SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 3, Pāda 8

शेषत्वम्

याजमानानि

22adhikaraṇas
43sūtras
3.8.1 द्वितीये वरदानस्याध्वर्युकर्मताधिकरणे सूत्रम्
वचनादितरेषां स्यात्।। 2।।
द्वितीयाधिकरणमारचयति-

1विषयः

इष्टकावरदानं किं स्वामिनः स्यादुतर्त्विजः

3पूर्वपक्षः

स्वामिनः पूर्ववन्मैवमध्वर्योर्वचनादयम्

4सिद्धान्तः

''य एतामिष्टकामुपदध्यात्, स त्रीन्वरान्दद्यात्'' इत्युपधातुरध्वर्योर्गोत्रयदानं वाचनिकम्
नह्यस्ति वचनस्यातिभारः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे क्रयस्य स्वामिकर्मताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ऋत्विजां परिक्रयणोत्तरकालीनानां तत्कर्तृत्वासंभवेन यजमानस्यैव तत्कर्तृत्वात्। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.2 तृतीये वपनादिसंस्काराणां याजमानताधिकरणे सूत्राणि 3- 8
संस्कारास्तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन्।। 3।।
याजमानास्तु तत्प्रधानत्वात्कर्मवत्।। 4।।
व्यपदेशाच्च।। 5।।
गुणत्वेन तस्य निर्देशः।। 6।।
चोदनां प्रति भावाच्च।। 7।।
अतुल्यत्वादसमानविधानाः स्युः।। 8।।
तृतीयाधिकरणमारचयति-

1विषयः

संस्कारा वपनाद्याः किमध्वर्योः स्वामिनोऽथवा

3पूर्वपक्षः

अध्वर्योस्तत्र शक्तत्वात्तद्वेदोक्तेश्च तस्य ते
''आप उन्दन्तु जीवसे'' इत्याद्याः संस्कारमन्त्राः। तद्विधयश्चाध्वर्युवेदे समाम्नाताः- ''केशश्मश्रु वपते', ''नखानि निकृन्तते'' इति। शक्तश्चाध्वर्युर्वपनादौ। तस्मात्तस्याध्वर्योस्ते वपनादिसंस्काराः- इति चेत्-
मैवम्। वपनादिसंस्कारा यजमानगतमालिन्यमपनीय यागयोग्यतामुत्पादयितुं क्रियन्ते। तथा च ब्राह्मणम्- ''केशश्मश्रु वपते। मृता वा एषा त्वगमेध्या यत्केशश्मश्रु। मुतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैति'' इति। नह्यध्वर्युवपनेन यजमानगता मृता त्वगपैति। योग्यस्य हि कर्माधिकारे सति पश्चात्प्रयासरूपेषु व्यापारेषु स्वयमशक्तः सन्कर्मकरानृत्विजः परिक्रीणाति। लोकेऽपि रोगिणः स्वामिन औषधाद्यानयन एव भृत्यो जीवितदानेन परिक्रीयते। न तु तदौषधं भृत्यः सेवते। तस्मात्- इतरक्रियर्त्विजाम्, संस्कारस्तु यजमानस्य। क्वचित्तु वचनादृत्विजामपि संस्कारोऽस्तु।। 4।। 5।।

4सिद्धान्तः

संस्कारैर्योग्यतां प्राप्य स्वकार्यं कर्तुमृत्विजः
क्रीणात्यतः क्रिया तेषां संस्क्रिया यजमानगा

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये वरदानस्याध्वर्युकर्मताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “''य एतामिष्टकामुपदध्यात्, स त्रीन्वरान्दद्यात्'' इत्युपधातुरध्वर्योर्गोत्रयदानं वाचनिकम् नह्यस्ति वचनस्यातिभारः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.3 चतुर्थे तपसो याजमानताधिकरणे सूत्राणि 9-11
तपश्च फलसिद्धित्वाल्लोकवत्।। 9।।
वाक्यशेषश्च तद्वत्।। 10।।
वचनादितरेषां स्यात्।। 11।।
चतुर्थाधिकरणमारचयति-

1विषयः

नाश्नाति द्व्यहमित्येतत्तपः कस्य तयोर्द्वयोः

3पूर्वपक्षः

दुःखत्वाभोक्तृसंस्कारादध्वर्योर्युज्यते तपः
ज्योतिष्ठोमे- ''द्व्यहं नाश्नाति'' ''त्र्यहं नाश्नाति'' इत्यादिनोक्तं तपोऽघ्वर्योर्युक्तम्। तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात्। दुःखत्वादेव फलभोक्तृसंस्कारत्वाभावाद्यजमानस्य न युक्तम्- इति चेत्-
मैवम्। भाविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः स्वामिसंस्कारत्वसंभवात्। अस्मिन्नर्थे वाक्यशेषगतं लिङ्गं कल्पसूत्रकारेणैवमुदाहृतम्- ''यदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवति। यदाऽस्मिन्नन्तर्न किंचन भवति, अथ मेध्यो भवति। यदाऽस्य कृष्णं चक्षुषोर्नश्यति, अथ मेध्यो भवति। यदाऽस्य त्वचाऽस्थि संधीयते, अथ मेध्यो भवति। पीवा दीक्षते, कृशो यजते। यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते'' इति। न हि दुःखरूपं तपो विना दुःखप्रदं पापं नश्यति। यथा पाटनमन्तरेण विषव्रणानां नोपशान्तिः, तद्वत्। तस्मात्- वपनादिसंस्कारवत्तपोऽपि यजमानस्यैव।। 5।। 6।।

4सिद्धान्तः

फलान्तरायपापस्य नाशकत्वेन संस्कृतिः
लिङ्गात्तपः स्वामिगामि संस्कारान्तरवत्ततः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये वपनादिसंस्काराणां याजमानताधिकरणे सूत्राणि 3- 8”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “संस्कारैर्योग्यतां प्राप्य स्वकार्यं कर्तुमृत्विजः क्रीणात्यतः क्रिया तेषां संस्क्रिया यजमानगा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.4 पञ्चमे लोहितोष्णीषतादीनां सर्वर्त्विर्ग्धमताधिकरणे सूत्रम्
गुणत्वाच्च वेदेन न व्यवस्था स्यात्।। 12।।
पञ्चमाधिकरणमारचयति-

1विषयः

हिरण्यमालिताद्यास्तु संस्कारा वचनान्मताः
ऋत्विजां ते यथाख्यानं कर्तव्या निखिलैरुत

3पूर्वपक्षः

आद्य आख्यावशान्मैवं सर्वसंनिधिपाठतः
प्रतिमुख्यं गुणावृत्तेः कर्तव्या निखिलैरपि
वाजपेये श्रूयते ''हिरण्यमालिन ऋत्विजः प्रचरन्ति'' इति। श्येने श्रूयते ''लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति'' इति। यद्यपि हिरण्यमालित्वादीनां संस्कारत्वाद्यजमानविषयत्वं पूर्वन्यायेन प्राप्तम्, तथाऽपि वचनादयमृत्विक्संस्कारः। तत्र हिरण्यमालित्वं यजुर्वेदोक्तत्वादध्वर्यूणामेव, लोहितोष्णीषादिकं सामवेदोक्तत्वादुद्गातॄणामेव इति समाख्यावशादभ्युपेयम्- इति चेत्-
मैवम्। ''हिरण्यमालिन ऋत्विजः प्रचरन्ति'' इति सर्वेषामृत्विजां संनिधौ पठ्यमानो हिरण्यमालित्वसंस्कारः संनिधिना समाख्यां बाधित्वा सर्वैरप्यृत्विग्भिः संबध्यते।

4सिद्धान्तः

किंच- संस्कार्यत्वादृत्विजां प्राधान्ये सति प्रतिप्रधानं गुणावृत्त्या सर्वेषामप्यृत्विजां हिरण्यमालित्वादिसंस्कारोऽभ्युपतेव्यः।
7

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे तपसो याजमानताधिकरणे सूत्राणि 9-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “फलान्तरायपापस्य नाशकत्वेन संस्कृतिः लिङ्गात्तपः स्वामिगामि संस्कारान्तरवत्ततः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.5 षष्ठे वृष्टिकामनाया याजमानताधिकरणे सूत्रे- 13-14
तथा कामोऽर्थसंयोगात्।। 13।।
व्यपदेशादितरेषां स्यात्।। 14।।
षष्ठाधिकरणमारचयति-

1विषयः

वृष्टिकामी सदो नीचैर्मिनुयादिति कामना

3पूर्वपक्षः

अध्वर्योः स्वामिनो वाद्यो वाक्यान्मातुस्तदुच्यते
ज्योतिष्ठोमे श्रूयते ''यदि कामयेत, वर्षुकः पर्जन्यः स्यात्- इति, नीचैः सदो मिनुयात्'' इति। 'यथा पुरस्तात्पश्चाच्चावस्थितौ हविर्धानप्राचीनवंशावुच्चैः, तथा सदो नोच्चं, किंतु नीचैः कार्यम्' इत्यर्थः। अत्र वृष्टिकामनाऽध्वर्योर्युक्ता, 'यः कामयेत्, स मिनुयात्' इति वाक्येन कामयितृमात्रोरेकत्वावगमात्। मातृत्वं चाध्वर्योरित्यविवादम्। तस्मात्- स एव कामयिता- इति चेत्-
मैवम्। 'मिनुयात्' इति परस्मैपदेनाध्वर्युव्यापारफलस्य परगामिता प्रतीयते। ततो वृष्टिलक्षणफलस्य यजमानगामित्वात्परस्मैपदश्रुत्या वाक्यं बाधित्वा कामस्य यजमानकर्तृकत्वं द्रष्टव्यम्। 'यजमानकामितां वृष्टिं पर्जन्यः संपादयतु' इत्येव योऽध्वर्युः कामयते, स नीचैर्मिनुयात्, इति वाक्यं व्याख्येयम्। 'एवंविदुद्रातात्मने वा यजमानाय वा यं कामं कामयते, तमागायति' इति ऋत्विजोऽपि कामः- इति चेत्- तर्हि तस्मिन्नुद्गीथोपासने वचनादृत्विजोऽपि फलमस्तु।। 9।। 10।।

4सिद्धान्तः

परस्मैपदतोऽध्वर्युव्यापारस्य परार्थता
प्रतीताऽतो वाक्यबाधे तपोवत्स्वामिनोऽस्तु तत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे लोहितोष्णीषतादीनां सर्वर्त्विर्ग्धमताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “किंच- संस्कार्यत्वादृत्विजां प्राधान्ये सति प्रतिप्रधानं गुणावृत्त्या सर्वेषामप्यृत्विजां हिरण्यमालित्वादिसंस्कारोऽभ्युपतेव्यः। 7”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.6 सप्तमे, आयुर्दा इत्यादिमन्त्राणां याजमानताधिकरणे- सूत्रे 15-16
मन्त्राश्चाकर्मकरणास्तद्वत्।। 15।।
विप्रयोगे च दर्शनात्।। 16।।
सप्तमाधिकरणमारचयति-

1विषयः

आयुर्दा इति मन्त्रोक्तिः कस्याध्वर्योः समाख्यया

2संशयः

तस्यैतस्य मन्त्रस्य पाठोऽध्वर्योर्यजमानस्य वा-इत्ययं संशयः 'कस्य' इत्यनेन पदेन सूचितः ।

3पूर्वपक्षः

तद्बाधे लिङ्गतः स्वामिगामिता कामवन्मता
इदमाम्नायते- ''आयुर्दा अग्नेऽस्यायुर्मे देहि'' इति। तस्यैतस्य मन्त्रस्य पाठोऽध्वर्योर्यजमानस्य वा-इत्ययं संशयः 'कस्य' इत्यनेन पदेन सूचितः ।

4सिद्धान्तः

अस्मिन्मन्त्रे 'आयुर्मे देहि' इति फलस्य स्वात्मसंबन्धः प्रतीयते
स च यजमानस्य युक्तः, नाध्वर्योः
तस्मात्- कामवन्मन्त्रोऽपि याजमानः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे वृष्टिकामनाया याजमानताधिकरणे सूत्रे- 13-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “परस्मैपदतोऽध्वर्युव्यापारस्य परार्थता प्रतीताऽतो वाक्यबाधे तपोवत्स्वामिनोऽस्तु तत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.7 अष्टमे द्व्याम्नातस्योभयप्रयोज्यताधिकरणे सूत्रम्
द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात्।। 17।।
अष्ठमाधिकरणमारचयति-

1विषयः

वाजस्य मेत्यमुं ब्रूयादेको द्वौ वा कृतार्थतः

3पूर्वपक्षः

एकः काण्डद्वये पाठादध्वर्युस्वामिनावुभौ
दर्शपूर्णमासयोः- ''वाजस्य मा प्रसवेन'' इत्ययं मन्त्रोऽध्वर्युकाण्डे यजमानकाण्डे चाम्नातः। तत्रैकेन पठिते सति मन्त्रस्य चरितार्थत्वादितरस्तं न पठेत्- इति चेत् ।

4सिद्धान्तः

मैवम्
काण्डान्तरपाठवैयर्य्थप्रसङ्गात्
तस्मादुभाभ्यां पठनीयः
तयोः पठतोराशयभेदोऽस्ति
'अनेन मन्त्रेण प्रकाशितमर्थमनुष्ठास्यामि' इत्यध्वर्युर्मनुते
'अत्र न प्रमदिष्यामि' इति यजमानः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे, आयुर्दा इत्यादिमन्त्राणां याजमानताधिकरणे- सूत्रे 15-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अस्मिन्मन्त्रे 'आयुर्मे देहि' इति फलस्य स्वात्मसंबन्धः प्रतीयते स च यजमानस्य युक्तः, नाध्वर्योः तस्मात्- कामवन्मन्त्रोऽपि याजमानः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.8 नवमे- अभिज्ञस्यैव वाचयितव्यताधिकरणे सूत्रम्
ज्ञाते च वाचनं नह्यविद्वान्विहितोऽस्ति।। 18।।
नवमाधिकरणमारचयति-

1विषयः

वाचयेत्स्वामिनं ज्ञाज्ञौ वाचनीयौ ज्ञ एव वा

3पूर्वपक्षः

अविशेषादुभौ ज्ञस्य स्वामित्वाद्वाचयेदमुम्
वाजपेये श्रूयते ''क्लृप्तीर्यजमानं वाचयति'' इति। ''आर्युयज्ञेन कल्पताम्'' इत्यादयो मन्त्राः क्लृप्तयः। तत्र- मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत्। 'विद्वासं वाचयेत्' इत्येवं विशेषस्याश्रवणात्। अनभिज्ञं तदैव शिक्षयित्वाऽपि वाचयितुं शक्यत्वात्- इति चेत्-

4सिद्धान्तः

मैवम्
अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात्
तस्मात्- अभिज्ञमेव वाचयेत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे द्व्याम्नातस्योभयप्रयोज्यताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् काण्डान्तरपाठवैयर्य्थप्रसङ्गात् तस्मादुभाभ्यां पठनीयः तयोः पठतोराशयभेदोऽस्ति 'अनेन मन्त्रेण प्रकाशितमर्थमनुष्ठास्यामि' इत्यध्वर्युर्मनुते 'अत्र न प्रमदिष्यामि' इति यजमानः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.9 दशमे द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणे सूत्रे 19-20
याजमाने समाख्यानात्कर्माणि याजमानं स्युः।। 19।।
अध्वर्युर्वा तदर्थो हि न्यायपूर्वं समाख्यानम्।। 20।।
दशमाधिकरणमारचयति-

1विषयः

वत्सं चोपसृजेत्तद्वदुखां चाधिश्रयेदिति

3पूर्वपक्षः

द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा
दर्शपूर्णमासयोर्याजमाने काण्डे श्रूयते ''द्वादश द्वंद्वानि दर्शपूर्णमासयोस्तानि संपाद्यानि- इत्याहुः- वत्सं चोपावसृजति, उखां चाधिश्रयति। अव च हन्ति, दृषदौ च समाहन्ति'' इत्यादि।
तत्र पलाशशाखया वत्सापाकरणमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनमपरं कर्म, तदेतदुभयमेकं द्वंद्वम्। तथा व्रीहीणामवघातः, दृषदुपलयोः पाषाणान्तरेण समाघातः, इत्येतदुभयं द्वितीयं द्वंद्वम्। एवं द्वादश कर्मद्वंद्वान्यनुष्ठेयान्याम्नातानि। तेषां याजमाने काण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्ठेयानि- इति प्राप्ते-

4सिद्धान्तः

आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात्
महाकाण्डोक्तितोऽन्त्योऽस्तु द्वंद्वतैवात्र कीर्त्यते
ब्रूमः- यजमानस्य यानि कार्याणि, तान्यनुष्ठातुमेव परिक्रीता ऋत्विजः। किंच- यजुर्वेदे याजमानमिदमवान्तरकाण्डम्, महाकाण्डं त्वाध्वर्यवमेव। तत्रैवैते वत्सापाकरणादयो धर्मा आम्नाताः। तस्मादर्ध्वयुरेव ताननुतिष्ठेत्। याजमाने तु काण्डे न तेषामनुष्ठानप्रकारश्चोदितः, किंतु परिगणनया द्वंद्वतासंपादनमात्रमाम्नातम्। तेन यजमानस्तामानुपूर्वीं मनसि निधायाध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति। तस्मादध्वर्योरेवानुष्ठानम्।। 14।। 15।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- अभिज्ञस्यैव वाचयितव्यताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् तस्मात्- अभिज्ञमेव वाचयेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.10 एकादशे होतुराध्वर्यवकरणानुष्ठातृत्वाधिकरणे सूत्रम्
विप्रतिषेधे करणः समवायविशेषादितरमन्यस्तेषां यतो विशेषः स्यात्।। 21।।
एकादशाधिकरणमारचयति-

1विषयः

यो होताऽध्वर्युरेष स्यादित्याध्वर्यवमाचरन्
हौत्रं कुर्यान्न वा त्यागहेत्वभावात्करोति तत्

3पूर्वपक्षः

होतैको युगपत्कर्मद्वयं कर्तुं नहि प्रभुः
त्यजेच्चोदकतः प्राप्तं हौत्रं वाचनिकार्थकृत्
अग्नीषोमीयवशौ ''परिवीरसि'' इत्यनेन करणमन्त्रेणाध्वर्युर्यूपस्य रशनया परिव्याणं करोति। तदानीं क्रियमाणं तत्परिव्याणं होता ''युवा सुवासाः'' इत्यनेन मन्त्रेणानुवदति। तदेतदुभयं चोदकपरम्परया कुण्डपायिनामयने प्राप्तम्। तत्राध्वर्योर्होतुश्च समास आम्नातः- 'यो होता सोऽध्वर्युः' इति। होतारमनूद्याध्वर्युत्वविधानादध्वर्युकार्यं होत्राऽनुष्ठेयम्। ततः ''परिवीरसि'' इत्यनेन करणमन्त्रेण होता यूपपरिव्याणं कुर्वीत। तदानीं स्वस्य चोदकतः प्राप्तं हौत्रमपि होता न त्यजेत्। नहि त्यागहेतुं कंचिन्निषेधं पश्यामः। तस्मात्क्रियमाणं तत्परिव्याणं ''युवा सुवासाः'' इत्यनेन मन्त्रेण होताऽनुवदेत्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- द्वयोरध्वर्युहोत्रोरुचितं कर्मद्वयमेको होता युगपत्कर्तुं न शक्नोति
ततोऽन्यतरस्यावश्यंभाविनि त्यागे चोदकतः प्राप्तं हौत्रमेव त्यजेत्
आध्वर्यवं तु 'यो होता सोऽध्वर्युः' इत्यनेन प्रापितत्वादनुष्ठेयम्।
16
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणे सूत्रे 19-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात् महाकाण्डोक्तितोऽन्त्योऽस्तु द्वंद्वतैवात्र कीर्त्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.11 द्वादशे प्रोक्षण्यासादनादीनामनाध्वर्यवताधिकरणे सूत्रम्
प्रैषेषु च पराधिकारात्।। 22।।
द्वादशाधिकरणमारचयति-

1विषयः

प्रोक्षण्यासादनं कुर्यादध्वर्युरितरोऽथवा

3पूर्वपक्षः

आख्ययाद्यः सादयेति प्रेषितोऽन्योऽस्तु लिङ्गतः
दर्शपूर्णमासयोः- प्रोक्षणीनां केनचित्पात्रेण वेद्यामासादनं श्रुतम्। तदेतद्यजुर्वेदोक्तत्वादाध्वर्यवम्- इति चेत्-

4सिद्धान्तः

मैवम्
प्रैषमन्त्रविरोधप्रसङ्गात्
''प्रोक्षणीरासादय
इध्माबर्हिरुपसादय
अग्नीदग्नीन्विहर
वर्हिः स्तृणीहि'' इत्यादिष्वाध्वर्यवेषु प्रैषमन्त्रेषु श्रूयमाणमाग्नीध्रसंबोधनं मध्यमपुरुषश्चान्येन तदनुष्ठाने सत्युपपद्यते
तस्मात्- नाध्वर्यवम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे होतुराध्वर्यवकरणानुष्ठातृत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- द्वयोरध्वर्युहोत्रोरुचितं कर्मद्वयमेको होता युगपत्कर्तुं न शक्नोति ततोऽन्यतरस्यावश्यंभाविनि त्यागे चोदकतः प्राप्तं हौत्रमेव त्यजेत् आध्वर्यवं तु 'यो होता सोऽध्वर्युः' इत्यनेन प्रापितत्वादनुष्ठेयम्। 16”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.12 त्रयोदशे प्रैषमन्त्राणामाध्वर्यवत्वाधिकरणे सूत्रे 23-24
अध्वर्युस्तु दर्शनात्।। 23।।
गौणो वा कर्मसामान्यात्।। 24।।
त्रयोदशाधिकरणमारचयति-

1विषयः

अग्नीत्प्रेष्येदुताध्वर्युरग्नीदस्त्वविरोधतः

3पूर्वपक्षः

आख्याविरोधादध्वर्युः प्रैषद्वाराऽर्थकृद्यतः
यथा प्रोक्षणीराग्नीध्र आसादयति, तथा प्रैषमन्त्रमप्याग्नीध्र एव पठतु विरोधाभावात्- इति चेत्-

4सिद्धान्तः

मैवम्
आध्वर्यवसमाख्यायाः पूर्वोदाहृतसंबोधनमध्यमपुरुषयोश्च विरोधात्
न च- प्रोक्षण्यासादनादीनामध्वर्युकर्तृकत्वाभावेऽपि समाख्याविरोधस्तदवस्थः- इति वाच्यम्
प्रैषद्वारा प्रयोजककर्तृत्वेऽपि तदविरोधात्
तस्मात्- अध्वर्योरेव प्रैषमन्त्रः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे प्रोक्षण्यासादनादीनामनाध्वर्यवताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रैषमन्त्रविरोधप्रसङ्गात् ''प्रोक्षणीरासादय इध्माबर्हिरुपसादय अग्नीदग्नीन्विहर वर्हिः स्तृणीहि'' इत्यादिष्वाध्वर्यवेषु प्रैषमन्त्रेषु श्रूयमाणमाग्नीध्रसंबोधनं मध्यमपुरुषश्चान्येन तदनुष्ठाने सत्युपपद्यते तस्मात्- नाध्वर्यवम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.13 चतुर्दशे करणमन्त्रेषु स्वामिफलस्याशासितव्यताधिकरणे (वर्चोन्याये) सूत्राणि 25-27
ऋत्विक्फलं करणेष्वर्थवत्त्वात्।। 25।।
स्वामिनो वा तदर्थत्वात्।। 26।।
लिङ्गदर्शनाच्च।। 27।।
चतुर्दशाधिकरणमारचयति-

1विषयः

ममाग्न इति कस्यात्र फलं लिङ्गेन वक्तृगम्
श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम्

3पूर्वपक्षः

''ममाग्ने वर्चो विहवेष्वस्तु'' इत्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रोऽध्वर्युणा पठ्यते। 'विशिष्टं हवनं येषां यज्ञानां ते विहवास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममास्तु' इत्यनेन लिङ्गेन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलम्- इति चेत् ।
मैवम्। ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते। न च परिक्रीतस्याध्वर्योर्दक्षिणातिरिक्तफलसंबन्धो न्याय्यः। तस्मात्- श्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम्। 'मदीययजमानस्य तद्वर्चोऽस्तु' इति ह्युपचारः। तस्मात्- यजमानेन पाठ्येषु ''आयुर्दा अग्नेऽस्यायुर्मे देहि'' इत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानम्, तथैवाध्वर्युणा पाठ्येषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव।। 20।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे प्रैषमन्त्राणामाध्वर्यवत्वाधिकरणे सूत्रे 23-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् आध्वर्यवसमाख्यायाः पूर्वोदाहृतसंबोधनमध्यमपुरुषयोश्च विरोधात् न च- प्रोक्षण्यासादनादीनामध्वर्युकर्तृकत्वाभावेऽपि समाख्याविरोधस्तदवस्थः- इति वाच्यम् प्रैषद्वारा प्रयोजककर्तृत्वेऽपि तदविरोधात् तस्मात्- अध्वर्योरेव प्रैषमन्त्रः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.14 पञ्चदशे करणमन्त्रेषु कर्मार्थफलस्यर्त्विग्धर्मताधिकरणे सूत्रम्
कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात्।। 28।।
पञ्चदशाधिकरणमारचयति-

1विषयः

मा मा संताप्तमित्येतत्कस्मिन्स्वामिनि पूर्ववत्

3पूर्वपक्षः

अध्वर्यावस्तु तत्तेन स्वामिकर्मोपयोगतः
दर्शपूर्णमासयोराघारहोमार्थमाज्यपूर्णौ स्रुक्स्रुवौ गृहीत्वा नाभिसमीपे हस्तेन धारयति। तत्रायं करणमन्त्रोऽध्वर्युणा पठ्यते- ''अग्नाविष्णू मा वामवक्रमिषं विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृणुतम्'' इति। 'भो स्रुक्स्रुवरूपावग्नाविष्णू युवां नाभिदेशे धारयन्नहमध्वर्युर्मा वामवक्रमिषं युवयोरतिक्रमं न कृतवानस्मि। युवां च मत्तो वियुक्तौ मा भवतम्। ततो मां देहधारिणं मा संताप्तं मम देहे संतापं ज्वरादिरूपं मा कुरुतम्। स्थानकृतौ युवामाघारहोमाय स्थानं कुरुतम्' इत्यर्थः। तत्र पूर्वोक्तवर्चोन्यायेन संतापाभावोऽपि यजमानस्यैव, न त्वध्वर्योः- इति चेत्-

4सिद्धान्तः

मैवम्
अध्वर्यावसंतप्ते सत्यविघ्नेन स्वामिनः कर्म समाप्यते
तस्मात्- अध्वयुगतोऽपि संतापाभावो यजमानस्यैव फलम्- इति नात्र मच्छब्दस्योपचारः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे करणमन्त्रेषु स्वामिफलस्याशासितव्यताधिकरणे (वर्चोन्याये) सूत्राणि 25-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.15 षोडशे भद्रमित्यस्योभयगामिताधिकरणे सूत्रम्
व्यपदेशाच्च।। 29।।
षोडशाधिकरणमारचयति-

1विषयः

भद्रं तन्नौ सहेत्येतत्कस्मिन्स्वामिनि युज्यते

3पूर्वपक्षः

द्वित्वश्रुत्या द्वयोरेतदध्वर्युयजमानयोः
ज्योतिष्टोमे हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ताच्चतसृष्वाग्नेय्यादिविदिक्षु चत्वार उपरवनामका गर्ता अरत्निमात्रखाता अधोभागे परस्परं मिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता वर्तन्ते। तेष्वेकस्मिन्नुपरवे यजमानो दक्षिणहस्तं प्रसारयति, तथैवाध्वर्युरन्यस्मिन्स्वहस्तं प्रसार्याधस्ताद्यजमानहस्तं गृह्णाति। तदा यजमानः 'किमत्र' इत्यनेन मन्त्रेण फलं पृच्छति। अध्वर्युश्च 'भद्रम्' इत्यनेन मन्त्रेणोत्तरं ब्रूते। ततो यजमानः 'तन्नौ सह' इत्यनेन मन्त्रेण तत्फलं स्वकीयत्वेन स्वीकरोति। तस्मात्- यजमानस्यैव तत्- इति चेत्-

4सिद्धान्तः

मैवम्
'नौ' इत्यनेन द्विवचनेन, 'सह' इत्यनेन चोभयगामितयैव स्वीकारात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे करणमन्त्रेषु कर्मार्थफलस्यर्त्विग्धर्मताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अध्वर्यावसंतप्ते सत्यविघ्नेन स्वामिनः कर्म समाप्यते तस्मात्- अध्वयुगतोऽपि संतापाभावो यजमानस्यैव फलम्- इति नात्र मच्छब्दस्योपचारः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.16 सप्तदशे द्रव्यसंस्कारस्याङ्गप्रधानार्थताधिकरणे सूत्रे- 30-31
द्रव्यसंस्कारः प्रकरणाविशेषात्सर्वकर्मणाम्।। 30।।
निर्देशात्तु विकृतावपूर्वस्यानधिकारः।। 31।।
सप्तदशाधिकरणमारचयति-

1विषयः

धर्माणां प्रकृतिस्थानां विकृतावतिदेशतः

3पूर्वपक्षः

प्राप्तिर्विशेषतो वाद्यो विशेषस्यानिरूपणात्
दर्शपूर्णमासयोर्वेदिधर्मा बर्हिर्धर्माश्च हविरासादनादयोऽङ्गप्रधानार्था इति पूर्वत्र निर्णीतम्। ते च धर्मा विकृतावतिद्दिश्यमाना नियामकाभावात्सर्वेऽप्यतिदिश्यन्ताम्- इति प्राप्ते-

4सिद्धान्तः

प्रकृतौ कार्यकृद्धर्मा विकृतौ स्युर्न चेतरे
यूपावटास्तृतिः कार्यं न हि प्राकृतबर्हिषः
ब्रूमः- कार्यमत्र नियामकम्। प्रकृतौ हि हविरासादनं वेदिकार्यम्। तच्च विकृतावपि प्राप्यमाणं स्वसिद्धये खननादीन्वेदिधर्मान्प्रापयति। यूपावटास्तरणरूपं तु कार्यं न प्रकृतावस्ति। दर्शपूर्णमासयोर्यूपावटाभावात्। तच्चस्तरणकार्यं विकृतौ विधीयमानमप्यप्राकृतकार्यतया प्राकृताल्लँवनादीन्बर्हिःसंस्कारान्न प्रापयति। तस्मात्प्रकृतिगताः कार्यकृद्धर्मा एव विकृतौ प्राप्यन्ते।। 23।। 24।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे भद्रमित्यस्योभयगामिताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'नौ' इत्यनेन द्विवचनेन, 'सह' इत्यनेन चोभयगामितयैव स्वीकारात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.17 अष्टादशे पवित्रस्य परिभोजनीयबर्हिषा कर्तव्यताधिकरणे सूत्रम्
विरोधे च श्रुतिविशेषादव्यक्तः शेषे।। 32।।
अष्टादशाधिकरणमारचयति-

1विषयः

यद्वर्हिस्तत्पवित्रार्थं न वाद्यस्तस्य संभवात्

3पूर्वपक्षः

संस्कृतं स्तरणे क्षीणं पवित्रं त्वन्यतो भवेत्
दर्शपूर्णमासयोरामनन्ति- ''समावप्रच्छिन्नाग्नौ दर्भौ प्रादेशमात्रौ पवित्रे करोति'' इति। तत्र- यदेतद्वेदिस्तरणार्थं लवनसंस्कृतं बर्हिः, तेन पवित्रसंभवादास्तरणवत्पवित्रमपि बर्हिषः कार्यम्- इति चेत्-

4सिद्धान्तः

मैवम्
आस्तरण एव संस्कृतस्य सर्वस्य बर्हिष उपक्षीणत्वात्
न हि 'वेदिं स्तृणाति' इति विहितस्य स्तरणस्याकस्माद्बर्हिरेकदेशे संकोचो युक्तः
तस्मात्- यथा यूपावटमसंस्कृतेन बर्हिषा स्तृणाति, तथा पवित्रनिष्पत्तिरपि शास्त्रीयलवनादिसंस्काररहितैः परिभोजनीयनामकैर्दर्भेः संपादनीया

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे द्रव्यसंस्कारस्याङ्गप्रधानार्थताधिकरणे सूत्रे- 30-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रकृतौ कार्यकृद्धर्मा विकृतौ स्युर्न चेतरे यूपावटास्तृतिः कार्यं न हि प्राकृतबर्हिषः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.18 एकोनविंशे प्राकृतपुरोडाशादीनां निधानाधिकरणे सूत्रम्
अपनयस्त्वेकदेशस्य विद्यमानसंयोगात्।। 33।।
एकोनविंशाधिकरणमारचयति-

1विषयः

पुरोडाशस्य शकलमैन्द्रवायवपात्रके

3पूर्वपक्षः

अवदध्यात्पुरोडाशो नवोऽथ सवनीयकः
ज्योतिष्टोमे श्रूयते ''पुरोडाशशकलमैन्द्रवायवस्य पात्रे निदधाति'' इति। तत्र- सवनीयपुरोडाशस्य शकलं यद्यपि निष्पन्नम्, तथाऽपि तस्य यजनार्थत्वेन संस्कृतबर्हिर्वदुपक्षयान्नूतनं कंचित्पुरोडाशं संपाद्य तदीयशकलस्यैन्द्रवायवपात्रप्रक्षेपक्रिया कर्तव्या- इति चेत्-
मैवम्। सवनीयपुरोडाशशकलेनैतन्निधानं कर्तव्यम्। कुतः- संस्कार्यत्वात्। 'शकलं निदधाति' इति द्वितीयया संस्कार्यत्वं गम्यते। इष्टशिष्टस्य हि प्रतिपत्तिरूपः संस्कारः। न चात्र कृत्स्नं यजनार्थम्, अवदानस्येयत्तया पुरोडाशभागस्यावशेषितत्वात्। यथाऽत्र पूर्वसिद्धपुरोडाशशकलम्, तथा 'धाना आश्विनपात्रे' 'पयस्यां मैत्रावरुणपात्रे' इत्यत्रापि पूर्वशेषस्यैव प्रक्षेपः।। 26।। 27।।

4सिद्धान्तः

सिद्धस्य यजनार्थत्वान्नवं संपाद्य तत्क्रिया
सवनीयेन तत्कार्यं संस्कार्यत्वाद्द्वितीयया

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे पवित्रस्य परिभोजनीयबर्हिषा कर्तव्यताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् आस्तरण एव संस्कृतस्य सर्वस्य बर्हिष उपक्षीणत्वात् न हि 'वेदिं स्तृणाति' इति विहितस्य स्तरणस्याकस्माद्बर्हिरेकदेशे संकोचो युक्तः तस्मात्- यथा यूपावटमसंस्कृतेन बर्हिषा स्तृणाति, तथा पवित्रनिष्पत्तिरपि शास्त्रीयलवनादिसंस्काररहितैः परिभोजनीयनामकैर्दर्भेः संपादनीया”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.19 विंशे काम्येष्टिषूपांशुत्वधर्मस्य प्रधानार्थताधिकरणे सूत्रे 34-35
विकृतौ सर्वार्थः शेषः प्रकृतित्वात्।। 34।।
मुख्यार्थो वाऽङ्गस्याचोदितत्वात्।। 35।।
विंशाधिकरणमारचयति-

1विषयः

काम्या उपांशु यष्टव्याः किं तदङ्गप्रधानयोः
प्रधान एव वा नात्र विशेषोक्तिरतो द्वयोः

3पूर्वपक्षः

मुख्यानामेव काम्यत्वात्तेष्वेव परिचोदना
अङ्गानामतथाभावादुपांशुत्वं प्रधानगम्
इदमाम्नायते- ''यज्ञाथर्वणं वै काम्या इष्टयः, ता उपांशु यष्टव्याः'' इति। अथर्ववेदोक्तकर्मवद्यज्ञेषु काम्या इष्टयो गोप्याः। तस्मात्तासामुपांशुत्वं युक्तमित्यर्थः। यथा वेदिधर्माणां बर्हिर्धर्माणां चाङ्गप्रधानयोः समानो विधिः, तथोपांशुत्वस्यापि। नह्यत्र कश्चिद्विशेष आम्नातः- इति चेत्-

4सिद्धान्तः

मैवम्
काम्यत्वस्यैवात्र विशेषनियामकत्वात्
न त्वङ्गानां काम्यत्वमस्ति, करणपौष्कल्यसंपादकानां तेषां फले साक्षात्संबन्धाभावात्
ततः- साक्षात्फलसाधने प्रधान एवोपांशुत्वम्
अङ्गेषु तु तत्तद्वेदानुसारेण ध्वनिविशेषः।
28

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे प्राकृतपुरोडाशादीनां निधानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सिद्धस्य यजनार्थत्वान्नवं संपाद्य तत्क्रिया सवनीयेन तत्कार्यं संस्कार्यत्वाद्द्वितीयया”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.20 एकविंशे श्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 36-38
संनिधानविशेषादसंभवे तदङ्गानाम्।। 36।।
आधानेऽपि तथेति चेत्।। 37।।
नाप्रकरणत्वादङ्गस्य तन्निमित्तत्वात्।। 38।।
एकविंशाधिकरणमारचयति-

1विषयः

नवनीतं श्येन आज्यं मुख्येऽङ्गे वाऽस्तु मुख्यगम्
विधेयमाज्यमप्राप्तं दृतिस्थनवनीतकम्

3पूर्वपक्षः

मुख्यः सोमविकारोऽङ्गे चोदकप्राप्तमाज्यकम्
अनूद्य दृतिसंस्थानं नवनीतगुणो विधिः
श्येने श्रूयते ''दृतिनवनीतमाज्यं भवति'' इति। दृतौ चिरं संगृहीतं नवनीतं यस्याज्यस्य प्रकृतिद्रव्यं तदेतदीदृशमाज्यं मानान्तरेण पूर्वमप्राप्तत्वात्प्रधानकर्मणि विधेयम्- इति चेत्-

4सिद्धान्तः

मैवम्
प्रधानश्येनस्य सोमयागविकारत्वेनाज्यापेक्षाया अभावात्
अङ्गेष्विष्टिविशेषेषु चोदकप्राप्तस्याज्यस्य प्रकृतिद्रव्यत्वेन यथोक्तनवनीतगुणो विधीयते।
30

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे काम्येष्टिषूपांशुत्वधर्मस्य प्रधानार्थताधिकरणे सूत्रे 34-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् काम्यत्वस्यैवात्र विशेषनियामकत्वात् न त्वङ्गानां काम्यत्वमस्ति, करणपौष्कल्यसंपादकानां तेषां फले साक्षात्संबन्धाभावात् ततः- साक्षात्फलसाधने प्रधान एवोपांशुत्वम् अङ्गेषु तु तत्तद्वेदानुसारेण ध्वनिविशेषः। 28”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.21 द्वाविंशे सर्वश्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 39-41
तत्काले वा लिङ्गदर्शनात्।। 39।।
सर्वेषां वाऽविशेपात्।। 40।।
न्यायोक्ते लिङ्गदर्शनम्।। 41।।
द्वाविंशाधिकरणमारचयति-

1विषयः

सुत्याकालगताङ्गेषु गुणः सर्वेषु वोदितः

3पूर्वपक्षः

आद्यो वैशेषिकाङ्गत्वाद्वाक्यात्सर्वाङ्गसंगतिः
योऽयं श्येनस्याङ्गेषु दृतिनवनीतत्वगुणो विहितः, सोऽयं सुत्याकालीनेष्वेव सवनीयपशुतत्पुरोडाशरूपेष्वङ्गेषु, न तु कालान्तरवर्तिदीक्षणीयाद्यङ्गेषु।
विमतो गुणः सुत्याकालीनाङ्गमात्रगः, श्येनवैशेषिकत्वात्, पशुसाहित्यवत्। यथा ''सह पशूनालभते'' इति विहितं पशुसाहित्यं श्येन एव विशेषत्वेनोच्यमानं सुत्याकालीनेष्वेव सवनीयपशुष्ववस्थितम्, तथा नवनीतमपि- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- 'यदाज्यं तद्दृतिनवनीतम्' इतिवाक्येन सर्वाङ्गताज्यविषयत्वप्रतीतावनुमानं कालात्ययापदिष्टम्
तस्मात्- सर्वेष्वङ्गेषु तन्नवनीतम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे श्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 36-38”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रधानश्येनस्य सोमयागविकारत्वेनाज्यापेक्षाया अभावात् अङ्गेष्विष्टिविशेषेषु चोदकप्राप्तस्याज्यस्य प्रकृतिद्रव्यत्वेन यथोक्तनवनीतगुणो विधीयते। 30”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.8.22 त्रयोविंशे सवनीयानां मांसमयताधिकरणे सूत्राणि 42-44
मांसं तु सवनीयानां चोदनाविशेषात्।। 42।।
भक्तिरसंनिधावन्याय्येति चेत्।। 43।।
स्यात्प्रकृतिलिङ्गाद्वैराजवत्।। 44।।
त्रयोविंशाधिकरणमारचयति-

3पूर्वपक्षः

षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यायनम्। तत्र श्रूयते ''संस्थितोऽहनि गृहपतिर्मृगयां याति, स यान्मृगान्हन्ति, तेषां तरसाः सवनीयाः पुरोडाशा भवन्ति'' इति। तत्र- यथा नवनीतं सर्वेष्वङ्गेषु निविष्टम्, तथा मांसत्वमपि सर्वेषु पुरोडाशेषु निविशते- इति चेत्-
समाप्तश्चायं तृतीयोऽध्यायः।।
अत्र पादे- अधिकरणानि 23, सूत्राणि 44।
आदितः- अधिकरणानि 246, सूत्राणि 657।
चतुर्थाध्यायस्य प्रथमः पादः
प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “याजमानानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वाविंशे सर्वश्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 39-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- 'यदाज्यं तद्दृतिनवनीतम्' इतिवाक्येन सर्वाङ्गताज्यविषयत्वप्रतीतावनुमानं कालात्ययापदिष्टम् तस्मात्- सर्वेष्वङ्गेषु तन्नवनीतम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 3, Pāda 7 Contents Adhyāya 4, Pāda 1 →