SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 2, Pāda 2

भेदः

धातुभेदपुनरुक्त्यादिभिः कर्मभेदः

13adhikaraṇas
29sūtras
2.2.1 प्रथमेऽङ्गापूर्वभेदाधिकरणे सूत्रम्
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्।। 1।।

1विषयः

ददाति यजतीत्यादौ भावनैक्यमुतान्यता
आख्यातैक्यात्तदेकत्वं धातुभेदोऽप्रयोजकः

3पूर्वपक्षः

धातुभेदेन भिन्नत्वमाख्याते श्रूयते ततः
उत्पत्त्येकानुरक्तत्वाद्भिद्यन्ते भावना मिथः
द्वितीयपादस्य प्रथमाधिकरणमाचरयति-
इहैकप्रकरणगतान्यपर्यायधातुनिष्पन्नान्याख्यातानि यजति, ददाति, जुहोति, इत्यादीन्युदाहरणम्। तानि चैवं श्रूयते ''सोमेन यजेत'' ''हिरण्यमात्रेयाय ददाति'' ''दाक्षिणानि जुहोति'' इति। तेषु भावनावाचिन आख्यातस्यैकत्वाद्भावनाया एकत्वं युक्तम्।
न च धातुभेदाद्भावनाभेदः। तद्वाचित्वाभावेन धातोस्तस्यामप्रयोजकत्वात्- इति प्राप्ते

4सिद्धान्तः

ब्रूमः- अस्त्वाख्यातमेव भावनायाः प्रयोजकम्
तच्चाख्यातं प्रतिधातु भिन्नम्
न हि बहूनां धातूनामुपर्येक आख्यातप्रत्ययः श्रूयते
नापि व्याकरणे धातुसमूहादेकमाख्यातं विहितम्
तत आख्यातानां बहूनामेकैकधातुविशेषानुरक्तत्वेनैवोत्पन्नानां भावनावाचित्वेन यागदानहोमभावनाः परस्परं भिद्यन्ते।
1
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे (सप्तदशे) व्यवेताननुषङ्गाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्र गुरुमतमाह-

1विषयः

नियोगैकत्वतः शास्त्रमभिन्नमिति चेन्न तत्

3पूर्वपक्षः

धातुभेदाच्छास्त्रभेदे नियोगो भिद्यते बलात्
'कर्मभेदचिन्ता नाध्यायार्थः, किंतु शास्त्रभेदचिन्ता' इति गुरोर्मतम्। तत्र 'यजेत, दद्यात्, जुहुयात्' इत्येतेषु
लिङ्प्रत्ययवाच्यस्य नियोगस्यैकत्वाद्धातूनां नियोगवाचकत्वाभावेनाप्रयोजकत्वादेकनियोगार्थं कृत्स्नं शास्त्रमेकम्- इति पूर्वपक्षः।

4सिद्धान्तः

प्रतिधातु लिङ्प्रत्ययस्य भिन्नत्वाद्धात्वर्थानुबन्धभेदेन तद्विशिष्टे नियोगेऽपि भेदस्य वारयितुमशक्यतया नियोगानुसारि शास्त्रं भिन्नम्- इति सिद्धान्तः
2.2.2 द्वितीये समिदाद्यपूर्वभेदाधिकरणे सूत्रम्
एकस्यैवं पुनःश्रुतिरविशेषादनर्थकं हि स्यात्।। 2।।
द्वितीयाधिकरणमारचयति-

1विषयः

समिधो यजतीत्यादावेकत्वमुत भिन्नता

3पूर्वपक्षः

धातुप्रत्यययोरैक्यादेकत्वं भिन्नता कुतः
दर्शपूर्णमासयोः श्रूयते ''समिधो यजति'' ''तनूनपातं यजति'' ''इडो यजति'' ''बर्हिर्यजति'' ''स्वाहाकारं यजति'' इति। तत्र पञ्चकृत्वः श्रूयमाणे यजतिपदे पूर्वोक्तेषु 'यजति ददाति' इत्यादिपदेष्विव धातुभेदो नास्ति, येन भावनाभेद आशङ्क्येत। तस्मादाख्यातैक्यप्रयुक्तं भावनैक्यमनिवार्यमिति चेत्-
मैवम्। यजतिपदाभ्यासेन कर्मभेदावगमात्। कर्मैकत्वेऽभ्यासो निरर्थकः स्यात्। अथोच्येत ''समिघो यजति'' इत्यनेन प्रथमश्रुतेन वाक्येन विहितं समिन्नामकं यागमुपरितनैश्चतुर्भिर्यजतिपदैरनूद्य तनूनपादादयो देवतारूपा द्रव्यरूपा वा गुणाश्चत्वारो विकल्पिता विधीयन्ते, ततोऽनुवादार्थत्वान्नाभ्यासवैयर्थ्यम्-इति।
तन्न। तनूनपादादिशब्दानां यागनामत्वेन गुणविधित्वाभावात्। न तावदत्र देवताविधिः। चतुर्थीतद्धितयोरश्रवणात्। नापि द्रव्यविधिः, तृतीयान्तत्वाभावात्।
ततः ''अग्निहोत्रं जुहोति'' इत्यादाविव द्वितीयान्तानां युक्तं नामत्वम्। यत्तु- चतुर्णामुपरितानां यजतिपदानामनुवादत्वम्। तदसत्। तेषां विधायकत्वात्। यथा ''समिधो यजति'' इत्यत्र यजतिपदे विधित्वं श्रुत्या प्रतीयते, तथाऽन्येष्वपि चतुर्षु पदेषु विधित्वं श्रौतम्। अनुवादत्वं तु पुरोवादरूपस्य ''समिधो यजति'' इत्यस्य संनिधिनाऽवगम्यते। संनिधिश्च श्रुतेर्दुर्बलः। विधित्वे च पूर्ववाक्यविहितस्य समिन्नामकस्य यागस्य पुनर्विधानायोगात्तनूनपादादिनामकानि यागान्तराणि विधीयन्ते।
नन्वेवं सति संज्ञाभेदात्कर्मभेदः संपद्यते, नत्वभ्यासात्। तथासति वक्ष्यमाणेनाधिकरणेन संकीर्यते। मैवम्। वैषम्यात्। ''अथैष ज्योतिः'' इत्यस्मिन्वक्ष्यमाणोदाहरणे यागावगमात्प्रागे संज्ञात्वावगमात्संज्ञायाः कर्मभेदहेतुत्वम्। इह तु विधायकैर्यजतिपदैर्यागेष्ववगतेषु, भेदे चाभ्यासादवगते, भिन्नानां यागानां समित्संज्ञाया अन्याः संज्ञा अपेक्षिता इति तनूनपादादीनां संज्ञात्वं पश्चादवगम्यते। तस्मात्- अभ्यास एवात्र भेदहेतुः।

4सिद्धान्तः

अभ्यासात्कर्मभेदोऽत्र नामत्वान्न विधिर्गुणे
विधित्वं श्रुतितो भाति संनिधेरनुवादता

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमेऽङ्गापूर्वभेदाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- अस्त्वाख्यातमेव भावनायाः प्रयोजकम् तच्चाख्यातं प्रतिधातु भिन्नम् न हि बहूनां धातूनामुपर्येक आख्यातप्रत्ययः श्रूयते नापि व्याकरणे धातुसमूहादेकमाख्यातं विहितम् तत आख्यातानां बहूनामेकैकधातुविशेषानुरक्तत्वेनैवोत्पन्नानां भावनावाचित्वेन यागदानहोमभावनाः परस्परं भिद्यन्ते। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.3 तृतीय आघाराद्याग्नेयादीनामङ्गाङ्गिभावाधिकरणे सूत्राणि 3 - 8
प्रकरणं तु पौर्णमास्यां रूपावचनात्।। 3।।
विशेषदर्षनाच्च सर्वेषां समेषु ह्यप्रवृत्तिः स्यात्।। 4।।
गुणस्तु श्रुतिसंयोगात्।। 5।।
चोदना वा गुणानां युगपच्छास्त्राच्चोदिते हि तदर्थत्वात्तस्य तस्योपदिश्येत।। 6।।
व्यपदेशश्च तद्वत्।। 7।।
लिङ्गदर्शनाच्च।। 8।।
तृतीयाधिकरणमारचयति-

3पूर्वपक्षः

इदमाम्नायते-''य एवं विद्वान्पौर्णमासीं यजते'' ''य एवं विद्वानमावास्यां यजते'' इति। अत्र यजतिना कर्मान्तरं विधीयते, न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते। आग्नेयादयश्च कालसंयुक्तास्तस्मिन्प्रकरण एवमाम्नायन्ते-
''यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति'' इति,
''तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्'' इति,
''ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्'' इति,
''ऐन्द्रं दध्यमावास्यायाम्'' इति,
''ऐन्द्रं पयोऽमावास्यायाम्'' इति।
एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य, कर्मणोऽन्यत्वे सति पूर्वाधिकरणन्यायेन
विध्यभ्यास उपपद्यते।
न च कर्मान्तरे द्रव्यदेवतयोरभावः, ध्रौवाज्यसद्भावात्। अत एवोक्तम्-
ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी। रूपवन्तौ ततो यागौ विधीयेते पृथक्तया।
इति। ''सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्'' इति ध्रौवस्य साधारणत्वं श्रुतम्। देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम्- ''तस्माद्वार्त्रघ्नी पौर्णमास्यामनूच्येते, वृधन्वती अमावास्यायाम्'' इति वार्त्रघ्न्यौ वृधन्वत्यौ चर्चौ क्रमेण कालद्वयोपेते कर्मणि विधीयेते। तत्र- ''अग्निर्वृत्राणि जङ्घनत्'' इत्येको वार्त्रघ्रो मन्त्रः। 'त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा' इत्यपरः। तयोरुक्तावग्नीषोमौ पौर्णमासदेवते। एवमन्तराम्नातयोर्वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावस्यादेवते। आभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते। षड्यागानुवादत्वे तदनुवादेव विधेयान्तरस्य कस्यचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात्। न केवलं तदानर्थक्यम्, किंतु ''पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावास्यया यजेत'' इत्येतदपि व्यर्थं स्यात्। न चैतत्कालविधायकम्, ''यदाग्नेयः--'' इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात्। कर्मान्तरत्वे तु कालं विधास्यति। तस्मात्कर्मान्तरविधिः- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- आस्तां तावद्द्रव्यम्। देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते। वार्त्रघ्न्योर्वृधन्वत्योश्चाज्यभागदेवताप्रतिपादकत्वात्। हौत्रे मन्त्रकाण्डे सामिधेनीरावाहननिगदं प्रयाजमन्त्रांश्चाम्नाय प्रयाजानन्तरभाविनोराज्यभागयोः क्रमे वार्त्रघ्न्यौ वृधन्वत्यौ चाम्नाते। लिङ्गं चाग्निविषयं सोमविषयं च तत्रोपलभ्यते। ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते। यत्तु ''वार्त्रघ्नी पौर्णमास्याम्'' इत्यादि वाक्यम्, तल्लिङ्गक्रमक्लृप्तयोराज्यभागाङ्गयोर्मन्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे। न तु नूतनकर्माङ्गतामनयोर्विदधाति। अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति, किं तर्हि पूर्वप्रकृतेष्वाग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदायावनुवदति। न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः। तत्कालविहितयोर्याग त्रिकयोरुपलक्षितत्वात्। न चानुवादो व्यर्थः। समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात्। तत्सिद्धौ च ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इत्यस्मिन्फलवाक्ये षड्यागविवक्षया द्विवचननिर्देश उपपद्यते। यदप्युक्तम्- अनुवादपक्षे 'पौर्णमास्याम्' इत्यादिवाक्यवैर्थ्यम्- इति। तदयुक्तम्। कालविधानासंभवेऽप्येकस्य त्रिकस्य सहप्रयोगविधानात्। आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सहप्रयोगः 'पोर्णमास्या' इत्यनेन तृतीयैकवचनान्तेन विधीयते। एवमितरत्रापि।
ननु- विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावेऽपि नानुवादकत्वम्। तस्य यागाविधायकत्वाभ्युपगमात्। 'आग्नेयोऽष्टाकपालः' इत्यादिवाक्यानि तु विहितयागानुवादेन द्रव्यदेवतालक्षणगुणविधायकानि- इति चेत्-
न। तथासत्येकेन वाक्येनानेकगुणविध्यसंभवात्। प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत। आग्नेयादिवाक्यानां विधायकत्वे तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः। तस्मादाग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवादकम्। किंचानुवादत्वमनभ्युपगम्य कर्मान्तरविधिं वदतः प्रयाजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत्। तथा हि ''समिधो यजति'' ''आघारमाघारयति'' इत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः। ''यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां च'' इत्यादयः कालयुक्ता अपरे। तेषामुभयेषां प्रकृतत्वात् ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति वाक्ये सर्वेषां फलसंबन्धो बोधनीयः। 'दर्शपूर्णमासाभ्याम्' इति द्विवचनं बहुवचनत्वेन परिणेतव्यम्। विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेति। एतेषु द्वित्वासंभवात्। सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात्। तदभावे चानङ्गत्वात्सौर्यादिविकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात्। अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात्, समुदायद्वित्वेन द्विवचनार्हत्वाच्चाग्नेयादीनामेव फलसंबन्धेन प्राधान्यम्। प्रयाजादीनां तु गुणभाव इति न कोऽपि दोषः। तस्मात्- विद्वद्वाक्यमनुवादकम्।। 6।। 7।। 8।। 9।। 10।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये समिदाद्यपूर्वभेदाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अभ्यासात्कर्मभेदोऽत्र नामत्वान्न विधिर्गुणे विधित्वं श्रुतितो भाति संनिधेरनुवादता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.4 चतुर्थ उपांशुयाजापूर्वताधिकरणे सूत्राणि 9- 12
पौर्णमासीवदुपांशुयाजः स्यात्।। 9।।
चोदना वाऽप्रकृतत्वात्।। 10।।
गुणोपबन्धात्।। 11।।
प्राये वचनाच्च।। 12।।
चतुर्थाधिकरणमारचयति-

1विषयः

उपांशुयाजमित्येषोऽनुवादोऽत्राथवा विधिः
विष्ण्वादिवाक्ये विस्पष्टविधेरस्यानुवादता

3पूर्वपक्षः

जामित्वोक्तेरन्तराल उपांशुगुणके विधौ
सत्यर्थवादो विष्ण्वादिस्तद्रूपं ध्रौवमन्त्रतः
इदमाम्नायते ''जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावपांशुयाजमन्तरा यजति। विष्णुरुपांशु यष्टव्योऽजामित्वाय। प्रजापतिरुपांशु यष्टव्योऽजामित्वाय। अग्नीषोमावुपांशु यष्टव्यावजामित्वाय''- इति। तत्र विष्ण्वादिवाक्येषु विहितस्य यागत्रयसमुदायस्यानुवादः- इति चेत्-
मैवम्। आग्नेयाग्नीषोमीयपुरोडाशद्वयनैरन्तर्यकृतस्य जामित्वदोषस्य वाक्योपक्रम उपन्यासात्परोडाशयोरन्तराले किंचिद्विधित्सितम्। न ह्यन्तरालगुणविशिष्टं विधेयं विष्ण्वादिवाक्येषु प्रतीयते। पूर्ववाक्ये तु तत्प्रतीयत इति विधायकं तद्वाक्यम्।
न चात्र 'यजति' इति वर्तमानापदेशः शङ्कनीयः। पञ्चमलकारस्याश्रयणात्। अन्तरालकालवदुपांशुत्वगुणस्यापि विशेषणत्वात्तद्विशिष्टकर्मण उपांशुयाजनामकत्वम्। सत्येवं गुणद्वयविशिष्टकर्मण्याद्येन वाक्येन विहिते विष्ण्वादिवाक्यमर्थवादः स्यात्।
न चात्र विहितयागानुवादेन देवताविधिः शङ्कनीयः। समाधातव्येन जामित्वदोषेणोपक्रमात्, अजामित्वेन समाधानेनोपसंहाराच्च 'जामि वै' इत्यादेः 'अजामित्वाय' इत्यन्तस्य सर्वस्यमहावाक्यस्यैकत्व प्रतीतेः।
न खल्वेकस्मिन्वाक्ये विधेयबाहुल्यं संभवति।
न चात्र विधित्सितस्योपांशुयाजस्य द्रव्याभावः।ध्रौवस्य तद्द्रव्यत्वात्।

4सिद्धान्तः

नापि देवताया अभावः, नानाशाखासूपांशुयाजक्रमे पठितैर्वैष्णवप्राजापत्याग्नीषोमीयमन्त्रैर्विकल्पेन देवतात्रयस्य प्रतीयमानत्वात्
तस्मात्- यजतीत्येतद्विधायकम् ।
11

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीय आघाराद्याग्नेयादीनामङ्गाङ्गिभावाधिकरणे सूत्राणि 3 - 8”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.5 पञ्चम आघाराद्यपूर्वताधिकरणे सूत्राणि 13- 16
आघाराग्निहोत्रमरूपत्वात्।। 13।।
संज्ञोपबन्धत्वात्।। 14।।
अप्रकृतत्वाच्च।। 15।।
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्, तत्संनिधेर्गुणार्थेन पुनः श्रुतिः।। 16।।
पञ्चमाधिकरणमारचयति--

1विषयः

अग्निहोत्राघारवाक्यमनुवादोऽथवा विधिः
अरूपत्वात्तु दध्यूर्ध्ववाक्येनोक्तमनूद्यते

3पूर्वपक्षः

गुण्यसिद्धौ न दध्यादिर्गुणो दुष्टा विशिष्टता
रूपं दध्यादिमन्त्राभ्यामतोऽसौ गुणिनो विधिः
इदमाम्नायते ''अग्निहोत्रं जुहोति'' ''दध्ना जुहोति'' ''पयसा जुहोति'' इति च। इदमपरमाम्नायते- ''आधारमाघारयति'' ''ऊर्ध्वमाघारयति'' ''ऋजुमाघारयति'' इति च। तत्राग्निहोत्रवाक्यं दध्यादिवाक्यविहितस्य कर्मसमुदायस्यानुवादः, आघारवाक्यं चोर्ध्वादिवाक्यविहितस्य। न त्वेतद्वाक्यद्वयं कर्मविधायकम्। कुतः- द्रव्यदेवतालक्षणस्य यागरूपस्याभावात्- इति चेत्-
तत्र वक्तव्यम्- किं दध्यादिवाक्येन गुणमात्रं विधीयते, किंवा गुणविशिष्टकर्म। नाद्यः। अग्निहोत्रादिवाक्यस्य त्वन्मते कर्मविधायकत्वाभावेन गुणिनः कस्यचिदसिद्धौ गुण्यनुवादपुरःसरस्य गुणमात्रविधानस्यासंभवात्।

4सिद्धान्तः

द्वितीये विधिगौरवं स्यात्
तच्च सत्यां गतावयुक्तम्
अतोऽग्निहोत्रादिवाक्यं कर्मविधायकम्
तत्र द्रव्यं दध्यादिवाक्यैर्लभ्यते
देवता तु मान्त्रवर्णिकी
आघारेऽप्येवं द्रव्यदेवते उन्नेतव्ये।
13

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थ उपांशुयाजापूर्वताधिकरणे सूत्राणि 9- 12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नापि देवताया अभावः, नानाशाखासूपांशुयाजक्रमे पठितैर्वैष्णवप्राजापत्याग्नीषोमीयमन्त्रैर्विकल्पेन देवतात्रयस्य प्रतीयमानत्वात् तस्मात्- यजतीत्येतद्विधायकम् । 11”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.6 षष्ठे पशुसोमापूर्वताधिकरणे सूत्राणि 17-20
द्रव्यचोदना पशुसोमयोः, प्रकरणे ह्यनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन।। 17।।
अचोदकाश्च संस्काराः।। 18।।
तद्भेदात्कर्मणोऽभ्यासो द्रव्यपृथक्त्वादनर्थकं हि स्याद्भेदोद्रव्यगुणीभावात्।। 19।।
संस्कारस्तु न भिद्येत, परार्थत्वाद्द्रव्यस्य गुणभूतत्वात्।। 20।।
षष्ठाधिकरणमारचयति-

1विषयः

यजत्यालभतीत्येतावनुवादौ विधी उत

3पूर्वपक्षः

गृह्णात्यवद्यतीत्याभ्यां विहितेऽर्थेऽनुवादिनौ
''सोमेन यजेत'' इति श्रूयते। तत्र ''ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति'' इत्यादीन्यपि श्रुतानि। एवम् ''अग्निषोमीयं पशुमालभेत'' इति श्रूयते। तत्र ''हृदयस्याग्रेऽवद्यति। अथ जिह्वायाः। अथ वक्षसः'' इत्यादीन्यपि श्रुतानि। तत्रैन्द्रवाय्वादिवाक्यैर्यागा विधीयन्ते। इन्द्रवाय्वादिप्रातिपदिकैर्देवतानां, तद्धितेन सोमरसद्रव्यस्य च प्रतीयमानत्वात्। एतेषां ग्रहणवाक्यविहितानां यागानां समुदायः ''सोमेन यजेत'' इत्यनेनानूद्यते। तथाऽवदानवाक्येषु हृदयादिद्रव्यं श्रुतम्। ततो द्रव्यविशिष्टा यागास्तत्र विधीयन्ते। तदनुवादेन पश्वालम्भवाक्येऽग्नीषोमरूपा देवता विधीयते। तस्मात्- अवदानवाक्यविहितानां यागानां समुदायः- ''पशुमालभेत'' इत्यनेनानूद्यते- इति प्राप्ते-

4सिद्धान्तः

नानुवादोऽपुरोवादे यज्यालभ्योरतो विधिः
ग्रहणे सोमसंस्कारोऽवदाने पशुसंस्क्रिया
ब्रूमः- सति हि पुरोवादेऽनुवादो भवति। न चात्र पुरोवादोऽस्ति। ''सोमेन यजेत'' इत्यनेन प्रतीतस्यार्थस्य ग्रहणवाक्येष्वप्रतीतेः। नहि ग्रहणं यजनं भवति। नापि तद्धितप्रत्ययोक्तो रसः सोमलता।
न च तद्धितप्रत्ययः सर्वनामार्थे विहितः प्रकृतं ब्रूते, न तु रसम्- इति शङ्कनीयम्।''धारया गृह्राति'' इति रसस्यैव प्रकृतत्वात्। तथा ''पशुमालभेत'' इत्यनेन प्रतीतोऽर्थो नावदानवाक्येषु प्रतीयते। ततः पुरोवादाभावेनानुवादासंभवाद्यजत्यालभतिभ्यां कर्मणी विधीयेते। ग्रहणवाक्यैस्तु देवताविशिष्टः सोमसंस्कारो विधीयते। अवदानवाक्यैश्च पशुसंस्कारः।। 14।। 16।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चम आघाराद्यपूर्वताधिकरणे सूत्राणि 13- 16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “द्वितीये विधिगौरवं स्यात् तच्च सत्यां गतावयुक्तम् अतोऽग्निहोत्रादिवाक्यं कर्मविधायकम् तत्र द्रव्यं दध्यादिवाक्यैर्लभ्यते देवता तु मान्त्रवर्णिकी आघारेऽप्येवं द्रव्यदेवते उन्नेतव्ये। 13”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.7 सप्तमे संख्याकृतकर्मभेदाधिकरणे सूत्रम्
पृथक्त्वनिवेशात्संख्यया कर्मभेदः स्यात्।। 21।।
सप्तमाधिकरणमारचयति--

3पूर्वपक्षः

''तिस्त्र आहुतीर्जुहोति'' इति श्रूयते। तत्र 'जुहोति' इत्येतदाख्यातं 'समिधो यजति' इत्यादिवन्नाभ्यस्तम्, किंतु सकृदेवाम्नातम्। तत एकमिदं कर्म। त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या। यथा प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता, तद्वत्- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम्। नाद्यः। वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात्। द्वितीये त्रित्वसंख्यया विशेषितेनाख्यातेन कर्मबहुत्वं गम्यते। प्रयाजानां तु पूर्वमेव पञ्चसंख्यावरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम्। इह त्वेतद्विधितः पूर्वं कर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम्।
तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते, कर्मवाचिन आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात्। इदं त्वत्रोदाहरणम्- ''सप्तदश प्राजापत्यान्पशूनालभते'' इति। अत्र 'प्रजापत्तिर्देवता येषां पशूनां ते प्राजापत्याः' इति तद्धितव्युत्पत्तौ बहुत्वोपोताः पशव एकं द्रव्यम्। ततो द्रव्यैक्याद्देवतैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म। या तु 'सप्तदश' इति संख्या, सा पशुद्रव्यगता, न तु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता। तस्मात्- 'न कर्मभेदमापादयति' इति प्राप्ते-
ब्रूमः-अत्र 'प्रजापतिर्देवता यस्य पशोः स प्राजापत्यः' इति तद्धितान्तं प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपादिकार्थस्य प्रजापतिदेवताविशिष्टपशोः कर्मत्वबहुत्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्तिबहुवचने। तत्र प्रथमभाविन्या द्वितीयाविभक्तेरेव तद्धितोत्पत्तिवेलायामन्वयो नास्ति, कुतः पश्चाद्भाविनो बहुवचनस्यान्वयः। एवं सति 'प्राजापत्यः' इत्यनेन तद्धितान्तप्रातिपदिकेनैकपशुद्रव्यमेकदेवतोपेतं यागस्य रूपं समर्प्यते। तादृशानां रूपाणां बहुत्वाय बहुवचनम्। बहुत्वविशेषश्च 'सप्तदशः' इति निर्दिश्यते। तस्मात्- अत्र संख्यया कर्मभेदः। एवं च सति, अष्टमे वक्ष्यमाणं सप्तदशपशूनामैकादशिनपशुगणविकृतित्वम् उपपद्यते।। 17।। 18।। 19।। 20।। 21।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे पशुसोमापूर्वताधिकरणे सूत्राणि 17-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नानुवादोऽपुरोवादे यज्यालभ्योरतो विधिः ग्रहणे सोमसंस्कारोऽवदाने पशुसंस्क्रिया”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.8 अष्टमे संज्ञाकृतकर्मभेदाधिकरणे सूत्रम्
संज्ञा चोत्पत्तिसंयोगात्।। 22।।
अष्टमाधिकरणमारचयति-

1विषयः

अथैष ज्योतिरित्यत्र गुणो वा कर्म वा पृथक्

3पूर्वपक्षः

गुणः सहस्रदानात्मा ज्योतिष्टोमे ह्यनूदिते
''अथैष ज्योतिः, अथैष विश्वज्योतिः, अथैष सर्वज्योतिः, अनेन सहस्त्रदक्षिणेन यजेत'' इति श्रूयते। अत्र प्रकृतं ज्योतिष्टोमम् 'एष ज्योतिः' इत्यनूद्य तस्मिन्सहस्त्रदानलक्षणो गुणो विधीयते- इति चेत्-
न। प्रकृतस्य ज्योतिष्टोमस्य 'अथ' इत्यनेन विच्छिन्नत्वात्।
न चैवं सति 'अथैष ज्योतिः' इत्युक्त एतच्छब्दोऽनुपपन्न इति वाच्यम्। संनिहितवाचिनैतच्छब्देनातीतसंनिहितस्येवागामिसंनिहितस्यापि परामर्शसंभवात्। आगामिसंनिहितश्च ज्योतिः शब्दार्थः। स च ज्योतिःशब्दोऽतीतमपरामृशन्नपूर्वसंज्ञारूपत्वान्नूतनं किंचित्कर्माभिधत्ते। ततो यथा पूर्वत्र संख्यया कर्मभेदः, तथाऽत्रापि संज्ञया कर्म भिद्यते। विश्वज्योतिः सर्वज्योतिः शब्दयोरप्ययं न्यायो द्रष्टव्यः।। 22।। 23।।

4सिद्धान्तः

अथेति प्रकृते छिन्न एतच्छब्दोऽग्रगं वदेत्
संख्ययेवान्यकर्मत्वमिह नूतनसंज्ञया

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे संख्याकृतकर्मभेदाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.9 नवमे देवताभेदकृतकर्मभेदाधिकरणे सूत्रम्
गुणश्चापूर्वसंयोगे वाक्ययोः समत्वात्।। 23।।
नवमाधिकरणमारचयति-

1विषयः

गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति
गुणो देवाननूद्योक्तसमुच्चयविकल्पतः

3पूर्वपक्षः

आमिक्षोत्पत्तिशिष्टत्वात्प्रबला तत्र वाजिनम्
गुणोऽप्रविश्य कर्मान्यत्कल्पयेद्वाजिदेवकम्
''तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्'' इति श्रूयते। घनीभूतः पयःपिण्ड आमिक्षा, जलं वाजिनम्। तत्र- आमिक्षाद्रव्यभाजो ये विश्वेदेवा उक्ताः, ते 'वाजिभ्यः' इत्यनेनानूद्यन्ते। 'वाजोऽन्नमामिक्षारूपमेषामस्ति' इति तन्निष्पत्तेः। ताननूद्य वाजिनद्रव्यरूपो गुणो विधीयते। तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीयतां विकल्प्यतां वा, इति प्राप्ते

4सिद्धान्तः

ब्रूमः- उत्पत्तिशिष्टेनामिक्षाद्रव्येणावरुद्धे वैश्वदेवयागे वाजिनद्रव्यस्योत्पन्नशिष्टस्य प्रवेशाभावाद्वाजिनं वाजिशब्दार्थस्य देवतान्तरत्वमापादयति
ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात्कर्मान्तरम्।
24
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे संज्ञाकृतकर्मभेदाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अथेति प्रकृते छिन्न एतच्छब्दोऽग्रगं वदेत् संख्ययेवान्यकर्मत्वमिह नूतनसंज्ञया”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.10 दशमे द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणे सूत्रम्
अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत।। 24।।
दशमाधिकरणमारचयति-

1विषयः

दधिहोमेऽन्यकर्मत्वं गुणो वाऽन्यत्तु पूर्ववत्
निर्गुणत्वादग्निहोत्रे युक्तो दध्यादिको गुणः

3पूर्वपक्षः

''दध्ना जुहोति'' इति श्रूयते। तत्र ''अग्निहोत्रं जुहोति'' इत्येतस्मात्प्रकृतात्कर्मणोऽन्यद्दधिहोमरूपं कर्म- इति पूर्वन्यायेनावगम्यते। यथा पूर्वत्र वाजिनद्रव्येण कर्म भिद्यते, तथा दधिद्रव्येणेति चेत्-
न। वैषम्यात्। यथा वैश्वदेवो याग आमिक्षागुणावरुद्धः, तथाऽग्निहोत्रं न गुणान्तरावरुद्धम्। प्रत्युत- निर्गुणत्वाद्गुणमाकाङ्क्षति। तस्मादयं गुणविधिः। एवं ''पयसा जुहोति'' इत्यादिषु द्रष्टव्यम्। पयोदध्यादीनां सर्वेषामुत्पन्नशिष्टतायां समबलत्वादेकैकेन द्रव्येणाग्निहोत्रनिष्पत्तेश्च व्रीहियववद्विकल्पः।। 26।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे देवताभेदकृतकर्मभेदाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- उत्पत्तिशिष्टेनामिक्षाद्रव्येणावरुद्धे वैश्वदेवयागे वाजिनद्रव्यस्योत्पन्नशिष्टस्य प्रवेशाभावाद्वाजिनं वाजिशब्दार्थस्य देवतान्तरत्वमापादयति ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात्कर्मान्तरम्। 24”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.11 एकादशे दध्यादिद्रव्यसफलत्वाधिकरणे सूत्रे 25- 26
फलश्रुतेस्तु कर्म स्यात्फलस्य कर्मयोगित्वात्।। 25।।
अतुल्यत्वात्तु वाक्ययोर्गुणे तस्य प्रतीयेत।। 26।।
एकादशाधिकरणमारचयति--

1विषयः

यद्दघ्नेन्द्रियकामस्य जुहुयादिति तत्पृथक्

3पूर्वपक्षः

गुणो वा भिद्यते कर्म धात्वर्थस्य फलित्वतः
''दध्नेन्द्रियकामस्य जुहुयात्'' इति श्रूयते। तदिदं प्रकृतादग्निहोत्रादन्यत्कर्म। नत्वत्र द्रव्यविधिः। कुतः- 'इन्द्रियकामस्य' इत्यक्तस्य फलस्य धात्वर्थमन्तरेण द्रव्यमात्रादनिष्पत्तेः-इति चेत्-
नैवम्। कर्मान्तरविधौ 'दधिमता होमेनोन्द्रियं भावयेत्' इति मत्वर्थलक्षणाप्रसङ्गात्। गुणविशिष्टक्रियाविधौ, गौरवात्। प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गाच्च। गुणमात्रं तु फलाय विधीयते। यद्यपि 'दध्ना जुहोति' इति प्राप्तम्। तथाऽपि फलसंबन्धो न प्राप्तः। धात्वर्थाभावे फलासंभव इति चेत्- न। ''अग्निहोत्रं जुहोति'' इति विहितस्य धात्वर्थस्यानूद्यमानत्वात्।। 27।। 28।।

4सिद्धान्तः

मत्वर्थगौरवादिभ्यो नान्यत्कर्म फलाय तु
गुणे विधेये धात्वर्थो विहितत्वादनूद्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.12 द्वादशे वारवन्तीयादीनां कर्मान्तरताधिकरणे सूत्रम्
समेषु कर्मयुक्तं स्यात्।। 27।।
द्वादशाधिकरणमारचयति--

1विषयः

उक्त्वाऽग्निष्टुतमेतस्य वारवन्तीयसाम हि
रेवतीष्वृक्षु कृत्वेति श्रुतं पशुफलाप्तये

3पूर्वपक्षः

रेवत्यादिगुणः कर्म पृथग्वा पूर्ववद्गुणः
रेवतीवारवन्तीयसंबन्धाख्यः पशुप्रदः
''त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वृक्ष्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत'' इत्यस्य संनिधौ श्रूयते ''एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत'' इति। अस्यायमर्थः- अग्निष्टोमस्य विकृतिरूपः कश्चिदेकाहोऽग्निष्टुन्नामकः। स च पृष्ठस्तोत्रे त्रिवृत्सोमयुक्ततया 'त्रिवृत्' इत्युच्यते। अग्निष्टोमोक्थादीनां सप्तानां सोमसंस्थानां मध्येऽग्निष्टोमसंस्थारूपत्वात् 'अग्निष्टोमः' इत्यप्युच्यते। प्रकृतौ तृतीयसवन आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते। तेन च साम्नाऽग्निष्टोमयागस्य समाप्यमानत्वात् 'अग्निष्टोमसाम' इत्युच्यते। तच्च प्रकृतौ ''यज्ञायज्ञा वो अग्नयः'' इत्याद्याग्नेयीष्वृक्षु गीयते। अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत्साम गातव्यम्। तञ्च प्रकृताविवैकविंशस्तोमयुक्तम्। पशुकामस्य तु ''रेवतीर्नः सधमादः''- इत्यादिषु रेवतीष्वृक्षु वारवन्तीयं साम गायेत्, इति। तत्र रेवतीनामृचां वारवन्तीयनामकेन साम्ना यः संबन्धः, सोऽयं पशुफलायाग्निष्टुति विधीयते। 'एतस्यैव' इति प्रकृतपरामर्शकेनैतच्छब्देन, अन्यव्यावर्तकेनैवकारेण चाग्निष्टुतः समर्प्यमाणत्वात्। यथा पूर्वाधिकरण इन्द्रियफलाय प्रकृतेऽग्निहोत्रे दधिगुणो विहितः,तद्वत्। इति प्राप्ते-

4सिद्धान्तः

साम्नोऽत्र फलकर्मभ्यां संबन्धे वाक्यभिन्नता
तेनोक्तगुणसंयुक्तमन्यत्कर्मोच्यते फले
ब्रूमः-विषमो दृष्टान्तः। दध्नो होमजनकत्वं न शास्त्रेण बोधनीयम्। तस्य लोकतोऽवगन्तुं शक्यत्वात्। फलसंबन्ध एक एव शास्त्रबोध्य इति न तत्र वाक्यभेदः। इह तु- रेवत्यृगाधारकवारवन्तीयसाम्नोऽग्निष्टुत्कर्मसाधनत्वं फलसाधनत्वं चेत्युभयस्य शास्त्रैकबोध्यत्वाद्दुर्वारो वाक्यभेदः। तेन पशुफलकं यथोक्तगुणविशिष्टं कर्मान्तरमत्र विधीयते। एतच्छब्द एवकारश्च विधीयमानकर्मान्तरविषयतया योजनीयौ।। 29।। 30।। 31।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे दध्यादिद्रव्यसफलत्वाधिकरणे सूत्रे 25- 26”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मत्वर्थगौरवादिभ्यो नान्यत्कर्म फलाय तु गुणे विधेये धात्वर्थो विहितत्वादनूद्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.13 त्रयोदशे सौभरनिधनयोः कामैक्याधिकरणे सूत्रे 28- 29
सौभरे पुरुषश्रुतेर्निधनं कामसंयोगः।। 28।।
सर्वस्य वोक्तकामत्वात्तस्मिन्कामश्रुतिः स्यात्, निधनार्था पुनःश्रुतिः।। 29।।
त्रयोदशाधिकरणमारचयति-

3पूर्वपक्षः

''यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, सर्वे वै कामाः सौभरे'' इति समाम्नाय पुनः समाम्नातम्- ''हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामाय'' इति। सौभरं नाम सामविशेषः। निधनं नाम पञ्चभिः सप्तभिर्वा भागैरुपेतस्य साम्नोऽन्तिमो भागः। तस्मिन्निधने हीषादयो विशेषाः सौभरसामसाध्यस्तोत्रफलेभ्यो वृष्ट्यादिभ्योऽन्यानि वृष्ट्यादिफलानि जनयितुं विधीयन्ते। कुतः- हीषादिविधिवाक्ये 'वृष्टिकामाय' इत्यादिना चतुर्थीश्रवणात्। तादर्थ्यं ब्रुवती [चतुर्थी] हीषादीनां वृष्ट्यादिकामपुरुषशेषत्वं गमयति। तच्छेषत्वं च पुरुषाभिलषितफलसाधनत्वे सत्युपपद्यते। ततः सौभरस्य हीषितिनिधनविशेषस्य च फलभूते द्वे वृष्टी भवतः। तदुभयमेलनान्महती वृष्टिः- इति प्राप्ते-

4सिद्धान्तः

ब्रूमः-सौभरविधौ यो वृष्ट्यादिकामः स एव हीषादिविधौ प्रत्यभिज्ञायते। ततः सौभरस्य फलभूता ये वृष्ट्यादयः, त एव हीषादिवाक्येष्वनूद्यन्ते, इति न फलान्तरम्। अथोच्येत- नूतनफलान्तराभावात्, हीषादीनां च नानाशाखाध्ययनादेव सौभरे प्राप्तत्वादनर्थकोऽयं विधिः- इति। तन्न। फलत्रयकामानां त्रयाणामनियमेनैव हीषादिषु मध्ये यस्य कस्यचिन्निधनस्य प्राप्तौ विधेर्नियमार्थत्वात्। तादर्थ्यं तु फलान्तराभावेऽपि सौभरवाक्योक्तवृष्ट्यादिफलसाधने सौभरे हीषादीनां नियम्यमान त्वादुपपद्यते। तस्मात्- अयं निधनविशेषनियमनविधिः।। 32।। 33।। 34।। 35।।
अत्र पादे अधिकरणानि 13, सूत्राणि 29।
आदितः अधिकरणानि 73, सूत्राणि228।
द्वितीयाध्यायस्य तृतीयः पादः
रथन्तरादीनां कर्मभेदप्रामाण्यापवादः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “धातुभेदपुनरुक्त्यादिभिः कर्मभेदः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे वारवन्तीयादीनां कर्मान्तरताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “साम्नोऽत्र फलकर्मभ्यां संबन्धे वाक्यभिन्नता तेनोक्तगुणसंयुक्तमन्यत्कर्मोच्यते फले”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 2, Pāda 1 Contents Adhyāya 2, Pāda 3 →