SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 3, Pāda 4

शेषत्वम्

निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः

21adhikaraṇas
57sūtras
3.4.1 प्रथमे निवीतस्यार्थवादत्वाधिकरणे सूत्राणि 1-9
निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात्।। 1।।
अपदेशो वाऽर्थस्य विद्यमानत्वात्।। 2।।
विधिस्त्वपूर्वत्वात्स्यात्।। 3।।
स प्रायात्कर्मधर्मः स्यात्।। 4।।
वाक्यशेषत्वात्।। 5।।
तत्प्रकरणे यत्तत्संयुक्तमविप्रतिषेधात्।। 6।।
तत्प्रधाने वा तुल्यवत्प्रसंख्यानादितरस्य तदर्थत्वात्।। 7।।
अर्थवादो वा प्ररकणात्।। 8।।
विधिना चैकवाक्यत्वात्।। 9।।
चतुर्थपादस्य प्रथमाधिकरणमारचयति-

1विषयः

निवीतं तु मनुष्याणां विधिर्वैषोऽर्थवादकः

3पूर्वपक्षः

अपूर्वत्वात्प्रकरणान्नुः क्रतोर्वा विधीयते
दर्शपूर्णमासप्रकरणे श्रूयते ''निवीतं मनुष्याणाम्। प्राचीनावीतं पितॄणाम्। उपवीतं देवानाम्। उपव्ययते देवलक्ष्ममेव तत्कुरुते'' इति। तत्र निवीतस्य पूर्वं मानान्तरेणाप्राप्तत्वाद्विधेयत्वमभ्युपेतव्यम्। तच्च निवीतं 'मनुष्याणाम्' इति षष्ठ्या पुरुषार्थत्वेन विधीयते- इत्येकः पूर्वपक्षः।
अस्मिन्पक्षे मनुष्यसंबन्धो द्विविधः- 'सुवर्णधारणवत्सर्वपुरुषसबन्धः' इत्येकः प्रकारः।
'उपवीतप्राचीनावीतयोः क्रतुप्रवेशरहितयोः स्वतन्त्रदैविकपैतृककर्मणोरपि दर्शनात्तत्साहचर्येण स्वतन्त्र
आचार्यातिथ्यादिमनुष्यविषये कर्मणि निवीतम्' इत्यपरः प्रकारः।
प्रकरणबलात्प्रयाजादिवद्यागधर्मः- इति द्वितीयः पूर्वपक्षः।
अस्मिन्पक्षे मनुष्यग्रहणं कर्तृसंबन्धानुवादः। 'षष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसंबन्धिमनुष्यधर्मः' इति पक्षान्तरमुदेति। तच्च द्विविधम्- 'लोहितोष्णीषादिवदृत्विग्धर्मः' इत्येकः प्रकारः। 'क्रतावेव यन्मनुष्यप्रधानं कर्मान्वाहार्यदानादि, तद्धर्मत्वे सत्युपवीतसाहचर्यमप्यनुगृह्यते' इत्यपरः। सर्वथाऽपि निवीतं नार्थवादः- इति प्राप्ते-

4सिद्धान्तः

प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात्
उपवीतविधावेकवाक्यत्वादर्थवादता
ब्रूमः- अत्र प्रतीयमानं निवीतादिकं वासोविषयम्। न तु त्रिवृत्सूत्रविषयम्, ''अजिनं वासो वा दक्षिणत उपवीय'' इत्यनेन सदृशत्वात्। वस्त्रस्य च निवीतं सौकर्याय प्राप्तम्। प्राचीनावीतोपवीतयोरवश्यमेकमेकस्मिन्पार्श्वे वस्त्रमधः पतेत्। अतः प्राप्तेऽर्थे 'मनुष्याणाम्' इति षष्ठीश्रुतिर्न विधायिका। न च प्रकरणात्क्रत्वङ्गत्वेन विधिः, वाक्यभेदप्रसङ्गात्। उपवीतं तावद्विधीयते। अन्यथा ''देवलक्ष्ममेव तत्कुरुते'' इति प्रशंसावैयर्थ्यापत्तेः। तस्मिंश्चोपवीतविधावर्थवादत्वेन निवीतप्राचीनावीतयोरेकवाक्यत्वसंभवे पृथग्विधानमयुक्तम्। निवीतप्राचीनावीते मनुष्यपितृविषयवत्त्वाद्दैविके कर्मण्ययोग्ये, उपवीतं तु योग्यम्- इति व्यतिरेकमुखेन स्तावकं निवीतम्। तस्मात्- अर्थवादः।। 1।। 2।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणे सूत्राणि 39-46”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.2 द्वितीये, उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्रे 10-11
उपवीतं लिङ्गदर्शनात्सर्वधर्मः स्यात्।। 10।।
न वा प्रकरणात्तस्य दर्शनम्।। 11।।
द्वितीयाधिकरणमारचयति-

1विषयः

सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः
सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः

3पूर्वपक्षः

दर्शाद्यर्थं प्रकरणाल्लिङ्गे स्यात्सिद्धिरन्यथा
दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम्
''यज्ञोपवीती हि देवेभ्यो दोहयति'' इत्येवमग्निहोत्रे यज्ञोपवीतस्य सिद्धवदनुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतम्- इति चेत्-

4सिद्धान्तः

लिङ्गस्यान्यथोपपत्तेः
मृताग्निहोत्रं तस्मिन्दिनेऽन्येन हूयते
तत्र ''प्राचीनावीती दोहयेत्'' इति विधाय तस्य स्तुतये ''यज्ञेपवीती''- इत्याद्यनूदितम्
अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमासाङ्गमुपवीतम्।
3

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे निवीतस्यार्थवादत्वाधिकरणे सूत्राणि 1-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात् उपवीतविधावेकवाक्यत्वादर्थवादता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.3 तृतीये, उपवीतस्य विधित्वाधिकरणे सूत्रम्
विधिर्वा स्यादपूर्वत्वात्।। 12।।
तृतीयाधिकरणमारचयति-

1विषयः

उपव्यानेऽनुवादो वा विधिर्वाद्यो यतः स्मृतौ

3पूर्वपक्षः

प्राप्तं मैवमपूर्वत्वात्क्रतौ लेटा विधीयते
''नित्योदकी नित्ययज्ञोपवीती'' इति स्मृत्या प्राप्तस्य 'उपव्ययते' इत्ययमनुवादः- इति चेत्।

4सिद्धान्तः

मैवम्
पुरुषार्थस्य प्राप्तावपि क्रत्वर्थस्य प्राप्त्यभावात्पञ्चमलकारेण दर्शपूर्णमासाङ्गतया विधीयते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये, उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्रे 10-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न लिङ्गस्यान्यथोपपत्तेः मृताग्निहोत्रं तस्मिन्दिनेऽन्येन हूयते तत्र ''प्राचीनावीती दोहयेत्'' इति विधाय तस्य स्तुतये ''यज्ञेपवीती''- इत्याद्यनूदितम् अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमासाङ्गमुपवीतम्। 3”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.4 चतुर्थे- उपवीतोदगग्रत्वयोरनुवादताधिकरणे सूत्रे 13-14
उदक्त्वं चापूर्वत्वात्।। 13।।
सतो वा लिङ्गदर्शनम्।। 14।।
चतुर्थाधिकरणमारचयति-

1विषयः

उपवीती हि देवेभ्यः पुरोदञ्चो द्वयं विधिः

3पूर्वपक्षः

वादो वाऽस्यान्यतोऽप्राप्तेरपूर्वार्थो विधीयते
प्रेताग्निहोत्रे श्रूयते ''प्राचीनावीती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोहयति'' इति। ''ये पुरोदञ्चो दर्भाः, तान्दक्षिणाग्रान्स्तृणीयात्'' इति। तत्र मृतस्याग्निहोत्रे दोहने प्राचीनावीतम्, दर्भास्तरणे दक्षिणाग्रत्वं च यथा विधीयते, तथा मरणात्पूर्वं जीवतोऽग्निहोत्रे दोहनाङ्गमुपवीतम्, दर्भास्तरणाङ्गमुत्तराग्रत्वं च विधातव्यम्। ''देवेभ्यो यज्ञोपवीती दोहयेत्'' ''मरणात्पुरा ये दर्भास्त उदञ्चः कार्याः'' इति वचनव्यक्तिः। नह्येतदुभयमन्यतः प्राप्तम्। तस्मात्- अपूर्वार्थो विधीयताम्- इति चेत्-
मैवम्। हिशब्देन यच्छब्देन चोभयत्रानुवादत्वप्रतीतेः। अस्ति च तयोः प्राप्तिः। 'अग्रवन्त्युदगग्राणि'- इति स्मृत्या सर्वस्मिन्दैविके कर्मणि प्राप्तमुत्तराग्रत्वमनूद्य विधेयं दक्षिणाग्रत्वं स्तूयते। तथा दर्शपूर्णमासयोः 'उपव्ययते' इत्यनेन विधिना प्राप्तं दैविकमुपवीतमनूद्य विधेयं प्राचीनावीतं स्तूयते। तस्मादनुवादः।। 6।। 7।।

4सिद्धान्तः

हियच्छब्दद्वयाद्वादः स्मृत्युपव्यानतो द्वयम्
संप्राप्तं दक्षिणाग्रत्वप्राचीनावीतयोः स्तुतिः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये, उपवीतस्य विधित्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् पुरुषार्थस्य प्राप्तावपि क्रत्वर्थस्य प्राप्त्यभावात्पञ्चमलकारेण दर्शपूर्णमासाङ्गतया विधीयते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.5 पञ्चमे समिद्धारणस्य विधिताधिकरणे सूत्रम्
विधिस्तु धारणेऽपूर्वत्वात्।। 15।।
पञ्चमाधिकरणमारचयति-

1विषयः

धारयत्युपरिष्टाद्धि देवेभ्य इति संस्तवः
विधिर्वाद्यो धृतेः पित्र्ये प्रोक्तायाः पूर्ववत्स्तुतिः

3पूर्वपक्षः

ऊर्ध्वं विधारणं प्राप्तं समिधो नान्यमानतः
अतो हिशब्दसंत्यागादपूर्वार्थो विधीयते
प्रेताग्निहोत्र एवं श्रूयते ''अधस्तात्समिधं धारयन्ननुद्रवेत्, उपरि हि देवेभ्यो धारयति'' इति। अत्र- पित्र्यं हविर्होतुं हस्ते धारयन्यदा मन्त्रं पठति, तदानीं स्रुग्दण्डस्याधस्तात्समिधं धारयेत्- इति यद्विधीयते, तदेतद्दैविकेनोपरिधारणेन स्तूयते। हिशब्देन पूर्वाधिकरण इवानुवादत्वप्रतीतेः- इति चेत्-

4सिद्धान्तः

मैवम्
दैविके हविषि स्रुग्दण्डस्योपरि समिद्धारणस्यापूर्वार्थत्वेन विधातव्यत्वात्
अनुवादत्वगमको हिशब्दोऽसंभवादुपेक्षणीयः।
8

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- उपवीतोदगग्रत्वयोरनुवादताधिकरणे सूत्रे 13-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “हियच्छब्दद्वयाद्वादः स्मृत्युपव्यानतो द्वयम् संप्राप्तं दक्षिणाग्रत्वप्राचीनावीतयोः स्तुतिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.6 षष्ठे दिग्विभागस्यार्थवादताधिकरणे सूत्रम्
दिग्विभागश्च तद्वत्संबन्धस्यार्थहेतुत्वात्।। 16।।
षष्ठाधिकरणमारचयति-

1विषयः

दिशं प्रतीचीं मनुजा व्यभजन्तेत्यसौ विधिः
वादो वाऽत्र पुराकल्पस्तुत्यर्थो विधिमर्हति

3पूर्वपक्षः

प्राचीनवंशवाक्योक्तेर्विधावस्यैकवाक्यतः
दिग्विभागोऽर्थवादोऽयमुपवीते निवीतवत्
ज्योतिष्टोमे श्रूयते ''प्राचीनवंशं करोति। देवमनुष्या दिशो व्यभजन्त--प्राचीं देवाः, दक्षिणां पितरः, प्रतीचीं मनुष्याः, उदीचीं रुद्राः, यत्प्राचीनवंशं करोति देवलोकमेव तद्यजमान उपावर्तते'' इति। तत्र- देवादीनां कर्मानधिकारान्न तत्र विधिशङ्का। 'मनुष्याः प्रतीचीं विभजेयुः' इत्येवं विधिः स्यात्। कुतः- पुराकल्परूपेणार्थवादेन स्तूयमानत्वात्। पूर्वपुरुषाचरितत्वाभिधानं पुराकल्पः। 'व्यभजन्त' इत्यनेन भूतार्थवाचिना तदभिधीयते। तस्मात्- विधिः- इति पूर्वपक्षः।

4सिद्धान्तः

यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्रा भवन्ति स प्राचीनवंशः
तद्विध्येकवाक्यत्वावगमादर्थवादः
सायंकालीनार्घ्यादौ प्रतीची प्राप्ता।
10

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे समिद्धारणस्य विधिताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् दैविके हविषि स्रुग्दण्डस्योपरि समिद्धारणस्यापूर्वार्थत्वेन विधातव्यत्वात् अनुवादत्वगमको हिशब्दोऽसंभवादुपेक्षणीयः। 8”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.7 सप्तमे परुषि दितादीनामनुवादताधिकरणे सूत्रम्
परुषि दितपूर्णघृतविदग्घं च तद्वत्।। 17।।
सप्तमाधिकरणमारचयति-

1विषयः

परुषि च्छिन्नमित्युक्त्या बर्हिषस्तु समूलताम्

3पूर्वपक्षः

घृतं दैवं मस्तु पित्र्यमित्युक्त्या नवनीतकम्
दर्शपूर्णमासयोः पिण्डपितृयज्ञे श्रूयते ''यत्परुषि दितं तद्देवानाम्, यदन्तरा तन्मनुष्याणाम्, यत्समूलं तत्पितॄणाम्, समूलं बर्हिर्भवति व्यावृत्यै'' इति। परुः पर्व। दितं खण्डितम्।
तथा ज्योतिष्टोमे दीक्षार्थाभ्यङ्गे श्रूयते ''घृतं देवानां, मस्तु पितॄणाम्, निष्पक्वं मनुष्याणाम्, तद्वा एतत्सर्वदेवत्यं यन्नवन्नीतम्, यन्नवनीतेनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति'' इति। मस्तु दधिभवं मण्डम्। निष्पक्वं शिरसिप्रक्षेप्तुमीषद्विलीनं नवनीतं तक्रं वा।
दर्शपूर्णमासयोः पुरोडाशश्रपणे श्रूयते ''यो विदग्धः स नैर्ऋतः, योऽशृतः स रौद्रः, यः शृतः स देवः, तस्मादविदहता श्रृतंकृत्यः सदेवत्वाय'' इति। विदग्धोऽत्यन्तपक्वः। अशृतोऽपक्वः। तत्र- बर्हिषि समूलच्छेदस्य, अभ्यङ्गे नवनीतस्य, पुरोडाशे यथोचितपाकस्य च विधेयतया सर्वमवशिष्टं स्तावकम्। निवीतविचारस्यैवायं प्रपञ्चः। एवम् 'यत्पूर्णं तन्मनुष्याणाम्' इत्यत्रापि द्रष्टव्यम्। तच्च चातुर्मास्येषु महापितृयज्ञे ''पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्या गोर्दुग्धे मन्थम्'' इत्यत्र वत्सरहिताया अभिवानीशब्दाभिधेयाया धेन्वा दुग्धे पिष्टं प्रक्षिप्य क्रियमाणे मन्थने श्रूयते ''यत्पूर्णं तन्मनुष्याणामुपर्यर्धो देवानाम्, अर्धः पितॄणाम्, अर्ध उपमन्थति, अर्धो हि पितॄणाम्'' इति। तत्र पात्रस्याधोभागरूपेणार्धेन परिमिते दुग्धे मन्थनस्य कर्तव्यत्वात्सोऽर्धो विधीयते। स च पूर्णादिवाक्येन स्तूयते।। 12।। 13।।

4सिद्धान्तः

यो विदग्धः स इत्युक्त्या पुरोडाशस्य पक्वताम्
स्तौति पूर्वोत्तरौ पक्षौ योजनीयौ निवीतवत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे दिग्विभागस्यार्थवादताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्रा भवन्ति स प्राचीनवंशः तद्विध्येकवाक्यत्वावगमादर्थवादः सायंकालीनार्घ्यादौ प्रतीची प्राप्ता। 10”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.8 अष्टमे- अनृतवदननिषेधस्य क्रतुधर्मताधिकरणे सूत्रे
अकर्म क्रतुसंयुक्तं संयोगान्नित्यानुवादः स्यात्।। 18।।
विधिर्वा संयोगान्तरात्।। 19।।
अष्टमाधिकरणमारचयति-

1विषयः

अनृतं न वदेद्वैधः पुंधर्मो वाऽनुवैदगीः
सक्रतौ पुंसि शुद्धे वा क्रतौ यद्वा विधिः क्रतौ

3पूर्वपक्षः

अनृतोक्तेः पुमर्थत्वात्तन्निषेधस्तथाबिधः
स्मार्तानुवादः पुंस्क्रत्वोः श्रुतिप्रक्रिययोर्वशात्
दर्शपूर्णमासप्रकरणे श्रूयते ''नानृतं वदेत्'' इति। तत्र- पुरुषधर्मत्वेनायं प्रतिषेधो विधीयते। कुतः- प्रतियोगिनोऽनृतवदनस्य पुरुषधर्मतया तन्निषेधस्यापि पुरुषधर्मत्वेनैव विधातव्यत्वात्। 'वदेत्' इत्याख्यातं तावत्कर्तृवाचकम्। तेनाख्यातेन कर्तुः प्रतीयमानत्वात्। पुरुषस्याख्यातप्रत्ययवाच्यत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषधर्मत्वं युक्तम्। 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः, तयोस्तु प्रत्ययः प्राधान्येन' इति शाब्दिकैरुद्घोषणात्। वदनस्य पुरुषधर्मत्वे तन्निषेधस्यापि पुरुषधर्मत्वं युक्तम्। अन्यथा भिन्नविषयत्वे बाधकत्वं न स्यात्। तस्मात्पुरुषवाचकाख्यातश्रुत्या प्रकरणं बाधित्वा पुरुषार्थोऽयं प्रतिषेधो विधीयते। अस्त्येव स्मार्तः प्रतिषेधः- इति चेत्- तर्हि तस्यैतच्छ्रुतिवाक्यं मूलमस्तु। तस्मात्- पुरुषार्थः- इत्येकः पूर्वपक्षः।
आख्यातश्रुतेः प्रकरणस्य चाविरोधाय क्रतुयुक्तपुरुषधर्मोऽस्तु। नह्येतद्वाक्यं स्मृतेर्मूलम्। भिन्नविषयत्वात्। स्मृतिश्चोपनयनमारभ्यामरणं पुरुषस्यानृतं प्रतिषेधति। तन्मध्यपतितत्वात्क्रतावपि स्मार्तो निषेधः प्राप्त एव। तत उभयार्थोऽप्ययं प्रतिषेधो न विधीयते, किंत्वनूद्यते- इति द्वितीयः पूर्वपक्षः।
आख्यातेन भावनाऽभिधीयते। कर्ता तु तदविनाभूतोऽर्थात्प्रतीयते। अतः श्रुत्यभावात्केवलेन प्रकरणेन प्रयाजादिवदारादुपकारकः क्रतावेव निविशते। न च तत्रापि विधीयते, किंतु सार्वत्रिकस्य निषेधस्य क्रतावपि प्राप्तत्वादनूद्यते- इति तृतीयः पूर्वपक्षः।
'सत्यमेव वदेत्, नत्वनृतम्' इति योऽयं स्मार्तनियमरूपः पुरुषार्थः संयोगः, तस्मादयमन्यः क्रत्वर्थः संयोगः। अतोऽप्राप्तत्वाद्विधीयते। एतद्व्यतिक्रमे क्रतोरेव वैगुण्यम्, न तु पुरुषस्य प्रत्यवायः। अतोऽत्र क्रतुगामि प्रायश्चित्तम्। पुरुषार्थनियमातिक्रमे तु पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम्। तत्र स्मार्तं प्रायश्चितम्- इति विशेषः।। 14।। 15।। 16।।

4सिद्धान्तः

नाख्याते पुरुषानुक्तिः क्रतावेव प्रयाजवत्
सत्योक्तिनियमादन्यः संयोगोऽतः क्रतौ विधिः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे परुषि दितादीनामनुवादताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यो विदग्धः स इत्युक्त्या पुरोडाशस्य पक्वताम् स्तौति पूर्वोत्तरौ पक्षौ योजनीयौ निवीतवत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.9 नवमे जञ्जभ्यमानधर्माणां प्रकरणे निवेशाधिकरणे सूत्राणि 20-22
अहीनवत्पुरुषस्तदर्थत्वात्।। 20।।
प्रकरणविशेषाद्वा तद्युक्तस्य संस्कारो द्रव्यवत्।। 21।।
व्यपदेशादपकृष्येत।। 22।।
नवमाधिकरणमारचयति-

1विषयः

जञ्जभ्यमानमन्त्रोक्तिः पुंसो धर्मः क्रतोरुत

3पूर्वपक्षः

वाक्यादाद्यः प्रक्रियया द्वितीयोऽस्त्वविरुद्धया
दर्शपूर्णमासप्रकरणे श्रूयते ''प्राणो वै दक्षः। अपानः क्रतुः। तस्माज्जञ्जन्यमानो ब्रूयात्- मयि दक्षक्रतू- इति, प्राणापानावेवात्मन्धत्ते'' इति। गात्रविनामेन विदारितमुखः पुरुषो जञ्जभ्यमानः। तस्य वाक्यान्मन्त्रोक्तिः प्रतीयते। वाक्यं च प्रकरणाद्बलीयः। तस्मात्- केवलं पुंधर्मः- इति चेत्-

4सिद्धान्तः

मैवम्
क्रतावपि जञ्जभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभाभ्यां क्रतुयुक्तपुरुषसंस्कारत्वावगमात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- अनृतवदननिषेधस्य क्रतुधर्मताधिकरणे सूत्रे”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नाख्याते पुरुषानुक्तिः क्रतावेव प्रयाजवत् सत्योक्तिनियमादन्यः संयोगोऽतः क्रतौ विधिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.10 दशमे- अवगोरणादीनां पुमर्थताधिकरणे सूत्रम्
शंयौ च सर्वपरिदानात्।। 23।।
दशमाधिकरणमारचयति-

1विषयः

विप्रायावगुरेन्नेति क्रत्वर्थो वा पुमर्थता
फलवत्क्रतुसांनिध्यात्क्रत्वर्थः पूर्वमन्त्रवत्

3पूर्वपक्षः

यातनापरिहारस्य निषेधफलतोचिता
निषेधोऽयं पुमर्थत्वात्प्रक्रियातोऽपकृष्यताम्
दर्शपूर्णमासप्रकरणे श्रूयते ''यो ब्राह्मणायावगुरेत्तं शतेन यातयेत्। तस्माद्ब्राह्मणाय नावगुरेत'' इति। तत्र यथा पूर्वाधिकरणे मन्त्रपाठस्य फलरहितस्य फलवति क्रतावङ्गत्वं प्रकरणेनावगम्यते, एवमत्रापि ब्राह्मणावज्ञानिषेधस्य क्रत्वङ्गत्वम्- इति चेत्-

4सिद्धान्तः

वैषम्यात्
पूर्वत्र हि- आत्मनि प्राणापानधारणं मन्त्रोच्चारणफलं न संभवति, तस्य प्रागेव सिद्धत्वात्
इह तु- अवगोरणे शतसंवत्सरयातनामुपन्यस्यावगोरणनिषेधाद्यातनापरिहारस्य निषेधफलत्वमुचितम्
तस्मात्- निषेधस्य केवलपुरुषार्थतया प्रकरणादुत्कर्षो युक्तः।
18

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे जञ्जभ्यमानधर्माणां प्रकरणे निवेशाधिकरणे सूत्राणि 20-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् क्रतावपि जञ्जभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभाभ्यां क्रतुयुक्तपुरुषसंस्कारत्वावगमात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.11 एकादशे मलवद्वासःसंवादनिषेधाधिकरणे सूत्रे 24-25
प्रागपरोधान्मलवद्वाससः।। 24।।
अन्नप्रतिषेधाच्च।। 25।।
एकादशाधिकरणमारचयति-

1विषयः

न संवदेत मलवद्वाससेत्यपि पूर्ववत्

3पूर्वपक्षः

पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः
दर्शपूर्णमासप्रकरणे श्रूयते ''मलवद्वाससा न संवदेत'' इति। अस्य निषेधस्य प्रकरणात्क्रत्वङ्गत्वम्- इति चेत्-

4सिद्धान्तः

मैवम्
अप्रसक्तप्रतिषेधप्रसङ्गात्
'यस्य व्रत्येऽहनि पत्न्यनालम्भुका भवति, तामपरुध्य यजेत' इति रजस्वलाया निःसारणेन क्रतौ तत्संवादस्याप्रसक्तिः
तस्मात्- केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- अवगोरणादीनां पुमर्थताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न वैषम्यात् पूर्वत्र हि- आत्मनि प्राणापानधारणं मन्त्रोच्चारणफलं न संभवति, तस्य प्रागेव सिद्धत्वात् इह तु- अवगोरणे शतसंवत्सरयातनामुपन्यस्यावगोरणनिषेधाद्यातनापरिहारस्य निषेधफलत्वमुचितम् तस्मात्- निषेधस्य केवलपुरुषार्थतया प्रकरणादुत्कर्षो युक्तः। 18”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.12 द्वादशे सुवर्णधारणादीनां पुरुषधर्मताधिकरणे सूत्राणि 26-30
अप्रकरणे तु तद्धर्मस्ततो विशेषात्।। 26।।
अद्रव्यत्वात्तु शेषः स्यात्।। 27।।
वेदसंयोगात्।। 28।।
द्रव्यसंयोगाच्च।। 29।।
स्याद्वाऽस्य संयोगवत्फलेन संबन्धस्तस्मात्कर्मैतिशायनः।। 30।।
द्वादशाधिकरणमारचयति-

3पूर्वपक्षः

अनारभ्य श्रूयते ''तस्मात्सुवर्णं हिरण्यं भार्यम्। सुवर्ण एव भवति। दुर्वर्णोऽस्य भ्रातृव्यो भवति'' इति। तत्र- यदेतच्छोभनवर्णोपेतहिरण्यधारणं तस्य वैदिकक्रियारूपत्वेन क्रतुस्मारकत्वात्क्रत्वङ्गं धारणम्- इत्येकः पक्षः।
क्रत्वङ्गत्वेऽपि नारादुपकारकम्, किंतु क्रतुगतं हिरण्यं धारणेन संस्क्रियते। 'भार्यम्' इत्यत्र ण्यत्प्रत्ययस्य कर्मणि विहितत्वेन कर्मकारकस्य हिरण्यस्य प्राधान्यावगमात्- इति द्वितीयः पक्षः।
वर्णविशिष्टधारणविधाने गौरवाद्धारणसहितं हिरण्यमनूद्य शोभनवर्णमात्रं विधेयम्- इति तृतीयः पक्षः।
त्रेधाऽपि- क्रत्वर्थो विधिः, न तु पुरुषार्थः- इति प्राप्ते

4सिद्धान्तः

-
यद्धि क्रतुप्रकरणे श्रुतम्, तस्यास्ति नियमेन क्रतुस्मारकत्वम्। इदं त्वनारभ्याधीतम्। न चात्र हिरण्यं जुह्वादिवत्क्रतावव्यभिचरितम्, येन क्रतुस्मृतिर्नियम्येत।
ननु संस्कार्यत्वान्यथानुपपत्त्या क्रतुप्रवेशः स्यात्। नहि धारणेन संस्कृतस्य हिरण्यस्य लौकिकः कश्चिदुपयोगोऽस्ति- इति चेत्- न। क्रतावप्युपयोगाभावात्। क्रतूपयोगोऽपि कल्प्यते- इति चेत्- न। 'क्रतूपयोगित्वेन संस्कार्यत्वम्, तेन च क्रतूपयोगः' इत्यन्योन्याश्रयत्वात्। अतः क्रतौ नियन्तुमशक्यत्वात्पुरुषार्थमिदं धारणम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे मलवद्वासःसंवादनिषेधाधिकरणे सूत्रे 24-25”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अप्रसक्तप्रतिषेधप्रसङ्गात् 'यस्य व्रत्येऽहनि पत्न्यनालम्भुका भवति, तामपरुध्य यजेत' इति रजस्वलाया निःसारणेन क्रतौ तत्संवादस्याप्रसक्तिः तस्मात्- केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.13 त्रयोदशे जयादीनां वैदिककर्माङ्गताधिकरणे सूत्राणि 31-33
शेषाः प्रकरणेऽविशेषात्सर्वकर्मणाम्।। 31।।
होमास्तु व्यवतिष्ठेरन्नाहवनीयसंयोगात्।। 32।।
शेषश्च समाख्यानात्।। 33।।
त्रयोदशाधिकरणमारचयति-

1विषयः

येनेर्त्सेत्कर्मणा तत्र जयाहोमेऽखिलार्थता
वैदिकेष्वेव वा सर्वशेषोऽसंकोचकत्वतः

3पूर्वपक्षः

होम आहवनीये स्यात्कृष्यादिषु न सोऽस्ति हि
तेनानारभ्यपाठेऽपि वैदिकेष्वेव ते जयाः
अनारभ्य श्रूयते ''येन कर्मणेर्त्सेत्, तत्र जयां जुहुयात्। राष्ट्रभृतो जुहोति। अभ्यातानाञ्जुहोति'' इति। ईर्त्सेदृद्धिमिच्छेत्। ''चित्तं च स्वाहा'' इत्यादयो जयाः ''ऋताषाड्'' इत्यादयो राष्ट्रभृतः। ''अग्निर्भूतानाम्'' इत्यादयोऽभ्यातानाः। तत्र वैदिककर्मणेव लौकिककृष्यादिकर्मणाऽप्यृद्धेरिष्यमाणत्वात्, संकोचे कारणाभावाज्जयादिहोमः सर्वशेषः- इति चेत्-

4सिद्धान्तः

मैवम्
''यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीतः'' इति वाक्येन होममुद्दिश्या हवनीयविधानात्
कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः।
24

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे सुवर्णधारणादीनां पुरुषधर्मताधिकरणे सूत्राणि 26-30”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.14 चतुर्दशे वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधिकरणे सूत्रे 34-35
दोषात्त्विष्टिर्लौकिके स्यात्, शास्त्राद्धि वैदिके न दोषः स्यात्।। 34।।
अर्थवादो वाऽनुपपातातू, तस्माद्यज्ञे प्रतीयेत।। 35।।
चतुर्दशाधिकरणमारचयति-

1विषयः

अश्वप्रतिग्रहेष्टिस्तु दातुरित्यभिधास्यते
दानद्वये लौकिके वा वैदिके वा भवेदियम्

3पूर्वपक्षः

अविशेषाद्द्वयोर्यद्वा न देयः केसरीत्यतः
निषेधाल्लौकिकात्तत्र प्रायश्चित्तिरियं भवेत्
इदमाम्नायते- ''यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणाश्चतुष्कपालान्निर्वपेत्'' इति। तत्र 'प्रतिग्रहशब्दो दानपरः' इत्यनन्तरमेव वक्ष्यते। तत्र- विशेषाश्रवणाल्लौकिकवैदिकदानयोरुभयोरप्यसाविष्टिः- इत्येकः पक्षः।
'न केसरिणो ददाति' इति स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणं लौकिकमश्वदानं निषिद्धम्। तदनुष्ठाने प्रायश्चित्तरूपेयमिष्टिः- इति द्वितीयः पक्षः।
''वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति'' इत्यश्वदाने जलोदरव्याधिरूपो दृष्टदोषो वरुणग्रहवाक्येनोच्यते। न च लौकिकस्याश्वदानस्य तद्धेतुत्वं प्रमितम्। वैदिकस्य तु जन्मान्तरविषयं दोषश्रवणम्। अतो वैदिकदाने सेष्टिः प्रायश्चित्तम्। अस्ति हि वैदिकमश्वदानम् ''वडबा दक्षिणा'' इत्यादिश्रवणात्।। 26।। 27।। 28।।

4सिद्धान्तः

न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित्
वैदिके तु श्रुतं तस्मात्तत्प्रायश्चित्तयेऽत्र सा

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे जयादीनां वैदिककर्माङ्गताधिकरणे सूत्राणि 31-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीतः'' इति वाक्येन होममुद्दिश्या हवनीयविधानात् कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः। 24”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.15 पञ्चदशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे 36-37
अचोदितं कर्मभेदात्।। 36।।
सा लिङ्गादार्त्विजे स्यात्।। 37।।
पञ्चदशाधिकरणमारचयति-

1विषयः

यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः

3पूर्वपक्षः

प्रतिग्रहीतुर्दातुर्वा स्यादाद्योऽस्तु यथाविधि
पूर्वोदाहृते वाक्ये 'प्रतिगृह्णीयात्' इति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिः- इति चेत्-
न। उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः। उपक्रमश्चैवं श्रूयते ''प्रजापतिर्वरुणायाश्वमनयत्, स स्वां देवतामार्छत्। स पर्यदीर्यत, स एतं वारुणं चतुष्कपालमपश्यत्, तं निरवपत्, ततो वै स वरुणपाशादमुच्यत'' इति। अनयद्दत्तवान्। स च 'दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान्। तेन च रोगेण ग्रस्तः स प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यत' इत्यत्र- दातुरिष्टिः- इत्यवगम्यते। असंजातविरोध्युपक्रमानुसारेण विधायकपदमपि 'प्रतिग्राहयेत्' इत्येवमन्तर्भावितणिजर्थपरतया व्याख्येयम्।। 29।। 30।।

4सिद्धान्तः

असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः
इष्टिः श्रुता ततो दातुर्णिजर्थेऽपि विधिं नयेत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधिकरणे सूत्रे 34-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित् वैदिके तु श्रुतं तस्मात्तत्प्रायश्चित्तयेऽत्र सा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.16 षोडशे वैदिकपानव्यापदधिकरणे सूत्रे 38-39
पानव्यापच्च तद्वत्।। 38।।
दोषात्तु वैदिके स्यादर्थाद्धि लौकिके न दोषः स्यात्।। 39।।
षोडशाधिकरणमारचयति-

1विषयः

सोमवामिचरुर्लोके वेदे वेन्द्रियसंक्षयः
दृष्टदोषो लौकिकेऽतो वमने विहितश्चरुः

3पूर्वपक्षः

अदोषो वमनायैव लोके पानं श्रुतौ पुनः
जरणाय ततो वान्तिदोषशान्त्यै भवेच्चरुः
इदमाम्नायते- ''सौमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामिनः'' इति। तत्र- लौकिके सोमवमने विहितोऽयं चरुः। कुतः- ''वि वा एष इन्द्रियेण वीर्येण व्यृघ्यते यः सोमं वमति'' इति दृष्टदोषमुपन्यस्य तच्छान्तये चरुविधानात्- इति चेत्-

4सिद्धान्तः

मैवम्
लोके धातुसाम्यार्थिनो वमनायैव सोमस्य पाने सति वमनस्य दोषहेतुत्वाभावात्
वेदे तु ''हिन्व मे गात्रा हरिवः'' इत्यनेन मन्त्रेण जरयितुं सोमः पीयते
तत्र वमनप्रायश्चित्तार्थोऽयं चरुः।
31

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे 36-37”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः इष्टिः श्रुता ततो दातुर्णिजर्थेऽपि विधिं नयेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.17 सप्तदशे सौमेन्द्रचरोर्यजमानपानव्यापद्विषयताधिकरणे सूत्राणि 40-42
तत्सर्वत्राविशेषात्।। 40।।
स्वामिनो वा तदर्थत्वात्।। 41।।
लिङ्गदर्शनाच्च।। 42।।
सप्तदशाधिकरणमारचयति-

1विषयः

ऋत्विजां वमनेऽप्येष कर्तुरेवोत वर्जनात्

3पूर्वपक्षः

विशेषस्याग्रिमो मैवं कर्तुरेव निरुप्तितः
'ईदृशस्य सोमस्य वमने चरुः' इति विशेषस्याभावादृत्विजां यजमानस्य च वमने सर्वत्रासौ चरुः- इति चेत्-

4सिद्धान्तः

मैवम्
'यो वमति स निर्वपति' इति निर्वप्तुर्वमनं चरुनिमित्तम्
निर्वप्ता च यजमानः
ऋत्विजो निर्वप्तृत्वेऽधिकार्यन्तरत्वप्रसङ्गात्
तस्मात्- यजमानस्यैव वमने चरुविधिः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे वैदिकपानव्यापदधिकरणे सूत्रे 38-39”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् लोके धातुसाम्यार्थिनो वमनायैव सोमस्य पाने सति वमनस्य दोषहेतुत्वाभावात् वेदे तु ''हिन्व मे गात्रा हरिवः'' इत्यनेन मन्त्रेण जरयितुं सोमः पीयते तत्र वमनप्रायश्चित्तार्थोऽयं चरुः। 31”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.18 अष्टादशे- आग्नेयाष्टाकपालचरोर्द्व्यवदानमात्रस्य होतव्यताधिकरणे सूत्राणि 43-47
सर्वप्रदानं हविषस्तदर्थत्वात्।। 43।।
निरवदानात्तु शेषः स्यात्।। 44।।
उपायो वा तदर्थत्वात्।। 45।।
कृतत्वात्तु कर्मणः सकृत्स्याद्द्रव्यस्य गुणभूतत्वात्।। 46।।
शेषदर्शनाच्च।। 47।।
अष्टादशाधिकरणमारचयति-

1विषयः

यागे हविस्त्यजेत्कृत्स्नं कोऽप्यंशः शिष्यतेऽपि वा

3पूर्वपक्षः

देवार्थत्वाद्यजेत्सर्वं शिष्यते द्विरवत्ततः
''आग्नेयोऽष्टाकपालः'' इत्यत्र कृत्स्नोऽपि पुरोडाशोऽग्नये त्यक्तव्यः। तद्धितेन कृत्स्नस्याग्निदेवतासंबन्धावगतेः। त्यागमन्तरेणैतदनुपपत्तिः- इति चेत् ।

4सिद्धान्तः

मैवम्
''द्विर्हविषोऽवद्यति'' इत्यवदानद्वयं श्रूयते
अवदेयं चाङ्गुष्ठपर्वमात्रम्
तथा च कल्पसूत्रकारः- इति
ततो हविषः सकाशादङ्गुष्ठपर्वद्वयमात्रं खण्डयित्वा त्यक्तव्यम्
इतरच्छेषणीयम्
देवतासंबन्धश्चांशद्वारेणाप्युपयुज्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे सौमेन्द्रचरोर्यजमानपानव्यापद्विषयताधिकरणे सूत्राणि 40-42”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'यो वमति स निर्वपति' इति निर्वप्तुर्वमनं चरुनिमित्तम् निर्वप्ता च यजमानः ऋत्विजो निर्वप्तृत्वेऽधिकार्यन्तरत्वप्रसङ्गात् तस्मात्- यजमानस्यैव वमने चरुविधिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.19 एकोनविंशे सर्वशेषैः स्विष्टकृदनुष्ठानाधिकरणे सूत्राणि 48-51
अप्रयोजकत्वादेकस्मात्क्रियेरन्, शेषस्य गुणभूतत्वात्।। 48।।
संस्कृतत्वाच्च।। 49।।
सर्वेभ्यो वा कारणाविशेषात्, संस्कारस्य तदर्थत्वात्।। 50।।
लिङ्गदर्शनाच्च।। 51।।
एकोनविंशाधिकरणमारचयति-

1विषयः

शेषात्स्विष्टकृदेकस्मात्सर्वेभ्यो वैकतः कृते

3पूर्वपक्षः

शास्त्रार्थसिद्धिः सर्वेभ्यः कार्यः संस्कारसाम्यतः
दर्शपूर्णमासयोः श्रूयते ''शेषात्स्विष्टकृते समवद्यति'' इति। तत्र- आग्नेयादीनां त्रयाणां हविषां मध्ये यस्य कस्यचिदेकस्य हविषः शेषादवदातव्यम्। तावतैव शास्त्रार्थानुष्ठानसिद्धेः- इति चेत्-

4सिद्धान्तः

मैवम्
उपयुक्तं हविः संस्कर्तुमिदमवदीयते
संस्कारश्च सर्वेष्वपि हविःषु समानः
तस्मात्- सर्वेभ्यो हविःशेषेभ्यः स्विष्टकृदनुष्ठेयः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- आग्नेयाष्टाकपालचरोर्द्व्यवदानमात्रस्य होतव्यताधिकरणे सूत्राणि 43-47”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् ''द्विर्हविषोऽवद्यति'' इत्यवदानद्वयं श्रूयते अवदेयं चाङ्गुष्ठपर्वमात्रम् तथा च कल्पसूत्रकारः- इति ततो हविषः सकाशादङ्गुष्ठपर्वद्वयमात्रं खण्डयित्वा त्यक्तव्यम् इतरच्छेषणीयम् देवतासंबन्धश्चांशद्वारेणाप्युपयुज्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.20 विंशे प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणे सूत्रे 52-53
एकस्माच्चेद्याथाकाम्यमविशेषात्।। 52।।
मुख्याद्वा पूर्वकालत्वात्।। 53।।
विंशाधिकरणमारचयति-

1विषयः

यदैकस्मात्तदा मुख्यनियतिर्नोत विद्यते

3पूर्वपक्षः

नाश्रुतेरस्ति मुख्यातिक्रमणे हेत्वभावतः
'एकस्मादेव हविःशेषात्स्विष्टकृत्' इति यः पूर्वाधिकरणे पूर्वपक्षः, तस्मिन्पक्षे नियामकस्याश्रुतत्वात्- यस्मात्कस्माच्चिद्धविःशेषात्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- प्रथमातिक्रमे मानाभावात्प्रथमहविःशेषेणैव संस्कारसिद्धावितरत्र प्राप्त्यभावादस्ति नियतिः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे सर्वशेषैः स्विष्टकृदनुष्ठानाधिकरणे सूत्राणि 48-51”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् उपयुक्तं हविः संस्कर्तुमिदमवदीयते संस्कारश्च सर्वेष्वपि हविःषु समानः तस्मात्- सर्वेभ्यो हविःशेषेभ्यः स्विष्टकृदनुष्ठेयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.21 एकविंशे पुरोडाशविभागस्य भक्षार्थताधिकरणे सूत्राणि 54-57
भक्षाश्रवणाद्दानशब्दः परिक्रये।। 54।।
तत्संस्तवाच्च।। 55।।
भक्षार्थो वा द्रव्ये समत्वात्।। 56।।
व्यादेशाद्दानसंस्तुतिः।। 57।।
एकविंशाधिकरणमारचयति-

1विषयः

इदं ब्रह्मण इत्यक्तिः क्रयार्था भक्षणाय वा
भक्षाश्रुतेः क्रयार्थाऽतो यथेष्टं तैर्नियुज्यताम्

3पूर्वपक्षः

देवतायै समस्तस्य क्लृप्तत्वात्स्वामिता न हि
शेषस्य प्रतिपत्त्यर्थं भक्षणं तत्र युज्यते
चतुर्धाकृतपुरोडाशस्य भागान्यजमान एवं निर्दिशेत्- 'इदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीधः' इति। सोऽयं निर्देश न भक्षणार्थः। भक्षणस्याश्रुतत्वात्। ततो भृतिदानेन तानृत्विजः परिक्रेतुमयं निर्देशः कृतः। क्रयश्च तदङ्गीकारानुसारेण स्वल्पेनाप्युपपद्यते। तस्मात्स्वकीया भागास्तैरिच्छयोपयोक्तुं शक्याः- इति प्राप्ते-

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य चतुर्थः पादः
ब्रूमः- ''अग्नये जुष्टं निर्वपामि'' इति कृत्स्नस्य हविषो देवतार्थं संकल्पितत्वेन तत्र यजमानस्य स्वामित्वाभावान्न युक्तः परिक्रयः। भक्षणं तु प्रतिपत्त्यर्थत्वाद्युक्तम्। अवशिष्टस्य यः कोऽप्युपयोगः प्रतिपत्तिः। पुरोडाशस्य भक्षणार्हत्वाद्भक्षणेन कर्मकराणामृत्साहजननाच्च भक्षणार्थोऽयं निर्देशो युज्यते।। 37।। 38।।
अत्र पादे अधिकरणानि 21, सूत्राणि 164।
आदितः अधिकरणानि 57, सूत्राणि 462।
तृतीयाध्यायस्य पञ्चमः पादः
प्रतिपत्तिकर्माणि।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणे सूत्रे 52-53”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रथमातिक्रमे मानाभावात्प्रथमहविःशेषेणैव संस्कारसिद्धावितरत्र प्राप्त्यभावादस्ति नियतिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 3, Pāda 3 Contents Adhyāya 3, Pāda 5 →