SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 11, Pāda 2

तन्त्रम्

तन्त्रावापौ संक्षेपेणोक्तौ

15adhikaraṇas
66sūtras
11.2.1 प्रथमे- आग्नेयादीनां प्रधानानां तन्त्राधिकरणे सूत्रे 1-2
SŪएकदेशकालकर्तृत्वं मुख्यानामेकशब्दोपदेशात्।। 1।।
SŪअविधिश्चेत्कर्मणामभिसंबन्धः प्रतीयेत लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानं भावः स्यात्।। 2।।
द्वितीयपादस्य प्रथमाधिकरणमारचयति-

1विषयः

आग्नेयादिप्रधानस्य देशे काले च कर्तरि

3पूर्वपक्षः

भेदः स्यादथवा तन्त्रमङ्गत्वाद्द्रव्यदेववत्
दर्शपूर्णमासयोर्देशकालकर्तारो विहिताः- ''समे दर्शपूर्णमासाभ्यां यजेत'' ''पौर्णमास्यां पौर्णमास्या यजेत'' ''अमावास्यायाममास्यया यजेत'' ''दर्शपूर्णमासयोश्चत्वार ऋत्विजः'' इति। एते देशकालकर्तारोऽङ्गत्वाद्द्रव्यदेवतावदुत्पत्तिविधिशेषाः सन्तः प्रधानेष्वाग्नेयादिषु प्रतिप्रधानं भिद्यन्ते। इति प्राप्ते-

4सिद्धान्तः

उत्पत्तिविधिशेषत्वाद्भेदः स्यादेकशब्दतः
विधेः प्रयोगशेषत्वादभेदेन तु तन्त्रता
ब्रूमः- ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इत्येकेन शब्देनाग्नेयादीनां पृथगुत्पन्नानामपि परस्परसहितानामेव फलसाधनत्वेन विधानादेकः प्रयोगो गम्यते। तमेकप्रयोगापादकमेकं दर्शपूर्णमासशब्दमुपजीव्य देशादिविधानाद्देशादयोऽपि प्रयोगशेषा एव, न तूत्पत्तिशेषाः। तस्मात्- एकस्मिन्प्रयोगे देशादीनां तन्त्रेण संबन्धः।। 1।। 2।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- कृष्णग्रीवयोः प्रथमतृतीययोर्भेदेन प्रदानाधिकरणे स्रत्राणि 67-70”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तर एकादशाध्यायस्य प्रथमः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.2 द्वितीये- अङ्गानामपि समदेशादिनियमाधिकरणे सूत्राणि 3-10
SŪअङ्गेषु च तदभावः प्रधानं प्रति निर्देशात्।। 3।।
SŪयदि तु कर्मणो विधिसंबन्धः स्यादैकशब्द्यात्प्रधानार्थाभिसंयोगात्।। 4।।
SŪतथा चान्यार्थदर्शनम्।। 5।।
SŪश्रुतिश्चैषां प्रधानवत्कर्मश्रुतेः परार्थत्वात्कर्मणोऽश्रुतित्वाच्च।। 6।।
SŪअङ्गानि तु विधानत्वात्प्रधानेनोपदिश्येरन्, तस्मात्स्यादेकदेशत्वम्।। 7।।
SŪद्रव्यदेवतं तथेति चेत्।। 8।।
SŪन चोदनाविधिशेषत्वान्नियमार्थो विशेषः।। 9।।
SŪतेषु समवेतानां समवायात्तन्त्रमङ्गानि, भेदस्तु तद्भेदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्, तथा चान्यार्थदर्शनम्।। 10।।
द्वितीयाधिकरणमारचयति-

1विषयः

अङ्गे ये केऽपि देशाद्याः किंवा ते देवतादिवत्

3पूर्वपक्षः

अनन्वयात्केऽपि मैवं प्रयोगेण परिग्रहात्
प्रयाजाद्यङ्गेषु ये केऽपि देशकालकर्तारः प्रतीष्टि कर्तव्याः। कुतः- अनन्वयात्। यथा प्रधानान्वितयोर्द्रव्यदेवतयोरङ्गेष्वन्वयो नास्ति, तथा देशादीनामपि। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- प्रयोगशेषत्वं देशादीनाम्, न त्वाग्नेयादिविधिशेषत्वम्, इत्युक्तम्
प्रयोगेण च प्रधानवदङ्गान्यपि गृह्यन्ते
तस्मात्- य एव देशादयः प्रधानानाम्, त एवाङ्गानामपि
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- आग्नेयादीनां प्रधानानां तन्त्राधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उत्पत्तिविधिशेषत्वाद्भेदः स्यादेकशब्दतः विधेः प्रयोगशेषत्वादभेदेन तु तन्त्रता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.3 तृतीये- दर्शपूर्णमासेष्टिप्रभृतिषु संघभेदेनाङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 11-17
SŪइष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात्।। 11।।
SŪकालभेदान्नेति चेत्।। 12।।
SŪनैकदेशत्वात्पशुवत्।। 13।।
SŪअपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात्साङ्गानामुपदेशः स्यात्।। 14।।
SŪतथा चान्यार्थदर्शनम्।। 15।।
SŪतदावयवेषु स्यात्।। 16।।
SŪपशौ तु चोदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात्।। 17।।
तृतीयाधिकरणमारचयति-

1विषयः

संघभेदे तन्त्रमङ्गं न वा, कर्मैक्यतोऽग्रिमः
न मुख्यकालभेदोक्त्या प्रयोगस्य पृथक्त्वतः

3पूर्वपक्षः

इष्टौ विद्यमानानां षण्णां यागानां द्वाववान्तरसंघौ- दर्शश्च पूर्णमासश्च। चातुर्मास्येषु चत्वारः संघाः- वैश्वदेववरुणप्रघाससाकमेधसुनासीरीयाः। एतादृशे विषये संघातानेकत्वेऽपि कर्मैक्यात्प्रयोगैक्ये साङ्गानां तन्त्रेणानुष्ठानं युक्तम्। न च पौर्णमास्यमावास्ययोः कालयोर्भेदेनाङ्गभेदः शङ्क्यः। पशुवदभेदोपपत्तेः। ''वपया प्रातःसवने प्रचरन्ति, पुरोडाशेन माध्यंदिने, अङ्गैस्तृतीयसवने'' इति वपापुरोडाशहृदयाद्यङ्गप्रचाराणां कालभेदेऽपि पश्वङ्गानां प्रयाजानां यथा नास्त्यावृत्तिः, तद्वदत्रापि। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- नात्राङ्गतन्त्रं युक्तम्। कुतः- दर्शपूर्णमासकर्मण एकफलसाधनत्वेन स्वरूपत एकत्वेऽपि दर्शप्रयोगात्पूर्णमासप्रयोगस्य पृथक्त्वात्। तच्च पृथक्त्वं वाचनिकात्कालभेदादवगम्यते। पशुदृष्टान्तस्तु विषमः। नहि मुख्यस्य पशुयागस्य भेदोऽभिहितोऽस्ति। वपादीनां तु प्रयाजाद्यपेक्षया मुख्यत्वेऽप्यस्ति महद्वैषम्यम्। प्रयाजादिभ्यो वपादयो मुख्याः। तेभ्यो वपाद्यवयवेभ्योऽवयवी पशुर्मुख्यः। अत्रापि प्रयाजादिभ्य आग्नेयादयस्त्रयो मुख्याः। तेभ्योऽपि तेषां संघो दर्शो मुख्यः। तस्य च दर्शस्य कालभेदोऽपि विधीयते- 'अमावास्यायाममावास्यया यजेत' इति। तत्र दर्शयागस्थानीयस्य पशुयागस्य कालभेदो वीधीयते। न हि प्रचारस्याङ्गभूतस्य मुख्ययागत्वमस्ति, येन प्रयोगभेद आशङ्क्येत। तस्मात्- पशुवैषम्येण मुख्यस्यैव दर्शस्य पूर्णमासयागस्य च कालभेदोक्त्या प्रयोगभेदे सति प्रयोगशेषाणां प्रयाजादीनामावृत्तिरिति। एवं वैश्वदेवादिषु द्रष्टव्यम्।। 4।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- अङ्गानामपि समदेशादिनियमाधिकरणे सूत्राणि 3-10”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रयोगशेषत्वं देशादीनाम्, न त्वाग्नेयादिविधिशेषत्वम्, इत्युक्तम् प्रयोगेण च प्रधानवदङ्गान्यपि गृह्यन्ते तस्मात्- य एव देशादयः प्रधानानाम्, त एवाङ्गानामपि”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.4 चतुर्थे- अध्वरकल्पायां त्रिषु संघेष्वङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 18-22
SŪतथा स्यादध्वरकल्पायां विशेषस्यैककालत्वात्।। 18।।
SŪइष्टिरिति चैकवच्छ्रुतिः।। 19।।
SŪअपि वा कर्मपृथक्त्वात्तेषां च तन्त्रविधानात्साङ्गानामुपदेशः स्यात्।। 20।।
SŪप्रथमस्य वा कालवचनम्।। 21।।
SŪफलैकत्वादिष्टिशब्दो यथाऽन्यत्र।। 22।।
चतुर्थाधिकरणमारचयति-

1विषयः

अङ्गान्यध्वरकल्पायां प्रातः कालादिवर्तिषु
त्रिषु संघेषु तन्त्रेण स्युर्भेदेनाथवाऽग्रिमः

3पूर्वपक्षः

उषस्यशेषनिर्वापात्तद्वदङ्गापकर्षणात्
प्रातर्निर्वापवैशेष्यान्मुख्यकालाय भिन्नता
काम्येष्टिष्वध्वरकल्पा नाम काचिदिष्टिः। तत्र- प्रातःकाले त्रयाणां यागानामाग्नावैष्णवसारस्वतबार्हस्पत्यानां संघः पठितः। मध्याह्नापराह्णयोरपि तथैव पठितः। अष्टाकपालैकादशकपालद्वादशकपालैराग्नावैष्णवो विशेषितः। इतरत्समानम्। तत्र त्रिषु संघेषु प्रयाजाद्यङ्गानां तन्त्रम्। कुतः- ''पुरा वाचः प्रवदितोर्निर्वपेत्'' इति संघस्य यागस्याशेषस्य निर्वापस्य रात्रौ सुप्तजनानां प्रबोधपूर्वकव्यापारात्प्राचीन उषःकालेऽपकर्षे सति निर्वापवदङ्गान्तराणामपकर्षस्य प्रतिभानात्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- ''आग्नावैष्णवं प्रातरष्टाकपालं निर्वपेत्'' इति सामान्येन विहितो यः प्रातः कालीनो निर्वापः स एव संनिहितत्वात् 'पुरा वाचः' इति विशेष्यते
तस्मात्- उत्तरसंघनिर्वापोऽपि मुख्यत्वलाभाय तत्तत्कालयोः कर्तव्यः
तद्वत्प्रयाजादीनामपि भेदेनानुष्ठानम्।
5
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- दर्शपूर्णमासेष्टिप्रभृतिषु संघभेदेनाङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 11-17”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.5 पञ्चमे- प्राजापत्यवसाहोमानां तन्त्रेणानुष्ठानाधिकरणे सूत्रम्
SŪवसाहोमस्तन्त्रमेकदेवतेषु स्यात्प्रदानस्यैककालत्वात्।। 23।।
पञ्चमाधिकरणमारचयति-

1विषयः

प्राजापत्यवसानां किं भेदस्तन्त्रमुताग्रिमः

3पूर्वपक्षः

पशुभेदाद्देवपाककालैक्याच्छक्तितोऽन्तिमः
वाजपेये सप्तदशसु प्रजापतिदेवताकेषु पशुषु तद्भेदानुसारेण वसाहोमो भिद्यते। इति चेत्-

4सिद्धान्तः

न
प्रजापतिरेक एव सप्तदशानां पशूनां देवता
तथा पाकोऽपि सहैव क्रियते
प्रदानस्यापि पाक उपलक्षणम्, प्रदानेऽपि साहित्यमस्ति
कालश्चैकः, याज्यार्धर्चान्तस्य कालत्वेन चोदकातिदेशात्
शक्यते च सह होमः
तस्मात्- तन्त्रम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- अध्वरकल्पायां त्रिषु संघेष्वङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 18-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ''आग्नावैष्णवं प्रातरष्टाकपालं निर्वपेत्'' इति सामान्येन विहितो यः प्रातः कालीनो निर्वापः स एव संनिहितत्वात् 'पुरा वाचः' इति विशेष्यते तस्मात्- उत्तरसंघनिर्वापोऽपि मुख्यत्वलाभाय तत्तत्कालयोः कर्तव्यः तद्वत्प्रयाजादीनामपि भेदेनानुष्ठानम्। 5”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.6 षष्ठे- ऐकादशिनगतवसाहोमस्य भेदेनानुष्ठानाधिकरणे सूत्रम्
SŪकालभेदे त्वावृत्तिर्देवताभेदे।। 24।।
षष्ठाधिकरणमारचयति-

1विषयः

ऐकादशिनगे तन्त्रं वसाहोमेऽथ भिन्नता

3पूर्वपक्षः

तन्त्रं शक्यत्वतो भेदः प्रदानार्धर्चभेदतः
ऐकादशिनेष्वाग्नेयसारस्वतसौम्यादिपशुषु वसाहोमस्य सह कर्तुं शक्यत्वात्तन्त्रम्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- देवताभेदेन प्रदानभेदान्न तन्त्रम्
याज्यार्धर्चान्तकालानां भिन्नत्वेनानुष्ठाने यौगपद्यासंभवाद्भेदः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- प्राजापत्यवसाहोमानां तन्त्रेणानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न प्रजापतिरेक एव सप्तदशानां पशूनां देवता तथा पाकोऽपि सहैव क्रियते प्रदानस्यापि पाक उपलक्षणम्, प्रदानेऽपि साहित्यमस्ति कालश्चैकः, याज्यार्धर्चान्तस्य कालत्वेन चोदकातिदेशात् शक्यते च सह होमः तस्मात्- तन्त्रम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.7 सप्तमे- यूपैकादशिन्यां तन्त्रेण यूपाहुत्यनुष्ठानाधिकरणे सूत्राणि 25-27
SŪअन्ते यूपाहुतिस्तद्वत्।। 25।।
SŪइतरप्रतिषेधो वा।। 26।।
SŪअशास्त्रत्वाच्च देशानाम्।। 27।।
सप्तमाधिकरणमारचयति-

1विषयः

यूपैकादशिनीयूपाहुतेर्भेदोऽथ तन्त्रता

3पूर्वपक्षः

समीपभेदादाद्योऽन्त्यः सामीप्यं दृष्टिगं यतः
यूपैकादशिन्यां चोदकप्राप्ता यूपाहुतिः प्रतियूपं भिद्यते। कुतः- ''यूपस्यान्तिकेऽग्निं मथित्वा यूपाहुतिं जुहोति'' इति तद्विधानात्। सामीप्यानां च भेदात्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- न तावदत्यन्तसामीप्यं संभवति
यूपदाहप्रसङ्गात्
अतो यावता व्यवधानेन यूपा दृष्टिगोचरा भवन्ति, तावतो देशस्य समीपत्वमभ्युपेयम्
तेन देशैक्यसंभवादाहुतेस्तत्र तन्त्रता
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- ऐकादशिनगतवसाहोमस्य भेदेनानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- देवताभेदेन प्रदानभेदान्न तन्त्रम् याज्यार्धर्चान्तकालानां भिन्नत्वेनानुष्ठाने यौगपद्यासंभवाद्भेदः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.8 अष्टमे- साङ्गस्यावभृथस्याप्स्वनुष्ठानाधिकरणे सूत्राणि 28-31
SŪअवभृथे प्रधानेऽग्निविकारः स्यान्नहि तद्धेतुरग्निसंयोगः।। 28।।
SŪद्रव्यदेवतावत्।। 29।।
SŪसाङ्गो वा प्रयोगवचनैकत्वात्।। 30।।
SŪलिङ्गदर्शनाच्च।। 31।।
SŪशब्दविभागाच्च देवतानपनयः।। 32।।
अष्टमाधिकरणमारचयति-

1विषयः

किमप्स्ववभृथे मुख्यमात्रं साङ्गमुताग्रिमः

3पूर्वपक्षः

मुख्यत्वेनान्वयान्मैवं प्रयोगेण तदन्वयात्
इदं श्रूयते- ''अप्स्ववभृथेन चरन्ति'' इति। तत्र वारुण एककपालोऽवभृथशब्दवाच्यत्वान्मुख्यं कर्म। तेन मुख्येनापामन्वयः श्रूयते। अतो द्रव्यदेवतावदपां मुख्यमात्राङ्गत्सप्रधानस्यैवाप्स्वनुष्ठानम्। आघाराज्यभागादीन्याहवनीयेऽनुष्ठेयानि। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- स्यादप्येवम्, यदि 'अवभृथे' इत्येतावदेव श्रूयेत
इह तु 'अप्सु चरन्ति' इति श्रवणादवभृथप्रयोगेणापामन्वयात्साङ्गं प्रधानमप्सु कर्तव्यम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- यूपैकादशिन्यां तन्त्रेण यूपाहुत्यनुष्ठानाधिकरणे सूत्राणि 25-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- न तावदत्यन्तसामीप्यं संभवति यूपदाहप्रसङ्गात् अतो यावता व्यवधानेन यूपा दृष्टिगोचरा भवन्ति, तावतो देशस्य समीपत्वमभ्युपेयम् तेन देशैक्यसंभवादाहुतेस्तत्र तन्त्रता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.9 नवमे- वरुणप्रघासेष्वाग्नेयादीनां मारुत्या भेदेनानुष्ठानाधिकरणे सूत्राणि 33-41
SŪदक्षिणेऽग्नौ वरुणप्रघासेषु देशभेदात्सर्वं विक्रियते।। 33।।
SŪअचोदनेति चेत्।। 34।।
SŪस्यात्पौर्णमासीवत्।। 35।।
SŪप्रयोगचोदनेति चेत्।। 36।।
SŪअथेह।। 37।।
SŪआसादनमिति चेत्।। 38।।
SŪनोत्तरेणैकवाक्यत्वात्।। 39।।
SŪअवाच्यत्वात्।। 40।।
SŪआम्नायवचनं तद्वत्।। 41।।
नवमाधिकरणमारचयति-

1विषयः

मारुत्याः सार्धमष्टाभिरङ्गैस्तन्त्रं भिदाऽथवा
प्रयोगैकत्वतस्तन्त्रं भेदो देशस्य भेदतः

3पूर्वपक्षः

वरुणप्रघासेष्वाग्नेयादीनि नव हवींषि विहितानि। तेषु मारुतीमामिक्षां प्रतिप्रस्थाता दक्षिणे विहारेऽनुतिष्ठति। इतराणि त्वष्टावध्वर्युरुत्तरे विहारेऽनुतिष्ठति। तेषामष्टानां प्रयोगैक्यात्तन्त्रेणाङ्गान्युभय-वादिसंमतानि। तथा तान्येव मारुत्या अपि, इत्यत्रापि तन्त्रं प्राप्तम्। कुतः- वरुणप्रघासान्तःपातित्वेन प्रयोगैक्यात्।
ननु- अत्र विहारभेद आम्नातः ''पृथगग्नी प्रणयतः, पृथग्वेदी कुरुतः'' इति। सोऽयं पृथगनुष्ठानाभावे व्यर्थः स्यात्। मैवम्। हविरासादनमात्रे तद्भेदोपयोगात्। ''अष्टावध्वर्युरुत्तरे विहारे हवींष्वासादयति। मारुतीमेव प्रतिप्रस्थाता दक्षिणस्मिन्'' इति तद्विधानात्। तस्मात्- तन्त्रम्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- देशभेदात्प्रयोगभेदे सत्यङ्गानुष्ठानमपि भिद्यते। न च तद्भेदस्य हविरासादनमात्रार्थता युक्ता। तदासादनस्य दृष्टहोमार्थतापरित्यागेनादृष्टार्थ-कल्पनाप्रसङ्गात्। न च प्रयोगभेदेनैवासादनभेदस्यापि सिद्धौ वचनमनर्थकं स्यात्- इति वाच्यम्। अव्यवस्थया प्रयोगप्राप्तौ तद्व्यवस्थार्थत्वात्। तस्मात्- भेदेनाङ्गानुष्ठानम्।। 11।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- साङ्गस्यावभृथस्याप्स्वनुष्ठानाधिकरणे सूत्राणि 28-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- स्यादप्येवम्, यदि 'अवभृथे' इत्येतावदेव श्रूयेत इह तु 'अप्सु चरन्ति' इति श्रवणादवभृथप्रयोगेणापामन्वयात्साङ्गं प्रधानमप्सु कर्तव्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.10 दशमे- उत्तरदक्षिणविहारयोः कर्त्रभेदाधिकरणे सूत्राणि 42-46
SŪकर्तृभेदस्तथेति चेत्।। 42।।
SŪन समवायात्।। 43।।
SŪलिङ्गदर्शनाच्च।। 44।।
SŪवेदिसंयोगादिति चेत्।। 45।।
SŪन देशमात्रत्वात्।। 46।।
SŪएकाग्नित्वादपरेषु तन्त्रैः स्यात्।। 47।।
SŪनाना वा कर्तृभेदात्।। 48।।
दशमाधिकरणमारचयति-

1विषयः

कर्तृभेदो न वा तत्र भेदः स्यादङ्गभेदवत्
पञ्चर्त्विग्वचनान्मैवं द्वयोरुक्त्या व्यवस्थितिः

3पूर्वपक्षः

तत्र पूर्वोक्तविषये प्रयोगभेदादाघाराद्यङ्गभेद इव होतृब्रह्मादीनां कर्तॄणामपि भेदः। इति चेत्-
मैवम्। वाचनिकपञ्चसंख्याविरोधात्। अध्ववर्युप्रतिप्रस्थातृहोतृब्रह्माग्नीध्राः पञ्चर्त्विजश्चातुर्मास्येषु विहिताः ''चातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजः'' इति। यदि- आग्नेयाद्यष्टके मारुत्यां च होत्रादिभेदः स्यात्, तदा पञ्चसंख्या बाध्येत । ननु पञ्चसंख्यासिद्ध्यर्थमाग्नेयाद्यष्टके प्रतिप्रस्थाता प्राप्नुयात्। मारुत्यां चाध्वर्युः प्राप्त इति चेत्- सत्यम्। प्राप्तावेव तावुभावुभयत्र। व्यवस्था तु वचनाद्भविष्यति। तत्तु वचनं पूर्वत्रोदाहृतम्। तस्मान्नास्ति कर्तृभेदः।। 12।।
एकादशे- उत्तरदक्षिणविहारयोः पत्नीसंयाजादीनां भेदेनानुष्ठानाधिकरणे सूत्रे 47-48)।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- वरुणप्रघासेष्वाग्नेयादीनां मारुत्या भेदेनानुष्ठानाधिकरणे सूत्राणि 33-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
एकादशाधिकरणमारचयति-

1विषयः

तत्रैव पत्नीसंयाजादौ तन्त्रं भिन्नताऽथवा

3पूर्वपक्षः

तन्त्रमग्न्यैक्यतो मैवं कर्तृभेदानिवारणात्
तत्रैवाग्नेयाद्यष्टके मारुत्यां च गार्हपत्ये होतव्येषु पत्नीसंयाजादिषु तन्त्रं युक्तम्। कुतः- गार्हपत्यस्यैकत्वात्। न ह्याहवनयीवद्दक्षिणे विहारे गार्हपत्यः पृथगस्ति। तस्मात्- तन्त्रम्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- न तावदत्र पूर्वोक्तः कर्तृभेदो निवारयितुं शक्यते
तथा सति- अध्वर्युणा कृताः पत्नीसंयाजाः प्रतिप्रस्थातृकर्तृकायां मारुत्यां कथमुपकुर्युः
तस्मात्- अध्वर्युः प्रतिप्रस्थाता च गार्हपत्ये पृथक्पृथक्पत्नीसंयाजाञ्जुहुयाताम्
-
11.2.11 द्वादशे- वाजपेये प्राजापत्यपश्वालम्भशेषस्य ब्रह्मसामकाल उत्कर्षाधिकरणे सूत्राणि 49-51
SŪपर्यग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामान्यादारण्यवत्तस्माद्बह्मसाम्नि चोदनापृथक्तं स्यात्।।49।।
SŪसंस्कारप्रतिषेधो वा वाक्यैकत्वे क्रतुसामान्यात्।। 50।।
SŪवपानां चानभिघारणस्य दर्शनात्।। 51।।
द्वादशाधिकरणमारचयति-

1विषयः

पर्यग्निकरणे त्याग आलम्भो ब्रह्मसामनि

3पूर्वपक्षः

कर्मशेषनिषेधश्च कर्मान्तरविधिर्भवेत्
वाजपेये ''सप्तदश प्राजापत्यान्पशून्संचिनुते'' इति प्रकृत्य श्रूयते ''तान्पर्याग्निकृतानुत्सृजन्ति, ब्रह्मसाम्न्यालभते'' इति। तेषु सप्तदशसु पशुषु पर्यग्निकरणेऽनुष्ठिते सत्युत्तरकालभावी कर्मशेष उत्सर्गशब्देन निषिध्यते। अश्वमेधे ''पर्यग्निकृतानारण्यानुत्सृजन्ति'' इत्यत्र कर्मशेषनिषेधस्य प्रतिपन्नत्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणान्ताः समाप्याः। आलभतिना च ब्रह्मसामकाले कर्मान्तरं विधीयते। इति प्राप्ते-

4सिद्धान्तः

किंवोत्कर्षोऽवशिष्टस्य ह्यारण्योक्तिवदादिमः
अदृष्टवाक्यभेदाप्तेर्द्रव्याभावेन चान्तिमः
ब्रूमः- कर्मान्तरविधौ सप्तदशपशुजन्यादृष्टाद्भिन्नं किंचिददृष्टं कल्प्येत। वाक्यभेदश्च प्राप्नुयात्। किंच 'ब्रह्मसाम्न्यालभते' इत्यत्र द्रव्यदेवतयोरश्रवणान्न कर्मान्तरविधिः संभवति। तस्मात्- पर्याग्निकरणानन्तरमेव कार्यस्य सप्तदशपशूनामालम्भादिशेषस्य ब्रह्मसामकाल उत्कर्षो विधीयते। तथा सत्यर्थप्राप्तपर्य-ग्निकरणानन्तरभाविकर्मशेषव्यापारोपरम उत्सर्गशब्देनानूद्यते।। 14।। 15।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- उत्तरदक्षिणविहारयोः कर्त्रभेदाधिकरणे सूत्राणि 42-46”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.12 त्रयोदशे- अहीन उक्ष्णामुत्सर्गस्य कर्मशेषप्रतिषेधार्थताधिकरणे सूत्राणि 52-54
SŪपञ्चशारदीयास्तथेति चेत्।। 52।।
SŪन चोदनेकवाक्यत्वात्।। 53।।
SŪसंस्काराणां च दर्शनात्।। 54।।
त्रयोदशाधिकरणमारचयति-

1विषयः

उक्षोत्सर्गः किमुत्कर्षस्त्यागो वाद्योऽत्र पूर्ववत्

3पूर्वपक्षः

अन्वहत्रित्वयोरुत्तमाहपञ्चत्वयोर्विधौ
अस्त्यहीनेषु पञ्चशारदीयनामकः कश्चित्पञ्चाहविशेषः। स च पञ्चसु वर्षेष्वनुष्ठेयः। तत्र प्रथमे वर्षे विशाखानक्षत्रयुक्तायाममावास्यायां सप्तदशाल्पवयसः स्त्रीपशवः, सप्तदशोक्षाणश्च विहिताः। तेषु सर्वेषु पर्यग्निकृतेषु प्रोक्षितेषु च सत्सु स्त्रीपशूनामालम्भं, पुंस्पशूनामुत्सर्गं चाम्नाय पुनर्द्वितीये तृतीये चतुर्थे च वत्सरे तथैवानुष्ठानमाम्नाय पश्चादाम्नायते ''त्रींस्त्रीनेकैकस्मिन्नहन्यालभेरन्, पञ्चोत्तमेऽहनि'' इति। तत्र वत्सरचतुष्ट-यगतासु चतसृष्वमावास्यासु योऽयं पशूनामुत्सर्गः, तत्र कर्मशेषत्यागो न भवति, किंतूत्कर्षः। कुतः 'त्रींस्त्रीन्' इति वाक्येनालम्भस्याभिधानात्। यथा पूर्वं प्राजापत्यानामालम्भोत्कर्षः, तथाऽत्रापि युज्यते। इति प्राप्ते-

4सिद्धान्तः

वाक्यभेदाद्विशिष्टानामन्येषां कर्मणां विधिः
तस्मादारण्यवच्छेषत्याग उत्सर्ग इष्यताम्
ब्रूमः- 'त्रींस्त्रीनेनैकस्मिन्नहन्यालभेरन्' इत्यत्र पर्यग्निकरणानन्तरभाविप्राप्तमालम्भनमनूद्यैकाहत्व-त्रित्वगुणयोर्विधौ वाक्यं भिद्येत। तथा 'पञ्चोत्तमेऽहन्' इत्यत्रोत्तमाहत्वपञ्चत्वयोर्विधौ वाक्यभेदः। तस्मात्- तद्गुणद्वयविशिष्टानामन्येषां कर्मणां विधिरभ्युपेयः। तथा सति- आरण्यपशुन्यायेन सप्तदशोक्षाणः पर्यग्निकरणप्रोक्षणाभ्यां समापनीयाः।। 16।। 17।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- वाजपेये प्राजापत्यपश्वालम्भशेषस्य ब्रह्मसामकाल उत्कर्षाधिकरणे सूत्राणि 49-51”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “किंवोत्कर्षोऽवशिष्टस्य ह्यारण्योक्तिवदादिमः अदृष्टवाक्यभेदाप्तेर्द्रव्याभावेन चान्तिमः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.13 चतुर्दशे- दशपेयाभिषेचनीययोर्भेदेन प्रयोगाधिकरणे सूत्राणि 55-60
SŪदशपेये क्रयप्रतिकर्षात्प्रतिकर्षः, ततः प्राचां तत्समानं तन्त्रं स्यात्।। 55।।
SŪसमानवचनं तद्वत्।। 56।।
SŪअप्रतिकर्षो वाऽर्थहेतुत्वात्सहत्वं विधीयते।। 57।।
SŪपूर्वस्मिंश्चावभृथस्य दर्शनात्।। 58।।
SŪदीक्षाणां चोत्तरस्य।। 59।।
SŪसमानः कालसामान्यात्।। 60।।
चतुर्दशाधिकरणमारचयति-

1विषयः

दशपेये चाभिषेचनीये तन्त्रं भिदाऽथवा
क्रयसाहित्यतस्तन्त्रं कालभेदेन भिन्नता

3पूर्वपक्षः

राजसूये दशपेयाभिषेचनीयसंज्ञकौ द्वौ सोमयागौ। तयोरङ्गानुष्ठानं तन्त्रेण कार्यम्। कुतः- क्रयसाहित्यात्। ''सह सोमौ क्रीणात्यभिषेचनीयदशपेययोः'' इति श्रूयते। तथा सति- अभिषेचनीयस्य दशपेयस्य च सोमे क्रेतव्ये सति क्रयात्पूर्वभाविनां दशपेयाङ्गानामपकर्षात्तन्त्रं स्यात्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- भिन्नकालीनयोरभिषेचनीयदशपयेयोरङ्गानां भेदो युक्तः। संसृपाख्याभ्यो दशभ्य इष्टिभ्य ऊर्ध्वमपराह्णे दशपेयस्योपक्रमः। ताभ्यः प्राचीनेऽत्यन्तव्यवहिते कालेऽभिषेचनीयः। न च क्रयसाहित्यमस्ति। ''सद्यो दीक्षयन्ति, सद्यः सोमं क्रीणन्ति'' इति दशपेये क्रयस्य सद्यस्कालत्वविधानात्। 'सह सोमौ' इति वचनेन क्रयार्थोपसंवादे साहित्यं विवक्षितम्। तस्मात्- उभयोरङ्गानां भेदः।। 18।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- अहीन उक्ष्णामुत्सर्गस्य कर्मशेषप्रतिषेधार्थताधिकरणे सूत्राणि 52-54”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वाक्यभेदाद्विशिष्टानामन्येषां कर्मणां विधिः तस्मादारण्यवच्छेषत्याग उत्सर्ग इष्यताम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.14 पञ्चदशे- वारुणीनिष्कासावभृथस्यार्थकर्मताधिकरणे सूत्राणि 61-63
SŪनिष्कासस्यावभृथे तदेकदेशत्वात्पशुवत्प्रदानविप्रकर्षः स्यात्।। 61।।
SŪअपनयो वा प्रसिद्धेनाभिसंयोगात्।। 62।।
SŪप्रतिपत्तिरिति चेन्न कर्मसंयोगात्।। 63।।
पञ्चदशाधिकरणमारचयति-

1विषयः

निष्कासावभृथे विप्रकर्षोऽथ प्रतिपादनम्

2संशयः

तत्र संशयः- किं वारुण्यामिक्षाया एकमंशं यवमयमेषसहितं पूर्वं प्रदाय पश्चादेककपालप्रचारादूर्ध्वं निष्कासरूपांशान्तरेण तुषैः प्रचरितव्यमित्येवं प्रचारस्य विप्रकर्षः, उत कर्मान्तरम्।

3पूर्वपक्षः

उतार्थकर्म पशुवदाद्योऽवभृथशब्दतः
तत्रापि किं प्रतिपत्तिकर्म, आहोस्वित्- अर्थकर्म, इति।
तत्र 'विप्रकर्षः' इति तावत्प्राप्तम्। कुतः- पशौ तथा दृष्टत्वात्। 'प्रातः सवने वपया प्रचर्य तृतीयसवने हृदयाद्यङ्गैः प्रचारः' इति सवनीयपशौ यथा प्रचारविप्रकर्षः, तद्वदत्रापि। इत्याद्यः पक्षः।
तथासति- अवभृथशब्दवैयर्थ्यं स्यात्। अतः- 'कर्मान्तरम्' इति पक्षान्तरम्।
तदाऽपि- आमिक्षाहविःशेषस्य निष्कासस्यास्मिन्कर्मणि हविष्ट्वायोगात्प्रयाजन्यायेन प्रतिपत्तिः स्यात्। यथा 'प्रयाजशेषेण हवींष्यभिघारयति' इत्यत्र शेषं संस्कर्तुमभिधारणम्, तथाऽत्रापि निष्कासः संस्क्रियते। इति प्राप्ते-

4सिद्धान्तः

कर्मान्तरं तदाऽपि स्यात्प्रतिपत्तिः प्रयाजवत्
प्राधान्यायार्थकर्म स्यात्तच्चावभृथधर्मकम्
ब्रूमः- तस्मिन्पक्षे निष्कासस्य संस्कार्यद्रव्यत्वेन प्राधान्यात् 'निष्कासम्' इति विभक्तिव्यत्ययः स्यात्। अतोऽवभृथस्य प्राधान्यायार्थकर्मत्वमेष्टव्यम्। यदि चातुर्मास्येषु नास्त्यवभृथः, तदा तद्धर्मातिदेशाय तन्नामनिर्देशोक्तिः। अन्यदीयद्रव्यशेषस्यापि कर्मान्तरे विनियोगो वाचनिकः। तस्मात्- अर्थकर्म।। 19।। 20।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- दशपेयाभिषेचनीययोर्भेदेन प्रयोगाधिकरणे सूत्राणि 55-60”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.2.15 षोडशे- प्रायणीयनिष्कास उदयनीयनिर्वापस्य संस्कारकर्मताधिकरणे सूत्राणि 64-66
SŪउदयनीये च तद्वत्।। 64।।
SŪप्रतिपत्तिर्वाऽकर्मसंयोगात्।। 65।।
SŪअर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेन विधानात्।। 66।।
षोडशाधिकरणमारचयति-

3पूर्वपक्षः

ज्योतिष्टोमे श्रूयते ''प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति'' इति। अत्र पूर्वन्यायेन निष्कासद्रव्यकमुदयनीयसमानधर्मकमर्थकर्म। इत्याद्यः पक्षः।
मुख्यस्योदयनीयस्य तत्वाद्भिन्नप्रकरणाम्नातावभृथधर्मातिदेशवदुदयनीयधर्मातिदेशासंभवान्नार्थकर्मत्वम्, तर्हि निष्कासप्रतिपत्तिः। इति मध्यमः पक्षोऽस्तु।
अत्र पादे- अधिकरणानि 16, सूत्राणि 66।
आदितः- अधिकरणानि 802, सूत्राणि 2365।
एकादशाध्यायस्य तृतीयः पादः
तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रावापौ संक्षेपेणोक्तौ” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- वारुणीनिष्कासावभृथस्यार्थकर्मताधिकरणे सूत्राणि 61-63”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कर्मान्तरं तदाऽपि स्यात्प्रतिपत्तिः प्रयाजवत् प्राधान्यायार्थकर्म स्यात्तच्चावभृथधर्मकम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 11, Pāda 1 Contents Adhyāya 11, Pāda 3 →