SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 3, Pāda 3

शेषत्वम्

वाक्यप्रकरणादि

15adhikaraṇas
46sūtras
3.3.1 प्रथमे- उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि 1-8
श्रुतेर्जाताधिकारः स्यात्।। 1।।
वेदो वा प्रायदर्शनात्।। 2।।
लिङ्गाच्च।। 3।।
धर्मोपदेशाच्च नहि द्रव्येण संबन्धः।। 4।।
त्रयीविद्याख्या च तद्विदि।। 5।।
व्यतिक्रमे यथाश्रुतीति चेत्।। 6।।
न सर्वस्मिन्निवेशात्।। 7।।
वेदसंयोगान्न प्रकरणेन बाध्येत।। 8।।
तृतीयपादे प्रथमाधिकरणमारचयति-

1विषयः

कर्तव्यमुच्चैः सामर्ग्भ्यामुपांशु यजुषेत्यमी
मन्त्राणां वाऽथ वेदानां धर्मा मन्त्रगता यतः

3पूर्वपक्षः

विध्युद्देशे मन्त्रवाचिशब्दाः प्रोक्ता ऋगादयः
ऋग्वेदोऽग्नेः समुत्पन्न इत्युपक्रमवेदगीः
ज्योतिष्टोमे श्रूयते ''उच्चैर्ऋचा क्रियते। उपांशु यजुषा। उच्चैः साम्ना'' इति। तत्र विधिवाक्ये मन्त्रवाचिनामृगादिशब्दानां प्रयोगान्मन्त्रधर्मा उच्चैस्त्वादयः। तथा सति यजुर्वेदोत्पन्ना अध्वर्युणा प्रयुज्यमाना अप्यृच उच्चैरेव पठितव्याः- इति चेत् ।
मैवम्। असञ्जातविरोधित्वेन प्रबलमुपक्रममनुसृत्य तद्वशेनोपसंहारस्य नेतव्यत्वात्। उपक्रमे हि वेदशब्दः श्रुतः- ''त्रयो वेदा असृज्यन्त। अग्नेर्ऋग्वेदः। वायोर्यजुर्वेदः। आदित्यात्सामवेदः'' इति। अत उपक्रमगतवेदानुसारेण विध्युद्देशगतानामप्यृगादिशब्दानां वेदपरत्वे सत्यृचोऽपि यजुर्वेदोत्पन्ना उपांशु पठनीयाः।
ननु- उपक्रमोऽत्रार्थवादत्वाद्दुर्बलः। उपसंहारो विध्युद्देशत्वात्प्रबलः- इति चेत्- बाढम्। लब्धात्मनो हि विध्युद्देशस्य प्राबल्यम्। इह तु प्रथमतो बुद्ध्युत्पादक उपक्रमः। तदानीमलब्धात्मत्वान्न तस्य बाधकत्वम्। पश्चात्तु वाक्यैकत्वाय तदविरोधेनैवात्मानं लप्स्यते। तदेवमुपक्रमोपसंहारैकवाक्यताबलेन निर्णयाद्वाक्यविनियोगोऽयम्।। 1।। 2।। 3।।

4सिद्धान्तः

असंजातविरोधाऽतस्तद्वशादुपसंहृतेः
नयने सति वाक्येन धर्माणां वेदगामिता

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे 'गायत्रच्छन्दसः' इत्यादिमन्त्रविनियोगाधिकरणे सूत्राणि 41-43”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.2 द्वितीये-आधाने गानस्योपांशुताधिकरणे सूत्रम्
गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः।। 9।।
द्वितीयाधिकरणमारचयति-

1विषयः

यजुर्वेदस्थमाधानं तदङ्गं साम तत्र किम्
उच्चैरुपांशु वा गानमुच्चैः शीघ्रप्रतीतितः

3पूर्वपक्षः

उत्पत्तेर्विनियोगोऽत्र प्रबलोऽनुसृतिर्यतः
मुख्यस्याङ्गेन कर्तव्या तस्माद्गान उपांशुता
आधाने वामदेव्यादिसामान्यङ्गत्वेन विहितानि। तत्र- यद्यप्येतानि यजुर्वेदगतस्याधानस्याङ्गानि, तथाऽपि सामवेदे तेषामुत्पन्नत्वात्, उत्पत्तेश्च शीघ्रबुद्धिहेतुत्वात्सामवेदधर्मेण गेयानि- इति चेत्-
न। विनियोगस्य प्रबलत्वात्। स च यजुर्वेदे श्रुतः- ''य एवं विद्वान्वामदेव्यं गायति'' इति। गुणेन हि मुख्यस्यानुसरणं न्याय्यम्। को गुणः, किं मुख्यम्- इति चेत्- अत्राङ्गित्वादाधानं मुख्यम्, सामगानमङ्गत्वेन गुणः। तथा साति 'घर्मः शिरः' इत्यादय आधानाङ्गभूता मन्त्रा यथोपांशु पठ्यन्ते, तथा सामान्यप्याधानानुसारेणोपांशु गेयानि। अथवा विनियोगोऽनुष्ठापकविधित्वान्मुख्यः। उत्पत्तिविधिरतथाविधत्वाद्गुणः। तस्मात्- अत्र विनियोगवेदानुसारेणोपांशु गेयानि।। 4।। 5।। 6।।

4सिद्धान्तः

आधानस्यात्र मुख्यत्वं गानस्य गुणताऽथवा
विनियोगस्य मुख्यत्वमुत्पत्तेर्गुणताऽस्त्विह

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि 1-8”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “असंजातविरोधाऽतस्तद्वशादुपसंहृतेः नयने सति वाक्येन धर्माणां वेदगामिता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.3 तृतीये ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणे सूत्रम्
भूयस्त्वेनोभयश्रुति।। 10।।
तृतीयाधिकरणमारचयति-

1विषयः

ज्योतिष्टोमो यजुःसामवेदयोरस्ति तत्र किम्
उच्चैस्त्वमुत नीचैस्त्वं हेत्वभावादनिर्णयः

3पूर्वपक्षः

यजुष्यधिगते द्रव्यदेवते तत्र तद्विधिः
तद्वशात्स्वरनिर्णीतेरुपांशु स्यादनुष्ठितिः
''ज्योतिष्टोमेन स्वर्गकामो यजेत'' इत्येतद्वाक्यं वेदद्वये समाम्नातम्। तत्र- 'को विधिः, कश्च गुणविधानायानुवादः' इति जिज्ञासायां नियामकहेतोरप्रतिमानात् 'एतस्य वेदस्य धर्मोऽनुष्ठेयः' इत्यनिर्णयः- इति चेत्-
न। सोमद्रव्यस्य, इन्द्रवाय्वादिदेवतायाश्च यजुर्वेदेऽधिगतत्वादङ्गबाहुल्यश्रवणाच्च तत्रैव विधिः, इति-

4सिद्धान्तः

उपांशुप्रयोगः।
7

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये-आधाने गानस्योपांशुताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आधानस्यात्र मुख्यत्वं गानस्य गुणताऽथवा विनियोगस्य मुख्यत्वमुत्पत्तेर्गुणताऽस्त्विह”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.4 चतुर्थे प्रकरणस्य विनियोजकताधिकरणे सूत्रम्
असंयुक्तं प्रकरणादितिकर्तव्यतार्थित्वात्।। 11।।
चतुर्थाधिकरणमारचयति-

1विषयः

न क्रत्वङ्गं प्रयाजादि क्रत्वङ्गं वा न चाङ्गता
प्रक्रियाया अमानत्वान्नैराकाङ्क्ष्येण वाक्ययोः

3पूर्वपक्षः

प्रयाजादेः फलेऽपेक्षा कथंभावेऽपि च क्रतोः
तेन प्रकरणाम्नानं तस्मादङ्गाङ्गिता तयोः
सार्धपादद्वये विनियोजकत्वेनोक्तानि यानि श्रुतिलिङ्गवाक्यानि, तेभ्योऽतिरिक्तं प्रकरणनामकं किंचित्प्रमाणं न वेदे पश्यामः। नहि पदतत्सामर्थ्यान्वयैरसंसृष्टः कश्चिद्वेदभागः केनचिदाम्नायते। एकवाक्यतामापन्नो वाक्यसमूहः प्रकरणम्- इति चेत्- न। वाक्ययोः सतोः पश्चादेकवाक्यताया अभावात्। न हि ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' ''समिधो यजति'' इत्यनयोर्वाक्ययोः परस्पराकाङ्क्षाऽस्ति, येन वाक्यैकवाक्यता कल्प्येत। तस्मान्न प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- प्रयाजादयः फलहेतवः, पुरुषप्रवृत्तिरूपत्वात्, सेवादिवत्
दर्शपूर्णमासावुपकरणैरुपकार्यौ, करणत्वात्, प्रदीपोपकृतचक्षुर्वत्
तथा सति 'किं प्रयाजादेः फलम्, किंवा दर्शपूर्णमासयोरुपकरणम्' इत्याकाङ्क्षायां संपन्नवाक्यैकवाक्यतारूपं प्रकरणम्
तेन च प्रयाजादीनामङ्गत्वं प्रतीयते।
9
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उपांशुप्रयोगः। 7”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.5 पञ्चमे क्रमस्य विनियोजकत्वाधिकरणे सूत्रम्
क्रमश्च देशसामान्यात्।। 12।।
पञ्चमाधिकरणमारचयति-

3पूर्वपक्षः

दर्शपूर्णमासयोर्याजमाने मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते-''दब्धिरस्यदब्धो भूयासम्, अमुं दभेयम्'' इति। अस्यमन्त्रस्योपांशुयाजाङ्गतायां श्रुतिवाक्ये न विद्येते। ब्राह्मणे विनियोगमनाम्नायार्थविवरणस्यैवा म्नानात्। ''एतया वै दब्ध्या देवा असुरानदभ्नुवन्। तयैव भ्रातृव्यं दभ्नोति'' इति ब्राह्मणम्। दब्धिर्धातुकमायुधम्। आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम्। प्रकरणं च त्रयाणामेकमेव। ततो मानाभावादयं मन्त्रो नोपांशुयाजाङ्गम्- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- आध्वर्यवे काण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाम्नातानि। याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाम्नाताः- ''अग्नेरहं देवयज्ययाऽन्नादो भूयासम्'', ''दब्धिरस्यदब्धो भूयासममुं दभेयम्'', ''अग्निषोमयारेहं देवयज्यया वृत्रहा भूयासम्'' इति। तत्र यथा वाक्यद्वयानुसंधानसंपन्नं प्रकरणं पृथक्प्रमाणम्, तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात्। न चास्य प्रकरणेऽन्तर्भावः। द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात्। तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाजस्य मध्यवर्ती मन्त्रोऽङ्गम्। 'समानदेशत्वं क्रमः' इति क्रमस्य स्वरूपम्।
तच्च द्विविधम्- पाठकृतमर्थकृतं च।
तत्र पाठकृतमपि द्विविधम्- यथासंख्यं संनिधिश्चेति।
तयोराद्यस्य दब्धिमन्त्र उदाहरणम्। ''शुन्धध्वं दैव्याय कर्मणे'' इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणो भासते। तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु 'मातरिश्वनः' इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणे 'शुन्धध्वम्' इति मन्त्रो विनियुज्यते। अनुष्ठानसादेश्यान्पशुधर्माणामग्नीषोमीयाङ्गत्वम्। तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम्।। 11।। 12।। 13।। 14।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे प्रकरणस्य विनियोजकताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रयाजादयः फलहेतवः, पुरुषप्रवृत्तिरूपत्वात्, सेवादिवत् दर्शपूर्णमासावुपकरणैरुपकार्यौ, करणत्वात्, प्रदीपोपकृतचक्षुर्वत् तथा सति 'किं प्रयाजादेः फलम्, किंवा दर्शपूर्णमासयोरुपकरणम्' इत्याकाङ्क्षायां संपन्नवाक्यैकवाक्यतारूपं प्रकरणम् तेन च प्रयाजादीनामङ्गत्वं प्रतीयते। 9”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.6 षष्ठे समाख्याया विनियोजकताधिकरणे सूत्रम्
आख्या चैवं तदर्थत्वात्।। 13।।
षष्ठाधिकरणमारचयति-

1विषयः

वेदत्रयोक्तधर्माणामृत्विग्भिः संगतिस्त्रिभिः
अनियत्या नियत्या वा नियतिर्नानिरूपणात्

3पूर्वपक्षः

हौत्रत्वादिसमाख्यानं नियतेर्गमकं स्वतः
निर्बाधं चान्यवत्तच्च तेनात्र विनियोजकम्
याज्यापुरोनुवाक्यापाठादयो धर्मा ऋग्वेदे प्रोक्ताः। दोहननिर्वापादयो यजुर्वेदे। आज्यस्तोत्रपृष्ठस्तोत्रादयः
सामवेदे। तत्र 'अस्यैवैते धर्माः' इति नियामकस्य दुर्निरूपत्वाद्येन केनाप्यृत्विजा यः कोऽपि धर्म इच्छया संगच्छते- इति चेत्-

4सिद्धान्तः

मैवम्
'हौत्रम्, आध्वर्यवम्, औद्गात्रम्' इति समाख्यानेन नियतिर्बोध्यते
न च समाख्यानस्य बाधकं किंचित्पश्यामः
तस्मादबोधकत्वबाधितत्वयोरप्रामाण्यकारणयो- रभावाच्छ्रुतिलिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते।
15

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे क्रमस्य विनियोजकत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.7 श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणेषु [7-12] सूत्रम्
श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्।। 14।।
सप्तमा(श्रुतिप्राबल्या)धिकरणमारचयति-

1विषयः

ऐन्द्र्योपस्थीयतां वह्निरितीन्द्राग्न्योर्विकल्पनम्
समुच्चयो वोत शक्र एवाग्निः केवलोऽथवा

3पूर्वपक्षः

विकल्पः श्रुतिलिङ्गाभ्यां गुणावृत्त्या समुच्चयः
श्रुतिः शक्त्यनुसारेति शक्र एकोऽत्र लिङ्गतः
''ऐन्द्र्या गार्हपत्यमुपतिष्ठते'' इति श्रूयते। ''कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे'' इत्यसावृगैन्द्री। तत्रेन्द्रस्य प्रकाशनात्। 'भो इन्द्र, कदाचिदपि घातको न भवसि। किंत्वाहुतिं दत्तवते यजमानाय प्रीयसे' इत्यर्थः। तत्र- इन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गान्मन्त्रस्येन्द्रविषयक्रियासाधनत्वं गम्यते। यद्यसौ मन्त्र इन्द्रप्रधानकक्रियायाः साधको न भवेत्, तदानीमनेन मन्त्रेणेन्द्रप्रकाशनं व्यर्थं स्यात्। तस्मात् 'एतन्मन्त्रकरणकक्रियां प्रतीन्द्रः प्रधानम्' इत्येतादृशबुद्ध्युत्पादनं लिङ्गविनियोगः।
'काऽसौ क्रिया' इति विशेषजिज्ञासायाम् 'ऐन्द्योपतिष्ठते' इत्यनेनाविरुद्धपदद्वयरूपेण वाक्येनोपस्थानक्रियायां पर्यवसानं क्रियते। तथासति 'ऐन्द्रमन्त्रेणेन्द्रमुपतिष्ठेत' इत्ययमर्थः पर्यवस्यति। तथा 'गार्हपत्यम्' इति द्वितीयान्तपदरूपया श्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते। तच्च गुणभूतां यत्किंचित्करणकक्रियामन्तरेण न संभवति। ततः 'तादृशीं कांचित्क्रियां प्रति गार्हपत्यः प्रधानम्' इत्येतादृशबुद्ध्युत्पादनं श्रुतिविनियोगः। 'ऐन्द्या, उपतिष्ठते' इति पदद्वयेन मन्त्रविशेषक्रियाविशेषयोः पर्यवसानं भवति। तथा सति 'ऐन्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठते' इत्यर्थो भवति। तदेवं श्रुतिलिङ्गयोर्विरोधे सति प्रमाणत्वाविशेषाद्ब्रीहियववद्विकल्पः- इत्येकः पूर्वपक्षः।
इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषादुपस्थानस्य च गुणत्वात् 'प्रतिप्रधानं गुणः' इति न्यायेनोपस्थानावृत्या श्रुतिलिङ्गयोः समुच्चयः- इति द्वितीयः पूर्वपक्षः।
श्रुतिर्विनियुञ्जाना वस्तुसामर्थ्यमनुसृत्यैव विनियुङ्क्ते। अन्यथा 'वह्निना सिञ्चेत्' 'वारिणा दहेत्' इत्यपि विनियुज्येत। तत उपजीव्यत्वेन लिङ्गस्य प्रबलत्वादिन्द्र एव मन्त्रेणोपस्थेयः- इति तृतीयः पूर्वपक्षः ।
ऐन्द्रमन्त्रस्य गार्हपत्ये मुख्यवृत्त्या शक्त्यभावेऽपि गौणवृत्त्या शक्तिरस्तीति 'निवेशनः' इत्यस्मिन्नुदाहरणे पूर्वमेव दर्शितम्। तथा सति सामर्थ्याभावकृतप्रतिबन्धाभावान्निर्विघ्ना श्रुतिः शीघ्रं विनियुङ्क्ते। लिङ्गं तु विलम्बते। मन्त्रपदान्यादौ स्वाभिधेयमर्थे प्रतिपादयन्ति। तत ऊर्ध्वं मन्त्रस्य सामर्थ्यं निरूप्यते। पश्चात्सामर्थ्यवशात्साधनत्ववाचिनी प्राधान्यवाचिनी च श्रुतिः कल्प्यते। सा च श्रुतिः 'मन्त्रेणेन्द्रमुपतिष्ठेत' इति विनियुङ्क्ते। तथा सति प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयोर्मध्यवर्तिनौ सामर्थ्यनिरूपण-श्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्गं बाध्यते।
न च प्रत्यक्षश्रुतिविनियोगवेलायामलब्धात्मकत्वेनाप्राप्तं लिङ्गं कथं बाध्येत- इति शङ्कनीयम्। भविष्यत्प्राप्तिप्रतिबन्धस्यैवात्र बाधत्वात्। श्रुत्या विनियुक्तस्य मन्त्रस्य पुनर्विनियोगाकाङ्क्षाया अनुदयात्कथं विनियोजकं लिङ्गं प्राप्स्यति। तस्मात्- गार्हपत्योपस्थाने मन्त्रः प्रत्यक्षश्रुत्या विनियुज्यते।। 18।। 19।।

4सिद्धान्तः

शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं श्रुत्यनुमापकम्
नैराकाङ्क्ष्यात्मके बोधे श्रुत्याऽग्नौ केवले स्थितिः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे समाख्याया विनियोजकताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'हौत्रम्, आध्वर्यवम्, औद्गात्रम्' इति समाख्यानेन नियतिर्बोध्यते न च समाख्यानस्य बाधकं किंचित्पश्यामः तस्मादबोधकत्वबाधितत्वयोरप्रामाण्यकारणयो- रभावाच्छ्रुतिलिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते। 15”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
अष्टमा (वाक्याद्यपेक्षया लिङ्गस्य प्राबल्या) धिकरणमारचयति-

3पूर्वपक्षः

दर्शपूर्णमासयोः श्रूयते ''स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि। तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः'' इति। 'भोः पुरोडाश, तव समीचीनं स्थानं करोमि। तच्च स्थानं घृतस्य धारया सुष्ठु सेवितुं योग्यं कल्पयामि। भो व्रीहिसारभूत, त्वं समाहितमनस्कस्तस्मिन्समीचीने स्थान उपविश। तत्र स्थिरो भव' इत्यर्थः। तत्र- 'तस्मिन्' इत्यनेन तच्छब्देन प्रकृतवाचिना पूर्वोत्तरार्धयोरेकवाक्यत्वे सति मन्त्रद्वयाभावात्सर्वोऽप्ययं मन्त्रः स्थानकरणेऽङ्गं स्यात्। मन्त्रविनियोजिका श्रुतिरेवं कल्पनीया- 'सर्वेणानेन मन्त्रेण स्थानं कर्तव्यम्' इति। तथा 'सर्वेण मन्त्रेण पुरोडाशः स्थापनीयः' इत्यपि कल्पनीया। सदनाङ्गत्ववत्प्रतिष्ठापनाङ्गत्वस्यापि तद्वाक्यबोधितत्वात्। तथा सति सदनस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा निजेच्छया भविष्यति- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेन संपन्नमेकं वाक्यम्, तदेतदुत्तरार्धस्य सदनकरणे शक्तिमकल्पयित्वा कृत्स्नं मन्त्रं सदने विनियोक्तुं नार्हति। तथा पूर्वार्धस्य स्थापने शक्तिमकल्पयित्वा न तत्र प्रभवति। अतो लिङ्गकल्पनव्यवधानेन वाक्यं श्रुतिं प्रति विप्रकृष्यते। प्रत्यक्षं तु लिङ्गद्वयं संनिकृष्यते। तथा सति लिङ्गेन वाक्यबाधादर्थद्वयमुभयोर्व्यवस्थितम्।
ननु- 'ऐन्द्या गार्हपत्यम्' इत्यत्रापि पदद्वयान्वयरूपस्य वाक्यस्य विनियोजकत्वप्रतीतेर्लिङ्गवाक्यविरोधाय तदेवोदाह्रियताम्- इति चेत्-
अपरः पक्षः
नवमा(वाक्यस्य प्रकरणाद्यपेक्षया प्राबल्या)धिकरणमारचयति-

1विषयः

अग्नीषोमाविदं हव्यमजुषेतामितीरितात्

3पूर्वपक्षः

अपच्छिद्येदमित्यादिः सर्वशेषो भवेन्न वा
सूक्तवाके श्रूयते ''अग्निषोमाविदं हविरजुषेताम्, अवीवृधेताम्, महो ज्यायोऽक्राताम्। इन्द्राग्नी इदं हविरजुषेताम्, अवीवृघेताम्, महो ज्यायोऽक्राताम्'' इति। तत्र- देवतावाचकमग्नीषोमादिपदं पौर्णमास्यादिकाले यथादेवतं विभज्य प्रयोक्तव्यम्- इति पूर्वपादे निर्णीतम्। यत्तु 'इदं हविः' इत्यादिकमवशिष्टं पदजातं, तदग्नीषोममन्त्रगतमप्यमावास्यायामग्नीषोमपदपरित्यागेन पठनीयम्। एवम्- इन्द्राग्निमन्त्रगतमपि पौर्णमास्यामिन्द्राग्निपदपरित्यागेन पठनीयम्। तथासत्येषां मन्त्रभागानां सर्वशेषत्वबोधको दर्शपूर्णमासप्रकरणपाठोऽनुगृह्यते- इति प्राप्ते-

4सिद्धान्तः

प्रक्रियातो भवेन्मैवं प्रक्रियाऽन्तरिता त्रिभिः
वाक्यं द्वयन्तरितं तेन भवेत्प्रकरणाद्बलि
ब्रूमः- अग्नीषोममन्त्रशेषस्येन्द्राग्निपदान्वयाश्रवणात्। प्रकरणेन प्रथमे तदन्वयरूपं वाक्यं कल्पनीयम्। तेन च वाक्येनेन्द्रादिप्रकाशनसामर्थ्यरूपं लिङ्गं कल्प्यते। तच्च लिङ्गम् 'अनेन मन्त्रभागेनेन्द्राग्निविषयक्रियाऽनुष्ठेया' इति विनियोजिकां तृतीयाश्रुतिं कल्पयति। ततः प्रकरणविनियोगयोर्मध्ये त्रिभिर्व्यवधानं भवति। अग्नीषोमपदान्वयरूपं तु वाक्यं श्रूयमाणत्वाल्लिङ्गश्रुतिभ्यामेव व्यवधीयते। तस्माद्वाक्येन प्रकरणस्य बाधितत्वात्तच्छेषस्तत्रैव व्यवतिष्ठते।। 23।। 24।।
अपरः पक्षः
दशमा(प्रकरणस्य क्रमाद्यपेक्षया प्राबल्या)धिकरणमारचयति-

1विषयः

राजसूयेऽभिषेच्याख्ययागे ये देवनादयः

3पूर्वपक्षः

तच्छेषास्तेऽखिलार्था वा तच्छेषास्तस्य संनिधेः
राजसूये पश्विष्टिसोमयागा बहवः प्रधानभूताः। तत्राभिषेचनीयाख्यः कश्चित्सोमयागः। तस्य संनिधौ देवनादयः श्रूयन्ते- ''अक्षैर्दीव्यति। राजन्यं जिनाति। शौनःशेपमाख्यापयति'' इति। जिनाति जयति। बह्वृचब्राह्मणे समाम्नातं शुनःशेपविषयमुपाख्यानं शौनःशेपम्। तत्र संनिधिबलाद्देवनादयोऽभिषेचनीयाङ्गम्- इति चेत्-
मैवम्। राजसूयस्य कथंभावाकाङ्क्षायामनुवृत्तायां विहिता देवनादयः प्रकरणेन राजसूयशेषाः। राजसूयश्च बहुयागात्मक इति तत्रत्यसर्वयागशेषत्वम्। न चाभिषेचनीयस्य काचिदाकाङ्क्षा देवनादिष्वस्ति। ज्योतिष्टोमविकृतित्वेनातिदिष्टैः प्राकृताङ्गैरेव तदाकाङ्क्षानिवृत्तेः। संनिहितविधिबलादाकाङ्क्षोत्थाप्यते- इति चेत्- अत एवाकाङ्क्षारूपमवान्तरप्रकरणमादौ परिकल्प्य तद्द्वारा वाक्यलिङ्गश्रुतीकल्पनया संनिधिर्विप्रकृष्यते। राजसूयाकाङ्क्षारूपं तु महाप्रकरणं क्लृप्तत्वादेकया कक्षया संनिकृष्यते। तस्मात्-प्रकरणेन संनिधिबाधात्सर्वशेषा देवनादयः।। 25।। 26।।

4सिद्धान्तः

राजसूयकथंभावानुवृत्तेः सर्वशेषता
कल्प्याकाङ्क्षाऽभिषेच्यस्य प्रक्रिया प्रबला ततः
अपरः पक्षः
एकादशा(क्रमस्य समाख्यापेक्षया प्राबल्या)धिकरणमारचयति-

1विषयः

शुन्धध्वमिति मन्त्रोऽङ्गं पौरोडाशिकशोधने

3पूर्वपक्षः

सांनाय्यपात्रशुद्धौ वा प्रथमोऽस्तु समाख्यया
''शुधध्वं दैव्याय कर्मणे'' इत्ययं मन्त्रः 'पौरोडाशिकम्' इति याज्ञिकैः समाख्याते काण्डे पठितत्वात्समाख्यया पुरोडाशकाण्डोक्तानामुलूखलजुह्वादीनामपि शोधनेऽङ्गम्- इति चेत्-
मैवम्। 'पौरोडाशिकम्' इति समाख्यायां प्रकृतिः पुरोडाशमात्रमभिधत्ते, तद्धितप्रत्ययश्च काण्डम्। न चैतावता कृत्स्नपुरोडाशपात्राणां मन्त्रसंनिधिः प्रत्यक्षो भवति। किंत्वर्थापत्त्या कल्प्यते- यद्युक्तसंनिधिर्न स्यात्, तदा मन्त्रप्रतिपादकग्रन्थस्य पौरोडाशिकसमाख्या न स्यात्। न ह्यग्न्यसंनिहितानाम् 'इषे त्वा' दिमन्त्राणामाग्नेयकाण्डसमाख्या भवति। संनिहितानां तु ''युञ्जानः प्रथमं मनः'' इत्यादिमन्त्राणां भवत्येषा समाख्या। तस्मात्- काण्डसमाख्यया संनिधिं परिकल्प्य तत्संनिध्यन्यथाऽनुपपत्त्या परस्पराकाङ्क्षारूपं कृत्स्नं पात्रप्रकरणं कल्पयित्वा तद्द्वारा वाक्यलिङ्गश्रुतीः कल्पयित्वा तया श्रुत्या विनियोग इति समाख्याया विप्रकर्षः। सांनाय्यपात्राणां शोधने मन्त्रसंनिधिस्तु प्रत्यक्षः। इध्माबर्हिःसंपादनस्य मुष्टिनिर्वापस्य चान्तरालं सांनाय्यपात्राणां देश उक्तः। मन्त्रश्चेध्माबर्हिर्निर्वापविषययोर्मन्त्रानुवाकयोर्मध्यमेऽनुवाके पठ्यते। तेन च प्रत्यक्षसंनिधिना प्रकरणादीनां चतुर्णामेव कल्पनात्संनिधिः संनिकृष्यते। तस्मात्- क्रमेण समाख्यां बाधित्वा 'सांनाय्यपात्रशोधनशेषो मन्त्रः' इत्ययं चरमः पक्षोऽभ्युपेयः।। 27।। 28।।

4सिद्धान्तः

पौरोडाशिकमित्यत्र प्रकृत्या तद्धितेन वा
संनिध्यनुक्तितः कल्प्यः क्लृप्तत्वाच्चरमः क्रमात्
अपरः पक्षः
द्वादशा(बाधयोग्यता)धिकरणमारचयति-

1विषयः

बाधो न युक्तो युक्तो वा प्राप्त्यप्राप्त्योर्न युज्यते

3पूर्वपक्षः

अप्रवृत्तं प्रसक्तं यद्धिया तस्यास्तु बाध्यता
प्राप्तस्य प्रवृत्तिरस्तीति न तन्निवारणं शक्यम्। अप्राप्तस्य बाधविषयत्वेनावस्थानमेव नास्ति। तस्मात्-न युक्तो बाधः- इति चेत्-
मैवम्। बुद्ध्या विषयीकृतस्य वारयितुं शक्यत्वात्। न चैतदत्यन्तं प्रवृत्तम्। अनुष्ठानरूपफलपर्यवसानाभावात्। नाप्यत्यन्तमप्रवृत्तम्। तद्बुद्धेरुत्पन्नत्वात्। अतो नोक्तदोषद्वयम्। दशमे चोदकप्रमाणेनावबुद्धोऽर्थो बाध्यत इति प्राप्तबाधः। इह तु पूर्वपूर्वप्रमाणविरुद्धैरुत्तरोत्तरैः प्रमाणाभासैरवबुद्धस्येत्यप्राप्तबाधः।। 29।। 30।।

4सिद्धान्तः

प्रमाणतः प्रसक्तस्य बाधो दाशमिकोऽत्र तु
विभ्रमेण प्रसक्तस्य तस्मादप्राप्तबाधनम्
3.3.8 त्रयोदशे द्वादशोपसत्ताया अहीनाङ्गताधिकरणे(अहीनन्याये) सूत्रे-15-16
अहीनो वा प्रकरणाद्गौणः।। 15।।
असंयोगात्तु मुख्यस्य तस्मादपकृष्येत।। 16।।
त्रयोदशाधिकरणमारचयति-

1विषयः

तिस्र एव हि साह्ने स्युरहीने द्वादशेत्यतः
ज्योतिष्टोमे द्वादशत्वमथवाऽहर्गणे भवेत्

3पूर्वपक्षः

अस्तु प्रकरणादाद्यो नाहीनत्वं विरुध्यते
प्रकृतित्वान्न केनापि हीनोऽतोऽत्र विकल्प्यताम्
ज्योतिष्टोमप्रकरणे श्रूयते ''तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य'' इति। एकेनाह्ना निष्पाद्यत्वात्साह्नो ज्योतिष्टोमः। दीक्षादिवसादूर्ध्वं सोमाभिषवदिवसात्पूर्वं कर्तव्या होमा उपसदः। तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते। अहीनशब्दश्च तस्मिन्नेव कल्पते। ज्योतिष्टोमस्य निखिलसोमयागप्रकृतित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामिव हीनत्वाभावात्। अतो द्वादशत्वत्रित्वयोर्विकल्पः- इति प्राप्ते-

4सिद्धान्तः

साह्नाद्भिन्नाहीनसंज्ञा रूढैषाऽहर्गणे भवेत्
षष्ठीश्रुत्या द्वादशत्वं प्रक्रियातोऽपकृष्यताम्
ब्रूमः- आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः। तस्मिन्नहीनशब्दो रूढः। यौगिकत्वे तु 'न हीनः' इति विगृह्य समासे कृते सत्ययज्ञादिशब्दबदाद्युदात्तः स्यात्। मध्योदात्तस्त्वाम्नायते। रूढिश्च विग्रहनिरपेक्षत्वाच्छीघ्रबुद्धिहेतुः। अतो ज्योतिष्टोमवाचिनः साह्नशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गणमभिधत्ते। तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते। तत्सिद्धये प्रकरणादिदमपनेतव्यम्।। 31।। 32।। 33।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणेषु [7-12] सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं श्रुत्यनुमापकम् नैराकाङ्क्ष्यात्मके बोधे श्रुत्याऽग्नौ केवले स्थितिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.9 चतुर्दशे कुलायादौ प्रतिपदोरुत्कर्षाधिकरणे सूत्राणि 17-19
द्वित्वबहुत्वयुक्तं वा चोदनात्तस्य।। 17।।
पक्षेणार्थकृतस्येति चेत्।। 18।।
न प्रकृतेरेकसंयोगात्।। 19।।
चतुर्दशाधिकरणमारचयति-

1विषयः

युवं हीति द्वयोः कर्त्रोर्बहूनां चैत इत्यमूम्
कुर्यात्प्रतिपदं ज्योतिष्टोमे साहर्गणेऽथवा

3पूर्वपक्षः

एकस्य शक्तिराहित्ये द्वाभ्यां बहुभिरेव वा
ज्योतिष्टोमस्य कार्यत्वात्प्रकृतेऽत्रैव सा भवेत्
ज्योतिष्टोमे श्रूयते ''युवं हि स्थः स्वर्पती'' इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात्। ''एते असृग्रमिन्दवः'' इति बहुभ्यो यजमानेभ्यः- इति। स्तोत्रस्योपक्रमे पठनीयामृचं प्रतिपच्छब्दोऽभिधत्ते। सा चोदाहृता प्रतिपत्प्रकरणाज्ज्योतिष्टोमे निविशते। न च तत्र यजमानद्वित्वबहुत्वयोरसंभवः। एकस्य यजमानस्य द्रव्यलाभादिना तदशक्तौ नित्यकर्मणः परित्यागासंभवेन द्वाभ्यां बहुभिर्वा तस्यावश्यकर्तव्यत्वात्- इति प्राप्ते-

4सिद्धान्तः

यजमानस्य नानात्वं साक्षाद्विकृतिषु श्रुतम्
उत्कृष्य प्रतिपत्तेन कुलायादिषु नीयताम्
ब्रूमः- यजमानद्वित्वं कुलायनामके यज्ञे साक्षादाम्नातम्- ''एतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्'' इति। यजमानबहुत्वं सत्रेष्वाम्नातम्- ''चतुर्विंशतिपरमाः सत्त्रमासीरन्'' इति। ततो द्विशब्दबहुशब्दरूपाभ्यां श्रुतिभ्यां प्रकरणं बाधित्वा कुलायादिषु यथोक्तप्रतिपदोरुत्कर्षः कर्तव्यः। न चाशक्तावपि यजमानद्वित्वबहुत्वे संभवतः, अशक्तेन स्वीकृतस्य पुरुषान्तरस्य प्रतिविधित्वे यजमानत्वाभावात्। 'यजमानस्य प्रतिनिधिर्नास्ति' इति वक्ष्यते। यद्यन्यः पुरुषः स्वयमेव प्रवर्तते तदानीं स्वकीयमेव प्रयोगं कुर्यात्, नत्वशक्तस्य साहाय्यमाचरेत्। तस्मात्- श्रूयमाणस्य यजमानैकत्वस्य कालादिवदनुपादेयाङ्गत्वेन त्यक्तुमशक्यत्वान्न ज्योतिष्टोमे यजमानस्य द्वित्वबहुत्वे संभवतः।। 34।। 35।। 36।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे द्वादशोपसत्ताया अहीनाङ्गताधिकरणे(अहीनन्याये) सूत्रे-15-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “साह्नाद्भिन्नाहीनसंज्ञा रूढैषाऽहर्गणे भवेत् षष्ठीश्रुत्या द्वादशत्वं प्रक्रियातोऽपकृष्यताम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.10 पञ्चदशे जाघन्या अनुत्कर्षाधिकरणे सूत्राणि 20-23
जाघनी चैकदेशत्वात्।। 20।।
चोदना वाऽपूर्वत्वात्।। 21।।
एकदेश इति चेत् ।।। 22।।
न प्रकृतेरशास्त्रनिष्पत्तेः।। 23।।
पञ्चदशाधिकरणमारचयति-

1विषयः

संयाजयन्ति जाघन्या पत्नीरेतत्पशावुत
दर्शादौ तत्पशौ युक्तं जाघन्याः समवायतः

3पूर्वपक्षः

जाघनी नाम भागोऽसौ दर्शादौ समवैति हि
नोत्क्रष्टव्यं न संस्कार्या साधनत्वात्तृतीयया
दर्शपूर्णमासप्रकरणे श्रूयते ''जाघन्या पत्नीः संयाजयन्ति'' इति। जाघनी पशोः पुच्छम्। पत्नीशब्दोऽत्राहुतिचतुष्टयात्मकस्य कर्मणो नामधेयैकदेशः। अत एव श्रूयते ''पञ्च प्रयाजा इज्यन्ते, चत्वारः पत्नीसंयाजाः'' इति। तत्र तृतीयाहुतौ देवपत्नीनां देवतात्वात्तद्द्वारा कर्मनाम्नः पत्नीसंयाजशब्दस्य प्रवृत्तिः। तत्र जाघनीमुद्दिश्य पत्नीसंयाजसंस्कारो विधीयते। जाघनी च पशौ समवेता न तु दर्शपूर्णमासयोः। अतः प्रकरणादुत्कृष्य पशौ निवेशनम्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- जाघनीशब्देन पशोर्भागोऽभिधीयते
स च दर्शपूर्णमासयोः पशुयागत्वाभावेऽपि क्रयादिना संपा- दयितुं शक्यते
न चात्र पशौ विद्यमानायां जाघन्यां पत्नीसंयाजैः संस्कार्यत्वम्
तृतीयया साधनत्वावगमात्
तस्मात्- न प्रकरणादुत्कर्षः।
37
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे कुलायादौ प्रतिपदोरुत्कर्षाधिकरणे सूत्राणि 17-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यजमानस्य नानात्वं साक्षाद्विकृतिषु श्रुतम् उत्कृष्य प्रतिपत्तेन कुलायादिषु नीयताम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.11 षोडशे संतर्दनस्य संस्थानिवेशाधिकरणे सूत्राणि 24-31
संतर्दनं प्रकृतौ क्रयणवदनर्थलोपात्स्यात्।। 24।।
उत्कर्षो वा ग्रहणाद्विशेषस्य।। 25।।
कर्तृतो वा विशेषस्य तन्निमित्तत्वात्।। 26।।
क्रतुतो वाऽर्थवादानुपपत्तेः स्यात्।। 27।।
संस्थाश्च कर्तृवद्धारणार्थाविशेषात्।। 28।।
उक्थ्यादिषु वाऽर्थस्य विद्यमानत्वात्।। 29।।
अविशेषात्स्तुतिर्व्यर्थेति चेत्।। 30।।
स्यादनित्यत्वात्।। 31।।
षोडशाधिकरणमारचयति-

1विषयः

संतृद्ये द्दीर्घसोमे तत्प्रकृतौ विकृतावुत

3पूर्वपक्षः

दीर्घस्य सोम इत्युक्ते प्रकृतावस्तु तर्दनम्
ज्योतिष्टोमे श्रूयते ''दीर्घसोमे संतृद्ये धृत्यै'' इति। सोमयागविशेषो दीर्घसोमः। तस्मिन्सोमाभिषवाधारयोरधिषवणफलकयोः संतर्दनं कार्यम्। अन्योन्यवियोगेन शैथिल्यं मा भूदिति दृढसंश्लेषः संतर्दनम्। तदेतत्प्रकरणबलात्प्रकृतौ निविशते। न च तत्र दीर्घसोमत्वानुपपत्तिः। 'दीर्घस्य सोमः' इत्येवं दीर्घशब्दस्य यजमानविशेषणत्वेनाप्युपपत्तेः- इति प्राप्ते-

4सिद्धान्तः

सामानाधिकरण्यस्य षष्ठीतो बलवत्त्वतः
दैर्ध्ययुक्तोक्थ्यसंस्थादावुत्कर्षोऽन्यत्र बाधनात्
ब्रूमः- 'षष्ठीसमासात्कर्मधारयो बलीयान्' इति (निषादस्थपत्यधिकरणे) वक्ष्यते। तथा सति दीर्घत्वं सोमस्य धर्मः, न तु यजमानस्य।
नन्वेवमपि प्रकृतिभूतस्य सोमस्येष्टिपश्वपेक्षया दीर्घत्वमस्त्येव- इति चेत्- न। सोमशब्देनैव तदवगतौ दीर्घशब्दस्य वैयर्थ्यात्। न हीष्टिपश्वपेक्षया ह्रस्वः कश्चित्सोमोऽस्ति यस्य व्यावृत्तये दीर्घशब्दः प्रयुज्येत। तस्मात्प्रकृतिरूपं ह्रस्वं सोमं व्यावर्तयितुमयं दीर्घशब्दः। विकृतिषूक्थ्यादिषु ग्रहाधिक्याद्दीर्घत्वम्। द्विरात्रादिषु चावृत्त्या दीर्घत्वम्। तस्माद्वाक्येन प्रकरणं बाधित्वा विकृतिषु तन्निवेशः। प्रकृतौ तु दीर्घशब्दस्य बाधः पूर्वमुक्तः। संतर्दनबाधश्च साक्षाच्छ्रूयते- ''हनू वा एते यज्ञस्य यदधिषवणे न संतृणत्ति, असंतृण्णे हि हनू'' इति। तस्मात्- न प्रकृतौ निवेशः।। 39।। 40।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे जाघन्या अनुत्कर्षाधिकरणे सूत्राणि 20-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- जाघनीशब्देन पशोर्भागोऽभिधीयते स च दर्शपूर्णमासयोः पशुयागत्वाभावेऽपि क्रयादिना संपा- दयितुं शक्यते न चात्र पशौ विद्यमानायां जाघन्यां पत्नीसंयाजैः संस्कार्यत्वम् तृतीयया साधनत्वावगमात् तस्मात्- न प्रकरणादुत्कर्षः। 37”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.12 सप्तदशे प्रवर्ग्यनिषेधाधिकरणे सूत्रे 32-33
संख्यायुक्तं क्रतोः प्रकरणात्स्यात्।। 32।।
नैमित्तिकं वा कर्तृसंयोगाल्लिङ्गस्य तन्निमित्तत्वात्।। 33।।
सप्तदशाधिकरणमारचयति-

1विषयः

न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सोऽनुष्ठितावुत

3पूर्वपक्षः

प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याद्ययज्ञता
ज्योतिष्टोमे प्रवर्ग्याख्यं कर्म प्रकृत्य श्रूयते ''न प्रथमयज्ञे प्रवृञ्ज्यात्'' इति। सोऽयं प्रतिषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यः न तु तदीयप्रथमप्रयोगे। कुतः- ''एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः'' इति तस्य प्रथमयज्ञत्वामिधानात्- इति चेत्-
मैवम्। 'पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्ति' इति वाक्येन क्रतौ प्रवर्ग्यस्य विहितत्वात्। न च विधिनिषेधवाक्ययोः समानबलत्वादनिर्णयः। निषेधवाक्ये प्रथमशब्देन निषेधस्य प्रयोगपरत्वनिर्णयात्। प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्याः, तत्संबन्धाद्वस्तुषूपचर्यन्ते। प्रथममध्येतव्यत्वात्प्रथमं काण्डम्, तदनन्तरमध्येतव्यत्वाद्द्वितीयं काण्डम्। एवम्- आदावुत्पन्नत्वात्प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वाद्द्वितीयः। तथा सति प्रयोगक्रियाया आवृत्तिविशेषे प्रथमशब्दो मुख्यः। तदावृत्तिविषयतया यज्ञे लाक्षणिकः। त्वत्पक्षेऽपि क्रतौ मुख्यो यज्ञशब्दः, प्रयोगे लाक्षणिकः स्यात्- इति चेत्-
बाढम्। तथाऽप्यसंजातविरोधिनि लाक्षणिकत्वकल्पनाद्वरमुत्तरपदे तत्कल्पनम्। तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यनिषेधः।
ननु-सप्तसंस्थायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपोऽग्निष्टोमः, तत्रायं निषेधः पर्यवस्यति। विधिश्च तत्र श्रूयते ''अग्निष्टोमे प्रवृणक्ति'' इति। एवं तर्ह्यधिकारिभेदेन विधिनिषेधयोर्व्यवस्थाऽस्तु। तथा हि श्रूयते ''कामं तु योऽनूचानः स्यात्, तस्य प्रवृञ्ज्यात्'' इति। तस्मात्- अनूचानव्यतिरिक्तकर्तृकेऽग्निष्टोमप्रथमप्रयोग एवायं निषेधः।। 41।। 42।।

4सिद्धान्तः

प्रवृणक्त्युपसद्भ्यः प्रागिति वाक्यात्क्रतौ विधेः
आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे संतर्दनस्य संस्थानिवेशाधिकरणे सूत्राणि 24-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सामानाधिकरण्यस्य षष्ठीतो बलवत्त्वतः दैर्ध्ययुक्तोक्थ्यसंस्थादावुत्कर्षोऽन्यत्र बाधनात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.13 अष्टादशे पौष्णपेषणस्य विकृतौ विनियोगाधिकरणे सूत्रम्
पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ।। 34।।
अष्टादशाधिकरणमारचयति-

1विषयः

प्रपिष्टभागः पूषेति प्रकृतौ विकृतावुत
इष्टिप्रकरणादेव प्रकृताविति युज्यते

3पूर्वपक्षः

संतर्दनादिवद्वाक्याद्विकृतौ पूषसंभवात्
सिद्धस्य पुनरप्युक्तिरधिकस्य विवक्षया

4सिद्धान्तः

दर्शपूर्णमासप्रकरणे श्रूयत्- ''तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि'' इति
तत्र दन्तरहितस्य पूष्णः पिष्टभागत्वं संतर्दनप्रतिपदादिवत्सिद्धम्
तथाऽप्युत्तराधिकरणे तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते।
43

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे प्रवर्ग्यनिषेधाधिकरणे सूत्रे 32-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रवृणक्त्युपसद्भ्यः प्रागिति वाक्यात्क्रतौ विधेः आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.14 एकोनविंशे पौष्णपेषणस्य चरावेव निवेशाधिकरणे सूत्राणि 35-38
तत्सर्वार्थमविशेषात्।। 35।।
चरौ वाऽर्थोक्तं पुरोडाशेऽर्थविप्रतिषेधात्पशौ स्यात्।। 36।।
चरावपीति चेत्।। 37।।
न पक्तिनामत्वात्।। 38।।
एकोनविंशाधिकरणमारचयति-

1विषयः

चरौ पशौ पुरोडाशे चरावेवोत पेषणम्

3पूर्वपक्षः

विशेषादर्शनादेतत्सर्वेष्वपि विधीयते
''पौष्णं चरुमनुनिर्वपेत्'' इति चरुर्विहितः। ''पौष्णं श्याममालभेतान्नकामः'' इति पशुविधिः। ''पशुमालभ्य पुरोडाशं निर्वपति'' इत्येतच्चोदकेन पौष्णपशौ प्राप्तम्। तत्र- 'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इति न्यायेन पुरोडाशस्य पूषा देवता। तत्र पूर्वोक्तं पेषणं विषयीकृत्योच्यमानाः संशयपूर्वोत्तरपक्षा विस्पष्टाः।। 45।। 46।।

4सिद्धान्तः

प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात्
न पशौ पारिशेष्येण चरावेव हि पेषणम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे पौष्णपेषणस्य विकृतौ विनियोगाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “दर्शपूर्णमासप्रकरणे श्रूयत्- ''तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि'' इति तत्र दन्तरहितस्य पूष्णः पिष्टभागत्वं संतर्दनप्रतिपदादिवत्सिद्धम् तथाऽप्युत्तराधिकरणे तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते। 43”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.15 विंशे पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणे सूत्राणि 39-46
एकस्मिन्नेकसंयोगात्।। 39।।
धर्मविप्रतिषेधाच्च।। 40।।
अपि वा सद्वितीये स्याद्देवतानिमित्तत्वात्।। 41।।
लिङ्गदर्शनाच्च।। 42।।
वचनात्सर्वपेषणं तं प्रति शास्त्रवत्त्वादर्थाभावाद्द्विचरावपेषणं भवति।। 43।।
एकस्मिन्वाऽर्थधर्मत्वादैन्द्राग्नवदुभयोर्न स्यादचोदितत्वात्।। 44।।
हेतुमात्रमदन्तत्वम्।। 45।।
वचनं परम्।। 46।।
विंशाधिकरणमारचयति-

3पूर्वपक्षः

राजसूये श्रूयते ''सौमापौष्णं चरुं निर्वपति, ऐन्द्रापौष्णं चरुम्'' इति। तत्र द्विदेवकेऽपि चरौ पिष्टभाजः पूष्णः सत्त्वात्तत्पेषणं पूषार्थे कर्तव्यम्- इति चेत्-
तत्र वक्तव्यम्- किं पेषणस्य देवता प्रयोजिका, किंवा यागः। नाद्यः। यागमन्तरेण केवलदेवता फलजनकत्वाभावेन पेषणं प्रयोक्तुं न प्रभवति। पौष्णस्य यागस्य पेषणप्रयोजकत्वे तु तत्पेषणं द्विदेवके यागान्तरे गन्तुं नार्हति।- 'पूषा प्रपिष्टभागः' इत्यत्र यागे न श्रुतः- इति चेत्-
अत्र पादे अधिकरणानि 20, सूत्राणि 46 । आदितः अधिकरणानि 143, सूत्राणि 405।
तृतीयाध्यायस्य चतुर्थः पादः
निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “वाक्यप्रकरणादि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे पौष्णपेषणस्य चरावेव निवेशाधिकरणे सूत्राणि 35-38”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात् न पशौ पारिशेष्येण चरावेव हि पेषणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 3, Pāda 2 Contents Adhyāya 3, Pāda 4 →