2.1.1
प्रथमेऽपूर्वस्याख्यातप्रितिपाद्यत्वाधिकरणे सूत्राणि 1- 4
SŪभावार्थाः कर्मशब्दाः, तेभ्यः क्रिया प्रतीयेत, एष ह्यर्थो विधीयते।। 1।।
SŪसर्वेषां भावोऽर्थ इति चेत्।। 2।।
SŪयेषामुत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस्तानि नामानि, तस्मात्तेभ्यः पराकाङ्क्षा भूतत्वात्स्वे प्रयोगे।। 3।।
SŪयेषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते तान्याख्यातानि, तस्मात्तेभ्यः प्रतीयेताश्रितत्वात्प्रयोगस्य।। 4।।
द्वितीयाध्यायस्य प्रथमे पादे प्रथमाधिकरणे प्रथमं वर्णकमारचयति-
1विषयः
विधिवाक्ये पदैः सर्वैरपूर्वं प्रतिपाद्यते
प्रत्येकमथवैक्येन सर्वैस्तत्प्रतिपादनम्
3पूर्वपक्षः
फलान्वयित्वात्सर्वेषां प्रधानान्वयलाभतः
लाघवादेकबोध्यत्वं तच्छेषस्तु पदान्तरम्
विधिवाक्यमदृष्टार्थमखिलमत्रोदाहरणम। विधिवाक्ये यावन्ति पदानि सन्ति तानि सर्वाणि क्रियाकारकसंबन्धमनादृत्य प्रत्येकमपूर्वस्य प्रतिपादकानि। कुतः- अपूर्वस्य फलत्वेन सर्वेषां पदानां फलान्वयित्वात। अपूर्वप्रतिपादनाभावेऽपि क्रियाकारकयोः परस्परान्वयोऽस्त्येवेति चेत्- सत्यम्। तथाऽपि प्रधानान्वयो लभ्येत। फलं हि प्रधानम्। पुरुषार्थतया साध्यमानत्वादिति प्राप्ते-
4सिद्धान्तः
न च धर्मभेदचिन्तां प्रस्तुतां परित्यज्य किमित्यपूर्वं चिन्त्यत इति वाच्यम्
अपूर्वस्यैव धर्मत्वात्।
2
ब्रूमः- अपूर्वस्यान्त्यन्तमदृष्टत्वादेककल्पनयैव वाक्यस्योपपत्तावनेककल्पने गौरवं स्यात्। तस्मादेकमपूर्वमेकेन शब्देन प्रतिपाद्यते। पदान्तरं तु तच्छेषतयाऽन्वेति।
ननु यस्य पदस्यार्थोऽपूर्वस्य कल्पकस्तत्पदार्थस्य फलसाधनतया फलं प्रत्युपादेयत्वविधेयत्वगुणत्वान्यभ्युपगन्तव्यानि। तथा तस्यैव शेषभूतपदान्तरार्थे प्रत्युद्देश्यत्वानुवाद्यत्वप्रधानत्वा नामपि प्राप्तत्वाद्विरुद्धत्रिकद्वयापत्तिरिति चेत्- मेवम्।
''उद्भिदा यजेत पशुकामः'' ''श्येनेनाभिचरन्यजेत'' इत्यादावुद्भिदादिशब्दानां नामत्वेनात्वये सति यागसाधनवाचित्वाभावेन यजतावुद्देश्यत्वादित्रिकापादकत्वाभावात्। तस्मादेकमेव पदमपूर्वप्रतिपादकम्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे सामर्थ्येनाव्यवस्थितानां व्यवस्थाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयं वर्णकमारचयति-
3पूर्वपक्षः
इदमाम्नायते- ''सोमेन यजेत'' ''हिरण्यमात्रेयाय ददाति'' ''तस्मात्सुवर्णे हिरण्यं धार्यम्'' ''श्येनेनाभिचरन्यजेत'' ''चित्रया यजेत पशुकामः'' इत्यादि। तत्र सोमहिरण्यशब्दौ द्रव्यवाचिनौ, सुवर्णशब्दो गुणवाची, श्येनचित्राशब्दौ कर्मवाचिनौ। तैरेतैर्द्रव्यादिशब्दैरपूर्वं प्रत्येति कुतः- द्रव्यादीनां सिद्धरूपाणां साध्यं फलं प्रति साधनत्वसंभवात्। यागदानादिरूपस्तु भावार्थः स्वयमपि फलवत्साध्यरूपत्वान्न साधनं भवितुमर्हति। ततो द्रव्यादीनां फलं प्रति करणत्वाद्द्रव्यादिशब्दा अपूर्वप्रत्यायका इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- क्रियां विना द्रव्याणि फलं साधयितुं न क्षमन्ते। पचिक्रियामन्तरेण काष्ठस्थाल्यादीनामोदनसाधकत्वादर्शनात्। अतो भावनावाचिना यजति ददातीत्याख्यातेनापूर्वं प्रतीयते।
ननु धात्वर्थ एव भावना, तदन्या वा। न तावद्धात्वर्थः। तस्य तां प्रति करणत्वोक्तेः। न द्वितीयः। धात्वर्थव्यतिरिक्तायाः क्रियाया दुर्लक्ष्यत्वादिति चेत्-
मैवम्। सर्वधात्वर्थसम्बद्धस्य करोतिरूपस्य लक्षयितुं शक्यत्वात्। तदुक्तमाचार्यैः-
धात्वर्थव्यतिरेकेण यद्यप्येषा न लक्ष्यते। तथाऽपि सर्वसामान्यरूपेणैवावगम्यते। इति।
अन्यैरप्युक्तम्-
सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः। अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी। इति ।
'पचति' इत्युक्ते 'पाकं करोति' इत्येतमर्थं सर्वे जनाः प्रतियन्ति। तत्र 'पाकः, पक्तिः, पचनम्' इत्येतैः शब्दैर्व्यवह्रियमाणो लिङ्गकारकसंख्यायोग्यो धात्वर्थः सिद्धस्वभावः। 'करोति' इत्यनेन व्यवह्रियमाणो लिङ्गाद्यपेतः साध्यस्वभावद्योतनायाख्यातप्रत्ययविधिः। स चाख्यातप्रत्ययार्थ ओदनोत्पत्तेरनुकूलः। ततो भवितुरोदनस्य प्रयोजकव्यापारत्वाण्णिजन्तेन भावनाशब्देनोच्यते- इति।
अन्ये भावनापक्षा अयुक्ताः।प्रयत्नो भावनेति चेत्- न। 'रथो गच्छति' इत्यत्र तदभावप्रसङ्गात्। स्पन्द इति चेत्- न। मानसत्यागरूपे यजतावव्याप्तेः।
उभयसाधारणमुदासीनत्वविच्छेदसामान्यं भावनेति चेत्- न। शब्दभावनायामव्याप्तिः। न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वाऽस्ति। लिङ्-लेट्-लोट्तव्यप्रत्ययमात्रगता शब्दभावना। सर्वाख्यातगताऽर्थभावना। तदुक्तम्-
अभिधां भावनामाहुरन्यामेव लिङादयः। अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते। इति।।
किञ्च स्पन्दादिवादिनोऽपि न स्वरूपेण स्पन्दादीनां भावनात्वमाहुः, किन्त्वन्योत्पादानुकूलं स्वरूपम्। तस्मादस्मदुक्तैव भावना। यथा 'पचति', इत्यत्रौदनफलोत्पत्त्यनुकूला, तथा 'यजति' इत्यत्र स्वर्गादिफलोत्पत्त्यनुकूला। तस्याञ्च फलभावनायां प्रत्ययवाच्यायामेकपदोपात्तत्वेन प्रत्ययसमानत्वात्प्रकृत्यर्थः करणम्, न तु द्रव्यादि। तस्य पदान्तरोपात्तत्वेन विप्रकृष्टत्वात्। साध्यरूपोऽपि प्रकृत्यर्थः स्वसाधननिष्पादितः सन् शक्नोति फलं साधयितुम्। द्रव्यादीनां तु प्रकृत्यर्थोत्पादनेन दृष्ट एवोपकारः। द्रव्यादिनिष्पादितेन धातुवाच्येन यागादिकरणेन स्वर्गादिफलोत्पत्तौ सत्यां येयमनुकूलव्यापारात्मा कृतिशब्दाभिधेया फलोत्पादना, सेयं यज्यादिधातूनामन्यतमेन केनापि नाभिधीयते। सर्वधात्वर्थानुयायित्वात्। अतो न भावनायाः प्रकृत्यर्थत्वमाशङ्कितुं शक्यम्।
अस्तु तर्हि- धात्वर्थसामान्यमेव भावनेति चेत्- न। प्रतिधात्वर्थे विलक्षणरूपत्वात्। अन्यद्धि पाकस्यौदनं प्रत्यानुकूल्यम्। अन्यच्च चलनस्य संयोगविभागौ प्रति। अन्यथा फलविभागानुपपत्तेः। भिन्नासु भावनाव्यक्तिषु भावनात्वसामान्यमनुवर्ततां नाम। नैतावता प्रकृत्यर्थसामान्यं तद्भवति। तस्माद्विशेषरूपात्सामान्यरूपाच्च यज्यादिधातुवाच्यादन्यैवाख्यातप्रत्ययवाच्या भावना।
तथा सति 'यजेत' इत्यत्राख्यातस्य 'भावयेत्' इत्यर्थो भवति। तत्र 'किं भावयेत्, केन भावयेत्, कथं भावयेत्'- इत्यकाङ्क्षायां 'स्वर्गं भावयेत् यागेन भावयेत्, अग्न्यन्वाधानप्रयाजावघातादिभिरुपकारं संपाद्य भावयेत्', इत्येवं भाव्यव्यकरणेतिकर्तव्यतासमर्पणेनाकाङ्क्षापूरणात् प्रकरणाम्नातः सकलः शब्दसंदर्भो भावनावाचिन आख्यातस्यैव प्रपञ्चः। भाव्याद्यंशत्रयवती सेयमार्थीभावनेत्युच्यते। सा सर्वाऽपि शब्दभावनाया भाव्या, विधायको लिङादिः करणम्। अर्थवादसम्पादिता स्तुतिरितिकर्तव्यता। सेयं शब्दभावना लिङादिभिरेव गम्यते।
अर्थभावना सर्वैराख्यातप्रत्ययैर्गम्यत इत्युक्तम्। तस्यां चार्थभावनायां स्वर्गस्य भाव्यत्वं कमियोगादवगम्यते। प्रकृत्यर्थस्य करणत्वं तृतीयाश्रुत्या। तथा च श्रूयते ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' ''चित्रया यजेत पशुकामः'' इति। तच्च करणत्वमपूर्वकल्पनामन्तरेण न सम्भवतीत्यभिधास्यते। तस्मादाख्यातप्रत्ययान्ताद्भावार्थपदादपूर्वं गम्यते।
2.1.2
द्वितीयेऽपूर्वस्यास्तित्वाधिकरणे सूत्रम्
SŪचोदना पुनरारम्भः।। 5।।
द्वितीयाधिकरणमारचयति-
1विषयः
अपूर्वसदसद्भावसंशये सति नास्ति तत्
मानाभावात्फलं यागात्सिध्येच्छास्त्रप्रमाणतः
3पूर्वपक्षः
क्षणिकस्य विनष्टस्य स्वर्गहेतुत्वकल्पनम्
विरुद्धं मान्तरेणातः श्रेयोऽपूर्वस्य कल्पनम्
पूर्वाधिकरणे वर्णकाभ्यां यदिदमुक्तम्- 'अपूर्वस्यैकमेव पदं प्रत्यायकम्' तच्च 'यजेत' इत्याख्यातान्तभावार्थपदम्, इति। तदनुपपन्नम्। अपूर्वसद्भावे मानाभावात्।'यजेत' इत्याभ्यां प्रकृतिप्रत्ययाभ्यां करणभावनयोरभिधानात्। अपूर्वाभावे कालान्तरभाविस्वर्गसाधनत्वं विनश्वरस्य यागस्यानुपपन्नमिति चेत्- न। शास्त्रप्रामाण्येन तदुपपत्तेरिति प्राप्ते-
4सिद्धान्तः
अवान्तरव्यापृतिर्वा शक्तिर्वा यागजोच्यते
अपूर्वमिति तद्भेदः प्रक्रियातोऽवगम्यताम्
ब्रूमः- 'दर्शपूर्णमासाभ्याम्' इति तृतीयाश्रुत्या तावद्यागस्य स्वर्गसाधनत्वं प्रमितम्। तद्यथोपपद्यते तथाऽवश्यं भवताऽपि कल्पनीयम्। तत्र किं यावत्फलं यागस्यावस्थानं कल्प्यते, किंवा विनष्टस्यापि स्वर्गोत्पादनम्। नाद्यः। यागे क्षणिकत्वस्य प्रत्यक्षसिद्धत्वात्। न द्वितीयः। मृतयोर्दंपत्योः पुत्रोत्पत्त्यदर्शनात्। अतो मानान्तरविरुद्धाद्भवदीयकल्पनादस्मदीयमविरुद्धमपूर्वकल्पनं ज्यायः। कल्पितेऽप्यपूर्वे तस्यैव स्वर्गसाधनत्वाद्यागस्य स्वर्गसाधनत्वश्रुतिर्विरूध्येतेति चेत्-
न। 'यागावान्तरव्यापारोऽपूर्वम्' इत्यङ्गीकारात्। न ह्युद्यमननिपतनयोरवान्तरव्यापारयोः सत्त्वे कुठारस्य साधनत्वमपैति। यदि व्यापारवतो यागस्य नाशे व्यापारो न तिष्ठेत्तर्हि यागजन्या काचिच्छक्तिरपूर्वमस्तु। शक्तिव्यवधानेऽपि यागस्य साधनत्वमविरुद्धम्। औष्ण्यव्यवहितेऽप्यग्नौ दाहकत्वाङ्गीकारात्। यथाऽङ्गारजन्यमौष्ण्यं शान्तेष्यप्यङ्गारेषु जलेऽनुवर्तते, तथा यागजन्यमपूर्वं नष्टेऽपि यागे कर्तर्यात्मन्यवनुवर्तताम्। तस्मादस्त्यर्पूवम्। तद्विशेषस्तु संप्रदायसिद्धयागप्रक्रिययाऽवगन्तव्यः। तथा हि- प्रक्रिया पूर्वाचार्यैरित्थं दर्शिता- प्रथमं तावत्फलवाक्येन कर्मणः फलसाधनता बोद्यते- 'यागेन स्वर्गे कुर्यात्' इति। 'कथं विनश्वरेण फलं कर्तव्यम्' इत्यपेक्षायाम् 'अपूर्वं कृत्वा' इत्युच्यते। 'कथमपूर्वं क्रियते' इत्यपेक्षायां 'यागानुष्ठानप्रकारेण' इति।
तच्चापूर्वं दर्शपूर्णमासयोरनेकविधम्- फलापूर्वम्। समुदायापूर्वम् उत्पत्त्यपूर्वम्, अङ्गापूर्वं चेति।
येन स्वर्ग आरभ्यते तत्फलापूर्वम्। अमावास्यायां त्रयाणां यागानामेकः समुदायः, पौर्णमास्यामपरः, तयोर्भिन्नकालवर्तिनोः संहत्य फलापूर्वारम्भायोगात्तदारम्भाय समुदायद्वयजन्यमपूर्वद्वयं कल्पनीयम्। तयोरेकैकस्यारम्भायैकैकसमुदायवर्तिनां त्रयाणां यागानां भिन्नक्षणवर्तित्वेन संघातापत्त्यभावाद्यागत्रयजन्यानि त्रीण्युत्पत्त्यपूर्वाणि कल्पनीयानि। तेषां चाङ्गेपकारमन्तरेणानिष्पत्तेरङ्गानां चानेकक्षणवर्तिनां संघातासंभवादङ्गापूर्वाणि कल्पनीयानि। तत्र त्वयं विभागः- सन्निपत्योपकारकाण्यवघातादीनि द्रव्यदेवतासंस्कारद्वारेण यागस्वरूपस्यैवातिशयाधानेन तदुत्पत्त्यपूर्वनिष्पत्तौ व्याप्रियन्ते तद्द्वारेण फलापूर्वे। आरादुपकारकाणि तु प्रयाजादीन्युत्पत्त्युपूर्वेभ्यः फलापूर्वनिष्पत्तौ साक्षादेव व्याप्रियन्ते। एवं प्रकारभेदे सत्यपि सर्वाण्यङ्गान्यपूर्वनिष्पत्तावनुग्राहकाणि- इत्येकरूपेणेत्थंभावेन स्वीक्रियन्ते। अनयैव दिशा सर्वत्रापूर्वप्रक्रियाऽवगन्तव्या।। 8।। 9।। 10।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमेऽपूर्वस्याख्यातप्रितिपाद्यत्वाधिकरणे सूत्राणि 1- 4”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न च धर्मभेदचिन्तां प्रस्तुतां परित्यज्य किमित्यपूर्वं चिन्त्यत इति वाच्यम् अपूर्वस्यैव धर्मत्वात्। 2”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्र गुरुमतमाह-
1विषयः
यागक्रिया सूक्ष्मरूपा परमाण्वात्मसंश्रिता
यावत्फलं नियोगाख्यं नापूर्वमिति चेन्न तत्
3पूर्वपक्षः
मानहीनं क्रियासौक्ष्म्यं नियोगस्तु लिङादिना
अभिधेयः पृथग्यागादपूर्वं कार्यमस्त्यतः
गुरुणा यन्नियोगाख्यमपूर्वमभिप्रेयते तन्नास्ति। कुतः, अन्तरेणैव तदपूर्वं फलनिष्पत्तेः।
न च यागनाशात्कथं फलसिद्धिरिति वाच्यम्। न हि यागक्रिया सर्वात्मना नश्यति, किंतु सूक्ष्मरूपत्वेनादृश्या सती स्वर्गदेहारम्भकेषु यागसंबन्धिद्रव्यगतपरमाणुषु यागकर्तर्यात्मनि वाऽवस्थाय फलमारभत इति पूर्वपक्षः।
4सिद्धान्तः
नैतद्युक्तम्, उक्तेऽर्थे प्रमाणाभावात्
न च नियोगेऽपि प्रमाणाभावः शङ्कनीयः
वैदिकलिङादीनां तदभिधायकत्वात्
ततो धात्वर्थातिरिक्तं कालान्तरभावि काम्यफलसाधनमपूर्वमस्ति।
11
2.1.3
तृतीये कर्मणां गुणप्रधानभावविभागाधिकरणे सूत्राणि 6- 8
SŪतानि द्वैधं गुणप्रधानभूतानि।। 6।।
SŪयैर्द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात्।। 7।।
SŪयैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्।। 8।।
तृतीयाधिकरणमारचयति-
1विषयः
अवघातादिनाऽपूर्वमुत्पाद्यं विद्यते न वा
3पूर्वपक्षः
यजत्यादिवदस्त्येव वाक्यवैयर्थ्यमन्यथा
दर्शपूर्णमासयोः श्रूयते ''व्रीहीनवहन्ति'' ''तण्डुलान्पिनष्टि'' इति। तत्र अवघातपेषणे अपूर्वजनके, विहितधात्वर्थत्वात्, यजत्यादिधात्वर्थवत्'। विपक्षे- विधिवाक्यवैयर्थ्यरूपो बाधकस्तर्कोऽवगन्तव्यः। तुषविमोकचूर्णत्वयोर्दृष्टप्रयोजनयोर्लोकसिद्धत्वेन तादर्थ्येऽवघातपेषणयोर्विधिर्व्यर्थः स्यात्। तस्मात्- अस्त्यपूर्वमिति प्राप्ते,
4सिद्धान्तः
दृष्टे तुषविमोके तु नापूर्वं द्रव्यतन्त्रतः
स्याद्यजत्यादिवैषम्यं नियमापूर्वकृद्वचः
ब्रूमः- दृष्टफले संभवत्यपूर्वं न कल्पनीयम्। यजत्यादिदृष्टान्तस्तु विषमः। तत्र हि क्रियाप्राधान्येन द्रव्यपारतन्त्र्याभावादपूर्वसाधनत्वं क्रियाया युक्तम्। इह तु 'ब्रीहीन्' इति कर्मकारकविभक्त्या व्रीहीणामीप्सिततमत्वेन प्राधान्यावगमाद्द्रव्यपरतन्त्रोऽवघातो द्रव्य एवातिशयं कुर्यात्, न त्वपूर्वं जनयति। न च विधिवैयर्थ्यम्। नखनिर्भेदनादिना तुषविमोकसंभवेऽपि 'अवघातेनैवासौ कर्तव्यः' इति यो नियमस्तस्य नियमस्यापूर्वहेतुत्वेन विधेयत्वात्। तस्मान्नास्त्यवघातादिजन्यमपूर्वम्।। 13।।।। 14।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीयेऽपूर्वस्यास्तित्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अवान्तरव्यापृतिर्वा शक्तिर्वा यागजोच्यते अपूर्वमिति तद्भेदः प्रक्रियातोऽवगम्यताम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्र गुरुमतमाह-
1विषयः
द्वितीयां सक्तुवद्भङ्क्त्वा नियोगेऽन्वयितां क्रिया
3पूर्वपक्षः
साक्षादिति न मन्तव्यं दृष्टस्यात्रोपपत्तितः
''सक्तूञ्जुहोति'' इत्यत्र द्रव्यप्राधान्यं परित्यज्य द्वितीयाया भङ्गं कृत्वा क्रियाप्राधान्याय ''सक्तुभिर्जुहोति'' इति तृतीयात्वेन विपरिणामो वक्ष्यते, तथा ''व्रीहिभिरवहन्ति'' इति विपरिणामेन प्रधानभूता क्रिया द्रव्यव्यवधानमन्तरेण साक्षादेव नियोगेऽन्वेतव्येति चेत्-
4सिद्धान्तः
मैवम्
वैषम्यात्
तत्र 'होमेन सक्तुषु संस्कारो न भवति' भस्मीभूतानामन्यत्र विनियोगासंभवात्, इत्यभिप्रेत्य संस्कारकर्मत्वं परित्यक्तम्
इह दृष्टस्तुषविमोकसंस्कार उपपद्यते, वितुषाणां तेषां पुरोडाशे विनियोगसंभवात्
2.1.4
चतुर्थे संमार्जनादीनामप्रधानताधिकरणे सूत्राणि 9- 12
SŪधर्ममात्रे तु कर्म स्यादनिर्वृत्तेः प्रयाजवत्।। 1।।
SŪतुल्यश्रुतित्वाद्वेतरैः सधर्मः स्यात्।। 10।।
SŪद्रव्योपदेश इति चेत्।। 11।।
SŪन तदर्थत्वाल्लोकवत्तस्य च शेषभूतत्वात्।। 12।।
चतुर्थाधिकरणमारचयति-
1विषयः
संमार्ष्टि स्रुच इत्यत्र किं प्रधानाख्यकर्मता
3पूर्वपक्षः
गुणकर्मत्वमथवा दृष्टाभावेऽवघातवत्
दर्शपूर्णमासयोर्जुह्वादीनां दर्भैः संमार्जनमाम्नातम् ''स्रुचः संमार्ष्टि'' इति। तत्र संमार्जनं प्रधानकर्म। कुतः- गुणकर्मलक्षणरहितत्वात्, प्रधानकर्मलक्षणयुक्तत्वाच्च। सूत्रकारो हि कर्मणां राशिद्वयं प्रतिज्ञाय तयोर्लक्षणं पृथक्सूत्रयामास-
'तानि द्वैधं गुणप्रधानभूतानि'
'यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्'
'यैस्तु द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात्' [पू.मी.सू. 2।1।6- 8 ] इति। यैः कर्मभिर्द्रव्यमुत्पादयितुं संस्कर्तुं वेष्यते, तेषु कर्मसु गुणत्वम्। कुतः- तस्य कर्मणो द्रव्यप्रधानत्वात्। 'द्रव्यं प्रधानमस्य', इति बहुव्रीहिः। 'यूपं तक्षति' 'आहवनीयमादघाति' इत्यादौ यूपाहवनीयादिद्रव्यमुत्पादयितुमिष्यते। ''व्रीहीनवहन्ति'' ''तण्डुलान्पिनष्टि'' इत्यादौ व्रीह्यादिद्रव्यं संस्कर्तुमिष्टम्। प्रयाजादिषूक्तवैपरीत्यात्प्रधानकर्मत्वम्। एवं सत्यवघातेन यथा व्रीहीणां तुषविमोको दृष्टः संस्कारः, तथा संमार्जनेन जुह्वादिषु कंचिदतिशयं न पश्यामः। अतोऽवघातवद्गुणकर्मत्वाभावात्प्रयाजादिवत्प्रधानकर्मत्वमिति प्राप्ते-
4सिद्धान्तः
गुणत्वं नहि संभाव्यं प्राधान्यं तु प्रयाजवत्
अदृष्टकल्पनेनापि गुणत्वं स्याद्द्वितीयया
ब्रूमः- 'स्रुच' इति द्वितीया कर्मकारके विहिता। कर्मत्वं चेप्सिततमत्वे सति भवति। 'कर्तुरीप्सिततमं कर्म' [ पा.सू. 1।4 ।49 ] इति कर्मसंज्ञाविधानात्। क्रतुसाधनत्वेन च स्रुचां युक्तमीप्सिततमत्वम्। अतः प्रधानभूताः स्रुचः। तथासति संमार्जनक्रियाया गुणकर्मत्वमवघातवद्भविष्यति। यदि स्रुक्षु दृष्टोऽतिशयो न स्यात्, तर्ह्यपूर्वं कल्पनीयम्।। 16।। 17।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये कर्मणां गुणप्रधानभावविभागाधिकरणे सूत्राणि 6- 8”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “दृष्टे तुषविमोके तु नापूर्वं द्रव्यतन्त्रतः स्याद्यजत्यादिवैषम्यं नियमापूर्वकृद्वचः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.5
पञ्चमे स्तोत्रादिप्राधान्याधिकरणे सूत्राणि 13- 29
SŪस्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात्।। 13।।
SŪअर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात्।। 14।।
SŪवशावद्वा गुणार्थे स्यात्।। 15।।
SŪन श्रुतिसमवायित्वात्।। 16।।
SŪव्यपदेशभेदाच्च।। 17।।
SŪगुणश्चानर्थकः स्यात्।। 18।।
SŪतथा याज्यापुरोरुचोः।। 19।।
SŪवशायामर्थसमवायात्।। 20।।
SŪयत्रेति वाऽर्थवत्त्वात्स्यात्।। 21।।
SŪन त्वाम्नातेषु।। 22।।
SŪदृश्यते।। 23।।
SŪअपि वा श्रुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम्।। 24।।
SŪशब्दपृथक्त्वाच्च।। 25।।
SŪअनर्थकं च तद्वचनम्।। 26।।
SŪअन्यश्चार्थः प्रतीयते।। 27।।
SŪअभिधानं च कर्मवत्।। 28।।
SŪफलनिर्वृत्तिश्च।। 29।।
पञ्चमाधिकरणमारचयति-
1विषयः
प्रउगं शंसतीत्यादौ गुणतोत प्रधानता
3पूर्वपक्षः
दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः
ज्योतिष्टोमे श्रूयते ''प्रउगं शंसति'' ''निष्केवल्यं शंसति'' ''आज्यैः स्तुवते'' ''पृष्ठैः स्तुवते'' प्रउगनिष्केवल्यशब्दौ शस्त्रविशेषनामनी। आज्यपृष्टशब्दौ तु व्याख्यातौ।
अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रम्। प्रगीतमन्त्रसाध्यास्तुतिः स्तोत्रम्। तयोः स्तुतशस्त्रयोर्गुणकर्मत्वं युक्तम्। कुतः- तुषविमोकवद्दृष्टार्थलाभात्। पठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते-
4सिद्धान्तः
स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम्
तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम्
ब्रूमः- स्तोतव्याया देवतायाः स्तावकैर्गुणैः संबन्धकीर्तनं स्तौतिशंसतिधात्वोर्वाच्योऽर्थः। यदि मन्त्रवाक्यानि गुणसंबन्धाभिधानपराणि, तदा धात्वोर्मुख्यार्थलाभाच्छ्रुतिरनुगृहीता भविष्यति। यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूपप्रकाशनपराणि मन्त्रवाक्यानि स्युः, तदा धात्वोर्मुख्योऽर्थो न स्यात्। लोके हि 'देवदत्तश्चतुर्वेदाभिज्ञः' इत्युक्ते स्तुतिः प्रतीयते। तस्य वाक्यस्य गुणसंबन्धपरत्वात्। यदा तु देवदत्तस्वरूपपरता 'यश्चतुर्वेदी तमानय' इत्यादौ, तत्र न स्तुतिप्रतीतिः। तस्य चतुर्वेदसंबन्धद्वारेण देवदत्तस्वरूपोपलक्षणपरत्वेन गुणसंबन्धपरत्वाभावात्। ततश्च- 'आज्यैर्देवं प्रकाशयेत्,' 'पृष्ठैर्देवं प्रकाशयेत्' इत्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत। ततो धातुश्रुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम्। तत्र दृष्टं प्रयोजनं नास्तीति चेत्- तर्ह्यपूर्वमस्तु।। 18।। 19।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे संमार्जनादीनामप्रधानताधिकरणे सूत्राणि 9- 12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “गुणत्वं नहि संभाव्यं प्राधान्यं तु प्रयाजवत् अदृष्टकल्पनेनापि गुणत्वं स्याद्द्वितीयया”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.6
षष्ठे मन्त्राविधायकत्वाधिकरणे सूत्रे 30- 31
SŪविधिमन्त्रयोरैकार्थ्यमैकशब्द्यात्।। 30।।
SŪअपि वा प्रयोगसामर्थ्यान्मन्त्रोऽभिधानवाची स्यात्।। 31।।
षष्ठाधिकरणमारचयति-
1विषयः
देवांश्च याभिर्यजत इत्याख्यातं तु मन्त्रगम्
3पूर्वपक्षः
विधायकं न वाऽन्येन समत्वात्तद्विधायकम्
अयं मन्त्र आम्नायते- ''देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह'' इति। अयमर्थः- 'गोपतिर्यजमानो याभिर्गोभिर्देवान्यजते याश्च गा ब्राह्मणेभ्यो ददाति चिरमेव ताभिः सह परलोकेऽवतिष्ठते' इति। तत्र यथा ब्राह्मणगतमाख्यातपदं प्रधानगुणकर्मणोरन्यन्तरस्य विधायकम्, तथा
मन्त्रगतमपीति चेत्-
मैवम्। यच्छब्दादिना विधिशक्तेः क्षीणत्वात्। सति हि यच्छब्दे तस्य वाक्यस्यानुवादकत्वं प्रतीयते, न तु विधायकत्वम्। 'यच्छब्दादेः' इत्यादिशब्देनोत्तमपुरुषामन्त्रणादयः। ''बर्हिर्देवसदनं दामि'' इत्युत्तमपुरूषः। ''अग्नीदग्नीन्विहर'' इत्यामन्त्रणम्। एवं ब्रह्मणेऽपि- ''यस्योभयं हविरार्तिमार्च्छेत्'' इत्युदाहरणीयम्। तस्मात्- 'आख्यातस्य प्रधानकर्मविधायकत्वं, गुणविधायकत्वं वा' इत्येवं द्वावेव प्रकारौ न भवतः, किंतु- 'अभिधायकत्वम्' इत्यप्यस्ति तृतीयः प्रकारः। ततो न मन्त्रगताख्यातस्य विधायकत्वम्।। 20।। 21।।
4सिद्धान्तः
यच्छब्दादेः क्षीणशक्तिर्न विधिस्त्रिविधं ततः
आख्यातमभिधानं च प्रधानगुणकर्मणी
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे स्तोत्रादिप्राधान्याधिकरणे सूत्राणि 13- 29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.7
सप्तमे मन्त्रनिर्वचनाधिकरणे सूत्रम्
SŪतच्चोदकेषु मन्त्राख्या।। 32।।
सप्तमाधिकरणमारचयति--
1विषयः
अहे बुध्निय मन्त्रं म इति मन्त्रस्य लक्षणम्
नास्त्यस्ति वाऽस्य नास्त्येतदव्याप्त्यादेरवारणात्
3पूर्वपक्षः
याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम्
तेऽनुष्ठानस्मारकादौ मन्त्रशब्दं प्रयुञ्जते
आधान इदमाम्नायते ''अहे बुध्निय मन्त्रं मे गोपाय'' इति। तत्र मन्त्रस्य लक्षणं नास्ति, अव्याप्त्यतिव्याप्त्योर्वारयितुमशक्यत्वात्।
'विहितार्थाभिधायको मन्त्रः' इत्युक्ते 'वसन्ताय कपिञ्जलानालभेत' इत्यस्य मन्त्रस्य विधिरूपत्वादव्याप्तिः। 'मननहेतुर्मन्त्रः' इत्युक्ते- ब्राह्मणेऽतिव्याप्तिः। एवम्-'असिपदान्तो मन्त्रः' 'उत्तमपुरुषान्तो मन्त्रः' इत्यादिलक्षणानां परस्परमव्याप्तिरिति चेत्-
मैवम्। याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वात्। तच्च समाख्यानमनुष्ठानस्मारकादीनां मन्त्रत्वं गमयति।
''उरु प्रथस्व'' इत्यादयोऽनुष्ठानस्मारकाः।
''अग्निमीळे पुरोहितम्'' इत्यादयः स्तुतिरूपाः।
''इषे त्वा'' इत्यादयस्त्वान्ताः।
''अग्न आ याहि वीतये'' इत्यादय आमन्त्रणोपेताः।
''अग्नीदग्नीन्विहर'' इत्यादयः प्रैषरूपाः।
''अधः स्विदासीदुपरि स्विदासीत्'' इत्यादयो विचाररूपाः।
''अम्बे अके अम्बाल्यम्बिके न मानयति कश्चन'' इत्यादयः परिदेवनरूपाः।
''पृच्छामि त्वा परमन्तं पृथिव्याः'' इत्यादयः प्रश्नरूपाः।
''वेदिमाहुः परमन्तं पृथिव्याः'' इत्यादय उत्तररूपाः।
एवमन्यदप्युदाहर्तव्यम्। ईदृशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मोऽस्ति, यस्य लक्षणत्वमुच्येत। लक्षणस्योपयोगश्च पूर्वाचार्यैर्दर्शितः-
ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः। लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः।। इति।
4सिद्धान्तः
तस्मात्- अभियुक्तानाम् 'मन्त्रोऽयम्' इति समाख्यानं लक्षणम्।
22
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे मन्त्राविधायकत्वाधिकरणे सूत्रे 30- 31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यच्छब्दादेः क्षीणशक्तिर्न विधिस्त्रिविधं ततः आख्यातमभिधानं च प्रधानगुणकर्मणी”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.8
अष्टमे ब्राह्मणनिर्वचनाधिकरणे सूत्रम्
SŪशेषे ब्राह्मणशब्दः।। 32।।
अष्टमाधिकरणमारचयति-
1विषयः
नास्त्येतद्ब्रह्मणेत्यत्र लक्षणं विद्यतेऽथवा
नास्तीयन्तो वेदभागा इति क्लृप्तेरभावतः
2संशयः
''तद्व्यचिकित्सज्जुहवानी, मा हौषाम्'' इति संशयः।
3पूर्वपक्षः
मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः
अन्यद्ब्राह्मणमित्येतद्भवेद्ब्राह्मणलक्षणम्
''यजमानेन संमितौदुम्बरी भवति'' इति विधिः।
''माषानेव मह्यं पचत'' इति परकृतिः।
''पुरा ब्राह्मणा अभैषुः'' इति पुराकल्पः।
''यावतोऽश्वान्प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालान्निर्वपेत्'' इति विशेषावधारणकल्पना। एवमन्यदप्युदाहार्यम्।
न च 'हेत्वादीनामन्यतमं ब्राह्मणम्' इति लक्षणम्। मन्त्रेष्वपि हेत्वादिसद्भावात्। तथा हि-
''इन्दवो वामुशन्ति हि'' इति हेतुः।
''उदानिषुर्महीरीति तस्मादुदकमुच्यते'' इति निर्वचनम्।
''मोघमन्नं विन्दते अप्रचेताः'' इति निन्दा।
''अग्निर्मूर्धा दिवः ककुत्पतिः'' इति प्रशंसा।
''अधः स्विदासीदुपरि स्विदासीत्'' इति संशयः।
''कपिञ्जलानालभेत'' इति विधिः।
''सहस्त्रमयुतं ददत्'' इति परकृतिः।
''यज्ञेन यज्ञमयजन्त देवाः'' इति पुराकल्पः।
'इतिकरणबहुलं ब्राह्मणम्' इति चेत्-
न।''इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत्'' इत्यस्मिन्ब्राह्मणेन गातव्ये मन्त्रे अतिव्याप्तेः।
'इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणम् इति चेत्-
न। ''राजा चिद्यं भगं भक्षीत्याह'' ''यो वा रक्षाः शुचिरस्मीत्याह'' इत्यनयोर्मन्त्रयोरतिव्याप्तेः।
'आख्यायिकारूपं ब्राह्मणम्' इति चेत्-
न।यमयमीसंवादसूक्तादावतिव्याप्तेः। तस्मात्- 'नास्ति ब्राह्मणस्य लक्षणम्' इति प्राप्ते-
4सिद्धान्तः
वेदभागो ब्राह्मणम्' इत्येतल्लक्षणं भवति-इति
ब्रूमः- 'मन्त्रब्राह्मणरूपौ द्वावेव वेदभागौ' इत्यङ्गीकारान्मन्त्रलक्षणस्य पूर्वमभिहितत्वात् 'अवशिष्टो
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे मन्त्रनिर्वचनाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तस्मात्- अभियुक्तानाम् 'मन्त्रोऽयम्' इति समाख्यानं लक्षणम्। 22”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.9
नवम ऊहाद्यमन्त्रताधिकरणे सूत्रम्
SŪअनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागः।। 34।।
नवमाधिकरणमारचयति-
1विषयः
ऊहप्रवरनाम्नां किं मन्त्रताऽस्त्यथवा न हि
3पूर्वपक्षः
मन्त्रास्तदेकवाक्यत्वान्न तल्लक्षणवर्जनात्
''अग्नये जुष्टं निर्वपामि'' इत्यस्य सौर्ये चरौ 'सूर्याय जुष्टं निर्वपामि' इत्येवं पदान्तरप्रक्षेप ऊहः ।
''अदीक्षिष्टायं ब्राह्मणः'' इत्यस्य मन्त्रस्य शेषत्वेन प्रयोगकाले ब्राह्मणनामधेयविशेषं तदीयप्रवरं चैवं पठन्ति 'असौ देवदत्तोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ताऽमुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्ता' इति। 'आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रः' इति च। एतेषामूहप्रवरनामधेयानां मन्त्रत्वमस्ति। कुतः- मन्त्रेण सहैकवाक्यत्वादिति चेत्-
4सिद्धान्तः
मैवम्
याज्ञिकप्रसिद्धिरूपस्य मन्त्रलक्षणस्यैतेष्वभावात्
न ह्यध्येतार ऊहादीन्मन्त्रकाण्डेऽधीयते
तस्मात्- नास्ति मन्त्रत्वम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे ब्राह्मणनिर्वचनाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वेदभागो ब्राह्मणम्' इत्येतल्लक्षणं भवति-इति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.10
दशम ऋग्लक्षणाधिकरणे सूत्रम्
SŪतेषामृग्यत्रार्थवशेन पादव्यवस्था।। 35।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवम ऊहाद्यमन्त्रताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् याज्ञिकप्रसिद्धिरूपस्य मन्त्रलक्षणस्यैतेष्वभावात् न ह्यध्येतार ऊहादीन्मन्त्रकाण्डेऽधीयते तस्मात्- नास्ति मन्त्रत्वम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.11
एकादशे सामलक्षणाधिकरणे सूत्रम्
SŪगीतिषु सामाख्या।। 36।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशम ऋग्लक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.12
द्वादशे यजुर्लक्षणाधिकरणे सूत्रम्
SŪशेषे यजुः शब्दः।। 37।।
दशमैकादशद्वादशाधिकरणमारचयति-
1विषयः
नर्क्सामयजुषां लक्ष्म सांकर्यादिति शङ्किते
3पूर्वपक्षः
पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसंकरः
इदमाम्नायते- ''अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः। ऋचः सामानि, यजूंषि''
इति।–'त्रीन्वेदान्विदन्ति' इति त्रिविदः, त्रिविदां संबन्धिनोऽध्येतारस्त्रैविदाः। ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुः, तं गोपाय इति योजना। तत्र त्रिविधानामृक्सामयजुषां व्यवस्थितं लक्षणं नास्ति। कुतः- सांकर्यस्य दुष्परिहरत्वात्।
'अध्यापकप्रसिद्धेह्यृर्ग्वेदादिषु पठितो मन्त्र ऋगादिः' इति हि लक्षणं वक्तव्यम्। तच्च संकीर्णम्। ''देवो वः सवितोत्पूनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः'' इत्ययं मन्त्रो यजुर्वेदे संप्रतिपन्नयजुषां मध्ये पठितः। न च तस्य यजुष्ट्वमास्ति। तद्ब्राह्मणे ''सावित्र्यर्चा'' इत्यृक्त्वेन व्यवहृतत्वात्। ''एतत्साम गायन्नास्ते'' इति प्रतिज्ञाय किंचित्साम यजुर्वेदे गीतम्। ''अक्षितमसि'' ''अच्युतमसि'' ''प्राणसंशितमसि'' इति त्रीणि यजूंषि सामवेदे समाम्नातानि। तथा गीयमानस्य साम्न आश्रयभूता ऋचः सामवेदे समाम्नायन्ते। तस्मात्- नास्ति लक्षणम्- इति चेत्-
4सिद्धान्तः
न
पादादीनामसंकीर्णलक्षणत्वात्
'पादेनार्थेन चोपेता वृत्तबद्धा मन्त्रा ऋचः
गीतिरूपा मन्त्राः सामानि
वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि' इत्युक्ते न क्वापि संकरः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे सामलक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.13
त्रयोदशे निगदानां यजुष्ट्वाधिकरणे सूत्राणि 38- 45
SŪनिगदो वा चतुर्थे स्याद्धर्मविशेषात्।। 38।।
SŪव्यपदेशाच्च।। 39।।
SŪयजूंषि वा तद्रूपत्वात्।। 40।।
SŪवचनाद्धर्मविशेषः।। 41।।
SŪअर्थाच्च।। 42।।
SŪगुणार्थो व्यपदेशः।। 43।।
SŪसर्वेषामिति चेत्।। 44।।
SŪन ऋग्व्यपदेशात्।। 45।।
त्रयोदशाधिकरणमारचयति-
1विषयः
प्रोक्षणीरासादयेति निगदस्त्रिविधाद्बहिः
यजुर्वोच्चैस्त्वधर्मस्य भेदादस्य चतुर्थता
3पूर्वपक्षः
परप्रत्यायनार्थत्वादुच्चैस्त्वं यजुरेव सः
तल्लक्षणेन युक्तत्वात्त्रैविध्यमिति सुस्थितम्
''प्रोक्षणीरासादय'' ''इध्मा बर्हिरुपसादय'' ''अग्नीदग्नीन्विहर'' ''बर्हिः स्तृणीहि'' ''इन्द्र आगच्छ'' ''हरिव आगच्छ'' इत्यादयो निगदा आम्नाताः। परप्रत्यायनार्था मन्त्रा निगदाः। एते च पूर्वोक्तेभ्य ऋग्यजुःसामभ्यो बहिर्भूताश्चतुर्थप्रकाराः। कुतः- पादगीत्योर्ऋक्सामलक्षणयोरभावात्। प्रश्लिष्टपाठस्य यजुर्लक्षणस्य सत्त्वेऽपि धर्मभेदेन यजुष्यन्तर्भावानुपपत्तेः। ''उपांशुयजुषा'' ''उच्चैर्निगदेन'' इति हि धर्मभेदः- इति प्राप्ते
4सिद्धान्तः
ब्रूमः- 'बहिर्ब्राह्मणा भोज्यन्ताम्' 'परव्राजकास्त्वन्तः' इत्यत्र सत्येव परिव्राजकानां ब्राह्मण्ये पूजानिमित्तो विशेषो यथा तथा निगदानां यजुर्लक्षणोपेतत्वेन यजुषामेव सतां परप्रत्यायननिमित्तमुच्चैस्त्वधर्मः
ततो मन्त्राणां त्रैविध्यं सुस्थितम्।
28
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे यजुर्लक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न पादादीनामसंकीर्णलक्षणत्वात् 'पादेनार्थेन चोपेता वृत्तबद्धा मन्त्रा ऋचः गीतिरूपा मन्त्राः सामानि वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि' इत्युक्ते न क्वापि संकरः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.14
चतुर्दश एकवाक्यत्वलक्षणाधिकरणे सूत्रम्
SŪअर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्।। 46।।
चतुर्दशाधिकरणमारचयति-
1विषयः
देवस्य त्वेति वाक्यस्य भिन्नत्वमथवैकता
3पूर्वपक्षः
ऐक्यप्रयोजकस्यात्र दुर्बोधत्वेन भिन्नता
दर्शपूर्णमासयोराम्नायते- ''देवस्य त्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्याम्, पूष्णो हस्ताभ्याम्, अग्नये जुष्टं र्निवपामि'' इति। तत्र वाक्यानि भिन्नानि भवितुमर्हन्ति। कुतः- एकत्वनियामकस्य दुर्वोधत्वात्।
अर्थैक्यं वाक्यैक्ये प्रयोजकमिति चेत्- न। एकस्मिन्पदेऽतिव्याप्तेः। पदसमूहस्य वाक्यत्वे, समूहानामत्र बहूनां संभवाद्वाक्यभेदः स्यात्- इति चेत्-
मैवम्।'यद्विभागे साकाङ्क्षमविभागे चैकार्थम्, तदेकं वाक्यम्' इति प्रयोजकस्य बोद्धुं शक्यत्वात्। 'विभागे साकाङ्क्षम्' इत्युक्तेऽतिव्याप्तिः स्यात्। ''स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि, तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः'' इत्यत्र 'तस्मिन्' इत्यादिपदसमूहस्य विभागे सति
प्रकृतवाचितच्छब्दार्थनिर्णयाय पूर्वपदसमूहसाकाङ्क्षत्वमस्ति, अतस्तद्व्यवच्छेत्तुम् 'एकार्थम्' इत्युच्यते। नहि तत्रैकार्थत्वमस्ति। पूर्वसमूहस्य सदनकरणमर्थः, उत्तरसमूहस्य पुरोडाशप्रतिष्ठापनम्। स्योनं समीचीनम्। सुसेवं सुष्ठु सेवितुं योग्यम्। मेध सारभूतपुरोडाशेत्यर्थः। अत्र द्वयोः समूहयोर्वाक्यद्वयमुभयवादिसिद्धम्, तत् 'एकार्थम्' इत्यनेन व्यावर्त्यते। 'एकार्थम्' इत्युक्तेऽतिव्याप्तिः स्यात्। ''भगो वां विभजतु, पूषा वां विभजतु'' इत्यनयोर्विभजनमन्त्रत्वेन संमतयोः पदसमूहयोस्तात्पर्यविषयस्य द्रव्यविभागरूपस्यार्थस्यैकत्वात्, तद्व्यवच्छेत्तुं 'विभागे साकाङ्क्षम्' इत्युक्तम्। प्रकृते तु 'अग्नये जुष्टम्' इत्यादिसमूहे पृथक्कृते पूर्वो 'देवस्य त्वा' इति समूहः साकाङ्क्षो भवति। एकीकृते तु कृत्स्नस्यैक एव निर्वापोऽर्थः। एतेनैकवाक्यत्वनिर्णयेनानियतपरिमाणस्य यजुषोऽवसानं निश्चेतुं शक्यम्।। 30।। 31।।
4सिद्धान्तः
विभागे सति साकाङ्क्षस्यैकार्थत्वं प्रयोजकम्
तस्माद्वाक्यैक्यमेतेन यजुरन्तोऽवर्धायते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे निगदानां यजुष्ट्वाधिकरणे सूत्राणि 38- 45”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- 'बहिर्ब्राह्मणा भोज्यन्ताम्' 'परव्राजकास्त्वन्तः' इत्यत्र सत्येव परिव्राजकानां ब्राह्मण्ये पूजानिमित्तो विशेषो यथा तथा निगदानां यजुर्लक्षणोपेतत्वेन यजुषामेव सतां परप्रत्यायननिमित्तमुच्चैस्त्वधर्मः ततो मन्त्राणां त्रैविध्यं सुस्थितम्। 28”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.15
पञ्चदशे वाक्यभेदाधिकरणे सूत्रम्
SŪसमेषु वाक्यभेदः स्यात्।। 47।।
पञ्चदशाधिकरणमारचयति-
1विषयः
इषे त्वादिर्मन्त्र एको भिन्नो वैकः क्रियापदे
3पूर्वपक्षः
असत्यर्थास्मारकत्वादेकादृष्टस्य कल्पनात्
''इषे त्वोर्जे त्वा'' इति श्रूयते। सोऽयं पदसमुदाय एको मन्त्रः। कुतः- अस्य मन्त्रस्यादृष्टत्वे त्वेकस्यैवादृष्टस्य कल्पने लाघवात्।
न च ''उरु प्रथस्व'' इत्यादिमन्त्रवदनुष्ठेयार्थस्मारकत्वं संभवति। क्रियापदाभावेन तदर्थप्रतीत्यभावात्- इति प्राप्ते-
4सिद्धान्तः
छेदने मार्जने चैतौ विनियुक्तौ क्रियापदे
अध्याहृते स्मारकत्वान्मन्त्रभेदोऽर्थभेदतः
ब्रूमः- ''इषे त्वेति च्छिनत्ति, ऊर्जे त्वेत्यनुमार्ष्टि'' इति पलाशशाखायाश्छेदनमार्जनयोरेतौ विनियुक्तौ। ततस्तदनुसारेण 'छिनद्मि' इति क्रियापदेऽध्याहृते सत्यनुष्ठेयार्थस्मारकत्वादर्थभेदेन वाक्यभेदाद्यजुर्मन्त्रभेदः। 'इष्यमाणायान्नाय भोः पलाशशाखे त्वा छिनद्मि' 'ऊर्जे रसाय बलाय वा त्वामनुमार्ज्मि' इत्यर्थभेदः। एवम्- ''आयुर्यज्ञेन कल्पताम्'' ''प्राणो यज्ञेन कल्पताम्'' इत्यादौ क्लृप्तिसामान्यरूपस्यार्थस्यैकत्वेऽप्यायुरादिभिर्भिन्न- त्वादर्थभेदवाक्यभेदयोः स्पष्टत्वात्, 'क्लृप्तीर्वाचयति' इति क्लृप्तिबहुत्वस्य चोदितत्वाच्च यजुर्भेदो द्रष्टव्यः।। 32।। 33।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दश एकवाक्यत्वलक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विभागे सति साकाङ्क्षस्यैकार्थत्वं प्रयोजकम् तस्माद्वाक्यैक्यमेतेन यजुरन्तोऽवर्धायते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.16
षोडशे (सप्तदशे च ) अनुषङ्गाधिकरणे सूत्रम्
SŪअनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात्।। 48।।
षोडशाधिकरणमारचयति-
1विषयः
या ते अग्ने रजेत्यध्याहारो यद्वाऽनुषञ्जनम्
तनूरित्यन्यशेषत्वादध्याहारोऽत्र लौकिकः
3पूर्वपक्षः
वेदाकाङ्क्षा पूरणीया वेदेनेत्यनुषञ्जनम्
अन्यशेषोऽपि बुद्धिस्थो लौकिकस्तु न तादृशः
ज्योतिष्टोमे उपसद्धोमेष्वेवमाम्नायते ''या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा। उग्रं वचो अपावधीत्त्वेषं वचो अपावधीँस्वाहा। या ते अग्ने रजाशया, या ते अग्ने हराशया'' इति। अयमर्थः- 'अयसा रजतेन हिरण्येन च निर्मिता अग्नेस्तिस्त्रस्तनवः, तास्वाद्या येयमुक्ता तनूः साऽतिशयेन वृद्धा, गह्वरे तीक्ष्णे द्रव्ये लोहेऽवस्थिता तया तन्वा क्षुत्पिपासे उपपातकम्, वीरहत्यादि महापतकं च हतवानस्मि' इति। तथा च ब्राह्मणम्,- ''यदुग्रं वचो अपावधीत्त्वेषं वचो अपावधीँस्वाहेति। अशनायापिपासे हवा उग्रं वचः। एनश्च वैरहत्यं च त्वेषं वचः''- इति। तत्र स्वाहान्तः प्रथमो मन्त्रः संपूर्णवाक्यत्वान्निराकाङ्क्षः।द्वितीयतृतीयमन्त्रयोराकाङ्क्षां पूरयितुमुचितो लौकिको वाक्यशेषोऽध्याहर्तव्यः। न हि 'तनूर्वर्षिष्ठा' इत्यादिभागस्तयोरन्वेतुं योग्यः तस्य प्रथममन्त्रशेषत्वात्, इति प्राप्ते
4सिद्धान्तः
ब्रूमः-वैदिकयोर्मन्त्रयोराकाङ्क्षा वैदिकेनैव वाक्यशेषेण पूरणीया
ततः 'तनूर्वर्षिष्ठा' इत्यादिभाग उत्तरयोर्मन्त्रयोरनुषज्यते
यद्यप्यसावन्यशेषः, तथाऽपि बुद्धिस्थः सन्कल्पनीयादध्याहारात्संनिकृष्यते
तस्मात्- अनुषङ्गः कर्तव्यः।
34
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे वाक्यभेदाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “छेदने मार्जने चैतौ विनियुक्तौ क्रियापदे अध्याहृते स्मारकत्वान्मन्त्रभेदोऽर्थभेदतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
सप्तदशाधिकरणमारचयति-
1विषयः
नानुषङ्गोऽनुषङ्गो वाऽच्छिद्रेणेत्यस्य शेषिणौ
3पूर्वपक्षः
चित्पतिस्त्वेत्यनाकाङ्क्षावतो नात्रानुषज्यते
ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते- ''चित्पतिस्त्वा पुनातु'' ''वाक्पतिस्त्वा पुनातु'' ''देवस्त्वा सविता पुनात्वाच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः'' इति। तत्र तृतीयमन्त्रशेषः 'अच्छिद्रेण'- इत्यादिभागः प्रथमद्वितीययोर्मन्त्रयोर्नानुषज्यते। कुतः- निराकाङ्क्षत्वात्। न हि- ''चित्पतिस्त्वा पुनातु'' ''वाक्पतिस्त्वा पुनातु'' इत्यनयोः शेषिणोः संपूर्णवाक्ययोः काचिच्छेषाकाङ्क्षाऽस्ति- इति प्राप्ते-
4सिद्धान्तः
करणत्वं क्रियापेक्षं क्रिया चैका पुनात्विति
मन्त्रत्रयेऽतस्तद्द्वारा सर्वशेषोऽनुषज्यते
ब्रूमः- 'मा भूच्छेषिणोराकाङ्क्षा, तथाऽपि शेषस्याकाङ्क्षाऽस्ति' इति। 'पवित्रेण रश्मिभिः' इत्युक्तं करणत्वं हि क्रियामपेक्षते। क्रिया च 'पुनातु' इत्येषा त्रिष्वपि मन्त्रेष्वेका। तया क्रियया संबद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षेऽपि यथाऽन्वेति, तथा पूर्वयोरप्यन्वेतुमर्हति। तस्मात्- अस्त्यनुषङ्गः।। 36।। 37।।
2.1.17
अष्टादशे (सप्तदशे) व्यवेताननुषङ्गाधिकरणे सूत्रम्
SŪव्यव(वा) यान्नानुषज्येत।। 49।।
अष्टादशा(सप्तदशा)धिकरणमारचयति-
3पूर्वपक्षः
अग्नीषोमीयपशौ श्रूयते ''सं ते प्राणो वातेन गच्छताम्, समङ्गानि यजत्रैः, सं यज्ञपतिराशिषा'' इति। अयमर्थः- 'भोः पशो तव प्राणो वातेन बाह्येन वायुना संगच्छताम्, तव हृदयाद्यङ्गानि यागविशेषैः संयुज्यन्ताम्, यज्ञपतिराशिषा संयुज्यताम्' इति। तत्र 'यज्ञपतिः' इत्यस्मिंस्तृतीये मन्त्रे 'सम्' इत्युपसर्गस्य क्रियापदाकाङ्क्षत्वात्प्रथममन्त्रगतस्य 'गच्छताम्' इति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यते- इति प्राप्ते
4सिद्धान्तः
-
अत्र पादे अधिकरणानि 18, सूत्राणि 49।
आदितः अधिकरणानि 60, सूत्राणि 199।
------------------
द्वितीयाध्यायस्य द्वितीयः पादः
धातुभेदपुनरुक्त्यादिभिः कर्मभेदः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “यागदानादिकर्मभेदः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे (सप्तदशे च ) अनुषङ्गाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः-वैदिकयोर्मन्त्रयोराकाङ्क्षा वैदिकेनैव वाक्यशेषेण पूरणीया ततः 'तनूर्वर्षिष्ठा' इत्यादिभाग उत्तरयोर्मन्त्रयोरनुषज्यते यद्यप्यसावन्यशेषः, तथाऽपि बुद्धिस्थः सन्कल्पनीयादध्याहारात्संनिकृष्यते तस्मात्- अनुषङ्गः कर्तव्यः। 34”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]