3.2.1
प्रथमे मुख्ये विनियोगाधिकरणे (बर्हिर्न्याये) सूत्रे 1-2
SŪअर्थाभिधानसामर्थ्यान्मन्त्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसंबन्धोऽर्थेन नित्यसंयोगात्।। 1।।
SŪसंस्कारकत्वादचोदितेन स्यात्।। 2।।
द्वितीयपादे प्रथमाधिकरणमारचयति-
1विषयः
देवोपसदनं बर्हिर्दामिगीर्मुख्यगौणयोः
तल्लिङ्गमर्थयोर्मन्त्रं नियुङ्क्ते मुख्य एव वा
3पूर्वपक्षः
शब्दार्थत्वाद्द्वयोस्तत्र युज्यते विनियोजनम्
प्रथमावगतत्वेन मुख्ये तद्विनियम्यते
''बर्हिर्देवसदनं दामि'' इति लवनप्रकाशको मन्त्र आम्नातः। तत्र- लवनप्रकाशनसामर्थ्यलक्षणेन लिङ्गेनायं मन्त्रो लवनक्रियायां विनियुज्यते।
लवितव्यं च बर्हिर्द्विविधम्- मुख्यं गौणं च। मुख्यं- कुशकाशादिदशविधदर्भरूपम्। गौणं तु-तत्सदृशं तृणान्तरम्।
तस्मिन्बर्हिःशब्दस्य माणवकेऽग्निशब्दवद्गुणयोगेन प्रवृत्तत्वात्। तथा सति मुख्यवद्घौणस्यापि शब्दार्थत्वेन दर्भस्य तृणान्तरस्य च लवने मन्त्रविनियोगः- इति प्राप्ते
4सिद्धान्तः
ब्रूमः- मुख्यस्य शीघ्नप्रतीतत्वेन मुख्ये मन्त्रं विनियुज्य चरितार्थं लिङ्गं विलम्बप्रतीततया गौणप्रतीक्षां न करोति
तस्मात्- मुख्यस्यैव लवने मन्त्रो नियम्यते।
1
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे 26-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.2
द्वितीये (ऐन्द्रीन्याये) ऐन्द्र्या गार्हपत्ये विनियोगाधिकरणे सूत्रे 3-4
SŪवचनात्त्वयथार्थमैन्द्री स्यात्।। 3।।
SŪगुणाद्वाऽप्यभिधानं स्यात्संबन्धस्याशास्त्रहेतुत्वात्।। 4।।
द्वतीयाधिकरणमारचयति-
1विषयः
ऐन्द्र्या निवेशनेत्यग्निं गार्हपत्यं भजेदिति
3पूर्वपक्षः
प्रकाश्ये मुख्य इन्द्रे वा गौणे मुख्येऽस्तु पूर्ववत्
अग्निचयने- ''निवेशनः संगमनः'' इत्यादिका काचिदैन्द्री समाम्नाता, तस्या उत्तरार्धे ''इन्द्रो न तस्थौ'' इति पठ्यमानत्वात्। तन्मन्त्रविषयं ब्राह्मणं चैवमाम्नायते- ''निवेशनः संगमनो वसूनामित्यैन्द्र्या गार्हपत्यमुपतिष्ठते'' इति। एतेन ब्राह्मणेन गार्हपत्योपस्थाने विनियुज्यमानो मन्त्रोऽर्थं प्रकाशयन्मुख्यमिन्द्रं प्रकाशयति। मुख्यश्चेन्द्रः स्वर्गाधिपतिः सहस्त्राक्षः। तत्रेन्द्रशब्दस्य रूढत्वात्। गौणस्त्विन्द्रो गार्हपत्यः, तस्यैश्वर्यगुणयोगेन यज्ञसाधनत्वेन वा मुख्येन्द्रसदृशत्वात्। तत्र पूर्वान्यायेन शीघ्रप्रतीत्या मुख्येन्द्रे मन्त्रेण प्रकाशिते सति मन्त्रब्राह्मणयोर्विसंवादं वारयितुं गार्हपत्यशब्देन मुख्येन्द्रो गार्हपत्यसमीपदेशो वा लक्षणीयः- इति प्राप्ते-
4सिद्धान्तः
एकस्य गौणताध्नौव्ये मन्त्रस्यैवानुवादतः
गौणताऽतोऽग्न्युपस्थाने मन्त्रः श्रुत्या नियुज्यते
ब्रूमः- इन्द्रगाहर्पत्यशब्दयोरन्यतस्य गौणत्वेऽवश्यंभाविनि सति ब्राह्मणवाक्यस्य विधायकत्वादप्राप्तार्थत्वेन विधौ लक्षणाया अन्याय्यत्वात्प्राप्तार्थत्वेनानुवादको मन्त्र एवेन्द्रशब्देन वह्निं लक्षयिष्यति। ततो गार्हपत्यप्रकाशने समर्थमेव मन्त्रम् 'ऐन्द्र्या' इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुङ्क्ते।। 3।। 4।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे मुख्ये विनियोगाधिकरणे (बर्हिर्न्याये) सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- मुख्यस्य शीघ्नप्रतीतत्वेन मुख्ये मन्त्रं विनियुज्य चरितार्थं लिङ्गं विलम्बप्रतीततया गौणप्रतीक्षां न करोति तस्मात्- मुख्यस्यैव लवने मन्त्रो नियम्यते। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.3
तृतीये, आह्वानविनियोगाधिकरणे सूत्राणि 4-9
SŪतथाह्वानमपीति चेत्।। 5।।
SŪन कालविधिश्चोदितत्वात्।। 6।।
SŪगुणाभावात्।। 7।।
SŪलिङ्गाच्च।। 8।।
SŪविधिकोपश्चोपदेशे स्यात्।। 9।।
तृतीयाधिकरणमारचयति-
3पूर्वपक्षः
दर्शपूर्णमासयोः श्रूयते ''हविष्कृदेहीति त्रिरवघ्नन्नाह्वयति'' इति। देवानामर्थे या हविः संपादयति सा हविष्कृत्, तामेनां संबोध्याध्वर्युः 'एहि' इति ब्रूते। तथा चायं मन्त्रो ब्राह्मणेन व्याख्यायते- ''हविष्कृदेहीत्याह य एव देवानां हविष्कृतस्तानाह्वयति'' इति। तमिमं मन्त्रमुच्चार्याध्वर्युस्त्रिवारमवघातं कुर्वन्नाह्वयतीत्यर्थः। अनेन वाक्येन मन्त्रोऽवघाते विनियुज्यते।
ननु-आह्वाने समर्थः, न त्ववघाते- इति चेत्- न। तस्यावघातलक्षकत्वात्। यथा पूर्वोदाहृतायामैन्द्र्यामृचीन्द्रशब्दो गौणः, तद्वत् 'एहि' इति पदं मन्त्रगतत्वेनावघाते गौणं भविष्यति, अन्यथा मन्त्रब्राह्मणयोराह्वानपरत्वाच्छ्रूयमाणम् 'अवघ्नन्' इति पदमनर्थकं स्यात्। प्राप्तमवघातमुद्दिश्य मन्त्रस्य त्रित्वस्य च विधौ वाक्यभेदः- इति चेत्- न। त्रित्वस्य प्राप्तत्वेनानुवादकत्वात्। कस्यांचिच्छाखायामयं मन्त्रो मन्त्रकाण्डे त्रिवारमभ्यस्याम्नातः। आह्वयतिपदं तु 'एहि' इतिवदवघातपरतयोपचरणीयम्- इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- त्रिरभ्यासस्य नित्यवत्प्राप्तिः पाठमात्रेण न सिध्यति, कस्यांचिच्छाखायां द्विःपाठात्। कस्यांचित्सकृत्पाठात्। अतोऽसौ नित्यवद्विधीयते। न च 'अवघ्नन्' इत्यस्य वैयर्थ्यम्। तस्य काललक्षकत्वात्।
कालस्यापि विधौ वाक्यभेदः- इति चेत्- न। प्राप्तत्वात्। न ह्यवघाते सहायाह्वानमन्यस्मिन्काले भवति। ततोऽर्थप्राप्तः कालः। आह्वानमपि मन्त्रसामर्थ्यादेव प्राप्तत्वान्न विधेयम्। न हि 'एहि' इति मन्त्रपाठ आह्वानमन्तरेणोपपद्यते। मन्त्रव्याख्यानं चोदाहृतम्। तत्रायं वाक्यार्थः संपन्नः- 'अवघातकाले यदाह्वानं तस्य त्रिरभ्यासः कर्तव्यः' इति। अत एव शाखान्तरे विस्पष्टमाह्वानानुवादेनाभ्यासो विधीयते। ''त्रिराह्वयति त्रिःसत्या हि देवाः'' इति। एवंसति मन्त्रस्यापि विनियोगे वाक्यभेदः स्यात्। लिङ्गेन त्वाह्वाने विनियुज्यते, नावघाते। न चैन्द्रीन्यायोऽत्र प्रसरति, तृतीयाश्रुत्यभावात्। ''बर्हिर्देवसदनं दामि'' इत्यत्रोक्तेन तु न्यायेन मुख्य एवाह्वाने लिङ्गेन मन्त्रविनियोगः, न त्ववघातरूपे गौणाह्वाने। तस्मात्- आह्वानशेषोऽयं मन्त्रः।। 5।। 6।। 7।। 8।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये (ऐन्द्रीन्याये) ऐन्द्र्या गार्हपत्ये विनियोगाधिकरणे सूत्रे 3-4”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एकस्य गौणताध्नौव्ये मन्त्रस्यैवानुवादतः गौणताऽतोऽग्न्युपस्थाने मन्त्रः श्रुत्या नियुज्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.4
चतुर्थे- अग्निविहरणादिप्रकाशकमन्त्रविनियोगाधिकरणे सूत्रम्
SŪतथोत्थानविसर्जने।। 10।।
चतुर्थाधिकरणमारचयति-
3पूर्वपक्षः
ज्योतिष्टोमे समामनन्ति- ''उत्तिष्ठन्नन्वाहाग्नीदग्नीन्विहर'' इति। तथा- ''व्रतं कृणुतेति वाचं विसृजति'' इति। तत्र- आग्नीध्रं संबोध्याग्निविहरणादिप्रैषरूपो मन्त्रोऽनेन वाक्येनोत्थानशेषतया विनियुज्यते। तथा- मुष्टिं कृत्वा नियमितवाचो दीक्षितस्य वाग्विमोके 'व्रतं कृणुत' इति मन्त्रो विनियुज्यते। न चात्र पूर्वोक्तावघातशब्दवदुत्थानविमोकशब्दौ काललक्षकौ। तत्कालयोरवघातकालवदर्थप्राप्त्यभावेन विधेयत्वे सति लक्षणाया अन्याय्यत्वात्- इति प्राप्ते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये, आह्वानविनियोगाधिकरणे सूत्राणि 4-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.5
पञ्चमे सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणे (प्रस्तरप्रहरणन्याये) सूत्राणि 11-14
SŪसूक्तवाके च कालविधिः परार्थत्वात्।। 11।।
SŪउपदेशो वा याज्याशब्दो हि नाकस्मात्।। 12।।
SŪसदेवतार्थस्तत्संयोगात्।। 13।।
SŪप्रतिपत्तिरिति चेत्स्विष्टकृद्वदुभयसंस्कारः स्यात्।। 14।।
पञ्चमाधिकरणमारचयति-
1विषयः
प्रस्तरं सूक्तवाकेन प्रहरेदिति कालधीः
अङ्गाङ्गिता वा स्यात्कालोऽजुषतेत्याद्यनन्वयात्
3पूर्वपक्षः
प्रहृतेरिष्टदेवार्थसंस्कारत्वात्तदन्वयः
संपाद्यो देवताद्वारा तृतीयाश्रुतितोऽङ्गता
दर्शपूर्णमासयोराम्नायते- ''सूक्तवाकेन प्रस्तरं प्रहरति'' इति। ''इदं द्यावापृथिवी भद्रमभूत्'' इत्यादिको मन्त्रः सूक्तवाकः। तस्मिन्मन्त्रेऽग्निं संबोध्य ''त्वं सूक्तवागसि'' इत्याम्नानात्। प्रस्तरो दर्भमुष्टिः, तस्य प्रहरणमग्नौ प्रक्षेपः। तत्र- 'सूक्तवाकेन' इत्येतत्पदं कालं लक्षयति। होत्रा मन्त्रेऽस्मिन्पठ्यमाने तत्पाठकालेऽध्वर्युः प्रस्तरं प्रहेरत्। न त्वत्र प्रहरणे मन्त्रोऽयं विनियोक्तुं शक्यः, पूर्वोक्तप्रैषमन्त्रवदत्रान्वयाभावात्। ''अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत'' इत्यादिकं मन्त्रे पठ्यते। 'पुरोडाशसेवया वृद्धोऽग्निस्तस्मिन्यजमाने तेजोबाहुल्यं कृतवान्' इति तस्यार्थः। न चासौ प्रस्तरप्रहरणेऽन्वेतुं शक्यः- इति प्राप्ते-
4सिद्धान्तः
मैवम्
देवतानां सद्भावात्
अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रहरणाङ्गत्वं बोध्यते
यदि प्रकरणेऽग्न्यादयो देवता भवेयुः, तदा तत्प्रकाशनेन दृष्टोऽर्थो मन्त्रस्य लभ्येत
ततो देवताकल्पनेन तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति
तस्मात्- देवताद्वाराऽस्त्येवान्वयः।
12
ब्रूमः- 'सूक्तवाकेन' इति तृतीयाश्रुत्या प्रहरणे मन्त्रो विनियुज्यते। न चात्यन्तमन्वयाभावः। मन्त्रो ह्ययं पूर्वमिष्टानग्न्यादिदेवाननुस्मारयति। प्रस्तरप्रहरणं चेष्टदेवतासंस्कारः। अतो देवताद्वारा मन्त्रप्रहरणयोरन्वयान्मन्त्रो विनियुज्यते।
ननु- प्रहरणं नाम प्रक्षेपमात्रम्, न तु देवतोद्देशेन प्रक्षेपः, यजिधातोरश्रवणात्। तथा सति देवतानामत्राभावात्तद्वाराऽपि नान्वयः- इति चेत्-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- अग्निविहरणादिप्रकाशकमन्त्रविनियोगाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.6
षष्ठे सूक्तवाकानामर्थानुसारेण विनियोगाधिकरणे (सूक्तवाकन्याये) सूत्राणि 15-18
SŪकृत्स्नोपदेशादुभयत्र सर्ववचनम्।। 15।।
SŪयथार्थं वा शेषभूतसंस्कारात्।। 16।।
SŪवचनादिति चेत्।। 17।।
SŪप्रकरणाविभागादुभे प्रति कृत्स्नशब्दः।। 18।।
षष्ठाधिकरणमारचयति-
1विषयः
प्रहृतेरखिलः सूक्तवाकोऽङ्गं स्याद्विभज्य वा
3पूर्वपक्षः
समाख्या कृत्स्नगा तेन विभक्तस्याङ्गता नहि
पूर्वोदाहृते मन्त्रे सूक्तवाकसमाख्या कृत्स्नमन्त्रविषया याज्ञिकैः कृत्स्ने तच्छब्दप्रयोगात्। ततः सर्वोऽपि प्रहरणाङ्गम्- इति चेत् ।
न। लिङ्गेन समाख्याया बाधितत्वात्। तस्मिन्मन्त्रे पूर्णमासदेवताम्नानं कस्मिंश्चिद्भागे दृश्यते- ''अग्नीषोमाविदं हविरजुषेताम्'' इति। भागान्तरे तु दर्शदेवताम्नानम्- ''इन्द्राग्नी इदं हविरजुषेताम्'' इति, ''इन्द्र इदं हविरजुवत'' इति, ''महेन्द्र इदं हविरजुषत'' इति च। इन्द्राग्नीन्द्रमहेन्द्राः पुरुषभेदेन दर्शे व्यवस्थिताः। तथा सति मन्त्रलिङ्गेन तत्तद्भागवत्तत्तत्काले व्यवतिष्ठते। सूक्तवाकशब्दश्च भागे यौगिकः। 'सूक्तं वक्ति' इति तद्व्युत्पत्तेः। यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीत्यर्थः। अत एव ब्राह्मणेन व्याख्यातम्- ''अग्निरिदं हविरजुषतेत्याह, यो अयाक्ष्म देवतास्ता अरीरधामेति वावैतदाह'' इति। अरीरधामाराधितांस्तुष्टानकुर्मेत्यर्थः। तस्मादयं विभज्य विनियुज्यते।। 14।। 15।।
4सिद्धान्तः
दर्शपूर्णिमयोर्देवाननुसृत्य विभज्यताम्
आख्यां लिङ्गेन बाधित्वा भागे नाम निरुच्यते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणे (प्रस्तरप्रहरणन्याये) सूत्राणि 11-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् देवतानां सद्भावात् अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रहरणाङ्गत्वं बोध्यते यदि प्रकरणेऽग्न्यादयो देवता भवेयुः, तदा तत्प्रकाशनेन दृष्टोऽर्थो मन्त्रस्य लभ्येत ततो देवताकल्पनेन तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति तस्मात्- देवताद्वाराऽस्त्येवान्वयः। 12”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.7
सप्तमे काम्ययाज्यानुवाक्यानां काम्यमात्राङ्गताधिकरणे सूत्रम्
SŪलिङ्गक्रमसमाख्यानात्काम्ययुक्तं समाम्नातम्।। 19।।
सप्तमाधिकरणमारचयति-
1विषयः
ऐन्द्राग्नादीष्टयः काम्या याज्या अप्युदिताः क्रमात्
काण्डयोस्ता यथालिङ्गं संचार्या नियमोऽथवा
3पूर्वपक्षः
लिङ्गं क्रमसमाख्याभ्यां प्रबलं तद्वशादमूः
अकाम्यास्वपि संचार्या याज्याः सर्वत्र का क्षतिः
काम्येष्टयस्तत्काण्डे क्रमेणाम्नाताः- ''ऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वीयुः'' इत्यादिना। सजाता ज्ञातयः। वीयुर्विगता विप्रतिपन्ना इत्यर्थः। ''इन्द्राग्नी रोचना'' इत्यादिके मन्त्रकाण्डे याज्यानुवाक्याः क्रमेणाम्नाताः। तत्र 'इदं काम्ययाज्यानुवाक्याकाण्डम्' इति याज्ञिकानां समाख्ययाऽवगम्यते। तयोरिष्टिकाण्डमन्त्रकाण्डयोः प्रथमायामिष्टौ प्रथमपठिते याज्यानुवाक्ये इत्यादिव्यवस्था क्रमेण क्रियते। मन्त्रगतं त्वैन्द्राग्नलिङ्गं काम्यायां नित्यायां चैन्द्राग्नेष्टौ ते याज्यानुवाक्ये विनियुङ्क्ते। लिङ्गं च प्रबलमिति सर्वत्र तयोर्विनियोगः- इति प्राप्ते-
4सिद्धान्तः
समाख्यानात्काण्डयोगः क्रमादिष्टिषु योजनम्
अपेक्षते देवमात्रं शक्तिः काम्यैकगास्ततः
ब्रूमः- नात्र लिङ्गेन क्रमसमाख्ये बाधितुं शक्येते उपजीव्यत्वात्। इन्द्राग्निदेवतास्वरूपमात्रप्रकाशनं लिङ्गम्। न च तावन्मात्रेण मन्त्रकर्मणोरङ्गाङ्गिभावः। ततः समाख्याबलान्मन्त्रकाण्डकर्मकाण्डयोः संबन्धावगतौ सामान्येन मन्त्रकर्मणोः संबन्धोऽवगम्यते। विशेषतस्तु ''अस्मिन्प्रथमे कर्मण्ययं मन्त्रः प्रथमः'' इति क्रमादवगम्यते।
ननु- 'ऐन्द्राग्नेष्टावैन्द्राग्नमन्त्रः, वैश्वानरेष्टौ वैश्वानरमन्त्रः' इत्येतादृशो विशेषो लिङ्गेनैवावगम्यते- इति चेत्- न। लिङ्गसाधारण्ये क्रमापेक्षणात्। ''ऐन्द्राग्नमेकादशकपालं निर्वपेद्भ्रातृव्यवान्'' इति द्वितीयेष्टिरपि। तत्रेन्द्राग्नी पठितौ। मन्त्रकाण्डेऽपि ''इन्द्राग्नी नवतिम्'' इत्यादिकमपरमैन्द्राग्नं याज्यानुवाक्यायुगलमाम्नातम्। न हि तत्र क्रममन्तरेण निर्णेतुं शक्यम्। न च क्रमेणैव तत्सिद्धेर्लिङ्गमप्रयोजकमिति वाच्यम्। क्वचिल्लिङ्गस्यैव व्यवस्थापकत्वात्। ऐन्द्राबार्हस्पत्येष्टिरेकैवाम्नाता- ''यं कामयेत राजन्यमनपोद्धो जायेत वृत्रान्घ्नंश्चरेत्- इति तस्मा एतमैन्द्राबार्हस्पत्यं चरुं निर्वपेत्'' इति। यं राजपुत्रं यजमानं प्रति राज्ञः पुरोहितस्य च काम एवं भवति- 'अयं मातृगर्भे देवकृतविघ्नेन केनाप्यप्रतिबद्धो जायताम्। जातश्च शत्रून्मारयन्संचरेत्' इति तद्राजपुत्रार्थेयमिष्टिः। मन्त्रकाण्डे तदिष्टिक्रमे याज्यापुरोनुवाक्ये इन्द्राबृहस्पतिदेवताके द्विविधे आम्नाते। ''इदं वामास्ये हविः'' इत्येकं युगलम्। ''अस्मे इन्द्राबृहस्पती''- इत्यादिकमपरम्। तयोः प्रथमयुगलस्य क्रमेण विनियोगेऽपि द्वितीययुगलं लिङ्गेनैव विनियोक्तव्यम्। तस्मात्- क्रमसमाख्यासहकृतेन काम्येष्टिष्वेवैता याज्या नियम्यन्ते।। 16।। 17।। 18।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे सूक्तवाकानामर्थानुसारेण विनियोगाधिकरणे (सूक्तवाकन्याये) सूत्राणि 15-18”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “दर्शपूर्णिमयोर्देवाननुसृत्य विभज्यताम् आख्यां लिङ्गेन बाधित्वा भागे नाम निरुच्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.8
अष्टमे, आग्नीध्रोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणे सूत्राणि 20-23
SŪअधिकारे च मन्त्रविधिरतदाख्येषु शिष्टत्वात्।। 20।।
SŪतदाख्यो वा प्रकरणोपपत्तिभ्याम्।। 21।।
SŪअनर्थकश्चोपदेशः स्यादसंबन्धात्फलवता।। 22।।
SŪसर्वेषां चोपदिष्टत्वात्।। 23।।
अष्टमाधिकरणमारचयति-
1विषयः
आग्नेय्याग्नीध्रमित्यग्निदेवताका ऋचोऽखिलाः
उपस्थाने प्रयोक्तव्याः प्रकृता एव ता उत
3पूर्वपक्षः
साधारण्येन शब्दोक्तेः सर्वाभिस्तदुपस्थितिः
विशेषे विधिसंक्रान्त्या प्रकृताभिरितीष्यताम्
ज्योतिष्टोमे श्रूयते ''आग्नेय्याग्नीध्रमुपतिष्ठते'' इति। तत्र- आग्नीध्रनामकस्य मण्डपस्य यदुपस्थानं तत्, यया कयाचिदृचा दाशतयीगतयाऽग्निसंबन्धिन्या कर्तव्यम्। 'अग्निर्देवता यस्या ऋचः साग्नेयी' इति साधारणोक्तावृग्विशेषस्याप्रतीतेः- इति चेत्-
मैवम्। क्रतुप्रकरणपठितानामाग्नेयीनामृचां क्रतुप्रयुक्तव्यापारसाधनत्वं प्रकरणादेवावगतम्। 'कोऽसौ व्यापारः' इति विशेषबुभुत्सायाम् 'आग्नीध्रोपस्थानरूपोऽयम्', इति बोधयन्नयं विधिर्विशेषमात्रे संक्रामतीति लाघवम्। अप्रकृतानां क्रतूपयुक्तव्यापारसाधनत्वं तद्व्यापारविशेषश्चेत्युभयमनेन बोध्यत इति गौरवम्। तस्मात्प्रकृताभिराग्नेयीभिस्तदुपस्थानम्।
4सिद्धान्तः
एवम् ''ऐन्द्या सदो वैष्णव्या हविर्धानम्'' इत्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानामेवैन्द्रीणां वैष्णवीनां च प्रयोग इति द्रष्टव्यम्।
19
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे काम्ययाज्यानुवाक्यानां काम्यमात्राङ्गताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “समाख्यानात्काण्डयोगः क्रमादिष्टिषु योजनम् अपेक्षते देवमात्रं शक्तिः काम्यैकगास्ततः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.9
नवमे भक्षमन्त्राणां यथालिङ्गं ग्रहणादौ विनियोगाधिकरणे सूत्रे 24-25
SŪलिङ्गसमाख्यानाभ्यां भक्षार्थताऽनुवाकस्य।। 24।।
SŪतस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदितत्वात्।। 25।।
नवमाधिकरणमारचयति-
1विषयः
भक्षेहीत्यनुवाकोऽयं सर्वो भक्षणगाम्युत
3पूर्वपक्षः
ग्रहणादौ यथायोगं विभज्य व्यवतिष्ठते
ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम्। अत एवाम्नातम्- ''अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि सोमं भक्षयन्ति'' इति। तस्मिन्भक्षणे ग्रहणावेक्षणनिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति। मन्त्रश्च ''भक्षेहि'' इत्याद्यनुवाके समाम्नातः। तत्र भक्षणं यथा साक्षाच्चोदितं, न तथा ग्रहणावेक्षणनिगरणसम्यग्जरणानि चोदितानि। न चाविहितेषु मन्त्रो विनियोगमर्हति। समाख्या तु 'भक्षानुवाकः' इत्येवंरूपा भक्षणमात्रविषया। तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगः- इति प्राप्ते-
4सिद्धान्तः
अविधेर्ग्रहणादीनां भक्षणे निखिलोऽस्तु सः
अर्थाक्षिप्तेषु तेष्वेव यथालिङ्गं विभज्यते
ब्रूमः- अविहितान्यपि ग्रहणादीन्यर्थाक्षिप्तानि, तद्व्यतिरेकेण भक्षणासंभवात्। अतस्तेष्वनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः। तत्र 'भक्षेहि' इत्यारभ्य ''अश्विनोस्त्वा बाहुभ्यां साघ्यासम्'' इत्यन्तो ग्रहणं प्रकाशयति। 'एहि' इत्याह्वानस्य 'बाहुभ्यां स्वीकरवाणि' इत्येतस्य च दर्शनात्। ''नृचक्षसंत्वा देव सोम सुचक्षा अवख्येषम्'' इत्ययं भागोऽवेक्षणं प्रकाशयति, ''शोभनचक्षुरहं मनुष्येषु प्रख्यातं त्वामवेक्षिषीय'' इत्यभिधानात्। ''हिन्व मे गात्रा''- इत्यादिः ''मा मेऽवाङ्नाभिमतिगाः'' इत्यन्तः सम्यग्जरणं प्रकाशयति, गात्रप्रीणनेनाधोभागे नाभ्यतिक्रमणनिषेधेन च तदवगमात्। जरणं नार्थाक्षिप्तम्, तेन विनाऽपि भक्षसिद्धेः- इति चेत्। न। जरणपर्यन्तस्यैव सार्थकभक्षणत्वात्। न च जरणे पुरुषव्यापाराभावः। सम्यगुपवेशनादेर्जरणार्थत्वात्। 'मन्द्राभिभूतिः'- इत्यादिः 'भक्षयामि' इत्यन्तो भक्षणं प्रकाशयति। तस्मात्- लिङ्गेन समाख्यां बाधित्वा विनियोगः कर्तव्यः।। 21।। 22।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे, आग्नीध्रोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणे सूत्राणि 20-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एवम् ''ऐन्द्या सदो वैष्णव्या हविर्धानम्'' इत्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानामेवैन्द्रीणां वैष्णवीनां च प्रयोग इति द्रष्टव्यम्। 19”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.10
दशमे मन्द्राभिभूतिरित्यादेरेकमन्त्रताधिकरणे सूत्रम्
SŪगुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यात्तयोरेकार्थसंयोगात्।। 26।।
दशमाधिकरणमारचयति-
1विषयः
मन्द्रेति वसुमद्वेति द्वयं तर्पणभक्षयोः
3पूर्वपक्षः
विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे
''मन्द्राभिभूतिः'' इत्यादिः ''जुषाणा सोमस्य तृप्यतु'' इत्यन्तो भागो हृष्टाया अरुचिमभिभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति। 'वसुमद्गणस्य'- इत्यादिः 'भक्षयामि' इत्यन्तो भागो भक्षणप्रकाशकः। तत्र पूर्ववल्लिङ्गेन विभज्य विनियोगः- इति चेत्-
मैवम्। न खलु तृप्तिर्भक्षणादन्येन व्यापारेण जायते। किं तर्हि- भक्षणानुनिष्पादिनी हि सा। तथा सति तस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत। ततो लिङ्गेन विनियोगासंभवाद्भक्षणवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति। उपयुक्तश्च तत्रायं भागः। तृप्तिसहितभक्षणप्रकाशनेन पुरुषोत्साहजननात्। तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते।। 23।। 24।।
4सिद्धान्तः
लिङ्गाद्विभागो मैवं नो तृप्तिर्भक्षणतोऽन्यतः
लिङ्गस्यासंभवे वाक्यशेषात्सर्वोऽस्तु भक्षणे
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे भक्षमन्त्राणां यथालिङ्गं ग्रहणादौ विनियोगाधिकरणे सूत्रे 24-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अविधेर्ग्रहणादीनां भक्षणे निखिलोऽस्तु सः अर्थाक्षिप्तेषु तेष्वेव यथालिङ्गं विभज्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.11
एकादशे, इन्द्रपीतस्येत्यादिमन्त्राणां विनियोगाधिकरणे सूत्रे 27-28
SŪलिङ्गविशेषनिर्देशात्समानविधानेष्वनैन्द्राणाममन्त्रत्वम्।। 27।।
SŪयथादेवतं वा तत्प्रकृतित्वं हि दर्शयति।। 28।।
एकादशाधिकरणमारचयति-
1विषयः
इन्द्रपीतस्येति भक्षमन्त्रांशः किमिहैन्द्रके
केवलेऽन्यत्र वोहाच्च सर्वत्रोत यथाश्रुतम्
3पूर्वपक्षः
ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम्
ऊहो वाऽन्येषु कर्मैक्येऽप्यस्त्यूहो भक्षभेदतः
भक्षमन्त्रे कश्चिदंशः ''इन्द्रपीतस्य'' इत्येवंविधः श्रूयते। तत्र- 'इन्द्रेण पीतस्य सोमस्य शेषं भक्षयामि' इत्यर्थो भवति। तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे। तस्मादमन्त्रकमेव तद्भक्षणम्, इत्येकः पूर्वपक्षः।
'इन्द्रपीतस्य' इति पदस्यासमर्थत्वेऽपि 'मित्रावरुणपीतस्य' इत्येवमूहे सति सामर्थ्यं भविष्यति।
ननु- आग्नेययागस्य प्रकृतित्वात्तद्गतस्य 'अग्नये जुष्टम्' इति मन्त्रस्य विकृतौ सौर्ये चरौ 'सूर्याय जुष्टम्' इत्येवमूहः क्रियते। इह तु कर्मैक्यान्नोहः- इति चेत्- न, कर्मभेद इव भक्षभेदेऽप्यूहितुं शक्यत्वात्। इति द्वितीयः पूर्वपक्षः।
'इन्द्रपीतस्य' इत्यत्र बहुव्रीहिर्द्रष्टव्यः। तत्पुरुषत्वे 'समासस्य' (पा.सू. 6।1।123) इति सूत्रेणान्तोदात्तत्वप्रसङ्गात्। आद्युदात्तं ह्येतत्पदमाम्नातम्। इन्द्रप्रतिपादिकं तु स्वत आद्युदात्तम्। तथा सति 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' [पा.सू,6।2।1] इति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तपदमप्याद्युदात्तमेव संपद्यते। 'इन्द्रेण पीतः सोमो यस्मिन्सवने' इति विग्रहात्सवनपरत्वे सति 'ऐन्द्रभक्षण एव' इति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनैवायं मन्त्रः प्रयोक्तव्य इति राद्धान्तः।। 25।। 26।। 27।।
4सिद्धान्तः
इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात्
सवनस्थेषु सर्वेषु मन्त्रोऽनूहेन पठ्यताम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे मन्द्राभिभूतिरित्यादेरेकमन्त्रताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “लिङ्गाद्विभागो मैवं नो तृप्तिर्भक्षणतोऽन्यतः लिङ्गस्यासंभवे वाक्यशेषात्सर्वोऽस्तु भक्षणे”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.12
द्वादशे, अभ्युन्नीतसोमभक्षणाधिकरणे सूत्राणि 29-31
SŪपुनरभ्युन्नीतेषु सर्वेषामुपलक्षणं द्विशेषत्वात्।। 29।।
SŪअपनयाद्वा पूर्वस्यानुपलक्षणम्।। 30।।
SŪग्रहणाद्वाऽपनयः स्यात्।। 31।।
द्वादशाधिकरणमारचयति-
3पूर्वपक्षः
पूर्वाधिकरणे योऽयमूहरूपो द्वितीयः पूर्वपक्षः, तत्प्रसंङ्गात्कृत्वाचिन्तारूपेण न्यायपञ्चकेनोहविषयश्चिन्त्यते। मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रकाः। तेषां च सन्ति चमसाः। पात्रविशेषस्थिताः सोमरसाश्चमसाः। तैर्वषट्कारानुवषट्कारयोर्होतव्यम्। चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः, अनन्तरं चमसस्थिते हुतशेषे पुनः सोमान्तरमभ्युन्नीय देवतान्तरेभ्यो होत्रका अनुवषट्कारे जुह्वति।तत्र-
मैत्रावरुणः ''मित्रं वयं हवामहे'' इति मन्त्रेण मित्रावरुणौ यजति।
ब्राह्मणाच्छंसी ''इन्द्र त्वा वृषभं वयम्'' इति मन्त्रेणेन्द्रं यजति।
पोता ''मरुतो यस्य हि क्षये''-इति मन्त्रेण मरुतो यजति।
एवं हुत्वा पश्चात्सोमो भक्ष्यते। तस्मिन्भक्षणे 'मित्रावरुणपीतस्य' इति मन्त्र ऊहनीयः। तदानीम् 'इन्द्रमित्रावरुणपीतस्य' इत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः। कुतः- इन्द्रशेषे पुनरभ्युन्नीतस्य तेन सह मित्रावरुणाद्यर्थत्वे सति तस्य शेषस्येन्द्रसंबन्धराहित्यात्। पुनरुन्नीतस्यैवान्यार्थत्वम्, न पूर्वस्य- इति चेत्- न। उन्नयनकाले 'मित्रावरुणाद्यर्थोऽयम्' इति संकल्पाभावात्। प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिभ्यः प्रदीयते। तस्मात्- इन्द्रसंबन्धराहित्यान्नेन्द्रो लक्षणीयः- इति प्राप्ते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे, इन्द्रपीतस्येत्यादिमन्त्राणां विनियोगाधिकरणे सूत्रे 27-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात् सवनस्थेषु सर्वेषु मन्त्रोऽनूहेन पठ्यताम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.13
त्रयोदशे पात्नीवतभक्षण इन्द्रादीनामनुपलक्षणाधिकरणे सूत्रे 32-33
SŪपात्नीवते तु पूर्ववत्।। 32।।
SŪग्रहणाद्वाऽपनीतं स्यात्।। 33।।
त्रयोदशाधिकरणमारचयति-
1विषयः
द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम्
स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति
3पूर्वपक्षः
तद्भक्षणे द्विदेवाः किं सार्धं पात्नीवतेन ते
उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम्
ऐन्द्रवायवादयो द्विदेवत्याः। तेषां शेष आदित्यस्थालीमागच्छति, पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति। तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते। तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः। पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितः, तद्वत्- इति प्राप्ते-
4सिद्धान्तः
अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते
आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते
ब्रूमः- ''यदुपांशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति'' इत्याग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतसोमरसस्य तत्संबन्धेऽपेते सति पश्चात्पत्नीवद्देवतायै ग्रहणं भवति। तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति। पुनरभ्युन्नीतस्तु सोम ऐन्द्रशेषेण संसृष्टः। तस्य संसृष्टस्य भक्षणे मैत्रावरुणादीनामिवेन्द्रस्यापि संबन्धो नापैतीति वैषम्यम्। तस्मात्पात्नीवतभक्षण इन्द्रवाय्वादयो नोपलक्षणीयाः।। 31।। 32।। 33।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे, अभ्युन्नीतसोमभक्षणाधिकरणे सूत्राणि 29-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.14
चतुर्दशे पात्नीवतशेषभक्षे त्वष्टुरनुपलक्षणीयताधिकरणे सूत्रे 34-35
SŪत्वष्टारं तूपलक्षयेत्।। 34।।
SŪअतुल्यत्वात्तु नैवं स्यात्।। 35।।
चतुदर्शाधिकरणमारचयति-
1विषयः
सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा
सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सोऽपि लक्ष्यते
3पूर्वपक्षः
सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात्
चोदनाया अभावाच्च न देवोऽतो न लक्ष्यते
तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाऽप्युपलक्षणीयः। कुतः- त्वष्टुरपि तद्देवत्वात्। तच्च होममन्त्रादवगतम्। ''अग्ना3इ पत्नीवन्त्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा'' इत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन संबोध्य ''त्वष्ट्रा देवेन सह पिब'' इत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम्। ततः- ''पत्नीवत्त्वष्टृपीतस्य'' इत्युपलक्षणम्- इति प्राप्ते-
4सिद्धान्तः
आस्तां मन्त्रः, विधिबलात्त्वष्टुर्देवत्वम्- इति चेत्- न
''पात्नीवतमाग्रयणाद्गृह्णाति'' इत्यत्र त्वष्टुरप्रतीतेः
तस्मात्- अदेवत्वात्त्वष्टा नोपलक्षणीयः।
34
ब्रूमः- पानकाले सहावस्थानमात्रं त्वष्टुः 'सजूः' इत्यनेन पदेन प्रतीयते। न तु पातृत्वम्, असंबोधितस्य त्वष्टुः 'पिब' इत्यनेन शब्देन सामानाधिकरण्याभावात्।
न च पातृसहभावमात्रेण पातृत्वम्-
सहैव दशभिः पुत्रैर्भारं वहति गर्दग्री ।
इत्यत्र पुत्राणां वोढृत्वादर्शनात्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे पात्नीवतभक्षण इन्द्रादीनामनुपलक्षणाधिकरणे सूत्रे 32-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.15
पञ्चदशे पात्नीवतशेषभक्षे त्रिंशतामनुपलक्षणाधिकरणे सूत्रम्
SŪत्रिंशच्च परार्थत्वात्।। 36।।
पञ्चदशाधिकरणमारचयति-
1विषयः
पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी
लक्ष्या न वा याज्ययोक्तेर्देवत्वादुपलक्षणम्
3पूर्वपक्षः
एकोऽग्निर्यजमानेन मादितोऽन्ये तु वह्निना
अतोऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम्
तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य ''पत्नीवन्नामधारिणस्त्रयस्त्रिंशद्देवान्मादय'' इत्यभिधीयते- ''पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्व'' इति। अनुष्वधमनुप्रदानम्। अत्र हूयमानेन सोमरसेन मादनीयत्वात्रयस्त्रिंशतां तद्देवत्वम्। अत्तस्तेऽपि भक्षणे लक्षणीयाः- इति चेत्-
4सिद्धान्तः
न
यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात्
त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम्
तस्मान्नोपलक्षणम्।
36
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे पात्नीवतशेषभक्षे त्वष्टुरनुपलक्षणीयताधिकरणे सूत्रे 34-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आस्तां मन्त्रः, विधिबलात्त्वष्टुर्देवत्वम्- इति चेत्- न ''पात्नीवतमाग्रयणाद्गृह्णाति'' इत्यत्र त्वष्टुरप्रतीतेः तस्मात्- अदेवत्वात्त्वष्टा नोपलक्षणीयः। 34”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.16
षोडशे भक्षणेऽनुवषट्कारदेवताया अनुपलक्षणाधिकरणे सूत्रम्
SŪवषट्कारश्च पूर्ववत्।। 37।।
षोडशाधिकरणमारचयति-
1विषयः
सोमस्याग्न इति प्रोक्ताऽनुवषट्कारदेवता
3पूर्वपक्षः
लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा
''सोमस्याग्ने वीहीत्यनुयजति'' इति श्रूयते। तत्र- अनुवषट्कारस्य मान्त्रवर्णिकोऽग्निर्देवता। न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम्। मन्त्रे वह्निं संबोध्य सोमपातृत्वाभिधानात्। तस्मात्-अग्निर्लक्षणीयः- इति चेत्-
न। प्रकृतावलक्षितत्वात्। ऐन्द्रश्चमसः प्रकृतिः, इतरे विकृतिरूपाः। तथा हि-ऐन्द्रश्च सोमो गृह्यते मीयते च। तेनैन्द्रेष्वेव सोमः, अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव। अनैन्द्रा अधर्मकाः। धर्मताकाङ्क्षाश्चोदकेन सधर्मका इति विकृतित्वम्। गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वम् ''इन्द्राय त्वा वसुमते'' इत्यादिग्रहणमन्त्रादवगम्यते। तस्य प्रकृतिभूतस्येन्द्रचमसस्य भक्षणेऽग्निरनुवषट्कारदेवो नोपलक्षितः। कुतः- ग्रहणे तदुद्देशाभावात्। इन्द्रस्तूद्देश्यत्वादुपलक्षितः। एवं विकृतावप्युद्देश्यदेवानामेवोलक्षणं न्याय्यम्। तस्मात्- अग्निर्नोपलक्ष्यः।। 38।। 39।।
4सिद्धान्तः
प्रकृतौ विद्यमानोऽग्निरनुद्देशादलक्षितः
उद्देश्येन्द्रो लक्षितोऽतो विकृतावपि तत्तथा
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे पात्नीवतशेषभक्षे त्रिंशतामनुपलक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात् त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम् तस्मान्नोपलक्षणम्। 36”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.17
सप्तदशे(कृत्वाचिन्तारूपे)अनैन्द्राणाममन्त्रकभक्षणाधिकरणे सूत्रम्
SŪछन्दःप्रतिषेधस्तु सर्वगामित्वात्।। 38।।
सप्तदशाधिकरणमारचयति-
1विषयः
अमन्त्रपक्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम्
3पूर्वपक्षः
ऊहोऽस्ति नो वा सोऽस्त्यत्र विकृतौ तस्य संभवात्
उक्ताभ्यः पञ्चम्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नेवाधिकरणे योऽयम् 'अनैन्द्रेष्वमन्त्रकं भक्षणम्' इत्येवंरूपः प्रथमः पूर्वपक्षः, तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते- अनैन्द्रेषूक्तरीत्या विकृतित्वेनोहसंभवादस्त्यूहः- इति चेत्-
न। अनैन्द्राणां विकृतित्वासंभवात्। ''सोमेन यजेत'' इत्युत्पत्तिश्रुतः सोमः कर्मणोऽङ्गम्। न तु प्रदानविशेषस्य कस्यचिदङ्गम्। स एव सोमः सर्वप्रदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि। अत ऐन्द्राणामनैन्द्रणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः। ''इन्द्राय त्वा वसुमते'' इत्यादिमन्त्रो लिङ्गादैन्द्रविषयोऽस्तु। नैतावता प्रकृतिविकृतिभावः सिध्यति। तस्मादुक्तमन्त्रस्य लिङ्गादैन्द्रविषयत्वादनैन्द्रेष्वमन्त्रकं भक्षणम्।। 40।। 41।।
4सिद्धान्तः
सोमेनेति विधेः सर्वप्रदानेषु समत्वतः
अविकारेऽप्यनूहोऽतो नैन्द्रे निर्मन्त्रभक्षणम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे भक्षणेऽनुवषट्कारदेवताया अनुपलक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रकृतौ विद्यमानोऽग्निरनुद्देशादलक्षितः उद्देश्येन्द्रो लक्षितोऽतो विकृतावपि तत्तथा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.18
अष्टादशे, ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणे सूत्रे- 39-40
SŪऐन्द्राग्ने तु लिङ्गभावात्स्यात्।। 39।।
SŪएकस्मिन्वा देवतान्तराद्विभागवत्।। 40।।
अष्टादशाधिकरणमारचयति-
1विषयः
समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम्
ऐन्द्राग्नेऽपीन्द्रपीतत्वसंभवात्तत्समन्त्रकम्
3पूर्वपक्षः
न पानमशरीरस्य युक्तं दानं तु मिश्रगम्
मन्त्रोऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम्
यदेतत् ''ऐन्द्राग्नं गृह्णाति'' इति विहितं शेषभक्षणम्, तत्र- 'इन्द्राग्निभ्यां पीतः सोम इन्द्रेणापि पीतो भवति' इति लेङ्गेनैव विनियोगात्समन्त्रकं भक्षणम्- इति चेत्-
मैवम्। नवमाध्याये वक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य पानासंभवात्। अथ- पीतशब्देन दानं
4सिद्धान्तः
विवक्ष्येत, तदानीम् 'इन्द्राय दत्तः सोमः' इति मन्त्रार्थो भवति
न चात्र यजमान इन्द्रमुद्दिश्य ददौ, किंत्विन्द्राग्नी उद्दिश्य
तस्मात् 'दानं मिश्रविषयम्
मन्त्रस्तु न मिश्रविषयः' इत्यमन्त्रकं भक्षणम्।
42
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे(कृत्वाचिन्तारूपे)अनैन्द्राणाममन्त्रकभक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सोमेनेति विधेः सर्वप्रदानेषु समत्वतः अविकारेऽप्यनूहोऽतो नैन्द्रे निर्मन्त्रभक्षणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.19
एकोनविंशे 'गायत्रच्छन्दसः' इत्यादिमन्त्रविनियोगाधिकरणे सूत्राणि 41-43
SŪछन्दश्च देवतावत्।। 41।।
SŪसर्वेषु वाऽभावादेकच्छन्दसः।। 42।।
SŪसर्वेषां वैकमन्त्र्यमैतिशायनस्य भक्तिपावनत्वात्सवनाधिकारो हि।। 43।।
एकोनविंशाधिकरणमारचयति-
3पूर्वपक्षः
तस्मिन्नेव भक्षमन्त्रे ''गायत्रच्छन्दस इन्द्रपीतस्य'' इति श्रूयते। 'गायत्रमेव छन्दो यस्य' इति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षमन्त्रः- इति चेत्-
मैवम्। बहुच्छन्दोयुक्तेऽपि बहुव्रीहेः समानत्वात्। एवकारं परित्यज्य 'गायत्रं छन्दो यस्य' इति विग्रहसंभवात्। एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति। तस्मान्नानाछन्दस्के सोम ऐन्द्रप्रदान एव मन्त्रः, नान्यत्र। तदेवं कृत्वाचिन्तात्रयं समाप्तम्। द्विविधकृत्वाचिन्तोद्घाटना तु प्रागेव सिद्धान्तिना दर्शिता।। 44।। 45।। 46।।
अत्र पादे अधिकरणानि 19, सूत्राणि 43।
आदितः अधिकरणानि 123 सूत्राणि 359।
तृतीयाध्यायस्य तृतीयः पादः
वाक्यप्रकरणादि।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे, ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणे सूत्रे- 39-40”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विवक्ष्येत, तदानीम् 'इन्द्राय दत्तः सोमः' इति मन्त्रार्थो भवति न चात्र यजमान इन्द्रमुद्दिश्य ददौ, किंत्विन्द्राग्नी उद्दिश्य तस्मात् 'दानं मिश्रविषयम् मन्त्रस्तु न मिश्रविषयः' इत्यमन्त्रकं भक्षणम्। 42”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]