- नास्ति हविष्ट्वम्।। 10।। 11।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये प्रजापतिव्रतानां पुरुषार्थताधिकरणे सूत्राणि 3-6”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “व्रतोक्त्या पर्युदासत्वे संकल्पोऽनीक्षणेऽत्र सः न क्रत्वङ्गममानत्वात्पुमर्थः पापहानये”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.5 पञ्चमे पश्वेकत्वाधिकरणे सूत्राणि 11-16
तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्।। 11।।
एकश्रुतित्वाच्च।। 12।।
प्रतीयत इति चेत्।। 13।।
नाशब्दं तत्प्रमाणत्वात्पूर्ववत्।। 14।।
शब्दवत्तूपलभ्यते, तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथाऽम्येषाम्।। 15।।
तद्वच्च लिङ्गदर्शनम्।। 16।।
पञ्चमाधिकरणमारचयति-

1विषयः

पशुरालभ्य इत्यत्र पश्वैक्ये यजनाङ्गता
नास्त्यस्ति वाद्यः स्वपदे श्रुत्या पश्वङ्गतागतेः

3पूर्वपक्षः

आदौ स्वप्रत्ययोपात्त आसन्नतरकारके
योगः क्रतौ पशौ चेति क्रमे यागाङ्गतोचिता
''अग्नीषोमीयं पशुमालभेत'' इत्यत्र पशोरेकत्वं यजनाङ्गं न भवति। तस्य श्रुत्या पशुसंबन्धावगमात्। 'पशुम्' इत्येतस्मिन्नेव पदे पशुतदेकत्वयोः श्रवणात्पदान्तरनैरपेक्ष्येण परस्परसंबन्धोऽवगम्यते। यागस्तु 'आलभेत' इत्यनेन पदान्तरेणोपात्तः। तत्र वाक्येन संबन्धावगतिः। वाक्याच्च श्रुतिर्बलीयसी। तत एकत्वस्य यागाङ्गत्वाभावाद्द्वाभ्यां बहुभिर्वा यागोऽनुष्ठातुं शक्यते- इति प्राप्ते,

4सिद्धान्तः

एवम्- 'अनड्वाहौ युनक्ति' 'वसन्ताय कपिञ्जलानालभते' इत्यत्र द्वित्वबहुत्वयोर्विवक्षितत्वं द्रष्टव्यम्।
12
ब्रूमः- 'पशुम्' इति पदं यद्यप्येकम्, तथाऽपि प्रकृत्या पशुर्निर्दिष्टः। प्रत्ययेन कारकत्वम्, एकत्वं च, इत्युभयं निर्दिष्टम्। तत एकत्वस्यासन्नतरे कारके प्रथमं संबन्धो भवति। कारकत्वं नाम क्रियाहेतुत्वम्। तथा सति कारकद्वारा क्रियायामपि संबन्धः प्रत्ययेनैवावगतः। क्रियाविशेषश्च संनिहितपदान्तरोपात्तो याग इति यजनाङ्गत्वमेकत्वस्य सिध्यति। तच्चैकत्वं स्वयममूर्ततया यागक्रियां निष्पादयितुमसमर्थं सत्तत्र समर्थं पशुद्रव्यं पश्चादवच्छिनत्ति। तत एकत्वस्य यागाङ्गत्वान्न द्वाभ्यां त्रिभिर्वा यागसिद्धिः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे यज्ञायुधानामनुवादताधिकरणे सूत्राणि 7-10”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.6 षष्ठे पशुलिङ्गविवक्षाधिकरणे सूत्रम्
तथा च लिङ्गम्।। 17।।
षष्ठाधिकरणमारचयति-

1विषयः

न पुंलिङ्गे विवक्षा वा विवक्षाऽनुपयोगतः
आद्योऽनुष्ठित्यपेक्षत्वात्संख्यावत्तद्विवक्ष्यताम्

3पूर्वपक्षः

''पशुमालभेत'' इत्यत्र पशुपदे पुंलिङ्गमविवक्षितम्। कुतः- शब्दार्थविचारेऽनुष्ठानविचारे च तदुपयोगादर्शनात्। अलिङ्गेऽपि वृक्षपदार्थे पुंलिङ्गो वृक्षशब्दः प्रयुज्यते। तथा पुंव्यक्तावपि स्त्रीलिङ्गो मक्षिकाशब्दः प्रयुक्तः। ततो न लिङ्गस्य शब्दार्थत्वेन विवक्षाऽस्ति। अनुष्ठानमपि पुंव्यक्तिस्त्रीव्यक्त्योः समानम्। एकत्वावच्छिन्नपशुत्वे वैषम्याभावात्। तस्मात्- अविवक्षितं लिङ्गम्- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- यथा पशुत्वजातिः, यथा वा- तदेकत्वम्, वृद्धव्यवहारेऽन्वयव्यतिरेकाभ्यामनन्यथासिद्धाभ्यां शब्दार्थः, तथा लिङ्गस्यापि कुतः शब्दार्थता न स्यात्। वृक्षमक्षिकाशब्दयोस्तु न वयमर्थतः साधुतां ब्रूमः, किंत्वभियुक्तप्रयोगमात्रबलेन साधुत्वम्। न चानुष्ठाने साम्यम्, पुंस्पशौ विशेषसद्भावात्। ''वाक्त आप्यायताम्'' इत्यादिभिर्मन्त्रैस्तत्तदवयवानामाप्यायनकाले ''मेढ्रं त आप्यायताम्'' इति मन्त्रेण तदवयवस्याप्यायनश्रवणात्। तस्मात्- एकत्ववत्पुंलिङ्गमपि विवक्षितम्।। 14।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे पश्वेकत्वाधिकरणे सूत्राणि 11-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एवम्- 'अनड्वाहौ युनक्ति' 'वसन्ताय कपिञ्जलानालभते' इत्यत्र द्वित्वबहुत्वयोर्विवक्षितत्वं द्रष्टव्यम्। 12”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.7 सप्तमे- आश्रयिणामदृष्टार्थताधिकरणे सूत्राणि 18-20
आश्रयिष्वविशेषेण भावोऽर्थः प्रतीयेत।। 18।।
चोदनायां त्वनारम्भो विभक्तत्वान्न ह्यनेन विधीयते।। 19।।
स्याद्वा द्रव्यचिकिर्षायां भावोऽर्थे च गुणभूतत्वाश्रयाद्विगुणीभावः।। 20।।
सप्तमाधिकरणमारचयति-

1विषयः

स्विष्टकृत्संस्कृतौ क्षीण उतापूर्वोपयोग्यपि
प्रयोजनैक्यमेकस्मिन्युक्तं कर्मण्यतः क्षयः

3पूर्वपक्षः

मन्त्रेण देवसंस्कारः प्रक्षेपाद्द्रव्यसंस्कृतिः
त्यागादपूर्वमुत्पन्नं प्रधानापूर्वगं च तत्
योऽयं स्विष्टकृद्यागः सोऽयमुपयुक्तहविःसंस्कारः- इत्यविवादम्। तत्र संस्कारस्य दृष्टप्रयोजनत्वेनावश्यंभावे सति तावतैवोपक्षीणः स्विष्टकृद्यागो नापूर्वस्योपकरोति। न ह्येकस्मिन्कर्मणि प्रयोजनद्वयं युक्तम्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- कर्मण एकत्वेऽप्यंशभेदात्प्रयोजनभेदो न विरुध्यते
मन्त्रपाठः, द्रव्यप्रक्षेपः, देवतोद्देशेन त्यागश्च, इति त्रयोंऽशाः
तत्र त्यागेन परमापूर्वोपयुक्तमवान्तरापूर्वमुत्पद्यते
तस्मात्- स्विष्टकृदुभयार्थः
एवम्-अन्त्यप्रयाजपशुपुरोडाशावप्युदहार्यै।
15
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे पशुलिङ्गविवक्षाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.8 अष्टमे प्रयुक्तिविचारप्रतिज्ञाधिकरणे सूत्रम्
अर्थे समवैषम्यतो द्रव्यकर्मणाम्।। 21।।
अष्टमाधिकरणमारचयति-

1विषयः

शेषत्वमुपरिग्रन्थे चिन्तनीयमुतेतरत्
वक्ष्यमाणेष्वधिकरणेषु शेषत्वमेव चिन्ताविषयः।

3पूर्वपक्षः

शेषो भानान्न तस्यात्र प्रयुक्त्याख्यफलेरणात्
यथा- अतीतेष्वधिकरणेषु क्रतुशेषोऽयम्, पुरुषशेषोऽयम्, इति चिन्तितम्, तद्वत्। कुतः- उपरितनग्रन्थेन तत्र तत्र पर्णादीनां शेषत्वविचारस्य भासमानत्वात्- इति चेत्-

4सिद्धान्तः

मैवम्
शेषत्वस्य यत्प्रयुक्तिरूपं फलं तदेव प्राधान्येन विचार्यते
शेषत्वं तु तदुपयोगित्वेनेति न तद्विचारः प्रधानभूतः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- आश्रयिणामदृष्टार्थताधिकरणे सूत्राणि 18-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- कर्मण एकत्वेऽप्यंशभेदात्प्रयोजनभेदो न विरुध्यते मन्त्रपाठः, द्रव्यप्रक्षेपः, देवतोद्देशेन त्यागश्च, इति त्रयोंऽशाः तत्र त्यागेन परमापूर्वोपयुक्तमवान्तरापूर्वमुत्पद्यते तस्मात्- स्विष्टकृदुभयार्थः एवम्-अन्त्यप्रयाजपशुपुरोडाशावप्युदहार्यै। 15”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.9 नवमे- आमिक्षाप्रयुक्तताधिकरणे (वाजिनन्याये) सूत्राणि 22-24
एकनिष्पत्तेः सर्वं समं स्यात्।। 22।।
संसर्गरसनिष्पत्तेरामिक्षा वा प्रधानं स्यात्।। 23।।
मुख्यशब्दाभिसंस्तवाच्च।। 24।।
नवमाधिकरणमारचयति-

1विषयः

आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजकम्

3पूर्वपक्षः

उतामिक्षैव सामर्थ्यं द्वयोस्तुल्यं ततोऽग्रिमः
इदमाम्नायते- ''तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्'' इति। तत्र- पयसि दधिप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते, तथा वाजिनद्रव्यमपि-इति दध्यानयनस्य जनकत्वसामर्थ्यमुभयद्रव्यविषयं तुल्यमेव। तस्मात्- उभयमपि प्रयोजकम्- इति प्राप्ते,-

4सिद्धान्तः

आमिक्षा पय एवात्र तच्छब्दान्मन्त्रतो रसात्
प्रयोजिकैका प्रधान्यादनुनिष्पादि वाजिनम्
ब्रूमः- 'न द्रव्यान्तरमामिक्षा, किं तु पय एव' इति तच्छब्दादिभिरवगम्यते। 'यस्मिन्पयसि दधिप्रक्षेपः, सामिक्षा' इति तच्छब्देन पयः परामृश्यते। आमिक्षायागस्य पुरोनुवाक्यायामेवमाम्नातम्- ''जुषन्तां युज्यं पयः'' इति। पयोरसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने। ततः- प्राधान्येन पयसो घनीभावावस्थां जनयितुं दध्यानीतम्- इत्यामिक्षैव प्रयोजिका। अनुनिष्पाद्येव वाजिनम्, न तु प्रयोजकम्।। 19।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे प्रयुक्तिविचारप्रतिज्ञाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् शेषत्वस्य यत्प्रयुक्तिरूपं फलं तदेव प्राधान्येन विचार्यते शेषत्वं तु तदुपयोगित्वेनेति न तद्विचारः प्रधानभूतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.10 दशमे गवानयनस्य पदकर्माप्रयुक्तताधिकरणे सूत्रम्
पदकर्माप्रयोजकं नयनस्य परार्थत्वात्।। 25।।
दशमाधिकरणमारचयति-

1विषयः

सोमक्रयण्यानयने पदकर्म प्रयोजकम्
न वाद्योऽक्षाञ्जनस्यापि क्रयवत्संनिकर्षतः

3पूर्वपक्षः

तृतीयया क्रयार्था गौस्तद्द्वारानयनस्य च
तादर्थ्यात्तत्प्रयुक्तं तन्न प्रयोजकता पदे
ज्योतिष्टोमे सोमक्रय आम्नायते- ''एकहायन्या क्रीणाति'' इति। सेयमेकहायनी गौर्यदा सोमं क्रेतुमानीयते, तदाऽध्वर्युस्तस्याः पृष्ठतोऽनुगच्छति। तदप्याम्नातम्- ''षट्पदान्यनुनिष्क्रामति'' इति। ततः सप्तमे पदे हिरण्यं निधाय हुत्वा तत्पदगतं रजो गृह्णीयात्। एतदपि श्रूयते ''सप्तमं पदमध्वर्युरञ्जलिना गृह्णाति'' इति। तदेतद्रजः संगृह्य हविर्धानयोः शकटयोरक्षे तेन रजसा संयुक्तमञ्जनं प्रक्षिपेत्। एतदपि श्रुतम्-''यज्ञं वा एतत्संभरन्ति यत्सोमक्रयण्यै पदम्'' इति प्रस्तुत्य ''यर्हि हविर्धाने प्राची प्रवर्तयेयुः, तर्हि तेनाक्षमुपाञ्ज्यात्'' इति। तत्र यथा क्रयः संनिकृष्टः, तथैव पदकर्माप्यक्षाञ्जनं संनिकृष्टम्।
अथोच्येत- दध्यानयनमामिक्षया यथा संयुक्तम्, न तथाऽक्षाञ्जनं सोमक्रयण्यानयनेन संयुक्तम्- इति। तन्न। क्रयेऽपि तदसंयोगस्य तुल्यत्वात्।
अथ- असंयुक्तोऽपि क्रयो गवानयनेन निष्पद्यते। 'तर्ह्यक्षाञ्जनमपि तेन निष्पद्यते' इति समानत्वात्। क्रयवत्पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकम्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- ''एकहायन्या क्रीणाति'' इति तृतीयाश्रुत्या गोः क्रयार्थता गम्यते
गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवानयने प्रयोजकः
न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतम्
तस्मात्- तदप्रयोजकम्।
20
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- आमिक्षाप्रयुक्तताधिकरणे (वाजिनन्याये) सूत्राणि 22-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आमिक्षा पय एवात्र तच्छब्दान्मन्त्रतो रसात् प्रयोजिकैका प्रधान्यादनुनिष्पादि वाजिनम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.11 एकादशे कपालानां तुषोपवापाप्रयुक्तताधिकरणे सूत्रम्
अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात्तदर्थो हि विधीयते।। 26।।
एकादशाधिकरणमारचयति-

1विषयः

श्रपणं तुषवापश्च कपालस्य प्रयोजकौ

3पूर्वपक्षः

उत श्रपणमेवाद्यो वापार्थत्वात्तृतीयया
''कपालेषु श्रपयति'' इति श्रपणं पुरोडाशस्य श्रुतम्। तथा- ''पुरोडाशकपालेन तुषानुपवपति'' इति कपाले तुषधारणं श्रुतम्। ते च तुषाः सकपालाः ''रक्षसां भागोऽसि'' इति मन्त्रेण नैर्ऋत्यां दिश्यवस्थापनीयाः। तत्र श्रपणं यथा कपालसंपादनस्य प्रयोजकम्, तथा तुषवापोऽपि प्रयोजकः। 'एकहायन्या' इति तृतीययैकहायनीनयनस्य यथा क्रयार्थत्वावगमः तथा 'कपालेन' इति तृतीयया कपालस्य तुषवापार्थत्वावगमात्- इति चेत्-
मैवम्। नात्र कपालमात्रस्य तुषोपवापसाधनत्वं श्रुतम्। किं तर्हि यत्कपालं पुरोडाशश्रपणायोपात्तमासादितं च, तस्य कपालस्य साधनत्वम्। एतच्च 'पुरोडाशकपालेन' इति सविशेषणनाम्ना तद्विधानादवगम्यते। तथा सति प्रथमं श्रपणेन कपालं प्रयुज्यने। न च प्रयुक्तस्य पुनस्तुषवापेन प्रयुक्तिः संभवति। तस्मात्- श्रपणेनैव प्रयुक्तं कपालं तुषोपवापेऽपि प्रसङ्गात्सिध्यति। ईदृशमेवाङ्गत्वं तृतीयाश्रुत्या बोध्यते।। 22।। 23।।

4सिद्धान्तः

पुरोडाशकपालेतिनाम्ना स्याच्छ्रपणार्थता
प्रयुक्तस्य प्रयुक्तिर्नो तस्य वापे प्रसञ्जनम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे गवानयनस्य पदकर्माप्रयुक्तताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ''एकहायन्या क्रीणाति'' इति तृतीयाश्रुत्या गोः क्रयार्थता गम्यते गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवानयने प्रयोजकः न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतम् तस्मात्- तदप्रयोजकम्। 20”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.12 द्वादशे शकृल्लोहितयोः पशावप्रयोक्तृताधिकरणे सूत्रम्
पशावनालम्भाल्लोहितशकृतोरकर्मत्वम्।। 27।।
द्वादशाधिकरणमारचयति-

1विषयः

हृदादिः शकृदादिश्च पश्वालम्भप्रयोजकः

3पूर्वपक्षः

हृदादिरेव वाद्योऽस्तु प्रकृतत्वेन साम्यतः
अग्नीषोमीयपशौ श्रुतम् ''हृदयस्याग्रेऽवद्यति, अथ जिह्वायाः, अथ वक्षसः'' इति। तथाऽन्यदपि श्रुतम्- ''शकृत्संप्रविध्यति'' ''लोहितं निरस्यति'' इति। तत्र हृदयादीनां शकृदादीनां च प्रकरणपाठसाम्यात्पशुसाध्यत्वसाम्याच्च हृदयादिवच्छकृदादिकमपि पश्वालम्भस्य प्रयोजकम्- इति चेत्-
मैवम्। पशुयागो हि हविःसाध्यः। हविष्ट्वं चात्तुं योग्यत्वाद्धृदयादीनामेव, नत्वयोग्ययोः शकृल्लोहितयोः। तस्मात्- हृदयादिरेव प्रयोजकः। शकृत्संप्रवेधो लोहितनिरसनं चेत्येतदुभयं शेषप्रतिपत्तिमात्रम्।

4सिद्धान्तः

हविषो यागशेषत्वाद्धृदादेर्हविरात्मनः
प्रयोजकत्वं तस्यैव नेतरस्यातथात्वतः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे कपालानां तुषोपवापाप्रयुक्तताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पुरोडाशकपालेतिनाम्ना स्याच्छ्रपणार्थता प्रयुक्तस्य प्रयुक्तिर्नो तस्य वापे प्रसञ्जनम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.13 त्रयोदशे पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणे सुत्राणि 28-32
एकदेशद्रव्यश्चोत्पत्तौ विद्यमानसंयोगात्।। 28।।
निर्देशात्तस्यान्यदर्थादिति चेत्।। 29।।
न शेषसंनिधानात्।। 30।।
कर्मकार्यात्।। 31।।
लिङ्गदर्शनाच्च।। 32।।
त्रयोदशाधिकरणमारचयति-

1विषयः

प्रयोजकः स्विष्टकृत्किं पुरोडाशोत्तरार्धयोः
यद्वा प्रयुक्तोपजीवी स्यादाद्यः स्वस्य सिद्धये

3पूर्वपक्षः

उत्तरार्धेतिशब्दस्य प्रकृताकाङ्क्षणे सति
अग्न्याद्यर्थं पुरोडाशमुपजीव्यैष वर्तताम्
दर्शपूर्णमासयोः श्रूयते ''उत्तरार्धात्स्विष्टकृते समवद्यति'' इति। सोऽयं स्विष्टकृद्यागः कस्यचिन्नूतनस्य तदुत्तरार्धस्य च प्रयोजकः, तदुभयाभावे स्वसिद्ध्यभावात्- इति चेत्-

4सिद्धान्तः

मैवम्
उत्तरशब्दोऽर्धशब्दश्च सर्वनामत्वाद्भागवाचित्वाच्च प्रकृतं कंचिद्भागिनमाकाङ्क्षतः
अग्न्यादिदेवतार्थः पुरोडाशः प्रकृतो भागवांश्च
तस्मात्- तमेवोपजीव्य स्विष्टकृद्यागः प्रवर्तते
न त्वन्यस्य प्रयोजकः।
26

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे शकृल्लोहितयोः पशावप्रयोक्तृताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “हविषो यागशेषत्वाद्धृदादेर्हविरात्मनः प्रयोजकत्वं तस्यैव नेतरस्यातथात्वतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.14 चतुर्दशे- अभिघारणे शेषधारणतत्पात्रयोरननुष्ठानाधिकरणे सूत्राणि 33-39
अभिघारणे विप्रकर्षादनुयाजवत्पात्रभेदः स्यात्।। 33।।
न वाऽपात्रत्वादपात्रत्वं त्वेकदेशत्वात्।। 34।।
हेतुत्वाच्च सहप्रयोगस्य।। 35।।
अभावदर्शनाच्च।। 36।।
सति सव्यवचनम्।। 37।।
न तस्येति चेत्।। 38।।
स्वात्तस्य मुख्यात्।। 39।।
चतुर्दशाधिकरणमारचयति-

1विषयः

अभिघार्यं प्रयाजानां शेषेण हविरत्र किम्

3पूर्वपक्षः

शेषधारणतत्पात्रे कार्ये नो वाऽभिघारणम्
प्रकृतौ श्रुतम्- ''प्रयाजशेषेण हवींष्यभिधारयति'' इति। तदेतद्विकृतावतिदिष्टम्। विकृतयश्च वाजपेयगताः पशवः। ते च द्विविधाः- क्रतुपशवः प्राजापत्यपशवश्चेति। ''आग्नेयं पशुमालभते'' इत्यादिना विहिताः क्रतुपशवः। इतरे तु ''सप्तदश प्राजापत्यान्पशूनालभते'' इति विहिताः। एते चोभयविधाः पशवः प्रातःसवने सहैवोपक्रम्यन्ते। ततः सर्वेषामर्थे सकृदेव प्रयाजा अनुष्ठीयन्ते। तत्र क्रतुपशूनां प्रातःसवन एवालब्धव्यत्वात्तदीयहविषां प्रयाजशेषेणाभिधारणं निर्विघ्नमेव सिध्यति। प्राजापत्यपशूनां पर्यग्निकरणपर्यन्तमेव तदानीमनुष्ठानम्। आलम्भस्तु माध्यंदिने सवने, तत्कालविशेषस्य ''ब्रह्मसाम्न्यालभते'' इति विधानात्। तेषां च प्राजापत्यादीनां हविषामभिधारणार्थं प्रातःकालीनः प्रयाजशेषो धारयितव्यः। न चात्र जुह्वां तद्धारणं संभवति। क्रतुपश्वनुष्ठाने जुह्वा व्यापृतत्वात्। अतः पात्रान्तरं संपाद्य तस्मिन्नयं शेषो धारयितव्यः। अन्यथा प्राजापत्यहविषां प्रयाजशेषेणाभिघारणासिद्धिः। तस्मात्- शेषधारणतत्पात्रे संपादनीये- इति प्राप्ते-

4सिद्धान्तः

नान्यथा तेन ते कार्ये न कार्ये प्रतिपत्तितः
प्राजापत्यवपायाश्च न कोऽप्यर्थोऽभिधारणात्
ब्रूमः- ते उभे न कर्तव्ये। कुतः- अभिघारणस्य शेषप्रतिपत्तिरूपत्वेन हविःसंस्कारकत्वाभावत्। न हि दृष्टे प्रतिपादने सत्यदृष्टार्थः संस्कारो युक्तः। दृष्टं च जुह्वा रिक्तीकरणम्। अन्यथा प्रयाजशेषोपेतायां जुह्वामाज्यभागार्थतया गृह्यमाणं संकीर्येत। ततो रिक्तीकरणरूपपप्रतिपत्त्यर्थमेव प्रकृतौ शेषेणाभिधारणम्। अस्तु वा तत्र हविःसंस्कारोऽपि। तथाऽपि प्राजापत्यवपायामभिधारणं व्यर्थम् रूक्षत्वनिवारणाय ह्यभिघार्यते। न च प्राजापत्यवपाया रूक्षताऽस्ति। ब्रह्मसाम्नैव तद्रूक्षताया निवारितत्वात्। अत एव श्रूयते ''शम्या वा एतर्हि वपा यर्ह्यनभिघृता। ब्रह्म वै ब्रह्मसाम यद्ब्रह्मसाम्न्यालभते। तेनाशम्यास्तेनाभिघृताः'' इति। शम्या रूक्षा इत्यर्थः। तस्मात्- शेषधारणतत्प्रात्रे न कर्तव्ये।। 28।। 29।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणे सुत्राणि 28-32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् उत्तरशब्दोऽर्धशब्दश्च सर्वनामत्वाद्भागवाचित्वाच्च प्रकृतं कंचिद्भागिनमाकाङ्क्षतः अग्न्यादिदेवतार्थः पुरोडाशः प्रकृतो भागवांश्च तस्मात्- तमेवोपजीव्य स्विष्टकृद्यागः प्रवर्तते न त्वन्यस्य प्रयोजकः। 26”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.15 पञ्चदशे समानयनस्याज्यधर्मप्रयोजकताधिकरणे सूत्रे 40-41
समानयनं तु मुख्यं स्यात्, लिङ्गदर्शनात्।। 40।।
वचने हि हेत्वसामर्थ्ये।। 41।।
पञ्चदशाधिकरणमारचयति-

1विषयः

चतुर्थस्य प्रयाजस्य होमायौपभृतं घृतम्
जुह्वामानयतीत्यौपभृतं नैषा प्रयोजयेत्

3पूर्वपक्षः

प्रयोजयेदुतानीतिः प्रयाजाद्यखिलार्थता
श्रुतौपभृत आज्येऽतो जौहवेन विकल्पनात्
दर्शपूर्णमासयोः श्रूयते ''अतिहायेडो बर्हिः प्रतिसमानयति जुह्वामौपभृतम्'' इति। अस्यायमर्थः- 'पञ्चानां प्रयाजानां मध्ये तृतीयः प्रयाज इट् शब्देन बहुवचनान्तेनाभिधीयते। तं तृतीयं प्रयाजमतिक्रम्य बर्हिर्नामकं चतुर्थं प्रयाजं होतुमुपभृत्संज्ञकायां स्रुचि स्थितं घृतं जुह्वामानेतव्यम्' इति। तदेतदानयनमुपभृत्याज्यग्रहणस्य न प्रयोजकम्। तथा हि- जुहूपभृद्ध्रुवासु तिसृषु स्रुक्ष्वाज्यग्रहणप्रकारस्तद्विनियोगश्चैवमाम्नायते ''चतुर्जुह्वां गृह्णाति, अष्टावुपभृति,'' ''चतुघ्रुवायां,'' ''यज्जुह्वां गृह्णाति, प्रयाजेभ्यस्तत्'' ''यदुपभृति प्रयाजानुयाजेभ्यस्तत्'' ''सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्'' इति। तत्र- जौहवं केवलप्रयाजार्थम्। औपभृतं तु प्रयाजानुयाजार्थमिति प्रयाजेषु जौहवमौपभृतं च विकल्पते। तथा सति यदा जौहवेन प्रयाजा इज्यन्ते तदानीमौपभृतस्यानयनमेव नास्ति, कुत आनयनस्य प्रयोजकत्वम्। यदा त्वौपभृतेन प्रयाजहोमः, तदानीमौपभृतस्यार्धं पञ्चप्रयाजार्थम्, इतरदनुयाजार्थम्। तयोः प्रयाजसाधनमर्धं प्रथमप्रयाजकाल एव जुह्वामानीतमिति न तस्य चतुर्थप्रयाजं प्रति समानयनं विधीयते। यत्त्वनुयाजार्थमितरदर्धमुपभृत्यवशिष्टम्, तन्मध्ये किंचिच्चतुर्थप्रयाजं प्रति समानेतव्यम्। तत्त्वनुयाजैरेव प्रयुक्तमिति न तस्यानयनं प्रयोजकम्- इति प्राप्ते-

4सिद्धान्तः

न प्रयोजकता मैवं नियतार्थं तु जौहवम्
अतिहायेड इत्युक्ते चतुर्थे सा प्रयोजयेत्
ब्रूमः- 'यज्जौहवं तत्प्रयाजत्रितयार्थम्, यत्त्वौपभृतं तदवशिष्टप्रयाजद्वयार्थमनुयाजार्थं च'- इत्येवं वाक्यद्वयस्य व्यवस्थायां संभवन्त्यामष्टदोषग्रस्तो विकल्पो नाश्रयितुं शक्यः। यदा जौहवस्वीकारः तदानीम् औपभृतवाक्यस्य प्राप्तं प्रामाण्यं परित्यज्येत, अप्राप्तमप्रामाण्यं स्वीक्रियेत, पुनरपि कदाचिदौपभृतस्वीकारे त्यक्तं प्रामाण्यं स्वीक्रियेत, स्वीकृतमप्रामाण्यं परित्यज्येत, इत्यौपभृतवाक्ये चत्वारो दोषः। जौहववाक्येऽप्येवं चत्वारः, इत्यष्टौ दोषाः। यथोक्तव्यवस्था च 'अतिहायेड' इतिवाक्यादध्यवसीयते। तथा सत्यौपभृतस्यानुयाजा यथा प्रयोजकाः, तथैव चतुर्थपञ्चमप्रयाजनिष्पादकमानयनमपि प्रयोजकमेव।। 30।। 31।। 32।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- अभिघारणे शेषधारणतत्पात्रयोरननुष्ठानाधिकरणे सूत्राणि 33-39”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नान्यथा तेन ते कार्ये न कार्ये प्रतिपत्तितः प्राजापत्यवपायाश्च न कोऽप्यर्थोऽभिधारणात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.16 षोडशे- औपभृतजौहवयोः क्रमेणोभयानुभयार्थताधिकरणे सूत्राणि 42-45
तत्रोत्पत्तिरविभक्ता स्यात्।। 42।।
तत्रजौहवमनुयाजप्रतिषेधार्थम्।। 43।।
औपभृतं तथेति चेत्।। 44।।
स्याज्जुहूप्रतिषेधान्नित्यानुवादः।। 45।।
षोडशाधिकरणमारचयति-

1विषयः

जुहूपभृद्ध्रुवास्वाज्यं सर्वार्थं वा व्यवस्थितिः
सर्वार्थमविशेषात्स्यात्प्रयाजार्थं हि जौहवम्

3पूर्वपक्षः

प्रयाजानुयाजहेतुः स्यादौपभृतमाज्यकम्
ध्रौवमन्यार्थमित्येषा व्यवस्था वचनैर्मता
''चतुर्जुह्वां गृह्णाति'' इत्यादिषु ग्रहणवाक्येषु 'एतदर्थम्' इति विशेषनियामकस्याश्रवणात्पात्रत्रयगतमाज्यं सर्वार्थम्- इति चेत् ।

4सिद्धान्तः

मैवम्
''यज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्''- इत्यादिभिर्वाक्यैर्व्यवस्थावगमात्।
33

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे समानयनस्याज्यधर्मप्रयोजकताधिकरणे सूत्रे 40-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न प्रयोजकता मैवं नियतार्थं तु जौहवम् अतिहायेड इत्युक्ते चतुर्थे सा प्रयोजयेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.17 सप्तदशे- उपभृति द्विचतुर्गृहीताचरणाधिकरणे सूत्राणि 46-48
तदष्टसंख्यं श्रवणात्।। 46।।
अनुग्रहाच्च जौहवस्य।। 47।।
द्वयोस्तु हेतुसामर्थ्यं श्रवणं च समानयने।। 48।।
सप्तदशाधिकरणमारचयति-

1विषयः

अष्टावुपभृतीत्यत्र किमष्टैकग्रहे विधिः
चतुर्द्वयग्रहे वाद्यः स्यादष्टश्रुतिमुख्यतः

3पूर्वपक्षः

चतुर्गृहीतं होमाङ्गं फलवत्त्वान्न बाध्यते
चतुर्द्वित्वं लक्ष्यतेऽतः सहानीत्यर्थमष्टता
ग्रहणवाक्ये ''चतुर्जुह्वां गृह्णाति'' इत्यत्र यथा चतुःसंख्याविशिष्टमेकं हविर्ग्रहणं विहितम्, तथैव ''अष्टावुपभृति'' इत्यत्राप्यष्टसंख्याविशिष्टमेकं हविग्रहणं विधातव्यम्। न तु चतुर्गृहीतद्वयम्। तथा सत्यष्टश्रुतेर्मुख्यत्वावगमात्। अष्टसंख्यावयवभूतयोर्द्वयोश्चतुःसंख्ययोर्विधाने सत्यष्टशब्दस्यावयवलक्षणा प्रसज्येत- इति प्राप्ते-

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य प्रथमः पादः
ब्रूमः- प्रसज्यतां नाम लक्षणा। मुख्यार्थस्वीकारे होमवाक्यविरोधापत्तेः। ''चतुर्गृहीतं जुह्रोति'' इत्यनारभ्य श्रुतं वाक्यं होममात्रोद्देशेन चतुर्गृहीतं विदधाति। यद्यप्येतत्सर्वहोमविषयतया सामान्यरूपम्, औपभृतं तु प्रयाजानुयाजविषयतया विशेषरूपम्। तथाऽपि होमस्य फलवत्त्वेन प्राधान्यात्, ग्रहणस्य होमार्थत्वेनोपसर्जनत्वात्, प्रधानानुसारेण चतुर्गृहीतमेव युक्तम्। न तूपसर्जनानुसारेणाष्टगृहीतम्। तस्मात्- उपभृति चतुर्गृहीतद्वयं विधीयते। तत्रैकं चतुर्गृहीतं हविश्चतुर्थपञ्चमप्रयाजार्थम्। अपरं त्वनुयाजार्थम्।
नन्वेवं तर्हि चतुर्गृहीतस्यैव हविष्ट्वात् 'चतुरुपभृति' इत्येव विधातव्यम्, न तु 'अष्टावुपभृति' इति विधिर्युक्तः- इति चेत्- मैवम्। तथा सत्यनुयाजार्थं द्वितीयं चतुर्गृहीतं न सिध्येत्। अथ तदपि वाक्यान्तरेण विधीयते, तदानीमुपभृतः प्रथमेन चतुर्गृहीतेनावरुद्धत्वाद्द्वितीयस्मै पात्रान्तरमन्विष्येत। यदि 'उपभृति' इत्येव द्वितीयमपि चतुर्गृहीतं विधीयते, तदा चतुर्गृहीतद्वयस्य पृथगेवानुष्ठानादुपभृत्येकप्रयत्नेनानयनं न सिध्येत्। अत उभयस्य समीपभूम्यानयनार्थम् 'अष्टावुपभृति' इत्युच्यते। तस्मात्साहित्यार्थमष्टशब्दप्रयोगेऽपि हविष्ट्वसिद्धये द्वे चतुर्गृहीते अत्र विधीयेते।। 35।। 36।।
अत्र पादे- अधिकरणानि17, सूत्राणि48।
आदितः- अधिकरणानि 263, सूत्राणि705।
चतुर्थाध्यायस्य द्वितीयः पादः
अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- औपभृतजौहवयोः क्रमेणोभयानुभयार्थताधिकरणे सूत्राणि 42-45”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''यज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्''- इत्यादिभिर्वाक्यैर्व्यवस्थावगमात्। 33”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 3, Pāda 8 Contents Adhyāya 4, Pāda 2 →