2.3.1
प्रथमे ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणे सूत्रे 1-2
SŪगुणस्तु क्रतुसंयोगात्कर्मान्तरं प्रयोजयेत्संयोगस्याशेषभूतत्वात्।। 1।।
SŪएकस्य तु लिङ्गभेदात्प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यत्वात्।। 2।।
तृतीयपादस्य प्रथमाधिकरणमारचयति-
1विषयः
रथंतरं साम सोमे भवेत्तद्वद्बृहज्जगत्
ऐन्द्रवायवशुक्राग्राग्रयणाग्रा ग्रहाः श्रुताः
3पूर्वपक्षः
रथंतरादिसंयुक्तमन्यत्कर्माथवा गुणः
गायत्रादियुतात्पूर्वादन्यद्व्यावृत्तितो गुणैः
ज्योतिष्टोमप्रकरणे श्रूयते ''यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्। यदि बृहत्सामा शुक्राग्रान्। यदि जगत्सामाग्रयणाग्रान्'' इति। तत्र- सोमशब्देन सोमलतासाधनको यागोभिधीयते। तस्मिंश्च यागे माध्यंदिने सवने पृष्ठस्तोत्रे रथंतरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि। ''अभि त्वा शूर'' इत्येतस्यां योनावुत्पन्नं रथंतरम्। ''त्वामिद्धि इवामहे'' इत्येतस्यामुत्पन्नं बृहत्। जगतीछन्दस्कायामृच्युत्पन्नं जगत्। ऐन्द्रवायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थी, आग्रयणः, उक्थ्यः, ध्रुवः, इत्यादिनामका ग्रहाः प्रातःसवने गृह्यन्ते। दारुपात्रेषु सोमरसस्य ग्रहणाद्ग्रहा भवन्ति। सोमयागस्य रथंतरसामोपेतत्वपक्ष एतेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः। बृहत्सामोपेतत्वपक्षे शुक्रः । जगत्सामोपेतत्वपक्षे आग्रयणः प्राथमिकः- इति विषयवाक्यार्थः। तत्र प्रकृतो ज्योतिष्टोमो गायत्रादिसामोपेतः, तद्व्यावृत्त्यर्थमिह रथंतरादयो गुणाः कीर्त्यन्ते। तस्मात्- ऐन्द्रवायवादिगुणोपेतानि कर्मान्तराण्यत्र विधीयन्ते- इति प्राप्ते-
4सिद्धान्तः
सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके
ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम्
ब्रूमः- ''यदि रथंतरसामा सोमः स्यात्'' इत्युक्तो यः सोमशब्दः, तेन प्रकरणेन चात्र ज्योतिष्टोमः समर्प्यते। समर्पिते तस्मिन्यथोक्तग्रहाग्रत्वं गुणो विधीयते। न च रथंतरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः संभवति। तस्य प्रातः सवनादौ गायत्रादिसामोपेतत्वेऽपि पृष्टस्तोत्रे रथंतरादियोगस्यापि सद्भावात्।
किं तर्हि व्यावर्त्यत इति चेत्- रथंतरबृहज्जगतां परस्परव्यावृत्तिः- इति वदामः। रथंतरादयः पृष्ठस्तोत्रे विकल्पिताः। तत्र रथंतरानुवादेनेतरौ पक्षौ व्यावर्त्येते। एवमितरत्रापि। तस्मात्- गुणविधिः।
ननु यः प्रकृतो ज्योतिष्टोमः सोऽन्येषां सोमयागानां प्रकृतिः। नहि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति। अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे प्रथमवर्णके ''यदि जगत्तामा'' इति वाक्योक्तमाग्रयणाग्रत्वं विकृतौ विषुवन्नामके मुख्येऽहनि व्यवस्थापितम्। बाढम्, तथाऽपि नात्र कश्चिद्विरोधः। आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकम्, किंतु 'अन्येन विहिते सोमयागे यत्र जगत्साम संभवति तत्र गुणविधायकम्' इत्येतावन्मात्रस्यात्र प्रतिपाद्यत्वात्।। 1।। 2।। 3।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे सौभरनिधनयोः कामैक्याधिकरणे सूत्रे 28- 29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.2
द्वितीयेऽवेष्टेः क्रत्वन्तरताधिकारताधिकरणे सूत्रम्
SŪअवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते।। 3।।
द्वितीयाधिकरणमारचयति-
3पूर्वपक्षः
राजसूयप्रकरणे काचिदिष्टिरवेष्टिनामिका श्रूयते ''आग्नेयमष्टाकपालं निर्वपेत्, हिरण्यं दक्षिणा। ऐन्द्रमेकादशकपालम्, ऋषभो दक्षिणा। वैश्वदेवं चरुम्, पिशङ्गी प्रष्ठौही दक्षिणा। मैत्रावरुणीमामिक्षाम्, वशा दक्षिणा। बार्हस्पत्यं चरुम्, शितिपृष्ठो दक्षिणा'' इति। तस्यामेवेष्टौ हविषां क्रमव्यत्ययः श्रूयते ''यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वा तमभिघारयेत्। यदि राजन्य ऐन्द्रम्। यदि वैश्यो वैश्वदेवम्'' इति। तत्र यथा पूर्वाधिकरणे- ऐन्द्रवायवाग्रत्वं व्यवस्थापयितुं यदिशब्दयुक्तेन वाक्येन रथंतरं निमित्तत्वेनानूदितम्, एवमत्रापि पञ्चमस्थाने श्रूयमाणं बार्हस्पत्यं चरुं मध्ये तृतीयस्थाने स्थापयितुं 'यदि ब्राह्मणः'- इत्यादि निमित्तत्वेनानूद्यते। द्वितीयस्थाने श्रुतस्यैन्द्रस्य तृतीयस्थानेवस्थापयितुं 'यदि राजन्यः' इत्यनुवादः। वैश्वदेवस्य तु स्वत एव तृतीयस्थाने श्रवणात्तत्र मध्येनिधानविधिर्नित्यानुवादः।
ननु राजकर्तृके राजसूये ब्राह्मणवैश्ययोः प्राप्त्यभावान्नानुवादो युक्तः- इति चेत्- न। तयोरपि राज्ययोग
हेतुराजशब्दार्थत्वात्, इति प्राप्ते-
4सिद्धान्तः
ब्रूमः-राजशब्दः क्षत्रियजातौ रूढः, न तु राज्ययोगस्तस्य प्रवृत्तिनिमित्तम्। प्रत्युत- राज्यशब्दस्य राजयोगः प्रवृत्तिनिमित्तम्। 'राज्ञः कर्म' इति विगृह्य राजप्रातिपदिकस्योपरि प्रत्ययविशेषविधानात्। ब्राह्यणवैश्ययोः प्रजापालनेन राज्यशब्द उपचरितः। तस्मात्- अवेष्टौ ब्राह्मणवैश्यौ पूर्वमप्राप्तावनेन वचनेन प्राप्येते।
ननु राजसूयस्य राजकर्तृकत्वात्तदन्तर्गताया अवेष्टेरपि तथात्वात्तस्यां ब्राह्मणवैश्ययोः प्रापणमयुक्तम्- इति चेत्- मैवम्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.3
तृतीय आधानस्य विधेयत्वाधिकरणे सूत्रम्
SŪआधाने सर्वशेषत्वात्।। 4।।
तृतीयाधिकरणमारचयति-
3पूर्वपक्षः
''वसन्ते ब्राह्मणोऽग्नीनादधीत। ग्रीष्मे राजन्यः। शरदि वैश्यः'' इति श्रूयते। ''वसन्ते ब्राह्मणमुपनयीत। ग्रीष्मे राजन्यम्। शरदि वैश्यम्'' इति च। तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयोऽनूद्यन्ते। न च तेषां प्राप्त्यभावः। क्रत्वनुष्ठानान्यथानुपपत्त्या क्लृप्तत्वात्। न ह्याहुत्याधारभूतमग्निम्, अनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति। अग्निश्च नाधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति, विद्या चोपनयनपूर्वकाध्ययनमन्तरेणासंभवन्ती ब्राह्मणाद्युपनयनं कल्पयति- इति तत्र प्राप्तिः- इति चेत्-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीयेऽवेष्टेः क्रत्वन्तरताधिकारताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.4
चतुर्थे दाक्षायणादीनां गुणताधिकरणे सूत्राणि 5- 11
SŪअयनेषु चोदनान्तरं संज्ञोपबन्धात्।। 5।।
SŪअगुणाच्च कर्मचोदना।। 6।।
SŪसमाप्तं च फले वाक्यम्।। 7।।
SŪविकारो वा प्रकरणात्।। 8।।
SŪलिङ्गदर्शनाच्च।। 9।।
SŪगुणात्संज्ञोपबन्धः।। 10।।
SŪसमाप्तिरविशिष्टा।। 11।।
चतुर्थाधिकरणमारचयति-
1विषयः
यद्दाक्षायणयज्ञेन स्वर्गकामो यजेत तत्
कर्मान्तरं गुणो वोक्तदर्शादौ फलसिद्धये
3पूर्वपक्षः
गुणस्यास्याप्रसिद्धत्वात्कर्मभेदोऽत्र संज्ञया
गुणो व्युत्पत्तिशेषाभ्यामावृत्त्याख्यो न नाम तत्
दर्शपूर्णमासप्रकरणे श्रूयते ''दाक्षायणयज्ञेन स्वर्गकामो यजेत'' इति। तत्र- दाक्षायणशब्दवाच्यस्य कस्यचिद्गुणस्य लोके प्रसिद्ध्यभावादुद्भिदादिवद्यजिसामानाधिकरण्येन कर्मनामत्वात्। ''अथैष ज्योतिः'' इत्यादिवदर्पूवसंज्ञायां कर्मान्तरविधिः- इति चेत्-
न। दाक्षायणशब्दस्यावृत्तिवाचकत्वात्। तच्च शब्दनिर्वचनाद्वाक्यशेषाद्वाऽवगम्यते। तथा हि- 'अयनम्' इत्यावृत्तिरुच्यते। 'दक्षस्येमे दाक्षाः, तेषामयनम्' इति तन्निर्वचनम्। दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः। तदीयानां प्रयोगाणामावृत्तिर्दाक्षायणशब्दार्थः। तथा चावृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षायणयज्ञः। आवृत्तिप्रकारस्तु ''द्वे पौर्णमास्यौ यजेत। द्वे अमावास्ये'' इत्यादिवाक्यशेषादवगम्यते। ततो दध्यादिवत्प्रसिद्धार्थत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफलसिद्ध्यर्थमावृत्त्याख्यगुणविधिः। न तूद्भिदादिवत्कर्म नामधेयम्।
4सिद्धान्तः
एवं ''साकंप्रस्थायीयेन यजेत पशुकामः'' इत्यत्रापि द्रष्टव्यम्
अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकंप्रस्थाप्यः
तद्युक्तो यागः साकंप्रस्थायीयः
तथासति प्रकृते दर्शयागे पशुफलाय साकंप्रस्थाप्याख्यो गुणो विधीयते।
10
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीय आधानस्य विधेयत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.5
पञ्चमे द्रव्यदेवतायुक्तानां यागान्तरताधिकरणे सूत्राणि 12- 15
SŪसंस्कारश्चाप्रकरणेऽकर्मशब्दत्वात्।। 12।।
SŪयावदुक्तं वा कर्मणः श्रुतिमूलत्वात्।। 13।।
SŪयजतिस्तु द्रव्यफलभोक्तृसंयोगादि तेषां कर्मसंबन्धात्।। 14।।
SŪलिङ्गदर्शनाच्च।। 15।।
पञ्चमाधिकरणमारचयति-
3पूर्वपक्षः
अनारभ्येदमाम्नायते- ''वायव्यं श्वेतमालभेत भूतिकामः'' इति, ''सौर्ये चरुं निर्वपेद्ब्रह्मवर्चसकामः'' इति च। तथा दर्शपूर्णमासयोरिदमाम्नायते ''ईषामालभेत'' इति, ''चतुरो मुष्टीन्निर्वपति'' इति च। ईषा शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषः। तस्या आलम्भः स्पर्शः। तमेतं दर्शपूर्णमासगतमीषालम्भमनूद्य तस्यामालभ्यायामीषायां श्वेतत्वगुणो विधीयते। तस्य च श्वेतकाष्ठस्य वायुना स्पृश्यमानत्वाद्वायव्यता संभवति। तथा- चतुर्मुष्टिनिर्वपणमनूद्य चरुर्गुणत्वेन विधीयते। चरुः स्थाली। सा च निर्वापस्याश्रयः। निरुप्तस्य हविष आग्नेयतया सूर्यवत्प्रभासंबन्धात्सौर्यत्वम्। भूतिब्रह्मवर्चसे फले च सर्वकामिकयोर्दर्शपूर्णमासयोः पूर्वसिद्धे एवानूद्येते। तस्मीत्- गुणविधी- इत्येकः पूर्वपक्षः।
नहि फलपदयोर्नित्यवच्छ्रुतयोः संभवत्प्रयोजनयोश्च पाक्षिकानुवादत्वम्, आनर्थक्यं वा युक्तम्। तस्मात्- गुणफलविशिष्टे कर्मान्तरे विधीयेते। तदाऽपि यागस्याश्रवणादालम्भनिर्वापयोरेव श्रवणाद्यावदुक्तकर्मविधिः- इति
द्वितीयः पूर्वपक्षः।
श्वेतपशुचरुद्रव्ययोः, वायुसूर्यदेवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरार्थिकयोर्वारयितुमशक्यत्वाद्द्रव्यदेवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः। 'भूतिकामो वायव्येन श्वेतेन पशुना यजेत' 'ब्रह्मवर्चसकामः सौर्येण चरुणा यजेत' इत्येवंविधोऽर्थसिद्धो विधिः। द्रव्यदेवतासंबन्धकल्पितस्य यागस्य लिङ्प्रत्ययेन कर्तव्यताविधावालम्भनिर्वापयोर्धात्वर्थयोः का गतिः- इति चेत्- 'अनुवादः' इति
4सिद्धान्तः
ब्रूमः- इति सिद्धान्तः।। 12।। 13।। 14।। 15।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे दाक्षायणादीनां गुणताधिकरणे सूत्राणि 5- 11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एवं ''साकंप्रस्थायीयेन यजेत पशुकामः'' इत्यत्रापि द्रष्टव्यम् अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकंप्रस्थाप्यः तद्युक्तो यागः साकंप्रस्थायीयः तथासति प्रकृते दर्शयागे पशुफलाय साकंप्रस्थाप्याख्यो गुणो विधीयते। 10”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.6
षष्ठे वत्सालम्भादीनां संस्कारताधिकरणे सूत्रे 16-17
SŪविशये प्रायदर्शनात्।। 16।।
SŪअर्थवादोपपत्तेश्च।। 17।।
षष्ठाधिकरणमारचयति-
1विषयः
वत्सालम्भो यजिः स्पर्शो वा वायव्यादिवद्यजिः
3पूर्वपक्षः
स्पर्शः स्याद्देवराहित्यात्संस्कारः प्रायपाठतः
अग्निहोत्रदोहाधिकारे श्रूयते ''वत्समालभेत'' इति। तत्र 'विमतो वत्सालम्भो यजिः स्यात्, प्राणिद्रव्यकालम्भत्वात्, वायव्यालम्भवत्' इति चेत्- न। देवताराहित्येन तद्वैषम्यात्।
4सिद्धान्तः
किंच- 'अयं वत्सालम्भोऽग्निहोत्राङ्गसंस्कारः, तत्प्राये पठितत्वात्, इतरसंस्कारवत्'
तस्मात्- अयं स्पर्शमात्रविधिः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे द्रव्यदेवतायुक्तानां यागान्तरताधिकरणे सूत्राणि 12- 15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.7
सप्तमे नैवारचरोराधानार्थताधिकरणे सूत्रम्
SŪसंयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात्।। 18।।
सप्तमाधिकरणमारचयति-
1विषयः
चरुर्भवति नैवार उपधत्ते चरुं त्विति
यागः स्यादुपधानं वा यागः शेषोक्तदैवतः
3पूर्वपक्षः
यागत्वानिश्चये शेषो नापेक्ष्योऽतो यजिः कुतः
किंतूपधानमात्रत्वं यावदुक्तं चरौ स्थितम्
अग्नौ श्रूयते ''नैवारश्चरुर्भवति'' इति, ''चरुमुपदधाति'' इति च। तत्र नीवारचरुद्रव्यको यागो विधीयते। न चात्र देवताया अभावः। ''बृहस्पतेर्वा एतदन्नं यन्नीवाराः'' इति वाक्यशेषेण देवतासिद्धेः। उपधानं तु यागोपयुक्तस्य प्रतिपत्तिः स्विष्टकृदादिवत्- इति प्राप्ते
4सिद्धान्तः
ब्रूमः- यागविधौ निश्चिते सति पश्चाद्देवतायामपेक्षितायां वाक्यशेषबलाद्देवताक्लृष्टिः, इह तु देवताकल्पनेन यागविधित्वनिश्चयः
इत्यन्योन्याश्रयः
तस्मात्- इहोपधानमात्रं विधीयते ।
17
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे वत्सालम्भादीनां संस्कारताधिकरणे सूत्रे 16-17”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “किंच- 'अयं वत्सालम्भोऽग्निहोत्राङ्गसंस्कारः, तत्प्राये पठितत्वात्, इतरसंस्कारवत्' तस्मात्- अयं स्पर्शमात्रविधिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.8
अष्टमे पात्नीवतस्य पर्यग्निकरणगुणकत्वाधिकरणे सूत्रम्
SŪपात्नीवते तु पूर्वत्वादवच्छेदः।। 19।।
अष्टमाधिकरणमारचयति-
1विषयः
पर्यग्निकृतः पात्नीवत उत्सृज्यत इत्यसौ
यागो गुणो वा यागः स्यादन्वयाव्यवधानतः
3पूर्वपक्षः
प्रत्यभिज्ञातमालभ्यमनूद्योत्सर्गशब्दतः
गुणं पर्यग्निकृत्याख्यं वक्त्युत्तरनिवृत्तये
''त्वाष्ट्रं पात्नीवतमालभेत'' इति प्रकृत्येदमाम्नातम्- ''पर्याग्निकृतं पात्नीवतमुत्सृजन्ति'' इति। तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवतशब्देन पत्नीवन्नामकदेवतासंबन्धस्य च प्रतीयमानत्वादयं यागविधिः। एवं सति पर्यग्निकृतपात्नीवतशब्दयोरव्यवहितान्वयो लभ्यते। सिद्धान्ते तु ''पर्यग्निकृतमुत्सृजन्ति'' इत्यन्वयं वाञ्छन्ति। तदा व्यवहितान्वयो दुर्वारः। तस्मात्- वायव्यपशुवद्यागविधिः- इति प्राप्ते-
4सिद्धान्तः
न दुष्टा परिसंख्याऽत्र चोदकात्प्राग्विधौ सति
पर्यग्निकरणान्ताङ्गरीतिः क्लृप्तोपकारतः
ब्रूमः-अनारभ्याधीतत्वान्नास्ति वायव्ये प्रकृतप्रत्यभिज्ञा। इह त्वालभ्यत्वेन प्रकृतः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते। तमनूद्य पर्यग्निकृतशब्दान्वितेन 'उत्सृजन्ति' इत्याख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते।
न च प्रकृतिमतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थकोऽयं विधिरितिवाच्यम्। उपरितनाङ्गाननुवृत्तेर्विधिप्रयोजनत्वात्।
नन्वेवं सति परिसंख्या स्यात्। सा च दोषत्रयदुष्टा। स्वार्थत्यागः, अन्यार्थस्वीकारः, प्राप्तबाधश्चेति त्रयो दोषाः। पर्यग्निकरणवाक्ये स्वार्थो बिधिस्त्यज्येत, अन्यार्थे निषेधः स्वीक्रियेत, चोदकप्राप्तान्युपरितनाङ्गानि बाध्येरन्। मैवम्। 'पर्यग्निकरणोत्तरभावीन्यङ्गानि नानुष्ठेयानि' इत्येतस्याः परिसंख्याया अनङ्गीकारात्। कथं तर्हि तन्निवृत्तिः- 'आर्थिकी' इति ब्रूमः। चोदकप्रवृत्तेः प्रागेवायं विधिः प्रवर्तते, प्रत्यक्षोपदेशस्य शीघ्रबुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात्। तथासत्युपदिष्टैरेवाङ्गैर्निराकाङ्क्षायां विकृतौ चोदकस्याप्रवृत्यैवोपरितनान्यङ्गानि न प्राप्यन्ते।
न चानेन न्यायेन पर्यग्निकरणात्प्राचीनानामप्यप्राप्तिरिति वाच्यम्। विधीयमानस्य पर्याग्निकरणस्य नूतनत्वे सत्युपकारकल्पनापत्त्या प्रकृतौ यत्क्लृप्तोपकारं पर्यग्निकरणं, तदवस्थापन्नस्यैवात्र विधेयत्वात्। प्रकृतौ च प्राचीनाङ्गानन्तरभाविन एवोपकारः क्लृप्त इत्यत्रापि तादृशस्यैव विधानात्पर्याग्निकरणान्ताङ्गरीतिः सिध्यति। एवं च सति 'उत्सृजन्ति' इत्याख्यातेन यथोक्तपर्यग्निकरणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनाऽनूद्यते। तदेवमत्र गुणविधिः।। 19।। 20।। 21।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे नैवारचरोराधानार्थताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- यागविधौ निश्चिते सति पश्चाद्देवतायामपेक्षितायां वाक्यशेषबलाद्देवताक्लृष्टिः, इह तु देवताकल्पनेन यागविधित्वनिश्चयः इत्यन्योन्याश्रयः तस्मात्- इहोपधानमात्रं विधीयते । 17”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.9
नवमे, अदाभ्यादीनां ग्रहनामताधिकरणे सूत्रम्
SŪअद्रव्यत्वात्केवले कर्मशेषः स्यात्।। 20।।
नवमाधिकरणमारचयति-
1विषयः
यददाभ्यं गृहीत्वेति गृह्णात्यंशुमिति द्वयम्
3पूर्वपक्षः
तद्यागो वा गुणो यागः स्याददाभ्यांशुनामतः
अनारभ्य श्रूयते ''एष वै हविषा हविर्यजते, योऽदाभ्यं गृहीत्वा सोमाय यजते'' इति ''परा वा एतस्यायुः प्राण एति, योंऽशुं गृह्णाति'' इति च। तत्र- अदाभ्यशब्दस्य ज्योतिरादिवदपूर्वनामत्वात्तन्नामको यागो 'यजते' इत्याख्यातेन विधीयते। 'अंशुम्' इत्यत्र यजतेरश्रवणेऽपि नामविशेषबलादेवापूर्वयागविधिः। न चात्र द्रव्यदेवतयोरभावः। ग्रहणलिङ्गेन ज्योतिष्टोमविकृतित्वावगतौ तदीयविध्यन्तातिदेशेन तत्सिद्धेः-इति प्राप्ते-
4सिद्धान्तः
ग्रहयोरेव नाम स्यादानन्तर्याद्विधिस्तयोः
गुणोऽतस्तस्य वाक्येन ज्योतिष्टोमाभिगामिना
ब्रूमः- भवत्वदाभ्यांशुशब्दयोर्नामत्वम्। ते च नामनी ग्रहयोरेव स्याताम्, न तु यागयोः। 'गृहीत्वा' इतिशब्दस्यानन्तरमेव पाठात्। यजतिस्तु व्यवहितः। तादृशोऽपि यजिरंशुवाक्ये नास्ति। तस्माद्ग्रहयोरेवात्र विधिः। ग्रहणं च ज्योतिष्टोमगतस्य सोमरसस्य संस्काररूपो गुणः, ऐन्द्रवायवादिग्रहणसमानत्वात्। यद्यप्यत्र न प्रकृतो ज्योतिष्ठोमः, तथाऽपि तत्संबन्धिग्रहणद्वारा वाक्यस्य ज्योतिष्टोमगामित्वम्। अत एव 'सोमायादाभ्यं गृहीत्वा' इति निर्दिश्यते। अथवा-तैत्तिरीयाणां षष्ठकाण्डे षष्ठे प्रपाठके प्राकरणिकं विनियोजकं वाक्यं द्रष्टव्यम्। तस्मात्-ज्योतिष्टोमे गुणविधिः।। 22।। 23।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे पात्नीवतस्य पर्यग्निकरणगुणकत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न दुष्टा परिसंख्याऽत्र चोदकात्प्राग्विधौ सति पर्यग्निकरणान्ताङ्गरीतिः क्लृप्तोपकारतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.10
दशमे अग्निचयनस्य संस्कारताधिकरणे सूत्राणि 21-23
SŪअग्निस्तु लिङ्गदर्शनात्क्रतुशब्दः प्रतीयेत।। 21।।
SŪद्रव्यं वा स्याच्चोदनायास्तदर्थत्वात्।। 22।।
SŪतत्संयोगात्क्रतुस्तदाख्यः स्यात्तेन धर्मविधानानि।। 23।।
दशमाधिकरणमारचयति-
1विषयः
अग्निं चिनुत इत्यत्र यागो वा संस्कृतिर्यजिः
3पूर्वपक्षः
लिङ्गेन यागनामत्वाद्यजिना चानुवादतः
''य एवं विद्वानग्निं चिनुते'' इत्येवं विधाय श्रूयते ''अथातोऽग्निमग्निष्टोमेनानुयजति, तमुक्थ्येन तं षोडशिना, तमतिरात्रेण'' इत्यादि। अत्र-अग्निशब्दो यागवाची। स्तोत्रशस्त्रादेः क्रतुलिङ्गस्य श्रूयमाणत्वात्। तच्च लिङ्गमेवं श्रूयते 'अग्नेः स्तोत्रं, अग्नेः शस्त्रम्' इति, 'षडुपसदोऽग्नेश्चित्यस्य भवन्ति' इति च। यदि लिङ्गं प्रापकापेक्षम्, तर्हि यजिना तदनुवादः प्रापकेऽस्तु। ''अग्निमग्निष्टोमेनानुयजति'' इत्येतस्मिन्वाक्ये 'अग्निं यजति' इति यजिसामानाधिकरण्यात् 'उपांशु यजति' इतिवद्यागनामत्वम्।
अथोच्येत- अनुशब्दस्याग्निशब्देनान्वयाद्यज्यन्वयोऽग्निष्टोमस्य, इति। तथाऽप्यग्नेः पुरोयजने सत्यग्निष्टोमस्यानुयजनं संभवति। 'देवदत्तमनुगच्छति यज्ञदत्तः' इत्यत्र देवदत्ते पुरोगमनदर्शनात्। तस्मात् 'अग्निं चिनुते' इत्यत्राग्निनामको याग आख्यातेन विधीयते। चिनोतिस्तु 'इष्टकाभिरग्निं चिनुते' इति वाक्यप्राप्तस्य चयनस्य सोमयागविकृतित्वेन प्राप्तस्य ग्रहसमुदायस्येवानुवादः- इति प्राप्ते-
4सिद्धान्तः
रूढ्या द्रव्यस्य नामैतद्वह्नेराधानवच्चितिः
संस्कारः संस्कृते वह्नावग्निष्टोमो विधीयते
ब्रूमः-अग्निशब्दो रूढ्या बह्निद्रव्यमाचष्टे। रूढिश्च क्लृप्ततया लिङ्गादिकल्प्याद्यागवाचित्वाद्बलीयसीति न यागनामत्वम्। न चात्र यागरूपमस्ति। द्रव्यदेवतयोरसिद्धेः। अतः 'अग्निमादधीत' इत्युक्ताधानत्वात् 'अग्निं चिनुते' इत्युक्तं चयनमग्निद्रव्यसंस्कारः। न च संस्कृतस्य विनियोगाभावः। ''अग्निमग्निष्टोमेन यजते'' इत्यादिवाक्यैरग्निष्टोमादौ विनियोगात्। तस्मात्-संस्कारविधिः।। 24।। 25।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे, अदाभ्यादीनां ग्रहनामताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ग्रहयोरेव नाम स्यादानन्तर्याद्विधिस्तयोः गुणोऽतस्तस्य वाक्येन ज्योतिष्टोमाभिगामिना”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.11
एकादशे मासाग्निहोत्रादीनां क्रत्वन्तरताधिकरणे सूत्रम्
SŪप्रकरणान्तरे प्रयोजनान्यत्वम्।। 24।।
एकादशाधिकरणमारचयति-
1विषयः
मासं जुहोत्यग्निहोत्रं गुणोऽन्यत्कर्म वा गुणः
3पूर्वपक्षः
अनूद्य प्राप्तकर्मात्र मासोऽप्राप्तो विधीयते
कुण्डपायिनामयने श्रूयते ''उपसद्भिश्चरित्वा'' ''मासमग्निहोत्रं जुहोति'' ''मासं दर्शपूर्णमासाभ्यां यजेत'' इति। अत्र- प्राप्तं नित्याग्निहोत्रमनूद्य मासलक्षणो गुणोऽप्राप्तत्वाद्विधीयते-इति चेत्-
मैवम्। किं मास एव विधीयते, 'उपसद्भिश्चरित्वा' इत्युक्तोपसदोऽपि। नाद्यः। उपसदामपि नित्याग्निहोत्रप्राप्तिरहितानां त्वन्मते विधातव्यत्वात्। न द्वितीयः। प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः।
ननु मा भूत्तर्हि गुणविधिः। कर्मान्तरत्वे किं प्रमाणम्-इति चेत्- 'प्रकरणान्तरम्'- इति
4सिद्धान्तः
उपसद्भिश्चरित्वेति नित्ये तासामसंभवात्
अनेकस्याविधेश्चान्यत्कर्म प्रकरणान्तरात्
ब्रूमः। न ह्येतन्नित्याग्निहोत्रस्य प्रकरणम्। असंनिहितत्वात्।अयनस्य ह्येतत्प्रकरणम्। अयनमारभ्याधीतत्वात्। का तर्हि नित्याग्निहोत्रे गुणविधिशङ्का-इति चेत्- प्रकरणस्यासमर्पकत्वेऽप्यग्निहोत्रशब्देनैतत्समर्पणादेषा शङ्का भवति। सा च वाक्यभेदापत्त्या निराकृता। तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणैक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याग्निहोत्रशब्दस्य शक्तौ निरुद्धायां तदवस्थः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति। अग्निहोत्रशब्दौ धर्मातिदेशार्थ इति सप्तमे वक्ष्यते।
ननूपसन्मासाभ्यां विशिष्टमिदं कर्म विधीयते। ततो वाजिनन्यायेन गुणभेदात्कर्मभेदः, न प्रकरणभेदादिति चेत्- न। वैषम्यात्। 'उपादेयतया विधेयो गुणो वाजिनम्। मासस्त्वनुपादेयः' इत्येकं वैषम्यम्। 'द्रव्यत्वेन रूपान्तर्गतं वाजिनम्, मासो न तथा' इत्यपरं वैषम्यम्। परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोद्बलयति। ततः प्रकरणान्तरमेवात्र भेदहेतुः।। 26।। 27।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे अग्निचयनस्य संस्कारताधिकरणे सूत्राणि 21-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “रूढ्या द्रव्यस्य नामैतद्वह्नेराधानवच्चितिः संस्कारः संस्कृते वह्नावग्निष्टोमो विधीयते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.12
द्वादशे, आग्नेयादिकाम्येष्ट्यधिकरणे सूत्रम्
SŪफलं चाकर्मसंनिधौ।। 25।।
द्वादशाधिकरणमारचयति-
1विषयः
अष्टाकपालमाग्नेयं रुक्कामः प्राकृते फलम्
3पूर्वपक्षः
कर्मान्यद्वा फलं भानात्पूर्वन्यायाप्रवेशनात्
अनारभ्य श्रूयते ''आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः'' इति। रुक्कामस्तेजस्कामः। अत्र- इष्टीनां प्रकृतिभूतदर्शपूर्णमासगतमाग्नेययागमनूद्य तत्र तेजस्कामरूपं फलं विधीयते। कुतः- वाक्येनाग्नेयफलसंबन्धस्य भासमानत्वात्। न च पूर्वोक्तमासाग्निहोत्रन्यायेन कर्मान्तरत्वम्। वैषम्यात्। तत्रायनमारभ्याधीतत्वादस्ति प्रकरणान्तरत्वम्। इह त्वनारभ्याधीतत्वेन प्रकरणमेव तावन्नास्ति, कुतोऽत्र प्रकरणान्तरत्वम्। किं च मासोऽनुपादेयः। अग्निहोत्रानुसारेण संपादयितुमशक्यत्वात्। फलं तूपादेयम्, दार्शपौर्णमासिकाग्नेयानुसारेण तेजसः कामयितुं शक्यत्वात्। तस्मात्-फलविधिः- इति प्राप्ते-
4सिद्धान्तः
मा भूद्भिन्नं प्रकरणं कर्मान्तरमसंनिधेः
अनारभ्याधीतमेतद्रूपंत्वन्यूनमीक्षते
ब्रूमः- प्रकरणान्तरत्वाभावेऽप्यनारभ्याधीतत्वादसंनिधिरस्त्येव। स एवात्र कर्म भिनत्ति। न चात्र वाजिनन्यायेन कर्मभेदः, अष्टाकपालद्रव्याग्निदेवतात्मनो रूपस्योभयत्रैकविधत्वात्। यदि प्रकरणान्तरत्वमप्यसंनिधिकृतमित्यसंनिधिरेव मासाग्निहोत्रकर्मभेदहेतुः, तर्हि तस्यैवायं प्रपञ्चोऽस्तु। फलं च मासवदनुपादेयम्। अन्यथा साधनवदफलत्वप्रसङ्गात्। कामना च विषयसौन्दर्यज्ञानात्स्वत एवोत्पद्यते न तु विधिश्रवणात्संपद्यते। यद्यधिकरणयोर्न्यायभेदः, यदि वा न्यायैक्यम्। सर्वथा तेजस्कामेष्टिः कर्मान्तरम्। काम्येष्टिकाण्डपठितेषु ''ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः'' इत्यादिष्वयमेव न्यायो द्रष्टव्यः।। 28।। 29।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे मासाग्निहोत्रादीनां क्रत्वन्तरताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उपसद्भिश्चरित्वेति नित्ये तासामसंभवात् अनेकस्याविधेश्चान्यत्कर्म प्रकरणान्तरात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.13
त्रयोदशे, अवेष्टेरन्नाद्यफलकत्वाधिकरणे सूत्रम्
SŪसंनिधौ त्वविभागात्फलार्थेन पुनःश्रुतिः।। 26।।
त्रयोदशाधिकरणमारचयति-
3पूर्वपक्षः
दर्शपूर्णमासप्रकरणे देशकालनिमित्तान्याम्नायन्ते- ''समे यजेत'' ''पौर्णमास्यां यजेत'' ''यावज्जीवं
दर्शपूर्णमासाभ्यां यजेत'' इति। अवेष्टिप्रकरणे फलमाम्नातम्- ''एतयाऽन्नाद्यकामं याजयेत्'' इति। आदिशब्देन संस्कारो गृहीतः। स च दर्शपूर्णमासप्रकरणे समाम्नातः ''शेषं स्विष्टकृते समवद्यति'' इति। तत्र-देशकालनिमित्तफलसंस्कारा अननुष्ठेयत्वादनुपादेयाः। अत एव न विधेयाः। उपादानविधिशब्दयोः पर्यायत्वात्। ततः- कर्मविधिः- इत्यवश्यमभ्युपेयम्। तत्र- प्रकरणिनो दर्शादेः पूर्वविहितस्यैवैभिर्वाक्यैः पुनर्विधाने ''समिधो यजति'' इत्यादिवदभ्यासादेव कर्मभेदः-इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- देशादीनामविधेयत्वेऽपि विहितकर्मणा सह तेषां संबन्धो विधीयताम्। स च कर्मवत्पूर्वं न विहित इत्यप्राप्तत्वाद्विधिमर्हति। यदुक्तम्- उपादानविधिशब्दौ पर्यायौ- इति। तदसत्। 'अप्रवृत्तप्रवर्तनं विधानम्, तच्च पुरुषविषयः शब्दव्यापारः। अननुष्ठितस्यानुष्ठानमुपादानम्, तच्च कर्माविषयः पुरुषव्यापारः' इति महान्भेदः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे, आग्नेयादिकाम्येष्ट्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मा भूद्भिन्नं प्रकरणं कर्मान्तरमसंनिधेः अनारभ्याधीतमेतद्रूपंत्वन्यूनमीक्षते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.14
चतुर्दशे, आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणे सूत्राणि 27-29
SŪआग्नेयस्तूक्तहेतुत्वादभ्यासेन प्रतीयेत।। 27।।
SŪअविभागात्तु कर्मणा द्विरुक्तेर्न विधीयते।। 28।।
SŪअन्यार्था वा पुनःश्रुतिः।। 29।।
चतुर्दशाधिकरणमारचयति-
1विषयः
दर्शपूर्णमासप्रोक्त आग्नेयः केवलोऽप्यसौ
दर्शे यदिति वाक्याभ्यां कर्मान्यद्वाऽनुवादगीः
3पूर्वपक्षः
अभ्यासादन्यकर्मत्वं दर्शेष्टौ द्विः प्रयुज्यताम्
एकत्वप्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः
''यदाग्नेयोऽष्टाकपालोऽमावस्यायां पौर्णमास्यां चाच्युतो भवति'' इति कालद्वये विहितम्। ''यदाग्नेयोऽष्टाकपालोऽमावास्यायां भवति'' इत्येकस्मिन्काले पुनर्विहितम्। तत्र- अविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः। तथा सत्याग्नेययागस्य दर्शकाले द्विःप्रयोगः- इति चेत्-
न। प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादकत्वात्। न चानुवादो व्यर्थः। विधेयैन्द्राग्नस्तुत्यर्थत्वात्। यद्यप्याग्नेयोऽष्टाकपालोऽमावास्यायां भवति, तथाऽपि न केवलेनाग्निना साधुर्भवति। इन्द्रसहितोऽग्निः समीचीनतरः। तस्मात्- 'ऐन्द्राग्नः कर्तव्यः' इति विधेयस्तुतिः। प्रयाजवैषम्यं तूक्तमेवानुसंधेयम्।। 33।। 34।।
अत्र पादे अधिकरणानि 14, सूत्राणि 29 ।
आदितः अधिकरणानि 87, सूत्राणि 257।
द्वितीयाध्यायस्य चतुर्थः पादः
नित्यकाम्ययोः प्रयोगयोर्भेदः।
4सिद्धान्तः
इति श्रीमाधवीये जैमिनीयन्यायमालविस्तरे द्वितीयाध्यायस्य तृतीयः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “रथन्तरादीनां कर्मभेदप्रामाण्यापवादः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे, अवेष्टेरन्नाद्यफलकत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]