SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 2, Pāda 4

भेदः

नित्यकाम्ययोः प्रयोगयोर्भेदः

2adhikaraṇas
32sūtras
2.4.1 प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि 1- 7
SŪयावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात्।। 1।।
SŪकर्तुर्वा श्रुतिसंयोगात्।। 2।।
SŪलिङ्गदर्शनाच्च कर्म धर्मे हि प्रक्रमेण नियम्येत, तत्रानर्थकमन्यत्स्यात्।। 3।।
SŪअपवर्गं च दर्शयति, कालश्चेत्कर्मभेदः स्यात्।। 4।।
SŪअनित्यवात्तु नैवं स्यात्।। 5।।
SŪविरोधश्चापि पूर्ववत्।। 6।।
SŪकर्तुस्तु नियमात्कालशास्त्रं निमित्तं स्यात्।। 7।।
चतुर्थपादस्य प्रथमाधिकरणमारचयति-

1विषयः

यावज्जीवं जुहोतीति धर्मः कर्मणि पुंसि वा

3पूर्वपक्षः

कालत्वात्कर्मधर्मोऽतः काम्य एकः प्रयुज्यताम्
बह्वृचब्राह्मणे श्रूयते ''यावज्जीवमाग्निहोत्रं जुहोति'' इति। तत्र यावज्जीवशब्दो मरणावधिकालपरः। तत्कालसंबन्धश्च प्रकृते काम्याग्निहोत्रे पूर्वमप्राप्तत्वात् 'जुहोति' इत्यनूदिते कर्मणि विधीयते। तथा सत्यस्य वाक्यस्य नित्यप्रयोगविधायकत्वाभावेन वाक्यान्तरविहितः काम्यप्रयोग एक एवाग्निहोत्रस्य पर्यवस्यति। स च काम्यप्रयोगोऽभ्यसितव्यः। सकृदनुष्ठानस्य ''अग्निहोत्रं जुहुयात्स्वर्गकामः'' इत्यनेनैव सिद्धत्वात्। 'यावज्जीवम्' इत्यस्य कालविधेर्वैयर्थ्यप्रसङ्गात्। तस्मात्- अयं काम्यकर्मणोऽभ्याससिद्धये कालरूपधर्मविधिः। इति प्राप्ते-

4सिद्धान्तः

न कालो जीवनं तेन निमित्तप्रविभागतः
काम्यप्रयोगो भिन्नः स्याद्यावज्जीवप्रयोगतः
ब्रूमः-यावज्जीवशब्दो न कालस्य वाचकः, किंतु लक्षकः। वाच्यार्थस्तु कृत्स्नजीवनम्। न च जीवनं कर्मधर्मत्वेन विधातुं शक्यम्। तस्य पुरुषधर्मत्वात्। तं च पुरुषधर्मं निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते। न च- अत्र कर्मभेदः। तद्धेतूनां शब्दान्तरादीनामभावात्। न च- अभ्यासस्तद्धेतुः। निमित्तविशेषसद्भावेनाविशेषपुनःश्रुतेरभावात्। अतः प्रयोगभेदः पर्यवस्यति। जीवनस्यात्र निमित्तत्वात्। सति निमित्ते नैमित्तिकस्य त्यागायोगान्नित्यत्वमर्थसिद्धम्। न च- जीवननिमित्तनैरन्तर्येण प्रयोगनैरन्तर्यापत्तिः, सायंप्रातःकालयोर्विहितत्वात्। तस्मात्- जीवनस्य पुरुषधर्मत्वान्नित्यकाम्यप्रयोगौ भिन्नौ।। 1।। 2।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नित्यकाम्ययोः प्रयोगयोर्भेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे, आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणे सूत्राणि 27-29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालविस्तरे द्वितीयाध्यायस्य तृतीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.4.2 द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि 8- 32
SŪनामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्मभेदः स्यात्।। 8।।
SŪएकं वा संयोगरूपचोदनाख्याविशेषात्।। 9।।
SŪन नाम्ना स्यादचोदनाभिधानत्वात्।। 10।।
SŪसर्वेषां चैककर्म्यं स्यात्।। 11।।
SŪकृतकं चाभिधानम्।। 12।।
SŪएकत्वेऽपि परम्।। 13।।
SŪविद्यायां धर्मशास्त्रम्।। 14।।
SŪआग्नेयवत्पुनर्वचनम्।। 15।।
SŪअद्विर्वचनं वा श्रुतिसंयोगाविशेषात्।। 16।।
SŪअर्थासंनिधेश्च।। 17।।
SŪन चैकं प्रति शिष्यते।। 18।।
SŪसमाप्तिवच्च संप्रेक्षा।। 19।।
SŪएकत्वेऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि।। 20।।
SŪप्रायश्चित्तं निमित्तेन।। 21।।
SŪप्रक्रमाद्वानियोगेन।। 22।।
SŪसमाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत।। 23।।
SŪलिङ्गमविशिष्टं सर्वशेषत्वान्न हि तत्र कर्मचोदना तस्माद्द्वादशाहस्याहारव्यपदेशः स्यात्।। 24।।
SŪद्रव्ये चाचोदितत्वाद्विधीनामव्यवस्था स्यान्निर्देशाद्व्यवतिष्ठेत तस्मान्नित्यानुवादः स्यात्।। 25।।
SŪविहितप्रतिषेधात्पक्षेऽतिरेकः स्यात्।। 26।।
SŪसारस्वते विप्रतिषेधाद्यदेति स्यात्।। 27।।
SŪउपहव्येऽप्रतिप्रसवः।। 28।।
SŪगुणार्था वा पुनःश्रुतिः।। 29।।
SŪप्रत्ययं चापि दर्शयति।। 30।।
SŪअपि वा क्रमसंयोगाद्विधिपृथक्त्वमेकस्यां व्यवतिष्ठेत।। 31।।
SŪविरोधिना त्वसंयोगादैककर्म्येऽतत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात्।। 32।।
द्वितीयाधिकरणमारचयति-

3पूर्वपक्षः

काठककाण्वमाध्यंदिनतैत्तिरीयादिशाखासु दर्शपूर्णमासाख्यं कर्मान्नातम्। तत्र शाखाभेदात्कर्म भिद्यते। कुतः- भेदकारणानां नामभेदादीनां बहूनामुपलम्भात्। काठक-काण्वादिको नामभेदः। कारीरीवाक्यान्यधीयानाः केचिच्छाखिनो भूमौ भोजनमाचरन्ति, शाखान्तराध्यायिनो नाचरन्ति, इति धर्मभेदः।
एकस्यां शाखायामधीताः ''इषे त्वा'' इत्यादयो मन्त्राः, पलाशशाखाच्छेदादयः क्रियाश्च, शाखान्तरेऽप्यधीयन्त इति पुनरुक्तिः। एवमशक्त्यादयो भेदहेतव उदाहार्याः। न ह्यल्पायुषा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तुं शक्यम्। तस्मात्- शाखाभेदेन कर्मभेदः। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- रूपाद्यभेदादेकं कर्म। आग्नेयाष्टाकपालादियागरूपं यदेवैकस्यां शाखायाम्, तदेवान्यत्राप्युपलभ्यते। ''दर्शपूर्णमासाभ्यां यजेत'' इति यागरूपः पुरूषव्यापारश्चैकविधः। 'दर्शपूर्णमासौ' इति कर्मनामाप्येकम्। 'स्वर्गकामः' इति फलसंबधोऽप्येकः। तस्मात्- अभिन्नं कर्म।
पूर्वपक्षहेतवस्त्वन्यथा संगच्छन्ते। काठकादिकं ज्योतिरादिवन्न कर्मनाम, 'काठकेन यजेत' इत्यश्रवणात्। 'काठकमधीते' इति प्रयोगाद्ग्रन्थनामत्यवगन्तव्यम्। भूभोजनादिरध्ययनधर्मः। पुनरुक्तिरध्येतृभेदान्न दुष्यति। अल्पायुषाऽपि शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्ठातुं शक्यते। तस्मात्- अनन्यथासिद्धरूपप्रत्यभिज्ञानाच्छाखाभेदेऽपि कर्म न भिद्यते।। 3।। 4।।
अत्र पादे अधिकरणानि 2, सूत्राणि 32।
आदितः अधिकरणानि 99, सूत्राणि 289 ।
--------------
।। श्रीः।।
तृतीयाध्यायस्य प्रथमः पादः
शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नित्यकाम्ययोः प्रयोगयोर्भेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि 1- 7”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न कालो जीवनं तेन निमित्तप्रविभागतः काम्यप्रयोगो भिन्नः स्याद्यावज्जीवप्रयोगतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 2, Pāda 3 Contents Adhyāya 3, Pāda 1 →