SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 3, Pāda 7

शेषत्वम्

बहुप्रधानोपकारकप्रयाजादीनि

24adhikaraṇas
53sūtras
3.7.1 प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि 1-5
प्रकरणविशेषादसंयुक्तं प्रधानस्य।। 1।।
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात्।। 2।।
आरादपीति चेत्।। 3।।
न तद्वाक्यं हि तदर्थत्वात्।। 4।।
लिङ्गदर्शनाच्च।। 5।।
सप्तमपादस्य प्रथमाधिकरणमारचयति-

1विषयः

मुख्याङ्गतैव वेद्यादेः प्रयाजाद्यङ्गताऽपि वा
तद्वाक्यं प्रक्रियायुक्तं मुख्याङ्गत्वस्य बोधकम्

3पूर्वपक्षः

मुख्याङ्गस्यापि वेद्यादेः प्रयाजादिषु चाङ्गता
मुख्यार्थत्वात्प्रयाजादेः स्वापूर्वव्यवधानतः
दर्शपूर्णमासयोः श्रूयते ''वेद्यां हवींष्यासादयति'' ''बर्हिषि हवींष्यासादयति'' इति। तथा तद्धर्माः श्रूयन्ते- ''वेदिं खनति'' ''बर्हिर्लुनाति'' इत्यादयः। मुख्यहवींष्याग्नेयपुरोडाशादीनि। अमुख्यहवींषि तु प्रयाजाद्यर्थानि। तत्र- स्वस्वधर्मसहितानि वेद्यादीनि प्रकरणबलान्मुख्यहविषामेवाङ्गानि- ''वेद्यां हवींष्यासादयति'' इति वाक्यात्सर्वहविरङ्गता- इति चेत्- न। प्रकरणेन वाक्यस्य संकोचनीयत्वात्। यदि वाक्यं प्रकरणनैरपेक्ष्येण स्वतन्त्रं स्यात्, तदा सादनमात्रपर्यवसानेन यागाभावे वैयर्थ्यं स्यात्। सौमिकहविषामप्येतद्वेद्यासादनं प्रसज्येत। तस्मात्- मुख्यहविरङ्गं वेद्यादिकम्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- अस्तु वैयर्थ्यातिप्रसङ्गपरिहारेण प्रकृतापूर्वसाधनभूतहविःषु वेद्यादेरङ्गत्वम्
प्रयाजादिहवींष्यपि स्वकीयावान्तरापूर्वद्वारा मुख्यापूर्वसाधनान्येवेति तदङ्गत्वमपि वेद्यादेर्युक्तम्
एवं सति वाक्यस्यात्यन्तसंकोचो न भविष्यति।
1
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे दीक्षणीयादिधर्माणामग्निष्टोमाङ्गताधिकरणे सूत्राणि 41-47”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जौमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य षष्ठः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.2 द्वितीये स्वामिसंस्काराणां प्रधानार्थताधिकरणे सूत्रम्
फलसंयोगात्तु स्वामियुक्तं प्रधानस्य।। 6।।
द्वितीयाधिकरणमारचयति-

1विषयः

वपनाद्युपकारः किं द्वयोर्मुखाङ्गयोरुत

3पूर्वपक्षः

मुख्य एव द्वयोरस्तु कृत्स्नकर्तृगतत्वतः
ज्योतिष्टोमे केशश्मश्रुवपनपयोव्रतादयो यजमानसंस्कारा आम्नाताः। ग्रहैः सोमहोमो ज्योतिष्टोमे मुख्यः। अग्नीषोमीयपश्वादिकमङ्गम्। तत्र- द्वयोर्मुख्याङ्गयोरेते वपनादय उपकुर्वन्ति। कुतः- कर्तृधर्मत्वात्। यजमानो हि कर्तृतया वपनादिभिः संस्क्रियते। कर्तृत्वं च यथा मुख्यं प्रति तस्य विद्यते, तथाऽङ्गं प्रत्यप्यस्ति। तस्मात्- उभयोरुपकारः- इति चेत्-
मैवम्। द्वौ हि यजमानस्याकारौ- क्रियाकर्तृत्वम्, फलभोक्तृत्वं चेति। तयोरदृष्टः फलभोगः। क्रियानिष्पत्तिश्च दृष्टा। तथा सति- वपनादिकृतोपकारस्याप्यदृष्टत्वाद्भोक्तृशेषा वपनादयः फलभोगसाधने मुख्य एव पर्यवस्यन्ति। वपनादिसंस्काररहितैरप्यृत्विग्भिः कृषीवलादिभिश्च क्रिया निष्पाद्यमाना दृश्यते। ततस्तत्र कर्तृत्वाकारे वपनादिकृतः स उपकारो नास्ति। तस्मात्- अदृष्टफलभोजिनोऽस्य यजमानस्य योऽयमदृष्टरूपः शास्त्रीयः संस्कारः सोऽयं मुख्ये कर्मणि युक्तो, नाङ्गेषु। नात्र पूर्ववद्वाक्यमस्ति, येन परम्पराफलसाधनेष्वङ्गेषु वपनाद्युपकारः शङ्क्येत। प्रकरणं तु मुख्यस्यैव, न त्वङ्गानाम्। तस्मात्- न तेषूपकारः।। 3।। 4।।

4सिद्धान्तः

युक्तः शास्त्रीयसंस्कारो मुख्यस्य फलभोजिनः
विनाऽपि संस्कृतिं दृष्टं कर्तृत्वं तत्र नास्ति सः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि 1-5”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- अस्तु वैयर्थ्यातिप्रसङ्गपरिहारेण प्रकृतापूर्वसाधनभूतहविःषु वेद्यादेरङ्गत्वम् प्रयाजादिहवींष्यपि स्वकीयावान्तरापूर्वद्वारा मुख्यापूर्वसाधनान्येवेति तदङ्गत्वमपि वेद्यादेर्युक्तम् एवं सति वाक्यस्यात्यन्तसंकोचो न भविष्यति। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.3 तृतीये सौमिकवेद्यादीनामङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 7-9
चिकीर्षया च संयोगात्।। 7।।
तद्युक्ते तु फलश्रुतिस्तस्मात्सर्वचिकीर्षा स्यात्।। 9।।
तृतीयाधिकरणमारचयति-

1विषयः

मुख्यार्था सौमिकी वेदिरुभयार्थोत मुख्यगा

3पूर्वपक्षः

चिकीर्षितत्वान्मुख्यस्य वेद्यां तत्कृतिसंभवात्
दार्शिकीं वेदिं मध्येऽन्तर्भाव्य प्राचीनवंशो मण्डपोऽवस्थितः। ततः पूर्वस्यां दिशि सदोहविर्धानादीनां पर्याप्तो भूभागविशेषः। तैः सदःप्रभृतिभिः सह सौमिकी वेदिरित्युच्यते। सेयं मुख्यस्य सोमयागस्यैवोपकारं करोति, न त्वमुख्यानामग्नीषोमीयाद्यङ्गानाम्। कुतः- मुख्यस्य चिकीर्षितत्वात्।
न च- अङ्गान्यपि चिकीर्षितानि- इति वाच्यम्, चिकीर्षास्वरूपस्य वेदेनैवाभिहितत्वात्। एवं श्रूयते ''षट्त्रिंशत्प्रक्रमा प्राची, चतुर्विंशतिरग्रेण, त्रिंशज्जघनेन, इयति शक्ष्यामहे'' इति। अस्यायमर्थः- 'श्रूयमाणेनानेन दैर्घ्यप्रमाणेन तिर्यक्प्रमाणद्वयेन च प्रमिते भूभागे फलहेतुसोमयागं कर्तुं शक्ष्यामहे- इति निश्चित्य तथैव कुर्यात्' इति। सेयं चिकीर्षा मुख्यविषया। 'इयति शक्ष्यामहे' इति परिमाणस्य शक्तेश्चोपन्यासात्। अङ्गानां तु पशूनामिष्टीनां च सदोहविर्धानादिमण्डपनिरपेक्षाणां यथोक्तपरिमाणमन्तरेणाप्यनुष्ठातुं शक्यत्वात्स उपन्यासस्तत्र निरर्थकः। सोमस्य त्वनुष्ठानं यथोक्तवेद्यामेव संभवति, नत्वन्यत्र। तस्मात्- सा वेदिर्मुख्यस्यैवोपकरोति- इति प्राप्ते,-

4सिद्धान्तः

मुख्यपौष्कल्यहेतुत्वात्तदङ्गं च चिकीर्षितम्
मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी
ब्रूमः- 'इयति शक्ष्यामहे' इत्यत्र साङ्गप्रधानानुष्ठाने शक्तिरुक्ता, तादृशस्यैव फलं प्रति पुष्कलहेतुत्वात्। अतो मुख्याङ्गयोश्चिकीर्षायास्तुल्यत्वाद्वेदिरुभयार्था। न च- अत्र वपनादिसाम्यं शङ्कनीयम्। दृष्टोपयोगाभावस्य तत्रोक्तत्वात्। इह तु- हविरासादनादिर्दृष्ट उपयोगः। स च मुख्याङ्गयोः सम इत्युभयार्थत्वम्।। 6।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये स्वामिसंस्काराणां प्रधानार्थताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “युक्तः शास्त्रीयसंस्कारो मुख्यस्य फलभोजिनः विनाऽपि संस्कृतिं दृष्टं कर्तृत्वं तत्र नास्ति सः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.4 चतुर्थे- अभिमर्शनस्याङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 8-10
तथाऽभिधानेन।। 8।।
गुणाभिधानात्सर्वार्थमभिधानम्।। 10।।
चतुर्थाधिकरणमारचयति-

1विषयः

चतुर्होत्रा पौर्णमासीं मृशेदाज्यादिमर्शने
मन्त्रो मुख्य उताङ्गेऽपि मुख्ये तद्वाचिशब्दतः

3पूर्वपक्षः

शब्दस्य कर्मवाचित्वात्तत्र मर्शनवर्जनात्
विभक्तिव्यत्यये मन्त्रो मुख्याङ्गहविषोर्द्वयोः
दर्शपूर्णमासयोः श्रूयते ''चतुर्होत्रा पौर्णमासीमभिमृशेत्, पञ्चहोत्राऽमावास्याम्'' इति। ''पृथिवी होता'' इत्यादिको मन्त्रश्चतुर्होता, तस्मिन्मन्त्रे यज्ञाङ्गानां चतुर्णां श्रुतत्वात्। अथवा- तस्य मन्त्रस्याभिमानित्वेनात्मभूतः कश्चित्पुरुषः प्रजापतिना चतुर्वारमामन्त्रितः प्रत्युत्तरमुवाचेति स पुरुषश्चतुर्हूतः। तदीयनाम्ना मन्त्रोऽपि ''चतुर्हूतः'' इत्युच्यते। 'पूज्यानां प्रत्यक्षनामग्रहणमयुक्तम्' इत्यभिप्रायेण हूतशब्दस्थाने होतृशब्दः पठ्यते। अयमर्थः सर्वोऽपि तैत्तिरीयब्राह्मणे श्रूयते ''आत्मन्नात्मन्नित्यामन्त्रयत। तस्मै चतुर्थं हूतः प्रत्यशृणोत्। स चतुर्हूतोऽभवत्। चतुर्हूतो ह वै नामैषः। तं वा एतं चतुर्हूतं सन्तं चतुर्होतेत्याचक्षते परोक्षेण। परोक्षप्रिया इव हि देवाः'' इति। ''अग्निर्होता'' इत्यादिको मन्त्रः पञ्चहोता। तत्राप्युक्तप्रकारो द्रष्टव्यः। अत्र- योऽयमाज्यादिहविष उपस्पर्शनार्थो मन्त्रः, असौ मुख्य एव हविषि निविशते। पौर्णमास्यमावास्याशब्दयोर्मुख्यहविर्विषयत्वात्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- पौर्णमास्यमावास्याशब्दौ कर्मवाचिनौ, न तु हविर्वाचिनौ
न च कर्मणोरुपस्पर्शनसंभवः
अथ कालविवक्षायां विभक्तिव्यत्ययेन सप्तम्यर्थो व्याख्यायेत, तदा कालसंबन्धस्य मुख्याङ्गयोरुभयोस्तुल्यत्वादुभयविधहविरुपस्पर्शने मन्त्रो विनियुज्यते।
7
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये सौमिकवेद्यादीनामङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 7-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मुख्यपौष्कल्यहेतुत्वात्तदङ्गं च चिकीर्षितम् मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.5 पञ्चमे दीक्षादक्षिणयोः प्रधानार्थताधिकरणे सूत्रे- 11-12
दीक्षादक्षिणं तु वचनात्प्रधानस्य।। 11।।
निवृत्तिदर्शनाच्च।। 12।।
पञ्चमाधिकरणमारचयति-

1विषयः

दण्डदीक्षा दक्षिणा तु शतं द्वादशभिर्युतम्
द्वयार्थमुत मुख्यार्थं सोमस्येत्युक्तिसंभवात्

3पूर्वपक्षः

मुख्याङ्गद्वयगं मैवं पारम्पर्यविडम्बना
वचनस्य न युक्ताऽतः प्रधानार्थमिदं स्थितम्
ज्योतिष्टोमे दीक्षादक्षिणं श्रूयते ''दण्डेन दीक्षयति'' इति। ''तस्य द्वादशशतं दक्षिणा'' इति च। तत्र दीक्षा मुख्याङ्गयोरुपकरोति, तथा दक्षिणाऽपि। न च 'दीक्षा सोमस्य, दक्षिणा सोमस्य' इति वाक्ये षष्ठ्या मुख्यसंबन्ध एवावगम्यते, न त्वङ्गसंबन्धः- इति वाच्यम्। दीक्षादक्षिणे सोमेनैव साक्षात्संबध्नीताम्, स सोमः पुनरङ्गैः संबद्ध इति परम्परया दीक्षादक्षिणयोरङ्गैरपि संबन्धोऽस्ति। तस्मात्- उभयार्थं दीक्षादिकम्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- अव्यवहितसंबन्ध एव षष्ठ्या अभिधेयोऽर्थः
तदसंभवे तु- परम्परासंबन्धः कथंचिद्गृह्यते
इह तु तत्संभवात्पारम्पर्यं न युक्तम्
तस्मात्- प्रधानार्थं दीक्षादिकम्।
9
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- अभिमर्शनस्याङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 8-10”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- पौर्णमास्यमावास्याशब्दौ कर्मवाचिनौ, न तु हविर्वाचिनौ न च कर्मणोरुपस्पर्शनसंभवः अथ कालविवक्षायां विभक्तिव्यत्ययेन सप्तम्यर्थो व्याख्यायेत, तदा कालसंबन्धस्य मुख्याङ्गयोरुभयोस्तुल्यत्वादुभयविधहविरुपस्पर्शने मन्त्रो विनियुज्यते। 7”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.6 षष्ठे- अन्तर्वेदेर्यूपानङ्गताधिकरणे सूत्रे 13-14
तथा यूपस्य वेदिः।। 13।।
देशमात्रं वा शिष्येणैकवाक्यत्वात्।। 14।।
षष्ठाधिकरणमारचयति-

1विषयः

अन्तर्वेदि मिनोत्यर्धं यूपाङ्गमुत लक्षयेत्

3पूर्वपक्षः

देशं यूपाङ्गभावेन वेदिभागोऽत्र चोद्यते
अग्नीषोमीयपशौ ''यूपं मिनोति'' इति प्रकृत्य श्रूयते ''अर्धमन्तर्वेदि मिनोति, अर्धं बहिर्वेदि'' इति। 'यूपं स्थापयितुं कियद्विस्तारवानवटोऽपेक्षितः' इति बुभुत्सायां तन्निर्णयाय यूपमूलस्य स्थौल्यमङ्गुल्यादिभिर्मातव्यम्। तस्य च मीयमानस्य यूपस्य वेद्यभ्यन्तरभागोऽङ्गत्वेन विधीयते- इति चेत्-
मैवम्। यथा संस्कृतो वेद्यभ्यन्तरभागः 'अर्धमन्तर्वेदि' इत्यनेन वाक्येन विधीयते, तद्वदसंस्कृतो बहिर्भागो 'बहिर्वेदि' इत्यनेन वाक्येन विधातव्यः। ततो वाक्यं भिद्येत। यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितोऽसंस्कृतो 'लौकिको' देशो मीयमानयूपोचितो विधीयते। तदा नास्ति वाक्यभेदः। तस्मात्- लौकिकदेश एवात्र यूपाङ्गत्वेन विधीयते, न तु संस्कृतवेदिभागः।। 11।। 12।।

4सिद्धान्तः

बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ
मीयमानस्य यूपस्य तावान्देशोऽत्र लक्ष्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे दीक्षादक्षिणयोः प्रधानार्थताधिकरणे सूत्रे- 11-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- अव्यवहितसंबन्ध एव षष्ठ्या अभिधेयोऽर्थः तदसंभवे तु- परम्परासंबन्धः कथंचिद्गृह्यते इह तु तत्संभवात्पारम्पर्यं न युक्तम् तस्मात्- प्रधानार्थं दीक्षादिकम्। 9”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.7 सप्तमे हविर्धानस्य सामिधेन्यनङ्गताधिकरणे सूत्राणि 15-17
सामिधेनीस्तदन्वाहुरिति हविर्धानयोर्वचनात्सामिधेनीनाम्।। 15।।
देशमात्रं वा प्रत्यक्षं ह्यर्थकर्म सोमस्य।। 16।।
समाख्यानं च तद्वत्।। 17।।
सप्तमाधिकरणमारचयति-

1विषयः

हविर्धाने स्थितो ब्रूयात्सामिधेनीरिहाङ्गता

3पूर्वपक्षः

हविर्धानस्य तास्वाहो तद्देशोऽनेन लक्ष्यते
ज्योतिष्टोमे श्रूयते ''उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः'' इति। हविर्धानमण्डपगतयोर्दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्यामभिधीयते। तस्य समीपे सोमस्याभिषवः। 'उत' इत्ययं शब्दोऽथब्दार्थे वर्तते। 'अथ यस्मिन्हविर्धाने सोममभिषुण्वन्ति, तस्मिन्सामिधेनीरनुब्रूयुः'। इह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते। न चात्र पूर्ववद्वाक्यभेददोषः शङ्क्यः, एकवाक्यतायाः स्पष्टं प्रतिभासात्- इति प्राप्ते-

4सिद्धान्तः

वाक्यात्स्यादङ्गता मैवं प्रकृत्या पश्चिमेऽग्नितः
देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः
ब्रूमः- सामिधेनीनामिष्ट्यङ्गतया दर्शपूर्णमासावत्र प्रकृतिः। प्रकृतौ चाहवनीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम्। इहोत्तरवेदेराहवनीयत्वात्तदपेक्षया हविर्धानस्य पश्चिमदेशावस्थानात्। स देशश्चोदकेन प्राप्तः- इति न देशस्य सामिधेन्यङ्गत्वं विधातव्यम्। किंतु दक्षिणोत्तरहविर्धानसमीपदेशयोरनियमेन प्राप्तौ दक्षिणस्यैव हविर्धानस्य समीपदेशः इति नियन्तुं हविर्धानेन संनिधिर्लक्ष्यते। तथा सति नियममात्रविधानाल्लाघवं भवति। त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्यात्यन्तमप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम्। तस्माद्देशलक्षणा।। 13।। 14।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- अन्तर्वेदेर्यूपानङ्गताधिकरणे सूत्रे 13-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ मीयमानस्य यूपस्य तावान्देशोऽत्र लक्ष्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.8 अष्टमे- अङ्गानामन्यद्वाराऽनुष्ठानाधिकरणे सूत्राणि 18-20
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्, तस्मात्स्वयंप्रयोगेस्यात्।। 18।।
उत्सर्गे तु प्रधानत्वाच्छेषकारी प्रधानस्य, तस्मादन्यः स्वयं वा स्यात्।। 19।।
अन्यो वा स्यात्परिक्रयाम्नानादिप्रतिषेधात्प्रत्यगात्मनि।। 20।।
अष्टमाधिकरणमारचयति-

1विषयः

यजमानेन कर्तव्यं निखिलं त्याग एव वा

3पूर्वपक्षः

कर्तृगामिफलश्रुत्या युज्यते सर्वकर्तृता
'स्वर्गकामो यजेत' इति स्वर्गभोक्तुर्यागकर्तुश्च सामानाधिकरण्यादेकत्वं गम्यते। पाणिनिश्च 'स्वरितञितः कर्त्रभिप्राये क्रियाफले' [पा.सू.1।3।72] इति सूत्रेण क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति। अतः साङ्गकर्मानुष्ठानमन्तरेण फलासंभवान्निखिलं यजमानेन कर्तव्यम्- इति प्राप्ते-

4सिद्धान्तः

प्रयोजकेऽपि कर्तृत्वमस्ति नो चेत्क्रयो वृथा
कार्यं तेन त्यागमात्रमृत्विजोऽन्यत्र कर्तृता
ब्रूमः- निखिलानुष्ठानाभावेऽपि प्रयोजकतया यजमानस्य सर्वकर्तृत्वमस्ति। 'षड्भिर्हलैः कर्षति' इत्यत्र तथादर्शनात्। यदि स्वेनैव सर्वमनुष्ठीयेत, तदानीमृत्विजां परिक्रयो वृथा स्यात्। तस्मात्- यजमानेन त्यागमात्रं कार्यम्। अन्यत्र साङ्गप्रधाने क्रीतस्यर्त्विजोऽनुष्ठानम्। तथा सति साक्षात्परम्परया च सर्वकर्तृत्वस्य यजमाने संभवात्तस्य फलं न विरुध्यते।। 15।। 16।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे हविर्धानस्य सामिधेन्यनङ्गताधिकरणे सूत्राणि 15-17”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वाक्यात्स्यादङ्गता मैवं प्रकृत्या पश्चिमेऽग्नितः देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.9 नवमे परिक्रीतानामृत्विजां संख्याविशेषनियमाधिकरणे सूत्राणि 21-24
तत्रार्थात्कर्तृपरिमाणं स्यादनियमोऽविशेषात्।। 21।।
अपि वा श्रुतिभेदात्प्रतिनामधेयं स्युः।। 22।।
एकस्य कर्मभेदादिति चेत्।। 23।।
नोत्पत्तौ हि।। 24।।
नवमाधिकरणमारचयति-

1विषयः

न क्रीतकर्तृसंख्याया नियमोऽस्त्यस्ति वा, न हि
अविशेषादस्ति यावत्कार्यं तावन्त एव हि

3पूर्वपक्षः

ये यजमानेन क्रीताः कर्तार ऋत्विजः, तेषां संख्याविशेषो यद्यपि न श्रुतः। तथाऽपि कार्यानुसारेण सोऽवगन्तव्यः। ते च कार्यविशेषाः कर्तृसंयुक्ता एवं श्रूयन्ते- ''पुरोऽध्वर्युर्विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्टा पत्नीमुदानयति, उन्नेता चमसानुन्नयति, प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति, होता प्रातरनुवाकमनुब्रूते, मैत्रावरुणः प्रेष्यति, अच्छावाको यजति, ग्रावस्तुद्ग्रावस्तोत्रीयमन्वाह'' इति। एवं ब्रह्मब्राह्मणाच्छंस्याग्नीध्रपोतॄणां चतुर्णां कर्माण्युदाहार्याणि। तस्मात्- यावन्ति कर्याणि तावन्त ऋत्विजो वरीतव्याः।। 17।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- अङ्गानामन्यद्वाराऽनुष्ठानाधिकरणे सूत्राणि 18-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रयोजकेऽपि कर्तृत्वमस्ति नो चेत्क्रयो वृथा कार्यं तेन त्यागमात्रमृत्विजोऽन्यत्र कर्तृता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.10 दशमे चमसाध्वर्यूणां पृथक्त्वाधिकरणे सूत्रम्
चमसाध्वर्यवश्च तैर्व्यपदेशात्।। 25।।
दशमाधिकरणमारचयति-

1विषयः

चमसाध्वर्यवो नान्य ऋत्विभ्योऽन्येऽथवाऽग्रिमः

3पूर्वपक्षः

यौगिक्या संज्ञया मैवं षष्ठ्या तेभ्यो विभेदनात्
ज्योतिष्टोमे श्रूयते ''चमसाध्वर्यून्वृणीते'' इति। ये पूर्वत्र कार्यानुसारेणाध्वर्युप्रमुखा ऋत्विज उक्ताः, तेभ्यो न व्यतिरिक्ताश्चमसाध्वर्यवः। कुतः- यौगिकसंज्ञया तदभेदप्रतीतेः। यथा देवदत्त एव पचिक्रियायोगात्पाचको भवति, तथाऽध्वर्युप्रमुखा एव चमसयोगाच्चमसाध्वर्यवः- इति चेत्-

4सिद्धान्तः

मैवम्
मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां चमसाध्वर्यव इति षष्ठ्या भेदावभासात्
मध्यतःकारिणोऽध्वर्युहोत्रादयः
होत्रकाः प्रतिप्रस्थातृमैत्रावरुणादयः
तस्मादृत्विग्भ्योऽन्ये

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे परिक्रीतानामृत्विजां संख्याविशेषनियमाधिकरणे सूत्राणि 21-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.11 एकादशे चमसाध्वर्यूणां बहुत्वनियमाधिकरणे सूत्रम्
उत्पत्तौ तु बहुश्रुतेः।। 26।।

1विषयः

तान्वृणीतेति बहुता नास्ति वाऽस्ति ग्रहैक्यवत्

3पूर्वपक्षः

नेति चेन्नात्र वैषम्यादुत्पत्तौ बहुताश्रुतेः
एकादशाधिकरणमारचयति
''चमसाध्वर्यून्वृणीत'' इति यद्बहुत्वं श्रुतम्, तन्न विवक्षितम्। ग्रहैकत्ववदुद्देश्यगतत्वात्- इति चेत्-

4सिद्धान्तः

मैवम्
ग्रहवैषम्यात्
''ग्रहं संमार्ष्टि'' इत्येतद्ग्रहाणां नोत्पत्तिवाक्यम्
चमसाध्वर्यूणां त्वेतदेवोत्पत्तिवाक्यम्
ततस्तेषामुपादेयत्वात्तद्गतं बहुत्वं विवक्षितम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे चमसाध्वर्यूणां पृथक्त्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां चमसाध्वर्यव इति षष्ठ्या भेदावभासात् मध्यतःकारिणोऽध्वर्युहोत्रादयः होत्रकाः प्रतिप्रस्थातृमैत्रावरुणादयः तस्मादृत्विग्भ्योऽन्ये”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.12 द्वादशे चमसाध्वर्यूणां दशसंख्यानियमाधिकरणे सूत्रम्
दशत्वं लिङ्गदर्शनात्।। 27।।
द्वादशाधिकरणमारचयति-

1विषयः

नेयत्ताऽस्त्यस्ति वा तेषां न नियामकवर्जनात्

3पूर्वपक्षः

चमसानां दशत्वेन चमसाध्वर्यवो दश

4सिद्धान्तः

स्पष्टोऽर्थः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे चमसाध्वर्यूणां बहुत्वनियमाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ग्रहवैषम्यात् ''ग्रहं संमार्ष्टि'' इत्येतद्ग्रहाणां नोत्पत्तिवाक्यम् चमसाध्वर्यूणां त्वेतदेवोत्पत्तिवाक्यम् ततस्तेषामुपादेयत्वात्तद्गतं बहुत्वं विवक्षितम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.13 त्रयोदशे शमितुरपृथक्त्वाधिकरणे सूत्रे 28-29
शमिता च शब्दभेदात्।। 28।।
प्रकरणाद्वोत्पत्त्यसंयोगात्।। 29।।
त्रयोदशाधिकरणमारचयति-

1विषयः

तेभ्योऽन्यः शमिताऽनन्यो वाऽन्यः संज्ञापृथक्त्वतः

3पूर्वपक्षः

वरणाभावतो नान्यः संज्ञाभेदस्तु यौगिकः
''शमितार उपेतन यज्ञम्'' इत्यस्मिन्मन्त्रे श्रुतायाः शमितृसंज्ञायाः पृथक्त्त्वादुक्तेभ्योऽन्यः शमिता- इति चेत्-

4सिद्धान्तः

मैवम्
पृथग्वरणाभावात्
संज्ञाभेदस्तु पशुसंज्ञपनयोगादुपपद्यते
यद्यप्ययं मन्त्रोऽध्वर्युकाण्डे पठितः, तथाऽप्यध्वर्योः परावृत्तिश्रवणादध्वर्युपुरुषाः प्रतिप्रस्थात्रादयः शमितारः
अत एव श्रूयते ''परावर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्'' इति

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे चमसाध्वर्यूणां दशसंख्यानियमाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्पष्टोऽर्थः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.14 चतुर्दशे- उपगस्यापृथक्त्वाधिकरणे सूत्रम्
उपगाश्च लिङ्गदर्शनात्।। 30।।
चतुर्दशाधिकरणमारचयति-

1विषयः

अन्ये स्युरुपगातार उदितेभ्यो न वा यथा

3पूर्वपक्षः

लोकेऽत्रापि तथा मैवं नाध्वर्युरितिलिङ्गतः
यथा लोके मुख्येभ्यो गायकनायकादिभ्योऽन्ये पार्श्वस्था उपगातारः, तथाऽत्रापि- इति चेत्-

4सिद्धान्तः

मैवम्
यद्युक्तेभ्यः पुरुषेभ्य उपगातारोऽन्ये भवेयुः, तदानीमध्वर्योः प्रसक्त्यभावात् ''नाध्वर्युरुपगायेत्'' इति प्रतिषेधोऽनर्थकः स्यात्
तस्मादुक्तेष्वेव यौगिकः संज्ञाभेदः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे शमितुरपृथक्त्वाधिकरणे सूत्रे 28-29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् पृथग्वरणाभावात् संज्ञाभेदस्तु पशुसंज्ञपनयोगादुपपद्यते यद्यप्ययं मन्त्रोऽध्वर्युकाण्डे पठितः, तथाऽप्यध्वर्योः परावृत्तिश्रवणादध्वर्युपुरुषाः प्रतिप्रस्थात्रादयः शमितारः अत एव श्रूयते ''परावर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्'' इति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.15 पञ्चदशे सोमविक्रेतुः पृथक्त्वाधिकरणे सूत्रम्
विक्रयी त्वन्यः कर्मणोऽचोदितत्वात्।। 31।।
पञ्चदशाधिकरणमारचयति-

1विषयः

सोमविक्रय्येक एषु न वा वरणवर्जनात्

3पूर्वपक्षः

एकः क्रत्वर्थता नास्ति विक्रयस्येति भिद्यते

4सिद्धान्तः

क्रय एव ज्योतिष्टोमाङ्गत्वेन श्रुतः, न विक्रयः
न चाविहितमृत्विजः कुर्वन्ति
तस्मादन्यो विक्रेता

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- उपगस्यापृथक्त्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् यद्युक्तेभ्यः पुरुषेभ्य उपगातारोऽन्ये भवेयुः, तदानीमध्वर्योः प्रसक्त्यभावात् ''नाध्वर्युरुपगायेत्'' इति प्रतिषेधोऽनर्थकः स्यात् तस्मादुक्तेष्वेव यौगिकः संज्ञाभेदः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.16 षोडशे 'ऋत्विक्' इति नाम्नोऽसर्वगामिताधिकरणे सूत्राणि 32-35
कर्मकार्यात्सर्वेषामृत्विक्त्वमविशेषात्।। 32।।
न वा परिसंख्यानात्।। 33।।
पक्षेणेति चेत्।। 34।।
न सर्वेषामधिकारः।। 35।।
षोडशाधिकरणमारचयति-

1विषयः

किमृत्विग्नाम सर्वेषु समानमुत केषुचित्
क्रतौ यजनमेतेषां तुल्यमित्यस्ति नाम तत्

3पूर्वपक्षः

सौम्याध्वरस्य सप्त स्युर्दश चेत्यादिसंख्यया
न सर्वेषां समं नाम केषांचिद्योगरूढितः
ऋत्विक्शब्दस्य प्रवृत्तिनिमित्तमृतौ यजनम्। तच्च ब्रह्मादिष्विव चमसाध्वर्युष्वप्यस्ति। तस्मात्- सर्वेषामृत्विग्नाम समानम्- इति चेत्-

4सिद्धान्तः

मैवम्
संख्याश्रुतिविरोधात्
''सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदशर्त्विजः'' इति श्रूयते
तस्मात्- योगमनतिक्रम्य शास्त्रीयरूढिमप्याश्रित्य केषुचिदेवैतन्नामेत्यवगन्तव्यम्।
24

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे सोमविक्रेतुः पृथक्त्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “क्रय एव ज्योतिष्टोमाङ्गत्वेन श्रुतः, न विक्रयः न चाविहितमृत्विजः कुर्वन्ति तस्मादन्यो विक्रेता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.17 सप्तदशे दीक्षादक्षिणावाक्योक्तब्रह्मादीनामेव सप्तदशर्त्विक्त्वाधिकरणे सूत्रे 36-37
नियमस्तु दक्षिणाभिः श्रुतिसंयोगात्।। 36।।
उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात्।। 37।।
सप्तदशाधिकरणमारचयति-

1विषयः

संख्याता अपि ये केचिन्नियता वाऽविशेषतः
आद्यो न दक्षिणादाने दीक्षायां च विशेषतः

3पूर्वपक्षः

ये सप्तदश संख्याताः, ते ब्रह्मादिषु चमसाध्वर्युषु च ये केचिदिच्छया ग्रहीतव्याः। विशेषस्याश्रवणात्- इति चेत्-
मैवम्। दक्षिणावाक्ये दीक्षावाक्ये च विशेषश्रवणात्। ''ऋत्विग्भ्यो दक्षिणां ददाति'' इत्युक्त्वा तद्विशेषः श्रूयते ''अग्नीधे ददाति'' ''ब्रह्मणे ददाति'' इत्यादिना। दीक्षावाक्यं च तत्र प्रकरणे ''ये यजमानास्ते ऋत्विजः'' इत्युक्त्वाऽनन्तरमेवमाम्नायते- ''अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्वातारम्, ततो होतारम्। ततस्तं प्रतिप्रस्थाता दीक्षयित्वाऽर्धिनो दीक्षयति, ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतुः। ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति, आग्नीध्रं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः। ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति- पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः। ततस्तमन्यो ब्राह्मणो दीक्षयति'' इति अस्यायमर्थः- 'अध्वर्युर्यजुर्वेदप्रोक्तं करोति, तस्य पुरुषास्त्रयः-ब्राह्मणाच्छंसी, अग्नीत्, पोता चेति। उद्गातोद्गानं करोति, तस्य पुरुषास्त्रयः- प्रस्तोता, प्रतिहर्ता, सुब्रह्मण्यश्चेति। होता शंसनं करोति, तस्य पुरुषास्त्रयः- मैत्रावरुणः अच्छावाकः, ग्रावस्तुदिति। चतुर्षु वर्गेषु ये प्रथमास्ते दक्षिणां संपूर्णां प्राप्नुवन्ति। ये द्वितीयास्ते तदर्धं प्राप्नुवन्ति- इत्यर्धिनः। ये तृतीयास्ते तृतीयांशं प्राप्नुवन्ति- इति तृतीयिनः। ये चतुर्थास्ते चतुर्थमंशं प्राप्नुवन्ति- इति पादिनः। तानेतानुक्तक्रमेण स स पुरुषः संस्करोति' इति। अत्र- दीक्षावाक्ये निर्दिष्टा अध्वर्युप्रभृतय ऋत्विजः षोडश, न तु चमसाध्वर्यवः- इति नियमो द्रष्टव्यः।। 26।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे 'ऋत्विक्' इति नाम्नोऽसर्वगामिताधिकरणे सूत्राणि 32-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् संख्याश्रुतिविरोधात् ''सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदशर्त्विजः'' इति श्रूयते तस्मात्- योगमनतिक्रम्य शास्त्रीयरूढिमप्याश्रित्य केषुचिदेवैतन्नामेत्यवगन्तव्यम्। 24”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.18 अष्टादशे- ऋत्विजां स्वामिसप्तदशत्वाधिकरणे सूत्रम्
स्वामिसप्तदशाः कर्मसामान्यात्।। 38।।
अष्टादशाधिकरणमारचयति-

1विषयः

सदस्ये यजमाने वा साप्तदश्यं वृतत्वतः
सदस्ये कुरुते किंचिन्नासौ स्वामिनि तत्त्वतः

3पूर्वपक्षः

अध्वर्युब्रह्मादिषु षोडशसु व्यवस्थितेषु सप्तदशसंख्यापूरकः कश्चिदृत्विगपेक्षितः। सोऽत्र सदस्यो भविष्यति। सदस्यवस्थितः सदस्यः। न च तस्य वरणाभावः। केषांचिच्छाखायां तद्वरणस्याम्नातत्वात्। ततः साप्तदश्यं सदस्ये पर्यवसितम्- इति चेत्-
मैवम्। असौ सदस्यः किंचिदपि न करोति। 'सदस्य इदं कुर्यात्' इति विध्यभावात्।
न च विना क्रियामृतुयजननिमित्त ऋत्विक्शब्दस्तस्मिन्नवकल्पते। यजमानस्तु त्यागं करोतीति तस्मिन्नुपपद्यते। तस्मात्साप्तदश्यं यजमाने युक्तम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे दीक्षादक्षिणावाक्योक्तब्रह्मादीनामेव सप्तदशर्त्विक्त्वाधिकरणे सूत्रे 36-37”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.19 एकोनविंशे- आध्वर्यवादिष्वध्वर्य्वादीनां कर्तृतानियमाधिकरणे, विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे, च सूत्राणि 39- 42
ते सर्वार्थाः प्रयुक्तत्वात्, अग्नयश्च स्वकालत्वात्।। 39।।
तत्संयोगात्कर्मणो व्यवस्था स्यात्, संयोगस्यार्थवत्त्वात्।। 40।।
तस्योपदेशसमाख्यानेन निर्देशः।। 41।।
तद्वच्च लिङ्गदर्शनम्।। 42।।
एकोनविंशाधिकरणमारचयति-

1विषयः

न कार्यं नियतं तेषां नियतं वाऽग्रिमो यतः

3पूर्वपक्षः

शक्ताः केन किमित्यत्र नियतिः स्यात्समाख्यया
तेषामध्वर्युप्रभृतीनां कार्यं न नियतम्। यतः सर्वे सर्वत्र शक्ताः। प्रकरणं च सर्वसाधारणत्वान्न नियामकम्- इति चेत्-

4सिद्धान्तः

मैवम्
समाख्याया नियामकत्वात्
यस्मिन्कर्मणि 'आध्वर्यवम्' इति समाख्या तत्कर्माध्वर्योः
एवमितरत्रापि

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- ऋत्विजां स्वामिसप्तदशत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.20 विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे- उक्तसूत्रैकदेशः
अग्नयश्च (सर्वार्थाः) स्वकालत्वात्।। 39।।
विंशाधिकरणमारचयति-

1विषयः

प्रकृत्यर्थोऽथ सर्वार्थो वह्निराद्योऽस्तु पर्णवत्
पर्णन्यायोऽतिदिष्टे स्यादुपदिष्टे तु सर्वगः

3पूर्वपक्षः

यथा ''यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति'' इत्यसौ पर्णविधिः प्रकृत्यर्थः। एवमाधानस्याप्यनारभ्याधीतत्वादाहित आहवनीयाद्यग्निः प्रकृत्यर्थः- इति चेत्-
मैवम्। वैषम्यात्। पर्णवाक्यात्पर्णतायास्तावत्क्रतुप्रवेशे जुहूर्द्वारम्। सा च जुहूः प्रकृतावेव विहिता विकृतिषु सर्वत्रातिदिश्यते। आहवनीयाद्यग्नेस्तु क्रप्तुप्रदेशे द्वारं होमः। स च क्वचित्प्रकृतावेव विहितः सन्विकृतावतिदिश्यते।
तद्यथा- प्रयाजनारिष्ठादिहोमाः। तादृशे विषये ''यदाहवनीये जुह्वति'' इति वाक्येनाग्निः प्रकृतावेव विधीयते। विकृतौ तु होमेन सहातिदिश्यते। तस्मादत्र पर्णन्यायः। यस्तु होमो विकृतावुपदिश्यते। तद्यथा- सांग्रहण्यामिष्टावामनहोमः। तत्र द्वाररभूतस्य होमस्य विकृतावुपदिश्यमानतया द्वारिणोऽपि प्रकृताविव विकृतावपि वाक्येन विधिर्धारयितुमशक्यः। तस्मात्- सर्वार्थो वह्निः।। 29।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- आध्वर्यवादिष्वध्वर्य्वादीनां कर्तृतानियमाधिकरणे, विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे, च सूत्राणि 39- 42”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् समाख्याया नियामकत्वात् यस्मिन्कर्मणि 'आध्वर्यवम्' इति समाख्या तत्कर्माध्वर्योः एवमितरत्रापि”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.21 एकविंशे समाख्याबाधनाधिकरणे सूत्राणि 43-45
प्रैषानुवचनं मैत्रावरुणस्योपदेशात्।। 43।।
पुरोनुवाक्याधिकारो वा प्रैषसंनिधानात्।। 44।।
प्रातरनुवाके च होतृदर्शनात्।। 45।।
एकविंशाधिकरणमारचयति-

1विषयः

यन्मैत्रावरुणः प्रेष्यत्यनु चाहेति बाधनम्
हौत्रादिकसमाख्यायास्तत्सर्वत्रोत कुत्रचित्

3पूर्वपक्षः

आद्योऽस्तु वचनान्मैवं साहित्योक्त्युपलम्भनात्
प्रैषानुवचने यत्र सहिते तत्र बाधनम्
अग्नीषोमीयपशौ श्रूयते ''मैत्रावरुणः प्रेष्यति चानु चाह'' इति। तदेतद्वाक्यं प्रैषानुवचनयोर्मैत्रावरुणकर्तृकतां विदधाति। तेन च वाक्येन समाख्या बाध्यते। ''अग्नये समिध्यमानायानुब्रूहि'' ''यूपायाज्यमानायानुब्रूहि'' इत्यादिप्रैषाणामध्वर्युकर्तृकत्वदर्शनात्- 'आध्वर्यवाः प्रैषाः' इत्यस्ति याज्ञिकानां समाख्या। तथा। ''प्रवो वाजा अभिद्यवः'' ''अञ्जन्ति त्वामध्वरे देवयन्तः'' इत्याद्यनुवचनानां होतृकर्तृकत्वदर्शनात्। 'अनुवचनानि हौत्राणि'- इति याज्ञिकसमाख्या। प्रैषानुवचने च द्विविधे- समस्ते व्यस्ते च। पूर्वोदाहृते व्यस्ते। ''होताऽयक्षदग्निं समिधम्'' इत्याद्यनुवचनमन्त्रस्यान्ते 'होतर्यज' इति प्रैष आम्नातः। एते प्रैषानुवचने समस्ते। तेषु च व्यस्तसमस्तप्रैषानुवचनेषु सर्वत्र प्रबलेन वाक्येन समाख्यां बाधित्वा होतृकर्तृकत्वमध्वर्युकर्तृकत्वं च परित्यज्य मैत्रावरुणकर्तृकत्वमेवाभ्युपयेम्- इति प्राप्ते

4सिद्धान्तः

अभिधीयते- ''प्रेष्यति चानु चाह'' इति चकारद्वयेन प्रैषानुवचनयोः समुच्चयो वाक्येऽस्मिन्नुपलभ्यते
ततः समुच्चितयोरेव समाख्याबाधनम्
व्यस्तयोस्तु यथासमाख्यं होत्रादिकर्तृकत्वमेवाभ्युपेयम्।
30
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे- उक्तसूत्रैकदेशः”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.22 द्वाविंशे चमसहोमेऽध्वर्युचमसाध्वर्युकर्तृकताधिकरणे सूत्राणि 46-49
चमसांश्चमसाध्वर्यवः समाख्यानात्।। 46।।
अध्वर्युर्वा तन्न्यायत्वात्।। 47।।
चमसे चान्यदर्शनात्।। 48।।
अशक्तौ ते प्रतीयेरन्।। 49।।
द्वाविंशाधिकरणमारचयति-

1विषयः

चमसैश्चमसाध्वर्युर्जुहोत्यध्वर्युरेव वा

3पूर्वपक्षः

संज्ञाविशेषादाद्योऽस्तु मैवमध्वर्युसंज्ञया
'चमसाध्वर्युः' इत्येवंविधसंज्ञाविशेषाच्चमसाध्वर्यव एव चमसैर्जुहुयुः- इति चेत्-
मैवम्। अध्वर्युसंज्ञाया निरपेक्षत्वेन प्रबलत्वात्। केवलाध्वर्यौ चमसाध्वर्युषु चानुगतोऽध्वर्युशब्दः सामान्यरूपः। चमसशब्दस्तु चमसाध्वर्युष्वेवेति विशेषरूपः। तं च विशेषमनपेक्ष्यैवाध्वर्युशब्द ऋत्विक्संज्ञारूपेण वर्तितुं प्रभवति। चमसशब्दस्तु सामान्यवाचिनमध्वर्युशब्दमपेक्ष्यैव पुरुषेषु संज्ञा भवति। तथा सति 'आध्वर्यवो होमः' इत्यनया निरपेक्षया प्रबलया समाख्ययाऽध्वर्युरेव सत्यां शक्तौ चमसैर्जुहुयात्। ग्रहहोमव्यापृतत्वेन कदाचिदशक्तौ चमसाध्वर्यवो जुहुयुः।। 32।। 33।।

4सिद्धान्तः

विशेषस्यानपेक्षत्वात्तेनान्यस्या अपेक्षणात्
अध्वर्युर्जुहुयाच्छक्तेस्तदशक्तौ परोऽपि वा

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे समाख्याबाधनाधिकरणे सूत्राणि 43-45”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अभिधीयते- ''प्रेष्यति चानु चाह'' इति चकारद्वयेन प्रैषानुवचनयोः समुच्चयो वाक्येऽस्मिन्नुपलभ्यते ततः समुच्चितयोरेव समाख्याबाधनम् व्यस्तयोस्तु यथासमाख्यं होत्रादिकर्तृकत्वमेवाभ्युपेयम्। 30”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.23 त्रयोविंशे श्येनवाजपेययोरनेककर्तृकताधिकरणे सूत्रे 50-51
वेदोपदेशात्पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः।। 50।।
तद्गुणाद्वा स्वधर्मः स्यादधिकारसामर्थ्यात्सहाङ्गैरव्यक्तः शेषे।। 51।।
त्रयोविंशाधिकरणमारचयति-

1विषयः

श्येन उद्गातृवेदोक्तो वाजपेयो यजुष्ययम्
उद्गात्राऽध्वर्युणा कार्यौ यथाप्रकृति वाऽग्रिमः

3पूर्वपक्षः

आख्याविशेषादाख्यायाः पूर्वभावी हि चोदकः
प्रकृताविव कर्तारस्तत्तद्धर्मे व्यवस्थिताः
श्येनयागः सामवेदे समाम्नात इति तत्रत्याः सर्वे पदार्था उद्गात्राऽनुष्ठेयाः, बहिष्पवमानाज्यपृष्ठादिस्तोत्रेष्विवोद्गातृत्व समाख्यायाः श्येनेऽपि समत्वात्। तथा- यजुर्वेदे समाम्नातो वाजपेयः सर्वोऽप्यध्वर्युणैवानुष्ठेयः। समाख्यावशात्- इति प्राप्ते-

4सिद्धान्तः

इति श्रीमाधवीय जैमिनीयन्यायमालविस्तरे तृतीयाध्यायस्य सप्तमः पादः
ब्रूमः- श्येनवाजपेयौ हि ज्योतिष्टोमविकारौ। तत्र चोदकस्तत्तत्पदार्थांस्तैस्तैः पुरुषैरनुष्ठेयतया समर्पयति। अङ्गेष्वतिदिष्टेषु पश्चात्साङ्गप्रधानानुष्ठापकस्य प्रयोगवचनस्य प्रवृत्तिः। प्रयोगवचनाधीना तु समाख्याऽत्यन्तजघन्या। ततः प्रबलचोदकवशात्प्रकृताविव नानाविधाः कर्तारः स्वस्वधर्मेषु व्यवतिष्ठन्ते।। 34।। 35।।
अत्र पादे- अधिकरणानि 23, सूत्राणि 51।
आदितः- अधिकरणानि 223, सूत्राणि 613।
तृतीयाध्यायस्याष्टमः पादः
याजमानानि।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वाविंशे चमसहोमेऽध्वर्युचमसाध्वर्युकर्तृकताधिकरणे सूत्राणि 46-49”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विशेषस्यानपेक्षत्वात्तेनान्यस्या अपेक्षणात् अध्वर्युर्जुहुयाच्छक्तेस्तदशक्तौ परोऽपि वा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.7.24 प्रथमे क्रयस्य स्वामिकर्मताधिकरणे सूत्रम्
स्वामिकर्म परिक्रयः कर्मणस्तदर्थत्वात्।। 1।।
अष्टमपादे प्रथमाधिकरणमारचयति-

1विषयः

दक्षिणादिपरिक्रीतिर्ऋत्विजः स्वामिनोऽथवा
परिक्रयः समाख्यानादृत्विजः स्याद्यथेतरत्

3पूर्वपक्षः

परिक्रयात्पुराऽध्वर्युहोत्रादीनामभावतः
परिक्रयणकर्तृत्वं यजमानस्य नर्त्विजः
दक्षिणादानेन कर्मकराः परिक्रेतव्याः। तत्र हविस्त्यागव्यतिरिक्तं सर्वमार्त्विज्यम्- इति निर्णीतम्। दक्षिणा च द्वादशशतरूपाऽध्वर्युवेद उद्गातृवेदे च समाम्नातै। अन्वाहार्यदक्षिणाऽध्वर्युवेदे। ततः समाख्यया परिक्रेतृत्वमृत्विजः- इति चेत्-

4सिद्धान्तः

मैवम्
ऋत्विजां परिक्रयणोत्तरकालीनानां तत्कर्तृत्वासंभवेन यजमानस्यैव तत्कर्तृत्वात्।
1

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बहुप्रधानोपकारकप्रयाजादीनि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोविंशे श्येनवाजपेययोरनेककर्तृकताधिकरणे सूत्रे 50-51”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीय जैमिनीयन्यायमालविस्तरे तृतीयाध्यायस्य सप्तमः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 3, Pāda 6 Contents Adhyāya 3, Pāda 8 →