SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 3, Pāda 1

शेषत्वम्

शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता

15adhikaraṇas
27sūtras
3.1.1 प्रथमे प्रतिज्ञाधिकरणे सूत्रम्
अथातः शेषलक्षणम्।। 1।।
तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-

1विषयः

अशाब्दी शेषता शाब्दी वा न शाब्द्यप्रतीतितः
क्रियाकारकसंसर्गमात्रे व्युत्पत्तिसंभवात्

3पूर्वपक्षः

गुणप्रधानभावेन संसर्गेऽन्तर्भवत्यसौ
व्युत्पत्तिसंभवात्तत्र शाब्दता स्यात्क्रियादिवत्
यदिदमस्मिंस्तृतीयाध्याये प्रतिपाद्यं शेषत्वम्, न तच्छाब्दम्। कुतः- केनापि शब्देन शेषत्वस्याप्रतीयमानत्वात्। व्युत्पन्नो हि शब्दः प्रत्यायकः। व्युत्पतिश्च न शेषशेषिभावे क्वचिद्दृष्टा। लोके सर्वत्र क्रियाकारकान्वयस्यैव व्युत्पत्तिप्रयोजकत्वदर्शनात्। अतः शेषताया अशाब्दत्वान्नायमध्याय आरम्भणीय इति चेत्-

4सिद्धान्तः

मैवम्
अन्वये शेषशेषिभावस्यान्तर्भावात्
न हि गुणप्रधानभावमन्तरेणान्वयः संभवति
द्वयोर्गुणयोः परस्पराकाङ्क्षारहितत्वेनान्वययोग्यत्वाभावात्
एवं द्वयोः प्रधानयोरपि
अतो व्युत्पत्तिसंभवात्क्रिया कारकतदन्वया यथा शाब्दाः, तथा तदन्वयान्तर्गतः शेषशेषिभावोऽपि शाब्दः
तस्मादयमध्याय आरम्भणीयः।
2

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि 8- 32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.2 द्वितीये शेषलक्षणाधिकरणे सूत्रम्
शेषः परार्थत्वात्।। 2।।
द्वितीयाधिकरणमारचयति-

1विषयः

स्वरूपहेतू न स्तोऽत्र स्तो वा नैवानिरूपणात्
पारार्थ्ये शेषताहेतू रूपं तेनोपलक्षितम्

3पूर्वपक्षः

न तावदत्र शेषत्वस्य स्वरूपं निरूपयितुं शक्यते। तथा हि शेषत्वं नाम किम्- अविनाभूतत्वम्, प्रयोज्यत्वं
वा, विध्यन्तविहितत्वं वा। नाद्यः। षड्यागानामविनाभूतानां परस्परशेषत्वप्रसङ्गात्। न द्वितीयः। ''पुरोडाशकपालेन तुषानुपवपति'' इत्यत्र तुषोपवापं प्रति शेषस्यापि कपालस्य तत्प्रयोज्यत्वाभावात्। न तृतीयः। बिध्यादिविहितस्य पलाशशाखाच्छेदस्य सत्यपि शेषत्वे विध्यन्तविहितत्वाभावात्। तस्मान्नास्ति शेषतायाः स्वरूपम्। नापि हेतुरस्ति। 'विमतः शेषः, एवंत्वात्' इति कस्यचिद्धेतोरनिरूपणात्-इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- 'विमतः प्रयाजादिः शेषः, परार्थत्वात्, भृत्यादिवत्' इति हेतुः सुनिरूपः। अविनाभूतत्वादीनां लक्षणानां दुष्टत्वेऽपि 'परार्थः शेषः' इति लक्षणस्यादुष्टत्वात्। तेन लक्षित आकारः स्वरूपम्। न च पारार्थ्यस्यैव हेतुत्वे लक्षणत्वे च सांकर्यम्। आकारभेदेन तद्भेदात्। दृष्टान्ते गृहीतव्याप्तिं सहायीकृत्य बोधक आकारो हेतुः। इतख्यावृत्त्या बोधक आकारो लक्षणम्। तस्माच्छेषताया हेतुस्वरूपे विद्येते।। 4।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे प्रतिज्ञाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अन्वये शेषशेषिभावस्यान्तर्भावात् न हि गुणप्रधानभावमन्तरेणान्वयः संभवति द्वयोर्गुणयोः परस्पराकाङ्क्षारहितत्वेनान्वययोग्यत्वाभावात् एवं द्वयोः प्रधानयोरपि अतो व्युत्पत्तिसंभवात्क्रिया कारकतदन्वया यथा शाब्दाः, तथा तदन्वयान्तर्गतः शेषशेषिभावोऽपि शाब्दः तस्मादयमध्याय आरम्भणीयः। 2”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.3 तृतीये शेषलक्ष्याधिकरणे सूत्राणि 3-6
द्रव्यगुणसंस्कारेषु बादरिः।। 3।।
कर्माण्यपि जैमिनिः फलार्थत्वात्।। 4।।
फलं च पुरुषार्थत्वात्।। 5।।
पुरुषश्च कर्मार्थत्वात्।। 6।।
तृतीयाधिकरणमारचयति-

1विषयः

किं द्रव्यगुणसंस्कारमात्रं शेषोऽथवा फलम्

3पूर्वपक्षः

पुमान्कर्म च पक्षौ द्वावादेयौ मतभेदतः
स्फ्यकपालादिकं द्रव्यम्, अरुणिमादिको गुणः, अवघातप्रोक्षणादिकः संस्कारः। एतेषु त्रिष्वेव शेषत्वम्। स्वर्गः फलम्, तत्कामी पुरुषः, दर्शपूर्णमासौ कर्म। न हि फलादीनां त्रयाणां शेषत्वमस्ति। उपकारित्वस्य शेषत्वलक्षणस्य फलादिष्वभावात्- इति बादरेर्मतम्।
पारार्थ्यं लक्षणमभिप्रेत्य 'फलादयोऽपि शेषाः' इति जैमिनेर्मतम्। तथा च त्रीणि सूत्राणि पठ्यन्ते- 'कर्माण्यपि जैमिनिः फलार्थत्वात्' 'फलं च पुरुषार्थत्वात्' 'पुरुषश्च कर्मार्थत्वात्' इति। तत्रोपकारित्वमतिव्याप्तम्, प्रधानभूतेऽपि स्वामिनि गर्भदासोपकारित्वदर्शनात्। तस्माज्जैमिनिमतमेव मुख्यः सिद्धान्तः।। 5।। 6।।

4सिद्धान्तः

शेषत्वमुपकारित्वं द्रव्यादावाह बादरिः
पारार्थ्यं शेषता तच्च सर्वेष्वस्तीति जैमिनिः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये शेषलक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.4 चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि 7- 10
तेषामर्थेन संबन्धः।। 7।।
विहितस्तु सर्वधर्मः स्यात्संयोगतोऽविशेषात्प्रकरणाविशेषाच्च।। 8।।
अर्थलोपादकर्म स्यात्।। 9।।
फलं तु सह चेष्टयाशब्दार्थोऽभावाद्विप्रयोगे स्यात्।। 10।।
चतुर्थाधिकरणमारचयति-

1विषयः

श्रुता व्रीह्याज्यसांनाय्यधर्माः सांकर्यगामिनः
व्यवस्थिता वा सांकर्यं फलापूर्वेण संगतेः

3पूर्वपक्षः

अवान्तरापूर्वसत्त्वात्साक्षात्तेनैव संगतौ
श्रुत्या व्यवस्थापितास्ते सा हि प्रकरणोत्तमा
व्रीहिधर्मा अवघातप्रोक्षणादयः, आज्यधर्मा उत्पवनावेक्षणादयः, सांनाय्यधर्मा दोहनातञ्चनादयः। ते सर्वे फलहेतुतया दर्शपूर्णमासापूर्वेण संगच्छन्ते। अवान्तरापूर्वस्य कस्यचिदभावात्। एकेनैवापूर्वेण फलसिद्धावपूर्वान्तरस्य कल्पकाभावात्। फलापूर्वप्रयुक्त्या चानुष्ठीयमाना धर्मा यस्मिन्कस्मिन्नपि द्रव्येऽनुष्ठिताः फलापूर्वं जनयन्त्येव- इति सांकर्ये प्राप्ते-

4सिद्धान्तः

मैवम्
''व्रीहीन्प्रोक्षति'' ''आज्यमवेक्षते'' इत्यादिद्वितीयाश्रुत्या व्यवस्थापितत्वात्
श्रुतिश्च प्रकरणाद्बलीयसी
तस्माद्व्यवस्थिता धर्माः।
7
ब्रूमः-आग्नेयादयः षड्यागा भिन्नक्षणवर्तिनो विनश्वराः संभूय फलापूर्वं जनयितुं न शक्नुवन्ति। ततस्तज्जननसमर्थान्याग्नेयादिजन्यानि षडवान्तरापूर्वाणि कल्प्यानि। तेषु पुरोडाशद्रव्यकयागजन्यापूर्वे व्रीहिधर्माणां प्रयोजकं, प्रत्यासन्नत्वात्। फलापूर्वं तु तेन व्यवहितम्। एवम्-आज्यधर्माणां सांनाय्यधर्माणां च तत्तद्द्रव्यकयागजन्यावान्तरापूर्वेणैव साक्षात्संगतिः। तथासति तत्तदपूर्वप्रयुक्ताः संस्कारास्तत्तदपूर्वसाधनप्रकृतिद्रव्येष्वेव व्यवतिष्ठन्ते।
ननु दर्शपूर्णमासप्रकरणमत्र संस्काराणां विनियोजकम्। तच्च सर्वप्रकृतिद्रव्यसाधारणमिति तदवस्थमेव सांकर्यम्। अथोच्येत- 'तुषविमोकस्य व्रीहिष्वेव संभवात्तेष्ववावघातः, न त्वाज्यसांनाय्ययोः। एवं विलापनमाज्य एव। दोहनादिकं सांनाय्य एव' इति। बाढम्। दृष्टार्थानां धर्माणां व्यवस्थितत्वेऽप्य दृष्टार्थाः प्रोक्षणादयः संकीर्येरन्-
इति चेत्-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये शेषलक्ष्याधिकरणे सूत्राणि 3-6”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “शेषत्वमुपकारित्वं द्रव्यादावाह बादरिः पारार्थ्यं शेषता तच्च सर्वेष्वस्तीति जैमिनिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.5 पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम्
द्रव्यं चोत्पत्तिसंयोगात्तदर्थमेव चोद्येत।। 11।।
पञ्चमाधिकरणमारचयति-

1विषयः

द्रव्यस्य स्फ्यकपालादेः सांकर्यं वा व्यवस्थितिः

3पूर्वपक्षः

यज्ञायुधत्वं सर्वेषां समं तेनात्र संकरः
दर्शपूर्णमासयोः श्रूयते ''स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच्चोपला चैतानि वै दश यज्ञायुधानि'' इति। स्फ्यशब्देन खड्गाकारं काष्ठमुच्यते। तत्र- व्रीह्यादिद्रव्येष्ववघातादिसंस्काराणां सांकर्ये निराकृतेऽपि स्फ्यकपालादिद्रव्याणामुद्धननपुरोडाशश्रपणाद्यङ्गक्रियासु सांकर्यं निराकर्तुमशक्यम्। येन केनापि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात्। नह्यव्यवस्थामात्रेण यज्ञसाधनत्वमपैति- इति प्राप्ते-

4सिद्धान्तः

वाक्यस्योद्धननादेः स्याद्वैयर्थ्यं संकरे सति
अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत्
ब्रूमः- ''स्फ्येनोद्धन्ति'' ''कपालेषु श्रपयति'' ''अग्निहोत्रहवण्या हवींषि निर्वपति'' ''शूर्पेण विविनक्ति'' ''कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति'' ''शम्ययादृषदमुपदधाति'' ''उलूखलमुसलाभ्यामवहन्ति'' ''दृषदुपलाभ्यां पिनष्टि'' इत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्यं सांकर्यपक्षे प्रसज्येत। व्यवस्थापक्षेऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकम्- इति चेत्- न। उद्धननादिवाक्यसिद्धार्थानुवादत्वात्। न च वैपरीत्येनोद्धननादिवाक्यानामेवानुवादत्वमिति वाच्यम्। बहुवैयर्थ्यस्य जघन्यत्वात्। न चात्यन्तं यज्ञायुधानुवादस्य वैयर्थ्यम्। ''यज्ञायुधानि संभरन्ति'' इत्यासादनविधानायोपयुक्तत्वात्। तस्मात्- अवघातादिसंस्कार इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि।। 9।। 10।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि 7- 10”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''व्रीहीन्प्रोक्षति'' ''आज्यमवेक्षते'' इत्यादिद्वितीयाश्रुत्या व्यवस्थापितत्वात् श्रुतिश्च प्रकरणाद्बलीयसी तस्माद्व्यवस्थिता धर्माः। 7”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.6 षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम्
अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात्।। 12।।
षष्ठाधिकरणमारचयति-

1विषयः

क्रीणात्यरुणयेत्येतत्संकीर्णं वा क्रयैकभाक्

3पूर्वपक्षः

क्रमेणानन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा
ज्योतिष्टोमे श्रूयते ''अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति'' इति। तत्र- अरुणाशब्दोऽरुणिमानं गुणमाचष्टे। गुणिविषयतया प्रयुज्यमानस्यापि 'नागृहीतविशेषणा विशिष्टे बुद्धिः' इति न्यायेन गुणबोधकत्वात्। अन्वयव्यतिरेकाभ्यां गुणमात्रे तद्व्युत्पत्तेश्च। तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते तच्चानुपपन्नम्, अमूर्तस्य गुणस्य वासोहिरण्यादिवत्क्रयसाधनत्वासंभवात्। ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम्। प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं निवेशयति।
न चानेन न्यायेन पिङ्गाक्ष्येकहायनीशब्दार्थयोरपि सर्वद्रव्यगामित्वं शङ्कनीयम्। तयोः शब्दयोर्द्रव्यवाचित्वात्। पिङ्गलवर्णे अक्षिणी यस्याः सा गौः पिङ्गाक्षी। एवमेकहायनी। यद्यप्येकगोवाचिनौ शब्दौ, तथाऽपि विशेषणभूतधर्मभेदाच्छब्दद्वयम्। तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्रव्यं क्रयसाधनत्वेन विदधाति। न चेतरद्द्रव्यमितरद्नव्ये निवेशयितुं शक्यम्। अरुणिमगुणस्तु द्रव्येषु विशेषणत्वेनान्वेतुं योग्यत्वात्तेषु निवेश्यते। तत्रैषाऽक्षरयोजना- 'अरुणया' इत्येतत्पृथग्वाक्यम्। तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि सर्वाण्यनूद्य प्रातिपदिकेन गुणो विधीयते- 'यानि ज्योतिष्टोमे साधनद्रव्याणि, तानि सर्वाण्यरुणानि कर्तव्यानि' इति। तस्मात्- गुणः संकीर्णः- इति प्राप्ते-

4सिद्धान्तः

द्रव्यद्वारा क्रये योगात्तद्भागे चान्वयः पुनः
साक्षात्क्रये गुणस्यार्थाद्द्रव्यं संनिहिते त्वसौ
ब्रूमः-यद्यप्यमूर्तो गुणः, तथाऽपि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति। तच्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणान्वयो भवति। एवं सति वाक्यभेदो न भविष्यति।
ननु वाक्यभेदाभावेऽपि लक्षणा दुर्वारा। गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वाङ्गीकारात्। मैवम्। गुस्यैवात्र तृतीयाश्रुत्या साधनत्वमुच्यते। तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्या द्रव्यावच्छेदकत्वं कल्प्यते। तर्हि ग्रहचमसादिद्रव्यमप्यवच्छिद्यताम्- इति चेत्- न। तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदे गुणस्य श्रूयमाणक्रयसाधनत्वासिद्धेः। तर्हि 'वाससा क्रीणाति' 'अजया क्रीणाति' इति वस्त्रादीनां क्रयसाधनत्वात्तदवच्छेदोऽस्तु- इति चेत्- न, तेषां क्रयान्तरसाधनत्वात्। न हि तत्राग्निहोत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिद्रव्यविकल्पो विधीयते। अनुवाद्यस्य क्रयमात्रस्याग्निहोत्रवदन्यत्राविधानात्। ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः। नहि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः। तस्मात्क्रयेण साक्षादन्वितयोर्द्रव्यगुणयोः पश्चादर्थापत्त्या परस्परावच्छेदकत्वेनान्वयः। तथा सति 'आरुण्यविशिष्टैकहायन्या क्रीणाति' इत्यर्थः पर्यवस्यति। तस्मात्- आरुण्यगुणः क्रयहेतुमेकहायनीमेव भजते।। 11।। 12।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वाक्यस्योद्धननादेः स्याद्वैयर्थ्यं संकरे सति अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.7 सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि 13 - 15
एकत्वयुक्तमेकस्य श्रुतिसंयोगात्।। 13।।
सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम्।। 14।।
चोदिते तु परार्थत्वाद्यथाश्रुति प्रतीयेत।। 15।।
सप्तमाधिकरणमारचयति-

1विषयः

संमार्ष्टि ग्रहमित्येको ग्रहः शोध्य उताखिलः

3पूर्वपक्षः

एक उद्देश्यसंख्याया उपादेयवदादरात्
सोमे श्रूयते ''दशापवित्रेण ग्रहं संमार्ष्टि'' इति। दशापत्रित्रं वासःखण्डः। तत्र- यथा ''पशुना यजेत'' इत्यत्रोपादेयपशुगतमेकत्वं विवक्षितम्, तद्वदुद्देश्यग्रहगतमप्येकत्वं विवक्षितव्यम्। किंच ग्रहशब्दस्य जातिवाचित्वेन जातेः संस्कार्यत्वे सति तदाश्रयभूते यस्मिन्कस्मिन्नपि द्रव्येऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवति। तस्मात्- एक एव ग्रहः शोधनीयः- इति प्राप्ते-

4सिद्धान्तः

प्राधान्यात्तद्गुणावृत्तेरेकत्वमनपेक्षितम्
तद्विधौ वाक्यभेदोऽतो द्रव्योक्त्या सर्वशोधनम्
ब्रूमः- 'ग्रहम्' इति द्वितीयया ग्रहस्योद्देश्यतया प्रयोजनवत्तया च प्राधान्यं गम्यते। ग्रहं प्रति गुणः संमार्गः। 'प्रतिप्रधानं च गुण आवर्तनीयः' इति न्यायेन यावन्तो ग्रहाः सन्ति, ते संमार्जनीयाः। एवं निश्चये सति संमार्जयितव्यग्रहेयत्ताया अबुभुत्सितत्वादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम्।
अथोच्येत- नेदमुद्देश्यगतम्, किंतु द्वयं विधेयम्- इति। तन्न। वाक्यभेदापत्तेः। 'ग्रहं संसृज्यात्, तं चैकम्' इत्येवं विधेयार्थभेदाद्वाक्यभेदः।''पशुना यजेत'' इत्यत्र तु यागं प्रति गुणभूतः पशुः। न हि 'प्रतिगुणं प्रधानस्यावृत्तिः' इति कश्चिन्यायोऽस्ति। तत इयत्ताया बुभुत्सितत्वाच्छ्रूयमाणमेकत्वं विवक्ष्यत इति वैषम्यम्। न च जातिः संस्कार्या- तस्या अमूर्तत्वात्। ततो जातिद्वारा द्रव्यलक्षको गुणशब्दः। तत्र चावृत्तिरुक्ता। तस्मात्- सर्वे ग्रहाः संमार्जनीयाः।। 13।। 14।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “द्रव्यद्वारा क्रये योगात्तद्भागे चान्वयः पुनः साक्षात्क्रये गुणस्यार्थाद्द्रव्यं संनिहिते त्वसौ”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.8 अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे 16- 17
संस्काराद्वा गुणानामव्यवस्था स्यात्।। 16।।
व्यवस्था वाऽर्थस्य श्रुतिसंयोगात्, तस्य शब्दप्रमाणत्वात्।। 17।।
अष्टमाधिकरणमारचयति-

1विषयः

चमसादि च संसृज्यान्नो वा तस्यास्ति मार्जनम्
एकत्ववद्ग्रहत्वस्याप्यनादरणसंभवात्

3पूर्वपक्षः

अबाधोऽत्रादरे हेतुर्वाक्यभेदस्तु नैव हि
चमसादौ न संमार्गः श्रुत्या तद्विषयार्पणात्
'ग्रहम्' इत्यत्र प्रत्ययार्थभूतमेकत्वं यथा न विवक्षितम्, तथा प्रातिपदिकार्थस्य ग्रहत्वस्याप्यविवक्षा संभाव्यते। ततो ग्रहशब्दस्य सोमपात्रोपलक्षकत्वाद्ग्रहाणामिव चमसानामपि संमार्गेण सोमावसेकनिर्हरणप्रयोजनसंभवाच्चमसादयोऽपि मार्जनीयाः- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- एकत्वं वाक्यभेदेन दुष्टत्वादविवक्षितम्
अदुष्टं तु ग्रहत्वं कुतो न विवक्ष्येत
ततः सत्यपि प्रयोजने प्रमाणाभावाच्चमसादौ नास्ति संमार्गः
न च विषयापेक्षया तत्कल्पनम्
ग्रहश्रुत्यैव तद्विषयसमर्पणात्
तस्मान्नास्ति संमार्गः।
15
,-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि 13 - 15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्राधान्यात्तद्गुणावृत्तेरेकत्वमनपेक्षितम् तद्विधौ वाक्यभेदोऽतो द्रव्योक्त्या सर्वशोधनम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.9 नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम्
आनर्थक्यात्तदङ्गेषु।। 18।।
नवमाधिकरणमारचयति-

1विषयः

भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः
उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत

3पूर्वपक्षः

आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः
ऊर्ध्वपात्रे खादिरेऽग्ने संयुज्यान्वेति कर्मणा
वाजपेयप्रकरणे श्रूयते ''सप्तदशारत्निर्वाजपेयस्य यूपो भवति'' इति। तत्र- यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोऽङ्गम्, सप्तदशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात्। प्रकरणं चैवमनुगृह्यते। यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्, तर्हि वाजपेयगतं खादिरमूर्ध्वं यत्षोडशिपात्रं तस्मिन्नद उन्मानं प्रथमं संबध्य तद्द्वारा कर्मणाऽन्वेति- इति प्राप्ते-

4सिद्धान्तः

यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः
सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना
ब्रूमः- 'सप्तदशारत्निर्यूपः' इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते। तस्य यूपस्य पश्वङ्गत्वादुन्मानं यूपद्वारा पशोरङ्गं भवति। तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणोऽङ्गम्। यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति, तथाऽपि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावात्पशुव्यवधानमभ्युपेयम्। 'वाजपेयस्य' इति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते। 'देवदत्तस्य नप्ता' इति प्रयोगात्। यत्तु- सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यम्, यञ्च प्रकरणम्। तदुभयमप्यविरुद्धम्, पश्वङ्गत्वेऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात्। किंच- पूर्वपक्षे यूपशब्देन षोडाशिपात्रं लक्षणीयम्। सिद्धान्ते तु नासौ दोषः।। 17।। 18।। 19।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे 16- 17”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- एकत्वं वाक्यभेदेन दुष्टत्वादविवक्षितम् अदुष्टं तु ग्रहत्वं कुतो न विवक्ष्येत ततः सत्यपि प्रयोजने प्रमाणाभावाच्चमसादौ नास्ति संमार्गः न च विषयापेक्षया तत्कल्पनम् ग्रहश्रुत्यैव तद्विषयसमर्पणात् तस्मान्नास्ति संमार्गः। 15”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.10 दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे 19- 20
कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यात्।। 19।।
साकाङ्क्षं त्वेकवाक्यं स्यादसमाप्तं हि पूर्वेण।। 20।।
दशमाधिकरणमारचयति-

3पूर्वपक्षः

दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयते ''अभिक्रामं जुहोति'' इति। तत्र होमकाले यदेतदाहवनीयमभितः संचरणं, तत्कृत्स्नदर्शपूर्णमासकर्त्रा संबध्यते, न तु प्रयाजमात्रकर्त्रा। कुतः- अभिक्रमणस्य क्रियारूपस्य कारकत्वाभावेन प्रयाजक्रियया संबन्धासंभवात्- इति चेत्-
एतदेवाधिकरणं वार्तिककारमतेनाचरयति-
अस्मिन्नपि मते तावेव विषयसंशयौ। पूर्वोत्तरपक्षहेतुमात्रमन्यत्। प्रयाजसंनिधितोऽपि दर्शपूर्णमासप्रकरणस्य प्रबलत्वात्प्राकरणिकेषु कृत्स्नेष्वप्यभिक्रमणं निविशते- इति पूर्वःपक्षः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.11 एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम्
संदिग्धे तु व्यवायाद्वाक्यभेदः स्यात्।। 21।।
एकादशाधिकरणमारचयति-

1विषयः

उपव्ययत इत्यस्य सामिधेन्यङ्गताऽथवा

3पूर्वपक्षः

दर्शाङ्गता प्रक्रियैषाऽवान्तराऽतोऽस्त्विहाग्रिमः
दर्शपूर्णमासप्रकरणे ''विश्वरूपो वै त्वाष्ट्रः'' इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः- सामिधेनीब्राह्मणमाम्नातम्। नवमे- निवित्संज्ञकानाम्- ''अग्ने महाँ असि ब्राह्मणभारत''- इत्यादीनां मन्त्राणां ब्राह्मणम्।
दशमे- काम्याः सामिधेनीपक्षाः।
एकादशे तु- उपवीतमेवं विहितम्- ''निवीतं मनुष्याणाम्, प्राचीनावीतं पितॄणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव तत्कुरुते-'' इति। तत्र- पूर्वन्यायेन सामिधेनीप्रकरणस्यावान्तरस्याङ्गीकारात्सामिधेन्यङ्गमुपवीतम्- इति चेत्-
न। निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छेदितत्वात्। न च निविदामपि सामिधेन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वम्- इति वाच्यम्। लिङ्गेन निविदामग्न्यङ्गत्वावगमात्। आहुत्यधिकरणभूतमग्निं संबोध्य 'महानसि' इत्यादिभिर्निविद्वाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते। अत एव निर्वचनमेवं श्रूयते ''निविद्भर्न्यवेदयन्, तन्निविदां निवित्त्वम्''- इति।
ननु- 'सम्यगिध्यतेऽग्निर्याभिर्ऋग्भिस्ताः सामिधेन्यः' इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एव- इति चेत्- सन्तु नाम। नैतावता परस्परमङ्गाङ्गिभावः। ननु विच्छिद्यतां सामिधेनीप्रकरणम्, निवित्प्रकरणेनोपवीतस्य निविदङ्गत्वं स्यात्- इति चेत्- न। पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात्। संनिधिना तदङ्गत्वम्- इति चेत्- न। काम्यसामिधेनीभिर्व्यवधानात्। न च काम्यसामिधेन्यङ्गता शङ्कनीया। संनिधितः प्रकरणस्य प्रबलत्वात्। तस्मात्- इह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम्।। 25।। 26।।

4सिद्धान्तः

लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः
विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे 19- 20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.12 द्वादशे गुणानां मिथोऽसंबन्धाधिकरणे सूत्रम्
गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्।। 22।।
द्वादशाधिकरणमारचयति-

1विषयः

वैकङ्कतादिकं पात्रं पवमानहविःष्वथ

3पूर्वपक्षः

यज्ञेऽखिले प्रकरणादाधानेऽन्वितमत्र तत्
आधानप्रकरणे दारुपात्रं होमार्थं यज्ञार्थं च श्रूयते ''तस्माद्वारणो यज्ञावचरः स्यान्नत्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज्जुहुयादेवैतेन'' इति। यज्ञावचरो यज्ञप्रचारहेतुः। तत्र- वारणवैकङ्कतादिपात्रं प्रकरणबलादाधाने प्रथममन्वेति। एतेन पात्रेणाधाने प्रयोजनाभावादाधानाङ्गेषु पवमानहविःष्वेव तत्पात्रं निविशते। अस्ति हि पवमानहविषामाधानाङ्गत्वम्। तत्प्रकरणे पाठात्। ''कृत्तिकास्वग्निमादधीत'' इत्यस्मिन्प्रकरणे ''प्रजापतिर्वाचः सत्यमपश्यत्'' इत्यस्मिन्ननुवाके ''त्रीणि हवींषि निर्वपति'' इत्यादिना तानि विहितानि। ततो यथा सप्तदशारत्नित्वं वाजपेये साक्षादसंभवत्तदङ्गपशोरङ्गे निविशते, तद्वदिदमपि- इति प्राप्ते-

4सिद्धान्तः

अनर्थकं तदङ्गेषु हविःष्वेवावतिष्ठते
नाधानहविषां साम्याद्वाक्याद्यज्ञेऽखिले भवेत्
ब्रूमः- अग्निमुद्दिश्याधानं यथा विहितं, तथा पवमानहवींष्यपि। ''यदाहवनीये जुह्वति। तेन सोऽस्याभीष्टः प्रीतः'' इत्याहवनीयोद्देशेन पवमानहविर्होमविधानात्। तस्मादग्निसंस्कारत्वेन समाम्नातानाप्राधानहविषां नास्ति परस्परमङ्गाङ्गिभावः। तथा सति प्रकरणस्य पात्रं प्रति विनियोजकत्वाभावात् ''वैकङ्कतो यज्ञावचरः'' इति वाक्येन दर्शपूर्णमासादिसर्वयज्ञेषु तद्विनियुज्यते।। 27।। 28।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.13 त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम्
मिथश्चानर्थसंबन्धात्।। 23।।
त्रयोदशाधिकरणमारचयति-

1विषयः

वार्त्रघ्न्यौ पूर्णमासे स्तो वृधन्वत्यौ तु दर्शगे
इति प्रधानशेषत्वमुक्तं किंवा व्यवस्थितिः

3पूर्वपक्षः

क्रमेण प्रापिता मन्त्राश्चत्वारोऽप्याज्यभागयोः
क्रमाद्वाक्यं बलीयोऽत एषां दर्शादिशेषता
दर्शपूर्णमासप्रकरणे श्रूयते ''वार्त्रघ्नी पूर्णमासेऽनूच्येते, वृधन्वती अमावास्यायाम्'' इति। तत्र- इदं वार्त्रघ्नीयुगलं वृधन्वतीयुगलं च हौत्रकाण्ड आज्यभागयोः क्रमे ''अग्निर्वृत्राणि जङ्घनत्---'' इत्यनुवाकेनाम्नातम्। उदाहृतेन तु ब्राह्मणवाक्येन दर्शपूर्णमासयागयोस्तद्विधिरवगम्यते। तत्र वाक्यस्य प्रबलत्वादेषां मन्त्राणां दर्शपूर्णमासयागाङ्गत्वम्, न त्वाज्यभागाङ्गत्वम्- इति प्राप्ते-

4सिद्धान्तः

न मुख्ये सोम एकोऽस्ति नाधारत्वादिकालयोः
दर्शादेरव्यवस्थित्याऽप्राप्तौ वाक्याद्व्यवस्थितिः
ब्रूमः- ''अग्निर्वृत्राणि जङ्गनत्'' इत्याग्नेयी प्रथमा वार्त्रघ्नी, ''त्वं सोमासि सत्पतिः'' इति सौम्या द्वितीया वार्त्रघ्नी। ''अग्निः प्रत्नेन जन्मना'' इत्याग्नेयी प्रथमा बृधन्वती, ''सोम गीर्भिष्ट्वा वयम्'' इति सौम्या द्वितीया वृधन्वती। तत्र मुख्ययोर्दर्शपूर्णमासयागयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु। सौम्ययोस्तु तन्न संभवति। सोमदेवताया अभावात्। नह्यग्नीषोमीयेऽपि केवलः सोमो विद्यते।
किंच 'पूर्णमासे, अमावास्यायाम्' इति सप्तमीभ्यामाधारत्वं गम्यते। तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति। कालस्य तूपसर्जनत्वात्तद्वाचित्वं युक्तम्।
किंच प्रयाजमन्त्रानुवादकस्यानन्तरमेवायमनुवाकः पठितः। स चाज्यभागयोरङ्गयोः क्रमः। न तु मुख्ययोदर्शपूर्णमासयोः। तस्मान्न मन्त्रचतुष्टयस्य मुख्ययागाङ्गत्वम्, किं त्वाज्यभागाङ्गत्वम्।
ननु- एतत्क्रमेणैव लब्धम्। तत्रापि 'आग्नेये प्रथमाज्यभागे मन्त्रोऽप्याग्नेयः। सौम्ये द्वितीये सौम्यः' इत्येषा व्यवस्था लिङ्गेनैव लभ्यते। बाढम्। तथाऽपि 'वार्त्रघ्नीयुगलं पौर्णमासीकाले, वृधन्वतीयुगलममावास्यायाम्' इत्येषा व्यवस्था पूर्वमप्राप्ता ब्राह्मणवाक्येनाभिधीयते- इति न वैयर्थ्यम्।। 29।। 30।। 31।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे गुणानां मिथोऽसंबन्धाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अनर्थकं तदङ्गेषु हविःष्वेवावतिष्ठते नाधानहविषां साम्याद्वाक्याद्यज्ञेऽखिले भवेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.14 चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे 24- 25
आनन्तर्यमचोदना।। 24।।
वाक्यानां च समाप्तत्वात्।। 25।।
चतुर्दशाधिकरणमारचयति-

1विषयः

हस्तौ द्वाववनेनिक्ते स्तृणात्युलपराजिकाम्

3पूर्वपक्षः

दर्भास्तरण एवाङ्गं हस्तशुद्धिरुताखिले
दर्शपूर्णमासप्रकरणे श्रूयते ''हस्ताववनेनिक्ते'' ''उलपराजिं स्तृणाति'' इति। वेद्यामास्तरितुं संपादितस्तृणस्तम्ब उलपराजिः। तत्र- हस्तशुद्धिदर्भास्तरणवाक्ययोर्नैरन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तशुद्धिरास्तरणमात्रस्याङ्गम्- इति चेत्-
मैवम्। अवनेजनं हस्तसंस्कारः। 'संस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यौ' इत्येतादृशं सामर्थ्यं लिङ्गम्। प्रकरणं च दर्शपूर्णमासयोः स्फुटम्। अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात्सर्वशेषो हस्तशुद्धिः।
अयं न्यायो वाग्यमेऽपि द्रष्टव्यः। स च वाग्यमो ज्योतिष्टोमप्रकरणे श्रुतः- ''मुष्टी करोति'' ''वाचं यच्छति'' इति। तदनन्तरमेवेदं श्रुतम्- ''दीक्षितमावेदयति'' इति। आवेदनप्रकारश्चैवं श्रुतः- ''अदीक्षिष्टायं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह, त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राह'' इति। अत्र मुष्टीकरणवाङ्नियमाभ्यां हस्तजिह्वागतचापले निवारिते सति मनस एकाग्रस्य सर्वकर्मसु योग्यत्वं लिङ्गम्। तेन क्रमो बाध्यते।। 32।। 33।।

4सिद्धान्तः

तन्मात्राङ्गत्वमत्र स्यादानन्तर्यात्मकात्क्रमात्
लिङ्गप्रकरणाभ्यां तु सर्वानुष्ठानशेषता

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न मुख्ये सोम एकोऽस्ति नाधारत्वादिकालयोः दर्शादेरव्यवस्थित्याऽप्राप्तौ वाक्याद्व्यवस्थितिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.15 पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे 26-27
शेषस्तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस्तेषामसंबन्धात्।। 26।।
व्यवस्था वाऽर्थसंयोगाल्लिङ्गस्वार्थेन संबन्धाल्लक्षणार्था गुणश्रुतिः।। 27।।
पञ्चदशाधिकरणमारचयति-

3पूर्वपक्षः

दर्शपूर्णमासयोः श्रूयते ''आग्नेयं चतुर्धा करोति'' इति। तत्र-आग्नेयवदैन्द्राग्नाग्नीषोमीययोरपि
पुरोडाशयोरग्निसंबन्धादाग्नेयशब्देन पुरोडाशत्रयमुपलक्ष्यते। ततस्त्रयाणां शेषः- इति चेत्-
अत्र पादे अधिकरणानि 15, सूत्राणि 27।
आदितः अधिकरणानि 104, सूत्राणि 316।
---------
तृतीयाध्यायस्य द्वितीयः पादः
लिङ्गम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे 24- 25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तन्मात्राङ्गत्वमत्र स्यादानन्तर्यात्मकात्क्रमात् लिङ्गप्रकरणाभ्यां तु सर्वानुष्ठानशेषता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 2, Pāda 4 Contents Adhyāya 3, Pāda 2 →