SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 1, Pāda 4

प्रमाणम्

उद्भिच्चित्रादिनामरूपम्

20adhikaraṇas
30sūtras
1.4.1 प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम्
उक्तं समाम्नायैदमर्थ्यं, तस्मात्सर्वं तदर्थं स्यात्।। 1।।
चतुर्थपादस्य प्रथमाधिकरणं वार्तिककारोन्नीतमारचयति-

1विषयः

उद्भिदादिपदं धर्मे किममानमुत प्रमा
विध्यर्थवादमन्त्रांशेष्वनन्तर्भावतो न मा

3पूर्वपक्षः

अन्तर्भावो विधावुद्भिदा यजेतेति दृश्यते
नामत्वेनान्वयो वाक्ये वक्ष्यतेऽतः प्रमैव तत्
''उद्भिदा यदेत'' ''बलभिदा यजेत'' ''विश्वजिता यजेत'' इत्येवं समाम्नायते। तत्रोद्भिदादिपदं न धर्मे प्रमाणम्। कुतः- प्रमाणत्वेनाभिमतेषु त्रिषु वेदविभागेष्वनन्तर्भावात्। तथा हि- विधिः साक्षात्प्रमाणम्। अर्थवादमन्त्रौ तु विध्यन्वयेन। तत्र न तावदुद्भिदादिपदं विधावन्तर्भवति, विध्यर्थरूपाया भावनाया अंशेषु भाव्यकरणेतिकर्तव्यतारूपेषु कस्याप्यवाचकत्वात्। नाप्यर्थवादत्वम्, स्तुतिबुद्धेरभावात्। नापि मन्त्रत्वम्। उत्तमपुरुषादीनां मन्त्रलिङ्गानामभावात्। तथा चोक्तम्-
उत्तमामन्त्रणास्यन्तत्वान्तरूपाद्यभावतः। मन्त्रप्रसिद्ध्यभावाच्च मन्त्रतैषां न युज्यते ।।
इति। ''अग्नये जुष्टं निर्वपामि'' इत्युत्तमपुरुषः। ''अग्ने यशस्विन्यशसे समर्पय'' इत्यामन्त्रणम्। ''उर्वी चासि, वस्वी चासि'' इत्यस्यन्तरूपम्। ''इषे त्वा, ऊर्जे त्वा'' इति त्वान्तरूपम्, आदिशब्देव- आशीर्देवताप्रतिपादनादयः।

4सिद्धान्तः

एवमाद्यनन्तर्भावादमानमिति चेत्- न
विध्यंशे करणेऽन्तर्भावात्
यद्यपि लिङ्प्रत्ययेन समानपदोपात्तो यजिधात्वर्थः करणम्
तथाऽपि तस्य यजेर्नामत्वेनोद्भिदादिपदमन्वेति
तस्मात्प्रमाणम्।
1

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि 30- 35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति स्वरुयूपाहवनीयादिशब्दानां तदर्थानां चालौकिकत्वेऽपि प्रसिद्धपदसमभिव्याहाराद्व्युत्पत्तिः संभवति उत्तानवहनादिकं त्वर्थवादः अस्तु वा तथावहनम्, तथाऽप्युत्तानादिशाब्दास्तदर्थाश्च लोकप्रसिद्धा एव तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः। 31”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.2 द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम्
अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात्।। 2।।
द्वितीयाधिकारणमारचयति-

1विषयः

गुणोऽयं नामधेयं वा खनित्रेऽस्य निरुक्तितः

3पूर्वपक्षः

ज्योतिष्टोमं समाश्रित्य पश्वर्थे गुणचोदना
''उद्भिदा यजेत पशुकामः'' इत्यत्र तृतीयान्तेनोद्भित्पदेन योऽर्थो विवक्षितः सोऽयं यागे कश्चिद्गुणः स्यात्। ''दध्नाजुहोति'' इत्यनेन गुणविधिना समानत्वात्। अथोच्येत 'दधिशब्दार्थो लोकप्रसिद्धः, उद्भिच्छब्दार्थस्त्वप्रसिद्धः' इति। तन्न। रूढ्यभावेऽप्यवयवार्थनिरुक्त्या तत्प्रसिद्धेः। 'उद्भिद्यते भूमिरनेन' इति व्युत्पत्त्या खनित्रवाच्यसौ शब्दः। न चात्र पशुफलकः कश्चिद्यागो विधीयत इति वाच्यम्। पशूनां गुणफलत्वात्। यथा ''गोदोहनेन पशुकामस्य'' इत्यत्र पशवो गोदोहनगुणस्य फलम्। तथेह खनित्रगुणस्य फलमस्तु। यदि ''चमसेनापः प्रणयेत्'' इति विहितं प्रकृतमपां प्रणयनमाश्रित्य गोदोहनं विधीयते, तर्ह्यत्रापि ''ज्योतिष्टोमेन यजेत'' इति विहितं प्रकृतंज्योतिष्टोममाश्रित्य खनित्रं विधीयताम्। तस्माद्गुणविधिरिति प्राप्ते-

4सिद्धान्तः

फलोद्भेदात्समानैषा निरुक्तिर्यागनाम्न्यपि
नामत्वमुचितं यागसामानाधिकरण्यतः
ब्रूमः- ''पशुकामो यजेत'' इत्यस्य पदद्वयस्यायमर्थः 'पशुरुपं फलं यागेन कुर्यात्' इति। तत्र 'केन यागेन' इत्यपेक्षायाम् 'उद्भिदा' इति तृतीयान्तं पदं यागनामत्वेनान्वेति। 'उद्भिद्यते पशुफलमनेन यागेन' इति निरुक्त्या नामत्वमुद्भित्पदस्योपपद्यते।
एवमपि गुणविधिनामधेयत्वयोः शब्दनिर्वचनसाम्यान्न निर्णय इति चेत्-
मैवम्। सामानाधिकरण्यस्य निर्णायकत्वात्। 'उद्भिन्नामकेन यागेन फलं कुर्यात्' इत्युक्ते सामानाधिकरण्यं लभ्यते। गुणत्वे तु 'खनित्रेण साध्यो यो यागः, तेन' इत्येवं वैयधिकरण्यं स्यात्। यदि 'खनित्रवता यागेन' इति सामानाधिकरण्यं योज्येत तदा मत्वर्थलक्षणा प्रसज्येत। तस्मादुद्भिदादिपदं नामधेयम्। ''दध्ना जुहोति'' ''व्रीहिभिर्यजेत'' इत्यादिषु द्रव्यविशेषे दध्यादिशब्दानामत्यन्तरूढतया यागनामत्वासंभवादगत्या गुणत्वमाश्रितम्। ''सोमेन यजेत'' इत्यत्रापि 'अप्रसिद्धार्थनामधेयत्वकल्पनातो वरं प्रसिद्धार्थद्वारेण लक्षणाश्रयणम्' इत्यभिप्रेत्य 'सोमद्रव्यवता यागेन' इति मत्वर्थलक्षणा स्वीकृता। उद्भिच्छब्दस्य तु लोकप्रसिद्धार्थाभावादुक्तरीत्या नामत्वं युक्तम्। प्रयोजनं तु नाम्नः सर्वत्र व्यवहार एव। न ह्यन्तरेण नामधेयमृत्विग्वरणादिषु 'अनेनाहं यक्ष्ये' इत्याख्यानोपायो लघुः कश्चिदस्ति। तस्मात्- उद्भिदादिकं नामधेयम्।। 3।। 4।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एवमाद्यनन्तर्भावादमानमिति चेत्- न विध्यंशे करणेऽन्तर्भावात् यद्यपि लिङ्प्रत्ययेन समानपदोपात्तो यजिधात्वर्थः करणम् तथाऽपि तस्य यजेर्नामत्वेनोद्भिदादिपदमन्वेति तस्मात्प्रमाणम्। 1”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्रैव गुरुमतमाह-

1विषयः

लौकिके गणयागेऽस्य विधेः सापेक्षतेति चेत्- निरुक्त्या श्रौतयागस्य नामत्वान्निरपेक्षता

3पूर्वपक्षः

''उद्भिदा यजेत'' इत्ययं गुणविधिः। न चास्य कश्चिच्छ्रौत आश्रयो लभ्यते। ततो लौकिको मातृगणयागादिराश्रयत्वेनापेक्षणीयः। तस्मिन्योगे गुणोयं विधीयते। तथा सति साक्षेपत्वादप्रामाण्यमस्याः चोदनाया इति चेत्-

4सिद्धान्तः

मैवम्
पूर्वोक्तनिरुक्त्या श्रौतयागनामत्वे सति निरपेक्षत्वात्
1.4.3 तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम्
यस्मिन्गुणोपदेशः प्रधानतोऽभिसंबन्धः।। 3।।

1विषयः

यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत्

3पूर्वपक्षः

चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ
तृतीयाधिकरणमारचयति
''चित्रया यजेत पशुकामः'' इत्याम्नायते। तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किंतु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते। ततो न पूर्वन्यायेन नामत्वम्। तथा सति ''अग्नीषोमीयं पशुमालभेत'' इति विहितं पशुयागमात्रं 'यजेत' इत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयेते इति प्राप्ते-

4सिद्धान्तः

द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः
स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा
ब्रूमः- चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ। तयोर्द्वयोर्विधाने वाक्यं भिद्येत। तथा चोक्तम्-
प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः। अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ।।
इति। अथ वाक्यभेदपिरहाराय गुणद्वयावीशिष्टं पशुद्रव्यरूपं कारकं विधीयते तदा गौरवं स्यात्। तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति। चित्रत्वं तु तस्य विलक्षणद्रव्यद्वारेणोपपद्यते। ''दधि, मधु, घृतम्, आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम्'' इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि। तदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम्। यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात्। उत्पन्नस्य तस्य यागस्य ''चित्रया यजेत पशुकामः'' इत्येतत्फलवाक्यम्। एवं सति प्रकृतार्थो लभ्यते। अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम्। लिङ्प्रत्ययस्यानुवादकत्वाङ्गीकारान्मुख्यो विध्यर्थो बाध्येत। तस्माच्चित्रापदं नामधेयम्।
यथा चित्राशब्दे नामधेयत्वम्। तथा बहिष्पवमानशब्दे, आज्यशब्दे, पृष्ठशब्दे च तन्नामधेयत्वं योजनीयम्। एवं हि श्रूयते ''त्रिवृद्बहिष्पवमानम्'' ''पञ्चदशान्याज्यानि'' ''सप्तदशानि पृष्ठानि'' इति। अस्य वाक्यत्रयस्यार्थो विव्रियते- सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि।
तत्र ''उपास्मै गायता नरः'' इत्याद्यं सूक्तम्।
''दविद्युतत्या रुचा'' इति द्वितीयम्।
''पावमानस्य ते कवे'' इति तृतीयम्।
ज्योतिष्टोमस्य प्रातःसवनानुष्ठाने तेषु त्रिषु सूक्तेषु गायत्रं साम गातव्यम्। तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते तत्रावस्थितानामृचां पवमानार्थत्वात्, बहिःसंबन्धाच्च। न खल्बिदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायाः संनिधौ प्रयुज्यते, किंतु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते। तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति। तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्यमेवमाम्नायते- ''तिसृभ्यो हिं करोति स प्रथमया, तिसृम्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमया, उद्यती त्रिवृतो विष्टुतिः'' इति। अयमर्थः- 'सूक्तत्रयपठितानां नवानामृचां गानं त्रिभिः पर्यायैः कर्तव्यम्। तत्र प्रथमे पर्याये- त्रिषु सूक्तेष्वाद्यास्तिस्त्र ऋचः, द्वितीये पर्याये- मध्यमाः, तृतीये पर्याये चोत्तमाः। तिसृभ्य इति तृतीयार्थे पञ्चमी। हिं करोति गायति' इत्यर्थः। सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः। तस्या विष्टुतेरुद्यती नाम, इति।
एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती। तयोः परिवर्तिन्येवमाम्नायते- ''तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः, परिवर्तिनी त्रिवृतो विष्टुतिः''- इति। पराचीभिरनुक्रमेणाम्नाताभिरित्यर्थः। कुलायिन्येवमाम्नायते- ''तिसृभ्यो हिं करोति स पराचीभिस्तिसृभ्यो हिं करोति, या मध्यमा सा प्रथमा, योत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा, सा मध्यमा या मध्यमा सोत्तमा, कुलायिनी त्रिवृत्तो विष्टुतिः'' इति। अत्र प्रथमसूक्ते पाठक्रम एव। द्वितीये मध्यमोत्तमप्रथमाः। तृतीये तूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः। तदिदं विष्टुतित्रयं विकल्पितम्। त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम्।।
उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वं चत्वारि सूक्तान्याम्नातानि-
''अग्न आ याहि वीतये'' इत्याद्यं सूक्तम्।
''आ नो मित्रावरुणा'' इति द्वितीयम्।
''आ याहि सुषुमा हि ते'' इति तृतीयम्।
''इन्द्राग्नी आ गतं सुतम्'' इति चतुर्थम्।
तान्येतानि प्रातःसवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते। तन्निर्वचनं च श्रूयते ''यदाजिमीयुः, तदाज्यानामाज्यत्वम्'' इति। तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति। तस्य स्तोमस्य विष्टुतिरेवमाम्नायते- ''पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिंकरोति स एकया स एकया स तिसृभिः'' इति। एकं सूक्तं त्रिरावर्तनीयम्। तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः। द्वितीयावृत्तौ मध्यमायाः। तृतीयावृत्तावृत्तमायाः। सोऽयं पञ्चदशस्तोमः।
उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यंदिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वं चत्वारि सूक्तान्याम्नातानि- तेषु
''अभि त्वा शूर नोनुम'' इत्याद्यम्,
''कया नश्चित्र आभुवत्'' इति द्वितीयम्।
''तं वो दस्ममृतीषहम्'' इति तृतीयम्।
''तरोभिर्वो विदद्वसुम्'' इति चतुर्थम्।
एतानि क्रमेण रथंतरवामदेव्यनौधसकालेयसामभिर्माध्यंदिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते। 'स्पर्शनात्पृष्ठानि' इत्येवं निरुक्तिर्द्रष्टव्या। तेषु स्तोत्रेषु सप्तदशस्तोमो भवति। तस्य स्तोमस्य विष्टुतिरेवमाम्नायते- ''पञ्चभ्यो हिंकरोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिंकरोति स एकया स तिसृभिः, सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिः''- इति। अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः, तृतीयावृत्तौ मध्यमोत्तमयोः सोऽयं सप्तदशस्तोमः। अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चदशसप्तदशशब्दा गुणविधायकत्वेन संमताः। यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुणविधायकाः स्युः, तदा प्रत्युदाहरणम्। गुणद्वयविधानाद्वाक्यभेदः स्यात्। तस्माद्बहिष्पवमानादिशब्दाः स्तोत्रनामधेयानि। तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते।। 6।। 7।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “फलोद्भेदात्समानैषा निरुक्तिर्यागनाम्न्यपि नामत्वमुचितं यागसामानाधिकरण्यतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.4 चतुर्थेऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (तत्प्रख्यन्याये) सूत्रम्
तत्प्रख्यं चान्यशास्त्रम्।। 4।।
चतुर्थाधिकरणमारचयति-

3पूर्वपक्षः

''अग्निहोत्रं जुहोति'' ''आघारमाघारयति'' इत्यत्राग्निहोत्रशब्दस्य कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्य स्वरूपमेव न सिध्येत्। तस्मादग्निदेवतारूपो गुणोऽनेन दर्विहोमे विधीयते। आघारशब्दश्च 'घृ क्षरणदीप्त्योः' इत्यस्माद्धातोरुत्पन्नः क्षरद्घृतमाचष्टे। तस्मिंश्च घृते द्वितीयाविभक्त्वा संस्कार्यत्वं प्रतीयते। तच्च संस्कृतं घृतमुपांशुयाजे (गे) द्रव्यं भवति। तस्मात् 'अग्निहोत्राघारशब्दौ गुणसंस्कारयोर्विधायकौ' इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- ''अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः'' इति विहितेन मन्त्रेण प्राप्तत्वाद्देवता न विधेया। ततोऽग्निसूर्यदेवताकस्य सायंप्रातःकालयोर्नियमेनानुष्ठेयस्य कर्मणः 'अग्निहोत्रम्' इति यौगिकं नामधेयम्। योगश्च बहुव्रीहिणा दर्शितः। 'चतुर्गृहीतं वा एतदभूत्तस्याघारमाघार्यः' इत्यनेनैवाज्यद्रव्यस्य प्राप्ततया क्षरद्धृतसंस्कारस्याविधेयत्वादाघारशब्दोऽपि यौगिकं कर्मनामधेयम्। यस्मिन्कर्माणि नैर्ऋतीं दिशमारभ्यैशानीं दिशमवधिं कृत्वा संतत्या घृतं क्षार्यते, तस्य कर्मण एतन्नाम।
ननु नामधेयत्वे सति ''उद्भिदा यजेत'' ''ज्योतिष्टोमेन यजेत'' इत्यादाविव धात्वर्थेन करणेन सामानाधिकरण्याय 'अग्निहोत्रेण जुहोति' 'आघारेणाघारयति' इति तृतीयया भवितव्यम्। नैष दोषः। अनुष्ठानादूर्ध्वं धात्वर्थस्य सिद्धत्वाकारेण करणत्वेऽपि ततः पूर्वं साध्यत्वाकारं वक्तुम् 'अग्निहोत्रम्' ' आघारम्' इति द्वितीयाया युक्तत्वात्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.5 पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम्
तद्व्यपदेशं च।। 5।।
पञ्चमाधिकरणमारचयति-

1विषयः

श्येनेनाभिचरन्मर्त्यो यजेतेति श्रुतौ गुणः
विधीयते पक्षिरूपो नाम वा तस्य कर्मणः

3पूर्वपक्षः

श्योनेनेति गुणः काम्यः सौमिकः सोमबाधया
न चित्रावद्वाक्यभेदो रूढेश्चैवमनुग्रहः
''श्येनेनाभिचरन्यजेत'' इत्यत्र कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्वरूपमपि न सिध्येत्। ततः सोमयागे नित्यं सोमद्रव्यं बाधित्वा सोमस्य स्थाने पक्षिद्रव्यरूपो गुणः काम्यो विधीयते। तथा सति श्येन शब्दस्य पक्षिणि लोकसिद्धा रूढिरनुगृह्यते। न च गुणविधित्वे चित्रायामिव वाक्यभेद आपादयितुं शक्यः। चित्रत्वस्त्रीत्ववद्गुणद्वयाभावादिति प्राप्ते-

4सिद्धान्तः

यथा वै श्येन इत्युक्ता ह्युपमानोपमेयता
नैकस्मिंस्तेन गौण्याऽस्य वृत्त्या स्यात्कर्मनामता
ब्रूमः- ''यथा वै श्योनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते यमभिचरति श्येनेन''- इति वाक्येनोक्त उपमानोपमेयभावः पक्षिण्येकस्मिन्न युज्यते। तस्मात्पक्षिण उपमानस्य गुण उपमेये कर्मण्यस्तीति श्येनशब्दस्याभिचारकर्मनामत्वम्। ''संदंशेनाभिचन्यजेत'' ''गवाऽभिचर्यमाणो यजेत''- इत्यत्र संदंशगोशब्दयोर्नामत्वं श्येनशब्दवद्द्रष्टव्यम्। ''यथा संदंशेन दुरादानमादत्ते'' ''यथा गावो गोपायन्ति''- इति वाक्यशेषाभ्यामुपमानोपमेयभावाभिधानात्।। 13।। 14।। 15।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थेऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (तत्प्रख्यन्याये) सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.6 षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि
नामधेये गुणश्रुतेः स्याद्विधानमिति चेत्।। 6।।
तुल्यत्वात्क्रिययोर्न।। 7।।
ऐकशब्द्ये परार्थवत्।। 8।।
षष्ठाधिकरणमारचयति-

3पूर्वपक्षः

''वाजपेयेन स्वाराज्यकामो यजेत'' इत्यत्र वाजपेयशब्देन गुणो विधीयते। अन्नवाची वाजशब्दः।
तच्चान्नं पेयं सुराद्रव्यम्। तच्चात्र गुणः। सुराग्रहाणामनुष्ठेयत्वात्।
ननु गुणत्वे 'वाजपेयगुणवता यागेन स्वाराजं भावयेत्' इति मत्वर्थलक्षणा प्रसज्येत। मैवम्। सकृदुच्चरितस्य 'यजेत' इत्वाख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकारात्। 'वाजपेयेन द्रव्येण स्वाराज्याय यजेत' इत्येवमुभयसंबन्धः।
ननु गुणसंबन्धे सति वाजपेयगुणेन यागं कुर्यात्, इति यजेः कर्मकारकत्वं भवति, फलसंबन्धे तु 'यागेन स्वाराज्यं संपादयेत्' इति करणकारकत्वम्। तत्कथं तदुभयसंबन्ध इति चेत्-
नायं दोषः। यजेः साधारणत्वेन द्विरूपत्वसंभवात्।'यजेत' इत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता, तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते। तच्च कर्मत्वकरणत्वयोः साधारणम्। न खलु तत्र कर्मत्वस्य करणत्वस्य वा साक्षादभिधायिका काचिदसाधारणी विभक्तिः श्रूयते। अतः साधारणस्य यजेरुभाभ्यां युगपत्संबन्धे सति यथोचितसंबन्धविशेषः पर्यवस्यति। एवं तन्त्रेण संबन्धाङ्गीकारे 'वाजपेयद्रव्येण यागं कुर्यात्' इत्यर्थस्य लम्यमानत्वाद्गुणविधित्वेऽपि नास्ति मत्वर्थलक्षणा। यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्, तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते-

4सिद्धान्तः

ब्रूमः- यजेस्तन्त्रेणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात्। उपादेयत्वं, विधेयत्वं, गुणत्वं चेत्येकं त्रिकम्। उद्देश्यत्वम्, अनुवाद्यत्वं, मुख्यत्वं चेत्यपरं त्रिकम्। तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः, उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठा धर्माः। फलमुद्दिश्य यजिरुपादीयते। फलमनूद्य यजिर्विधीयते। फलं प्रधानम्। यजिरुपसर्जनम्। फलस्योद्देश्यत्वं नाम मानसापेक्षो विषयत्वाकारः। यजेरुपादेयत्वं नामानुष्ठीयमानताकारः। तावुभौ मनः शरीरोपाधिकौ धर्मौ। अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ। ज्ञातस्य कथनमनुवादः। अज्ञातस्यानुष्ठेयत्वकथनं विधिः। फलयागयोः साध्यसाधनत्वरूपतया प्रधानत्वोपसर्जनत्वे। एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां यथा फलस्योद्देश्यत्वादित्रिकं, यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते। तथा यागस्य वाजपेयस्य च साध्यसाधनभावापर्यालोचनायां यागस्योद्देशत्वादित्रिकम्, वाजपेयद्रव्यस्योपादेयत्वादित्रिकं च पर्यवस्यति। ततो यागस्य फलद्रव्याभ्यां युगपत्संबन्धे सति विरुद्धं त्रिकद्वयमापद्यते।
ननु तर्हि मा भूत्तन्त्रेणोभयसंबन्धः, पृथक्संबन्धाय यजिरावर्त्यतामिति चेत्- वाक्यभेदप्रसङ्गात्। 'द्रव्येण यागं कुर्यात्' इत्येकं वाक्यम्। 'यागेन फलं कुर्यात्' इत्यपरम्। तस्माद्वाजपेयशब्दो न गुणविधायकः, किंतु यथोक्तं

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यथा वै श्येन इत्युक्ता ह्युपमानोपमेयता नैकस्मिंस्तेन गौण्याऽस्य वृत्त्या स्यात्कर्मनामता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.7 सप्तमे आग्नेयादीनामनामताधिकरणे सूत्रम्
तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः।। 9।।
सप्तमाधिकरणमारचयति-

1विषयः

यदाग्नेयोऽष्टाकपाल इति नाम गुणोऽथवा

3पूर्वपक्षः

नामाग्निहोत्रवन्मैवं नामत्वे देवता नहि
दर्शपूर्णमासयोः श्रूयते ''यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति''- इति। तत्र यथाऽग्निहोत्रशब्दः 'अग्नये होमः' इत्यमुमर्थं निमित्तीकृत्य कर्मनामधेयम्। तथाग्नेयशब्दोऽग्निसंबन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेत्-
मैवम्। नामत्वे देवताराहित्यप्रसङ्गात्। अग्निहोत्रे तु- ''अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति''- इत्यनेन वचनेन विहितो मन्त्रः प्रत्यक्षविहित इति मान्त्रवर्णिकी देवता लभ्यते। इह तु न तादृशो मन्त्रोऽस्ति। आग्नेयशब्दस्तु देवतां विधातुं शक्नोति। 'अग्निर्देवताऽस्य' इत्यस्मिन्नर्थे तद्धितस्योत्पन्नत्वात्। न च द्रव्यदेवतयोरुभयोर्गुणविधानाद्वाक्यभेद इति शङ्कनीयम्। कर्मणोऽप्राप्तत्वेन गुणद्वयविशिष्टस्य कर्मण एकेन वाक्येन विधानात्। तस्मात्- आग्नेयशब्देन देवतागुणो विधीयते।। 19।। 20।।

4सिद्धान्तः

मन्त्रोऽपि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः
देवद्रव्यविशिष्टस्य विधानादेकवाक्यता

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्र गुरुमतमाह-

1विषयः

यदाग्नेय इति प्रोक्तं न मानं विध्यसंभवात्

3पूर्वपक्षः

इति चेन्न विशिष्टार्थविधौ सत्यप्रमा कुतः

4सिद्धान्तः

उदाहृतवाक्ये देवताराहित्यप्रसङ्गेन नामत्वाभावाद्गुणयोर्विधौ वाक्यभेदाञ्च विध्यसंभवादप्रामाण्यमिति पूर्वपक्षः
गुणद्वयविशिष्टकर्मविधिसंभवात्प्रामाण्यमिति सिद्धान्तः
1.4.8 अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम्
वर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः।। 10।।
अष्टमाधिकरणमारचयति-

1विषयः

वर्हिराज्यपुरोडाशशब्दाः संस्कारवाचिनः

3पूर्वपक्षः

जात्यर्था वा शास्त्ररूढेस्ते स्युः संस्कारवाचिनः
दर्शपूर्णमासयोः श्रूयते ''बर्हिर्लुनाति'' ''आज्यं विलापयति'' ''पुरोडाशं पर्यग्नि करोति'' इति। अत्र बर्हिरादिशब्दानां शास्त्रे सर्वत्र संस्कृतेषु तृणादिषु प्रयोगात्, पील्वादिशब्देषु शास्त्रीयरूढिप्राबल्यस्योक्तत्वात्, यूपाहवनीयादिशब्दवत्संस्कारवाचिनो बर्हिरादिशब्दा इति चेत्-
मैवम्। अन्वयव्यतिरेकाभ्यां जातिवाचित्वात्। 'यत्र यत्र बर्हिरादिशब्दप्रयोगः, तत्र तत्र जातिः' इत्यस्या व्याप्तेर्लोके वेदे च नास्ति व्यभिचारः। संस्कारव्याप्तेर्लौकिकप्रयोगे व्यभिचारो दृश्यते। क्वचिद्देशविशेषे लौकिकव्यवहारो जातिमात्रमुपजीव्य विना संस्कारं ते शब्दाः प्रयुज्यन्ते- 'बर्हिरादाय गावो गताः' इति, 'क्रय्यमाज्यम्' इति, 'पुरोडाशेन मे माता प्रहेलकं ददाति' इति च। तस्माज्जातिवाचिनः। प्रयोजनं तु ''बर्हिषा यूपावटमवस्तृणाति'' इत्यत्र विना संस्कारेण स्तरणसिद्धिः।। 22।। 23।।

4सिद्धान्तः

जातिं त्यक्त्वा न संस्कारे प्रयुक्ता लोकवेदयोः
विनाऽपि संस्कृतिं लोके दृष्टत्वाज्जातिवाचिनः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे आग्नेयादीनामनामताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मन्त्रोऽपि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः देवद्रव्यविशिष्टस्य विधानादेकवाक्यता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्र गुरुमतमाह-

1विषयः

बर्हिरादौ निमित्तस्य दुर्वचत्वान्न मेति चेत्

3पूर्वपक्षः

जातेस्तत्र निमित्तत्वात्तद्युक्ता चोदना प्रमा

4सिद्धान्तः

स्पष्टोऽर्थः
1.4.9 नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम्
प्रोक्षणीष्वर्थसंयोगात्।। 11।।
नवमाधिकरणमारचयति--

1विषयः

प्रोक्षणीः संस्कृतिर्जातिर्योगो वा सर्वभूमिषु

3पूर्वपक्षः

तथोक्तेः संस्कृतिर्जातिः स्याद्रूढेः प्रबलत्वतः
दर्शपूर्णमासयोः श्रूयते ''प्रोक्षणीरासादय'' इति। तत्र प्रोक्षणीशब्दस्याभिमन्त्रणासादनादिसंस्कृतिः प्रवृत्तिनिमितम्। कुतः- सर्वेषु वैदिकप्रयोगप्रदेशेषु संस्कृतानामेवापां प्रोक्षणीशब्देनोच्यमानत्वादित्येकः पक्षः।
लोके जलक्रीडायां 'प्रोक्षणीभिरुद्वेजिताः स्मः' इत्यसंस्कृतास्वप्सु प्रयोगाद्बर्हिरादिशब्दवज्जातौ रूढत्वादुदकत्वजातिः प्रवृत्तिनिमित्तम्। न च 'प्रकर्षेणोक्ष्यत आभिः' इति योगोऽत्र शङ्कनीयः। रूढेः प्रबलत्वादिति पक्षान्तरम्। तत्र न तावत्संस्कारो युक्तः। अन्योन्याश्रयत्वात्। विहितेष्वभिमन्त्रणादिषु संस्कारेष्वनुष्ठितेषु पश्चात्संस्कृतास्वप्सु प्रोक्षणीशब्दप्रवृत्तिः। तत्प्रवृत्तौ सत्यां प्रोक्षणीशब्देनापोऽनूद्याभिमन्त्रणसिद्धिरिति। नापि जातिपक्षो युक्तः। उदकजातौ प्रोक्षणीशब्दस्य वृद्धव्यवहारे पूर्वमक्लृप्तत्वेनेतः परं शक्तेः कल्पनीयत्वात्। ततो गोशब्दवदश्वकर्णशब्दवच्च रूढो न भवति। योगस्तु व्याकरणेन क्लृप्तः, सोपसर्गाद्धातोः करणे ल्युट् प्रत्ययेन व्युत्पादनात्। तस्मात्- प्रोक्षणीशब्दो यौगिकः। घृतादेः प्रोक्षणत्वं प्रयोजनम्।। 25।। 26।।

4सिद्धान्तः

अन्योन्याश्रयतो नाद्यो न जातिः कल्प्यशक्तितः
योगः स्यात्क्लृप्तशक्तित्वात्क्लृप्तिर्व्याकरणाद्भवेत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “जातिं त्यक्त्वा न संस्कारे प्रयुक्ता लोकवेदयोः विनाऽपि संस्कृतिं लोके दृष्टत्वाज्जातिवाचिनः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.10 दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम्
तथा निर्मन्थ्ये।। 12।।
दशमाधिकरणमारचयति-

1विषयः

रूढिर्योगो योगरूढिर्वा निर्मन्थ्यस्य वर्तनम्
आद्यौ पूर्ववदन्त्त्योऽचिरजातेर्नावनीतवत्

3पूर्वपक्षः

अग्निचयने श्रूयते ''निर्मन्थ्येनेष्टकाः पचन्ति'' इति। तत्र 'निर्मन्थ्यशब्दस्य स्वार्थे कीदृशी वृत्तिः' इति
संशये-
बर्हिरादिशब्दवल्लौकिकवैदिकसाधारण्याद्वह्निजातौ रूढिरित्येकः पक्षः।
प्रोक्षणीशब्दवद्गूढेरक्लृप्तत्वादरणिनिर्मन्थनजन्यत्वाच्च योग इति पक्षान्तरम्।
लौकिकनिर्मन्थनेन चिरनिर्मन्थनेन च जन्यं वारयितुं योगरूढिः पङ्कजादिवदाश्रयणीया। आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतोऽग्निश्चिरनिर्मथितः। चयनकाले निर्मथ्योखासु धृतोऽग्निरचिरनिर्मथितः। सद्य एव लौकिकमथनेन जातोऽग्निरचिरनिर्मथितः। तेनेष्टकाः पच्यन्ते। यथा पुराणनूतनयोर्घृतयोर्नवनीतजन्यत्वे समानेऽपि योगरूढ्या नूतनमेव 'नावनीतम्' इति व्यवह्रियते तद्वत्।। 27।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अन्योन्याश्रयतो नाद्यो न जातिः कल्प्यशक्तितः योगः स्यात्क्लृप्तशक्तित्वात्क्लृप्तिर्व्याकरणाद्भवेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.11 एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि 13- 16
वैश्वदेवे विकल्प इति चेत्।। 13।।
न वा प्रकरणात्प्रत्यक्षविधानाच्च, नहि प्रकरणं द्रव्यस्य।। 14।।
मिथश्चानर्थसंबन्धः।। 15।।
परार्थत्वाद्गुणानाम्।। 16।।
एकादशाधिकरणमारचयति-

3पूर्वपक्षः

चातुर्मास्ययागस्य चत्वारि पर्वाणि- वैश्वदेवः, वरुणप्रघासः, साकमेधः, शुनासीरीयश्चेति। तेषु प्रथमे पर्वण्यष्टौ यागा विहिताः- ''आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं द्वादशकपालम्, सारस्वतं चरुम्, पौष्णं चरुम्, मारुतं सप्तकपालम्, वैश्वदेवीमामिक्षाम्, द्यावापृथिव्यमेककपालम्'' इति। तेषामष्टानां यागानां संनिधाविदमाम्नायते- ''वैश्वदेवेन यजेत'' इति। तत्राग्नेयादीन्यागान् 'यजेत' इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते। यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्ताः, तथाऽप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तत्वाद्विधीयन्ते। तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्, तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम्। नामधेयत्वे तु नाममात्रस्यावधेयत्वाद्द्रव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छूयमाणो विधिरनर्थकः स्यात्। तस्मात् 'गुणविधिः' इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- उत्पत्तिवाक्यैर्विहितानाग्नेयादीनष्टौ यागान् 'यजेत' इत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते। न च विधित्वासंभवेऽपि नामोपदेशवैयर्थ्यम्, ''प्राचीनप्रवणे वैश्वदेवेन यजेत'' इत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात्। नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा- आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितार्थानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम्। अथवा 'विश्वे देवा अष्टानां कर्तारः' इति वैश्वदेवत्वम्। तथा च ब्राह्मणम्- ''यद्विश्वे देवाः समयजन्त, तद्वैश्वदेवस्य वैश्वदेवत्वम्'' इति। देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते। अग्न्यादय उत्पत्तिशिष्टत्वात्प्रबलाः, विश्वेदेवा उत्पन्नशिष्टत्वाददुर्बलाः। तस्मात्- वैश्वदेवशब्दः कर्मनामधेयम्।। 28।। 29।। 30।। 31।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्र गुरुमतमाह-

1विषयः

गुणनामत्वसंदेहादप्रमा चोदनेति चेत्

3पूर्वपक्षः

नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात्

4सिद्धान्तः

स्पष्टोऽर्थः
1.4.12 द्वादशे वैश्वानरेऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि 17- 22
पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्ये समाम्नाये।। 17।।
गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थवत्ताऽस्ति।। 18।।
तच्छेषो नोपपद्यते।। 19।।
अविभागाद्विधानार्थे स्तुत्यर्थे नोपपद्येरन्।। 20।।
कारणं स्यादिति चेत्।। 21।।
आनर्थक्यादकारणं, कर्तुर्हि कारणानि, गुणार्थो विधीयते।। 22।।
द्वादशाधिकरणमारचयति-

3पूर्वपक्षः

काम्येष्टिकाण्डे श्रूयते ''वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते'' ''यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति, यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति, यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति'' इति। अत्राष्टत्वादिसंख्यासामान्यात्पुरोडाशादीनां गायत्र्यादिरूपत्वकल्पना कृता। इष्टिविधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः।
नात्र द्वादशकपालशब्दः संख्यापरः, किंतु पुरोडोशद्रव्यपरः। 'द्वादशसु कपालेषु संस्कृतः' इति व्युत्पत्तेः। एवमष्टाकपालादिशब्दा अपि। तथा सति द्रव्यस्य द्रव्यान्तरेऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेत्, एवं तर्हि पुरोडाशद्रव्यरूपो गुणो विधीयताम्। न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टकपालादेरनवकाश इति वाच्यम्। ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि 13- 16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
गुरुमतम्
अत्र गुरुमतमाह-

1विषयः

अगुणत्वादनामत्वादमन्त्रत्वादनन्वये

3पूर्वपक्षः

अष्टत्वाद्यप्रमाणं चेन्नार्थवादतयाऽन्वयात्
उक्तरीत्या गुणत्वं नामत्वं च न संभवति। उत्तमपुरुषामन्त्रणाद्यभावान्न मन्त्रत्वम्। अतोऽष्टाकपालदीनाम् अनन्वयादप्रामाण्यं वाक्यस्येति चेत्-

4सिद्धान्तः

मैवम्
स्तावकत्वेनान्वयस्योक्तत्वात्
1.4.13 त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम्
तत्सिद्धिः।। 23।।
त्रयोदशाधिकरणमारचयति-

1विषयः

यजमानः प्रस्तरोऽत्र गुणो वा नाम वा स्तुतिः
सामानाधिकरण्येन स्यादेकस्यान्यनामता

3पूर्वपक्षः

गुणो वा यजमानोऽस्तु कार्ये प्रस्तरलक्षिते
अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः
इदमाम्नायते- ''यजमानः प्रस्तरः'' इति। तत्र यजमानस्य प्रस्तरशब्दो नामधेयम्, प्रस्तरस्य वा यजमानशब्दो नामधेयम्। कुतः-
''उद्भिदा यागेन'' इत्यादाविव सामानाधिकरण्यादित्येकः पक्षः।
गुणविधिरित्यपरः पक्षः।
तदाऽपि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभावाद्गुणत्वं नास्ति। प्रस्तरकार्ये स्रुग्धारणादौ यजमानस्य शक्तत्वाद्यजमानरूपो गुणो विधीयते। एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वेऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भवति। न चात्र पूर्वन्यायेन स्तुतिः संभवति। अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोरंशांशित्वाभावात्।
''वायुर्वै क्षेपिष्ठा देवता'' ''ऊर्जोऽवरुध्यै'' इत्यादिवत्स्तुतिरिति चेत्- न। क्षिप्रत्वादिधर्मवत्कस्यचिदुत्कर्षस्याप्रतीतेः। तस्मात्- 'नामगुणयोरन्यतरत्वम् ' इति प्राप्ते-

4सिद्धान्तः

अर्थभेदादनामत्वं गुणश्चेत्प्रह्रियेत सः
यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः
ब्रूमः- गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्नामत्वं न युक्तम्। गुणपक्षे तु- अग्नौ प्रहरणस्य प्रस्तरकार्यत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात्। तस्मात्- विधेयः प्रस्तरो यजमानशब्देन स्तूयते। यथा 'सिंहो देवदत्तः' इत्यत्र सिंहगुणेन शौर्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते, तथा यजमानगुणेन यागसाधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते। एवं ''यजमान एककपालः'' इत्यादिषु द्रष्टव्यम्।। 37।। 38।। 39।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे वैश्वानरेऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि 17- 22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.14 चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम्
जातिः।। 24।।
चतुर्दशाधिकरणमारचयति-

1विषयः

आग्नेयो ब्राह्यणोऽत्रापि पूर्ववत्सर्वनिर्णयः

3पूर्वपक्षः

द्वारं तु मुखजन्यत्वमाग्नेयत्वेन संस्तवे
इदमाम्नायते ''आग्नेयो वै ब्राह्मणः'' इति। अत्रात्यन्तप्रसिद्धार्थभेदादाग्नेयशब्दो न ब्राह्यणस्य नामधेयम्। नाप्यग्निदेवतारूपो गुणो विधीयते। 'आग्नेयं सूक्तम्' 'आग्नेयं हविः', इत्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात्। नहि ब्राह्मणः सूक्तम्, नापि हविः। अतः संबन्धवाचितद्धितान्ताग्नेयशब्देन ब्राह्मणः स्तूयते। यद्यपि ब्राह्मणे नाग्निसंबन्धः, तथाऽप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते। तथा चाग्निब्राह्मणयोर्मुखजन्यत्वं क्वचिदर्थवादे समाम्नायते ''प्रजापतिरकामयत, प्रजाः सृजेयेति, स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवताऽन्वसृज्यत, गायत्री छन्दः, रथंतरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम्, तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त'' इति। तस्मात्- आग्नेयशब्दः स्तावकः।

4सिद्धान्तः

एवम्- ''ऐन्द्रो राजन्यः'' ''वैश्यो वैश्वदेवः'' इत्यादिषु द्रष्टव्यम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अर्थभेदादनामत्वं गुणश्चेत्प्रह्रियेत सः यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.15 पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम्
सारूप्यात्।। 25।।
पञ्चदशाधिकरणमारचयति-

1विषयः

आदित्यो यूप इत्यत्र स्तुतिरादित्यशब्दतः

3पूर्वपक्षः

द्वारं चाक्षुषसारूप्यं घृताक्ते तैजसेऽस्ति तत्
आदित्ये यच्चक्षुर्गम्यं तेजस्वित्वं तद्यूपेऽप्यस्ति। घृताक्तस्य यूपस्य तेजस्वित्वाध्यवसायात्। ततः- आदित्यशब्देन यूपः स्तूयते।

4सिद्धान्तः

एवं- ''यजमानो यूपः'' इत्यत्र चक्षुर्गम्यस्योर्ध्वत्वस्य समानत्वाद्यजमानशब्देन यूपः स्तूयते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एवम्- ''ऐन्द्रो राजन्यः'' ''वैश्यो वैश्वदेवः'' इत्यादिषु द्रष्टव्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.16 षोडशेऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम्
प्रशंसा।। 26।।
षोडशाधिकरणमारचयति-

1विषयः

पशवोऽन्ये गवाश्वेभ्योऽपशवो वा इति श्रुतम्
अजादिष्वपशुत्वं यद्गुणो वादोऽथवाऽस्तु तत्

3पूर्वपक्षः

स्तुत्यभावाद्गुणस्तेषु पशुकार्यनिषेधनम्
अशक्यत्वान्निषेधस्य घटाद्यर्थाभिधायिना
इदमाम्नायते- ''अपशवो वा अन्ये गोश्वेभ्यः, पशवो गोअश्वाः'' इति। तत्राजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न संभवति। पशुत्वनिषेधमात्रेण स्तुतेरप्रतिभानात्। ततः पशुकार्यनिषेधरुपो गुणो विधीयत इति चेत्-
मैवम्। अजादिपशुविधिवैयर्थ्थप्रसङ्गेन निषेद्धुमशक्यत्वात्। अपशुशब्दः पशुव्यतिरिक्तं घटादिपदार्थजातम् अभिदधाति। तस्मिन्घटादौ गवाश्ववत्प्राशस्त्यं नास्ति। सोऽयं प्राशस्त्याभावोऽजादिषु पशुष्वस्तीत्यनेनाभिप्रायेण पशव एव सन्तोऽप्यजादयो घटादिसाम्यादपशुशब्देन लक्ष्यन्ते। पूर्वत्र यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम् सारूप्यं तत्प्रवृत्तिफलं प्रस्तरादिप्रशंसा। इह त्वपशुशब्दस्याजादिषु प्रवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च।
द्विप्रकारा प्रशंसा- वस्तूनिविद्यमानगुणोत्कर्ष एकः प्रकारः।
स्तावकेन शब्देन संपादितो गुणोत्कर्षोऽपरः प्रकारः।
गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सोऽत्र निमित्तम्। 'अजादयः स्वभावतः पशवोऽपि सन्तो गवाश्वौ प्रत्यपशवः संपन्नाः। ईदृशो गवाश्वयोर्महिमा' इति स्तुतिफलम्। तस्मात्- ''अपशवो वै'' इत्ययमर्थवादः।
अयमेव न्याय उदाहरणान्तरेऽपि योजनीयः- ''अयज्ञो वा एष योऽसामा'' इत्येकमुदाहरणम्। ''असत्रं वा एतद्यच्छन्दोमम्'' इत्यपरमुदाहरणम्। 'अग्निहोत्रदर्शपूर्णमासादिर्यज्ञोऽपि सामहीनत्वादयज्ञो भवति। ईदृशः साम्नो महिमा'। छन्दोमशब्देन चतुर्विंशः, चतुश्चत्वारिंशः, अष्टचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते। अक्षरसंख्यासाम्येन गायत्रीत्रिष्टुब्जगतीछन्दोभिर्गीयमानत्वात्। तेषां च विष्टुतिः सामब्राह्मणे द्रष्टव्या। अतः 'सत्रमपि चतुर्दशरात्रादिकं छन्दोमरहितत्वादसत्रं भवति। ईदृशश्छन्दोमानां महिमा'। इत्येवं स्तावकत्वादर्थवादत्वम्।। 42।। 43।। 44।।

4सिद्धान्तः

पशवोऽपशुशब्देन प्राशस्त्याभावसाम्यतः
लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एवं- ''यजमानो यूपः'' इत्यत्र चक्षुर्गम्यस्योर्ध्वत्वस्य समानत्वाद्यजमानशब्देन यूपः स्तूयते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.17 सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम्
भूमा।। 27।।
सप्तादशाधिकरणमारचयति-

3पूर्वपक्षः

अग्निचयने श्रूयते ''सृष्टीरुपदधाति'' इति। सृष्टिशब्दोपेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते। 'सृष्टिमानासामुपधानो मन्त्रः' इति विगृह्य ''तद्वानासामुपधानः''- [पा. सू. 4।4।125 ] इत्यादिव्याकरणसूत्रसिद्धप्रक्रियया तन्निष्पादनात्। सृष्टिशब्दोपेताश्चोपधानमन्त्राः- ''एकयाऽस्तुवत'' इत्यस्मिन्ननुवाके समाम्नाताः। ''ब्रह्मासृज्यत, भूतान्यसृज्यन्त'' इत्यादिना सृजतिधातोस्तेषु प्रयुक्तत्वात्। ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते। कुतः- 'उपदधाति' इत्यनेनाख्यातेनाभिसंबन्धात्। न चार्थवादत्वमस्य संभवति। विध्यन्तरेण सहैकवाक्यत्वाभावादिति प्राप्ते-

4सिद्धान्तः

ब्रूमः- अग्निचयनप्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयनसंबन्धोऽवगम्यते। विशेषसंबन्धः सृजतिलिङ्गादवगन्तव्यः। तथासति प्राप्तत्वान्न ते मन्त्रा अत्र विधीयन्ते, किंतु- तान्मन्त्राननूद्येष्टकोपधानं विधीयते। सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्त्यर्थः। ''यथासृष्टमेवावरुन्धे'' इति हि वक्ष्यमाणोऽर्थवादः। यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात्, तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोः वैयधिकरण्यभ्रमः स्यात्। तस्मान्मन्त्रानुवादी सृष्टिशब्दो न गुणविधायकः, किंत्वर्थवादः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशेऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पशवोऽपशुशब्देन प्राशस्त्याभावसाम्यतः लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.18 अष्टादशे लिङ्गसमवायन्याये (प्राणभृदादिशब्दानां स्तुत्यर्थत्वाधिकरणे ) सूत्रम्
लिङ्गसमवायात्।। 28।।
अष्टादशाधिकरणमारचयति-

1विषयः

सृष्टिवत्प्राणभृत्तत्र सादृश्यं लिङ्गभूमतः
अत्रैकमन्त्रगो लिङ्गसमवायो विशिष्यते

3पूर्वपक्षः

''प्राणभृत उपदधाति'' इत्यत्रापि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्षः।
लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधानविधिः। ''एतस्यैव प्राणान्दधाति'' इत्यस्य वक्ष्यमाणार्थवादस्योप पत्तये प्राणभृच्छब्देन मन्त्रानुवादः। पूर्वत्र- द्वितीयादिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम्। इह तु- प्रथममन्त्र एव प्राणभृल्लिङ्गमाम्नायते- ''अयं पुरोभुवस्तस्य प्राणो भौवायनः''इति। एकस्यैव मन्त्रस्य प्राणभृत्त्वेऽपि 'छत्रिणो गच्छन्ति' इतिवत्तत्सहचरिताः सर्वे मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते। तदेवं यजमानकार्यसिद्ध्यादयो गुणवृत्तिहेतवो निर्णीताः। तथा चोक्तम्-
तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः। षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता।। इति।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.19 एकोनविंशे वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणे सूत्रम्
संदिग्धेषु वाक्यशेषात्।। 29।।
एकोनविंशाधिकरणमारचयति-

3पूर्वपक्षः

''अक्ताः शर्करा उपदधाति'' ''तेजो वै घृतम्'' इति श्रूयते। मृत्तिकामिश्राः क्षुद्रपाषाणाः शर्कराः। ताश्च घृततैलवसादीनामन्यतमेन द्रव्येणाञ्जनीयाः। कुतः- अञ्जनसामान्यबोधकस्य विधिवाक्यस्य घृतविशेषबोधका- दर्थवादात्प्रबलत्वात्। तत्प्राबल्ये च मुख्यत्वादयस्त्रयो हेतवः। स्वार्थतया विधेर्मुख्यत्वम्, प्रथमश्रुतत्वात् चासंजातविरोधित्वम्, अनधिगतार्थबोधकत्वादप्राप्तार्थत्वम्, अर्थवादस्तु- विधिस्तावकत्वान्न मुख्यः, चरमश्रुतत्वात्संजातविरोधी, ज्ञातार्थानुवादित्वात्प्राप्तार्थः। तस्मात्- 'येन केनाप्यञ्जनम्' इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- विधिवाक्येन किमञ्जनसाधनसामान्यं विधीयते, तद्विशेषो वा। नाद्यः। सामान्यस्याननुष्ठेयत्वात्। न द्वितीयः। घृततैलादिविशेषवाचकशब्दाभावात्। तत उक्तरीत्या प्रबलमपि विधिवाक्यमनुष्ठानयोग्ये विशेषे संदेहजनकतया निर्णयहेतुमर्थवादमपेक्षते, न तु तेन सह विरुध्यते। अर्थवादेऽपि घृतस्य विधिर्नास्तीति चेत्- न।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे लिङ्गसमवायन्याये (प्राणभृदादिशब्दानां स्तुत्यर्थत्वाधिकरणे ) सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.4.20 विंशे सामर्थ्येनाव्यवस्थितानां व्यवस्थाधिकरणे सूत्रम्
अर्थाद्वा कल्पनैकदेशत्वात्।। 30।।
विंशाधिकरणमारचयति--

3पूर्वपक्षः

''स्रुवेणावद्यति'' ''स्वधितिनाऽवद्यति'' ''हस्तेनावद्यति'' इति श्रूयते। तत्रावदेयेष्वाज्यमांसपुरोडाशेषु
हविःष्वमी स्रुवाद्या अवदानहेतवः संकीर्णाः। कुतः- व्यवस्थापकस्य शब्दस्याभावादिति चेत्-
मैवम्। शक्तेर्व्यवस्थापकत्वात्।
आख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी ।
इति न्यायात्। 'कटे भुङ्क्ते' 'कांस्यपात्र्यां भुङ्क्ते' इत्यत्र लौकिकास्तत्तद्वस्तुशक्त्यनुसारेण व्यवस्थां कल्पयन्ति- 'कट आसीनः,' कांस्यपात्र्यामोदनं निधाय' इति। वेदेऽपि- ''अञ्जलिना सक्तून्प्रदाय जुहुयात्'' इत्यत्र यद्यपि द्विहस्तसंयोगोऽञ्जलिः, तथाऽपि गुरुदेवतादिप्रसादनार्थाञ्जलिवन्निश्छिद्रसंयोगो न भवति। तादृशेऽञ्जलौ सक्तूनामवकाशाभावात्। अतः सामर्थ्यात्संयुक्तप्रसृतिद्वयात्मको मध्यगतावकाशोपेतोऽञ्जलिर्गृहीतः। एवमत्रापि द्रवद्रव्यस्याज्यस्य स्रुवो योग्यः, छेदनीयमांसस्य शस्त्रविशेषः स्वधितिः। संहतस्य पुरोडाशस्य हस्तः, इत्येनेन प्रकारेण स्रुवाद्या व्यवस्थिताः।। 54।। 55।।
अत्र पादे अधिकरणानि 20, सूत्राणि 42।
आदितः अधिकरणानि 42, सूत्राणि 150।
।। श्रीः।।
अथ द्वितीयोऽध्यायः - कर्मभेदः
द्वितीयाध्याये प्रथमः पादः
आख्यातमेवापूर्वबोधकम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “विध्यर्थवादादिरूपं प्रमाणं निरूपितम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “उद्भिच्चित्रादिनामरूपम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 1, Pāda 3 Contents Adhyāya 2, Pāda 1 →