SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 11, Pāda 3

तन्त्रम्

तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्

16adhikaraṇas
54sūtras
11.3.1 प्रथमे- वेद्याद्यङ्गानां प्रधानकालान्यकालकर्तव्यताधिकरणे सूत्रम्
SŪअङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम्।। 1।।
तृतीयपादस्य प्रथमाधिकरणमारचयति-

1विषयः

वेद्यादिर्मुख्यकाले स्यात्स्वकाले वेतराङ्गवत्

3पूर्वपक्षः

मुख्यकाले न पूर्वेद्युरित्याद्युक्तेः स्वकालगः
वेदिः, वेदः, इध्मा, बर्हिः, इत्यादेः संपादनरूपमङ्गानुष्ठानं प्रधानस्यैव काले कर्तव्यम्। प्रयाजाद्यङ्गेषु मुख्येन सह देशकालकर्त्रैक्यस्य निर्णीतत्वात्। इति चेत्-

4सिद्धान्तः

न
कालादिभेदस्य वाचनिकत्वात्
''पूर्वेद्युरमावास्यायां वेदिं करोति'' इत्यादिः कालभेदः
''अप्स्ववभृथेन चरन्ति'' इत्यादिर्देशभेदः
अग्नौ सौत्रामण्यां च दक्षिणाभेदात्कर्तृभेदः
''वडवा दक्षिणा'' इति सौत्रामण्यां श्रुतम्
तस्मात्- वेद्यादौ स्वस्वकालादयो द्रष्टव्याः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- प्रायणीयनिष्कास उदयनीयनिर्वापस्य संस्कारकर्मताधिकरणे सूत्राणि 64-66”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.2 द्वितीये- आधानस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रम् ।
SŪद्रव्यस्य चाकर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात्स्वकालत्वात्।। 2।।
द्वितीयाधिकरणमारचयति-

1विषयः

प्रतिकर्म पृथक्कार्यमाधानं यदि वा सकृत्
अन्याङ्गवत्पृथङ्मैवं स्वकालत्वसमत्वतः

3पूर्वपक्षः

''वसन्ते ब्राह्मणोऽग्निमादधीत'' इति विहितमाधानं प्रयाजाद्यङ्गवत्प्रतिकर्म पृथक्कार्यम्। इति चेत्-
न। आधानस्य स्वातन्त्र्येण वसन्तादिकाले विहिते तत्कर्मकालेषु पृथगनुष्ठानायोगात्। स्वकालेऽनुष्ठितस्य सर्वकर्मणि संबन्धः समानः।
न च प्रकरणेन विशेषो नियन्तुं शक्यः। आधानस्यानारभ्याधतित्वात्। ''आहवनीये जुहोति'' इत्यादिवाक्येन त्वैष्टिकपशुकसौमिकदार्विकहोमेषूपयोगः साधारणः प्रतिपाद्यते। तस्मात्- तन्त्रेणानुष्ठानम्। यद्यपि- आधानं नेष्ट्यादिकर्मणां साक्षादङ्गम्, तथाऽपि पृथक्कालाभावादाहवनीयादिद्वारा कर्मोपकारकत्वाच्चाङ्गत्वमभ्युपेत्यैवं चिन्ता।। 2।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- वेद्याद्यङ्गानां प्रधानकालान्यकालकर्तव्यताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न कालादिभेदस्य वाचनिकत्वात् ''पूर्वेद्युरमावास्यायां वेदिं करोति'' इत्यादिः कालभेदः ''अप्स्ववभृथेन चरन्ति'' इत्यादिर्देशभेदः अग्नौ सौत्रामण्यां च दक्षिणाभेदात्कर्तृभेदः ''वडवा दक्षिणा'' इति सौत्रामण्यां श्रुतम् तस्मात्- वेद्यादौ स्वस्वकालादयो द्रष्टव्याः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.3 तृतीये- अग्नीषोमीयादिषु यूपस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रे 3-4
SŪयूपश्चाकर्मकालत्वात्।। 3।।
SŪएकयूपं च दर्शयति।। 4।।
तृतीयाधिकरणमारचयति-

1विषयः

अग्नीषोमीयमुख्येषु यूपो भिन्नोऽथ तन्त्रता
उपदेशातिदेशाभ्यां भिन्नो नो कालभेदतः

3पूर्वपक्षः

ज्योतिष्टोमे पशवोऽग्नीषोमीयसवनीयानुबन्ध्यास्त्रयो विहिताः। तेषु यूपभेदो युक्तः। कुतः- अग्नीषोमीये प्रत्यक्षवचनेनोपदेशात्। इतरयोश्चोदकाभ्यामतिदेशात्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- न तावदग्नीषोमीयपशोः काले यूपस्योत्पत्तिः। किंतु ततः प्रागेव यूपोत्पत्तिकालः। ''दीक्षासु यूपं छिनत्ति, क्रीते वा राजनि'' इति तत्कालविधानात्। तत आधानवत्सर्वार्थत्वं संभवति। यथा स्वकाले संपन्नमाधानं तत्तद्वाक्यशेषैस्तेषु तेषु कर्मसु, तथा स्वकाले छेदनादिना निष्पन्नो यूपः प्रत्यक्षचोदकोक्तिभ्यां तत्र तत्र विनियोज्यः। तस्मात्- तन्त्रेण यूपः संपाद्यः।। 3।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- आधानस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रम् ।”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.4 चतुर्थे- यूपसंस्काराणां तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 5-7
SŪसंस्कारास्त्वावर्तेरन्नर्थकालत्वात्।। 5।।
SŪतत्कालास्तु यूपकर्मत्वात्तस्य धर्मविधानात्सर्वार्थानां च वचनादन्यकालत्वम्।। 6।।
SŪसकृन्मान च दर्शयति।। 7।।
चतुर्थाधिकरणमारचयति-

1विषयः

संस्कारास्तक्षणाद्याः किं भिन्नास्तन्त्रेण वाऽग्रिमः
पशुकालत्वतो मैवं यूपत्वापादका यतः

3पूर्वपक्षः

तक्षणपर्यूहणादयो यूपसंस्काराः पशुकालीनत्वान्नियोजनादिवत्त्रिषु पशुषु भेदेन कर्तव्याः। इति चेत्-
मैवम्। छेदनवत्तक्षणादीनामपि यूपकालीनत्वात्। न खलु यूपो नाम कश्चिल्लोके प्रसिद्धः पदार्थोऽस्ति, येन तस्य च्छेदनमात्रेण तद्विधिः कृतार्थः स्यात्। किं तर्हि च्छेदनतक्षणादिना यूपसंज्ञामाश्रित्यैव विधीयते। तथा सति यैश्छेदनतक्षणादि संस्कारैर्यूपत्वमापद्यते, ते सर्वे छेदनकाल एवानुष्ठेयाः। तस्मात्- त्रिष्वपि पशुषु यूपच्छेदनवत्तक्षणपयूर्हणादयस्तन्त्रेणानुष्ठेयाः।। 4।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- अग्नीषोमीयादिषु यूपस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रे 3-4”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.5 पञ्चमे- स्वरोस्तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 8-12
SŪस्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात्।। 8।।
SŪसाधारणो वाऽनुनिष्पत्तिस्तस्य साधारणत्वात्।। 9।।
SŪसोमान्ते च प्रतिपत्तिदर्शनात्।। 10।।
SŪतत्कालो वा प्रस्तरवत्।। 11।।
SŪन वोत्पत्तिवाक्यत्वात्प्रदेशात्प्रस्तरे तथा।। 12।।
पञ्चमाधिकरणमारचयति-

1विषयः

स्वरुर्भिन्नोऽथवैकः स्यादस्वकालत्वतो भिदा

3पूर्वपक्षः

प्राथम्यमेकशकले तन्त्रं स्यादविशेषतः
शकलः स्वरुरित्युच्यते। स च भिन्नेषु पशुषु भिन्नः संपाद्यः। कुतः- अस्वकालत्वात्। न हि यूपस्यैव स्वरोः कश्चित्प्रातिस्विकः कालः श्रूयते। ततः ''स्वरुणा स्वधितिना वा पशुमनक्ति'' इत्यञ्जनकालीनत्वावगमादञ्जनवद्भेदः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- ''यः प्रथमः शकलः परापतेत्, स स्वरुः कार्यः'' इति श्रुतं प्राथम्यमेकस्मिन्नेव शकले युक्तम्
स च शकलो यूपकालीनः पशुविशेषसंबन्धे हेतुमलभमानो यूपवत्तन्त्रेण सर्वेषु पशुषूपकरिष्यति
--

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- यूपसंस्काराणां तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 5-7”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.6 षष्ठे- अहर्गणे कृष्णविषाणाप्रासनस्यान्त्याहर्नियमाधिकरणे सूत्रे 13-14
SŪअहर्गणे विषाणाप्रासनं धर्मविप्रतिषेधादन्त्ये प्रथमे वाऽहनि विकल्पः स्यात्।। 13।।
SŪपाणेस्त्वश्रुतिभूतत्वाद्विषाणानियमः स्यात्प्रातःसवनमध्यत्वाच्छिष्टे चाभिप्रवृत्तत्वात्।। 14।।
षष्ठाधिकरणमारचयति-

1विषयः

अहर्गणे विषाणायास्त्यागोऽह्नोः किं विकल्प्यते
किंवा नियम्यतेऽन्त्येऽह्नि, स्यादाद्यो बाधसाम्यतः

3पूर्वपक्षः

कण्डूयनं न हस्तेन श्रुतमर्थात्तु तद्भवेत्
श्रुताद्बाधाद्वरं तस्य बाधोऽतोऽन्त्ये नियम्यताम्
''कृष्णविषाणया कण्डूयते'' ''नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति'' इति ज्योतिष्टोमे श्रुतं प्रासनमहर्गणे द्वित्रिरात्रादौ चोदकप्राप्तम्। तत्र- 'प्रथमे चरमे वाऽह्नि' इत्येवं विकल्प्यते। कुतः- उभयत्र बाधसाम्यात्। यदि प्रथमे अह्नि प्रास्येत्, तदानीमुत्तरेष्वहःसु चोदकप्राप्तं दक्षिणानयनात्प्राचीनं विषाणया कण्डूयनं बाध्येत। चरमेऽह्नि तत्प्रासने पूर्वेष्वहःसु दक्षिणानयनादूर्ध्वं हस्तेन कण्डूयनं चोदकप्राप्तं बाध्येत। तस्मात्- समबलत्वेन विकल्पः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- न हि हस्तेन किंचिच्छ्रुतम्
किंतु विषाणायां त्यक्तायामर्थात्प्राप्यते
कामं तस्य बाधोऽस्तु
श्रुतं विषाणया कण्डूयनमबाधितुं चरमेऽह्नि प्रासनं नियम्यते
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- स्वरोस्तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 8-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ''यः प्रथमः शकलः परापतेत्, स स्वरुः कार्यः'' इति श्रुतं प्राथम्यमेकस्मिन्नेव शकले युक्तम् स च शकलो यूपकालीनः पशुविशेषसंबन्धे हेतुमलभमानो यूपवत्तन्त्रेण सर्वेषु पशुषूपकरिष्यति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.7 सप्तमे- राजसूये नानाबीजेषु वाग्विसर्गस्य चरमकालनियमाधिकरणे सूत्रम्
SŪवाग्विसर्गो हविष्कृता बीजभेदे तथा स्यात्।। 15।।
सप्तमाधिकरणमारचयति-

1विषयः

नानाबीजेषु यागेषु वाग्विसर्गश्च पूर्ववत्

3पूर्वपक्षः

शङ्किते तद्विधौ न स्यादविधित्वे तदुत्तरम्
राजसूये नानाबीजयुक्ता यागाः श्रुताः- ''अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां व्रीहीणां सोमाय वनस्पतये श्यामाकं चरुम्'' इत्यादिना। प्रकृतौ प्रणीताप्रणयनकाले नियमिताया वाचो हविष्कृदाह्वानकाले विसर्गः श्रुतः। स चात्र चोदकप्राप्तः।
तत्र 'प्रथमे चरमे वा हविष्कृदाह्वानकाले वाग्विसर्गो विकल्पितः' इति पूर्वःपक्षः।
'चरम एव' इति राद्धान्तः।
अत्रेयं पूर्वपक्षिणोऽभ्यधिका शङ्का 'हस्तेन कण्डूयनं न विहितम्। वाग्विसर्गस्तु विहितः' इति।

4सिद्धान्तः

तत्रेदमुत्तरम्- विहितस्य वाङ्नियमस्यावधित्वेनायं हविष्कृदाह्वानकालीनो वाग्विसर्गोऽनूद्यते
रागप्राप्तत्वान्नासौ विधीयते- इति
तस्मात्- प्रासनवद्विसर्गोऽपि चरम एव काले नियम्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- अहर्गणे कृष्णविषाणाप्रासनस्यान्त्याहर्नियमाधिकरणे सूत्रे 13-14”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- न हि हस्तेन किंचिच्छ्रुतम् किंतु विषाणायां त्यक्तायामर्थात्प्राप्यते कामं तस्य बाधोऽस्तु श्रुतं विषाणया कण्डूयनमबाधितुं चरमेऽह्नि प्रासनं नियम्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.8 अष्टमे- अग्नीषोमीये पौरोडाशिककाल एव वाग्विसर्गाधिकरणे सूत्रम्
SŪपशौ च पुरोडाशे समानतन्त्रं भवेत्।। 16।।
अष्टमाधिकरणमारचयति-

1विषयः

पशुकाले पुरोडाशकाले वा वाग्विसर्जनम्

3पूर्वपक्षः

तन्त्रित्वादादिमोऽन्त्यः स्याद्वाग्यमात्कर्तृसंस्कृतिः
यद्यपि पशौ हविष्कृदाह्वानं नास्ति, तथाऽपि कृत्वाचिन्तयेत्। अत्र पशौ हविष्कृदाह्वानकाले वाग्वि-सर्जनीया। कुतः- पशोस्तन्त्रित्वात्। पशुपुरोडाशस्य प्रसङ्गित्वेन पशावनुष्ठितैरेवाङ्गैरुपकारसिद्धेः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- वाग्यमो नादृष्टार्थः
किंतु तत्कर्तृसंस्कारार्थः
तथा सति पुरोडाशे तदभावे सत्यसंस्कृतकर्त्रा तदनुष्ठानं प्रसज्येत
तस्मात्- नियमितां वाचं पुरोडाशस्य हविष्कृदाह्वानकाले विसृजेत्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- राजसूये नानाबीजेषु वाग्विसर्गस्य चरमकालनियमाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तत्रेदमुत्तरम्- विहितस्य वाङ्नियमस्यावधित्वेनायं हविष्कृदाह्वानकालीनो वाग्विसर्गोऽनूद्यते रागप्राप्तत्वान्नासौ विधीयते- इति तस्मात्- प्रासनवद्विसर्गोऽपि चरम एव काले नियम्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.9 नवमे- अग्निचयनेऽग्निविमोकस्य मतभेदे व्यवस्थाधिकरणे सूत्राणि 17-20
SŪअग्नियोगः सोमकाले तदर्थत्वात्संस्कृतकर्मणः परेषु साङ्गस्य तस्मात्सर्वापवर्गे विमोकः स्यात्।। 17।।
SŪप्रधानापवर्गे वा तदर्थत्वात्।। 18।।
SŪअवभृथे च तद्वत्प्रधानार्थस्य प्रतिषेधोऽपवृक्तार्थत्वात्।। 19।।
SŪअहर्गणे च प्रत्यहं स्यात्तदर्थत्वात्।। 20।।
नवमाधिकरणमारचयति-

1विषयः

किमग्निमोकः सर्वान्ते मुख्यान्ते वाऽग्रिमो यतः

3पूर्वपक्षः

योगे सर्वार्थता मैवं मुख्यार्थोऽसौ तदन्तिमः
अग्निचयने योगविमोकावग्नेः श्रुतौ। ''अग्निं युनज्मि'' इति मन्त्रहोमो योगः। ''इमं स्तनम्'' इति मन्त्रहोमो विमोकः। स च साङ्गप्रधानविषयसर्वप्रयोगान्ते कर्तव्यः। कुतः- योगस्य सर्वार्थत्वेन मध्ये तद्विमोकासंभवात्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- ''पञ्चभिर्युनक्ति पाङ्क्तो यज्ञो यावानेव यज्ञस्तमाप्नोति'' इत्यनेन मोचने यज्ञप्राप्तिवचनेन योगस्य प्रधानार्थत्वावगमात्प्रधानकर्मणोऽन्ते विमोकं कुर्यात्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- अग्नीषोमीये पौरोडाशिककाल एव वाग्विसर्गाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- वाग्यमो नादृष्टार्थः किंतु तत्कर्तृसंस्कारार्थः तथा सति पुरोडाशे तदभावे सत्यसंस्कृतकर्त्रा तदनुष्ठानं प्रसज्येत तस्मात्- नियमितां वाचं पुरोडाशस्य हविष्कृदाह्वानकाले विसृजेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
एतदेवाधिकरणं वार्तिककारमतेनारचयति-

1विषयः

व्यत्यस्तौ तावुभौ पक्षावुत्पत्तावविशेषतः
सर्वार्थत्वं गुणे भाति सर्वान्तेऽतो विमोचनम्

3पूर्वपक्षः

प्रधानान्ते विमोकः- इति यो भाष्ये सिद्धान्तः। स एवात्र पूर्वः पक्षः।
''अग्निं युनज्मि- शवसा घृतेनेति जुहोति, अग्निमेव तद्युनक्ति'' इत्येतद्योगस्योत्पत्तिवाक्यम्। ''पञ्चभिर्युनक्ति'' इति गुणविधिः। तत्र न तावदुत्पत्तौ प्रधानगामी योग इत्यस्यार्थस्य गमको विशेषोऽस्ति। गुणविधिशेषेऽपि यज्ञशब्दो न प्रधानमात्रमाचष्टे, किंतु साङ्गम्। तस्मात्- योगस्य सर्वार्थत्वाद्विमोकोऽपि सर्वान्ते कर्तव्यः।। 11।।
11.3.10 दशमे- उपसत्कालस्य सुब्रह्मण्याह्वानस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रम्
SŪसुब्रह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात्।। 21।।
दशमाधिकरणमारचयति-

1विषयः

उपसत्कालसुब्रह्मण्यागणो भिद्यते न वा

3पूर्वपक्षः

प्रधानभेदाद्भेदः स्यात्कालभेदान्न भिद्यते
अहर्गणेषूपसत्कालीनं सुब्रह्मण्याह्वानं प्रधानभेदाद्भिद्यते। इति चेत्-

4सिद्धान्तः

न
पूर्वकालीनतया यूपन्यायेन तन्त्रत्वात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- अग्निचयनेऽग्निविमोकस्य मतभेदे व्यवस्थाधिकरणे सूत्राणि 17-20”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ''पञ्चभिर्युनक्ति पाङ्क्तो यज्ञो यावानेव यज्ञस्तमाप्नोति'' इत्यनेन मोचने यज्ञप्राप्तिवचनेन योगस्य प्रधानार्थत्वावगमात्प्रधानकर्मणोऽन्ते विमोकं कुर्यात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.11 एकादशे- सुत्याकालीनसुब्रह्मण्याह्वानस्य भेदेनानुष्ठानाधिकरणे सूत्राणि 22-32
SŪतत्काला त्वावर्तेत प्रयोगतो विशेषसंबन्धात्।। 22।।
SŪअप्रयोगाङ्गमिति चेत्।। 23।।
SŪस्यात्प्रयोगनिर्देशात्कर्तृभेदवत्।। 24।।
SŪतद्भूतस्थानादग्निवदिति चेत्तदपवर्गस्तदर्थत्वात्।। 25।।
SŪअग्निवदिति चेत्।। 26।।
SŪन प्रयोगसाधारण्यात्।। 27।।
SŪलिङ्गदर्शनाच्च।। 28।।
SŪतद्धि तथेति चेत्।। 29।।
SŪनाशिष्टत्वादितरन्यायत्वाच्च।। 30।।
SŪविध्येकत्वादिति चेत्।। 31।।
SŪन कृत्स्नस्य पुनः प्रयोगात्प्रधानवत्।। 32।।
एकादशाधिकरणमारचयति-

1विषयः

सुत्याकालीनमाह्वानं तन्त्रं स्याद्भिद्यतेऽथवा

3पूर्वपक्षः

यूपाहुतिनयात्तन्त्रं सुत्याकालतया भिदा
अहर्गणेषु प्रथमसुत्यासंनिधौ कृतमपि सुब्रह्मण्याह्वानं सर्वेष्वहःसूपकरोति। यथा यूपैकादशिन्यां दृष्टिगोचरे देशे क्रियमाणा यूपाहुतिः सत्यप्यर्थादेकयूपसंनिधौ सर्वेषामुपकारः, तद्वत्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- अन्यसुत्याकालीनेनाह्वानेनात्र नास्त्युपकारः
कालविशेषस्यापि तत्प्रयोजकत्वात्
अन्यथा ग्रहादीनामपि तन्त्रत्वापत्तेः
तस्मात्- आह्वानं भिद्यते
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- उपसत्कालस्य सुब्रह्मण्याह्वानस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न पूर्वकालीनतया यूपन्यायेन तन्त्रत्वात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.12 द्वादशे- देशपात्रर्त्विजामन्यप्रयोगे पूर्वदेशाद्यादानस्यैच्छिकताधिकरणे सूत्रम्
SŪलौकिकेषु यथाकामी संस्कारानर्थलोपात्।। 33।।
द्वादशाधिकरणमारचयति-

1विषयः

देशपात्रर्त्विजोऽन्यस्मिन्प्रयोगेऽन्य उतैच्छिकाः

3पूर्वपक्षः

भुक्त्यर्थपर्णवत्तेऽन्ये वासोवत्ते स्युरैच्छिकाः
''समे यजेत'' इत्युक्तो देशः, जुह्वादीनि पात्राणि, अध्वर्युप्रमुखा ऋत्विजः। ते चैकस्मिन्प्रयोग उपयुक्ता निरिष्टकत्वान्न प्रयोगान्तरमर्हन्ति। इष्टान्निर्गता निरिष्टाः, कुत्सिता निरिष्टा निरिष्टकाः। पुनः प्रयोगानर्हा इत्यर्थः। यथा भोजन उपयुक्तं कदलीपर्णं प्रक्षाल्यापि न पुनस्तच्छिष्टाः स्वीकुर्वन्ति, तथाऽत्राप्यन्ये देशादयः प्रयोगान्तरे संपाद्याः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- यथा वस्त्रं पूर्वदिने प्रावरणायोपयुक्तमपि दिनान्तरे निरिष्टकं न भवति, शिष्टास्तद्वासो दिनान्तरे स्वीकुर्वन्ति, तद्वदत्रापि द्रष्टव्यम्
'इदं निरिष्टकम्, इदं न' इत्यत्र शिष्टाचार एव प्रमाणम्
शिष्टाश्च देशादि नियमेन न त्यजन्ति
तस्मात्- ऐच्छिकाः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- सुत्याकालीनसुब्रह्मण्याह्वानस्य भेदेनानुष्ठानाधिकरणे सूत्राणि 22-32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- अन्यसुत्याकालीनेनाह्वानेनात्र नास्त्युपकारः कालविशेषस्यापि तत्प्रयोजकत्वात् अन्यथा ग्रहादीनामपि तन्त्रत्वापत्तेः तस्मात्- आह्वानं भिद्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.13 त्रयोदशे- पात्राणां तन्त्रस्य नियमाधिकरणे सूत्राणि 34-42
SŪयज्ञायुधानि धार्येरन्प्रतिपत्तिविधानादृजीषवत्।। 34।।
SŪयजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थत्वात्।। 35।।
SŪमुख्यसाधारणं वा मरणस्यानियतत्वात्।। 36।।
SŪयो वा यजनीयेऽहनि म्रियेत सोऽधिकृतः स्यादुपवेषवत्।। 37।।
SŪन शास्त्रलक्षणत्वात्।। 38।।
SŪउत्पत्तिर्वा प्रयोजकत्वादाशिरवत्।। 39।।
SŪशब्दासामञ्जस्यमिति चेत्।। 40।।
SŪतथाशिरे।। 41।।
SŪशास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रकृतावथेहापूर्वार्थवद्भूतोपदेशः।। 42।।
त्रयोदशाधिकरणमारचयति-

1विषयः

मा भूदन्यत्वनियमः पात्रे तन्त्रं किमैच्छिकम्
नियतं वाऽग्रिमो देशवन्मैवं प्रतिपत्तितः

2संशयः

'प्रथमप्रयोगे यान्युपयुक्तानि पात्राणि तान्येव प्रयोगान्तरेषु' इति नियमो नास्ति, उत- अस्ति, इति संशयः।

3पूर्वपक्षः

यथा देशे कर्तृषु च 'तं एव' इति नियमो नास्ति। ऐच्छिकत्वस्योक्तत्वात्। तथा पात्रेष्वपि। इति चेत्-
मैवम्। आमरणं पात्राणां धारणीयत्वात्। ''आहिताग्निमग्निभिर्दहन्ति, यज्ञपात्रैश्च'' इति प्रतिपत्तिविधानेनामरणं धारणमेवावगम्यते।
ननु- 'पात्रैः' इति तृतीयया गुणभावावगमादर्थकर्मेदम्, न तु प्रतिपत्तिः। तथा सति पात्रान्तरैरपि दाहसिद्धेर्न धारणनियमः- इति चेत्-
मैवम्। ''दक्षिणे पाणौ जुहूमासादयति'' इति द्वितीयया प्रतिपाद्यत्वावधारणात्पूर्वेषामेव धारणम्। तस्मात्- सर्वेषु प्रयोगेषु पात्राणां तन्त्रम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- देशपात्रर्त्विजामन्यप्रयोगे पूर्वदेशाद्यादानस्यैच्छिकताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- यथा वस्त्रं पूर्वदिने प्रावरणायोपयुक्तमपि दिनान्तरे निरिष्टकं न भवति, शिष्टास्तद्वासो दिनान्तरे स्वीकुर्वन्ति, तद्वदत्रापि द्रष्टव्यम् 'इदं निरिष्टकम्, इदं न' इत्यत्र शिष्टाचार एव प्रमाणम् शिष्टाश्च देशादि नियमेन न त्यजन्ति तस्मात्- ऐच्छिकाः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.14 चतुर्दशे- पात्राणामाधानमारभ्य धारणनियमाधिकरणे सूत्राणि 43-45
SŪप्रकृत्यर्थत्वात्पौर्णमास्याः क्रियेरन्।। 43।।
SŪअग्न्याधेये वाऽविप्रतिषेधात्तानि धारयेरन्मरणस्यानिमित्तत्वात्।। 44।।
SŪप्रतिपत्तिर्वा यथाऽन्येषाम्।। 45।।
चतुर्दशाधिकरणमारचयति-

1विषयः

किं पौर्णमासीमारभ्य यद्वाधानमियं धृतिः

3पूर्वपक्षः

प्रकृत्यर्थतयाद्यः स्यान्मरणानियमात्परः
अनारभ्याधीतानां पात्राणां प्रकृतिगामितया पौर्णमासीमारभ्य धारणम्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- आधानकाले पवमानेष्टिषु चोदकप्राप्तत्वात्पात्राण्याधानमारभ्य धारयितव्यानि
अन्यथा- आधानपौर्णमास्योर्मध्ये यजमानस्य कदाचिन्मरणे पात्राभावेन दाहाभावप्रसङ्गात्
तस्मात् 'आधानमारभ्य धारणम्' इत्ययं परपक्षोऽभ्युपगन्तव्यः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- पात्राणां तन्त्रस्य नियमाधिकरणे सूत्राणि 34-42”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.15 पञ्चदशे- सर्वसोमानामुपरिष्टात्प्राजापत्यप्रचाराधिकरणे सूत्राणि 46-52
SŪउपरिष्टात्सोमानां प्राजापत्यैश्चरन्तीति सर्वेषामविशेषाद्वाच्यो हि प्रकृतिकालः।। 46।।
SŪअङ्गविपर्यासो विना वचनादिति चेन्न।। 47।।
SŪउत्कर्षः संयोगात्कालमात्रमितरत्र।। 48।।
SŪप्रकृतिकालासत्तेः शस्त्रवतामिति चेत्।। 49।।
SŪन श्रुतिप्रतिषेधात्।। 50।।
SŪविकारस्थान इति चेत्।। 51।।
SŪन चोदनापृथक्त्वात्।। 52।।
पञ्चदशाधिकरणमारचयति-

2संशयः

वाजपेये सप्तदशप्राजापत्यप्रचारस्य काले चतुर्धा संशयः।

3पूर्वपक्षः

तत्र तावदयं प्रयोगक्रमः- तृतीयसवने प्रथममार्भवः पवमानः, ततो वैश्वदेवग्रहपर्यन्ताः शस्त्रवन्तः सोमाः, ततोऽशस्त्रिष्ववशिष्टेषु सोमग्रहेषु प्रचीर्णेष्वग्निष्टोमसाम्न ऊर्ध्वमुक्थ्यादयः सोमविकाराः- इति। एवं स्थिते प्राजापत्यपशूनामार्भवकाले प्रचारः। कुतः- प्रकृतौ तस्य प्रचारकालत्वेन चोदकप्राप्तत्वात्। इत्याद्यः पक्षः।
''उपरिष्टात्सोमानां प्राजापत्यैश्चरन्ति'' इति वचनेन सोमग्रहप्रचारादूर्ध्व कालो विधीयते। यदि 'प्रातःसवनमाध्यंदिनसवनसोमेभ्य ऊर्ध्वत्वमार्भवकालस्यास्ति' इति योज्येत, तदा चोदकेनैव तत्कालप्राप्तेर्वचनमनर्थकं स्यात्। अतः 'तृतीयसवनसोमानामुपरि' इति वक्तव्यम्। यदि तत्र 'सर्वसोमानामुपरि' इति विवक्ष्येत, तदा चोदकप्राप्तः कालो विप्रकृष्यते। ततः प्रत्यासत्तये 'शस्त्रिणां वैश्वदेवग्रहान्तानां सोमानामुपरि' इति द्वितीयः पक्षः।
'उपरिष्टात्सोमानाम्' इत्यविशेषप्रवृत्ता श्रुतिः कतिपयसोमोर्ध्वत्वविवक्षायां बाध्येत। तस्मात्- शस्त्रवतां तद्रहितानां सोमानामुपरिष्टादग्निष्टोमे यज्ञायज्ञीयसाम्ना संस्थिते सति स प्रचारः कार्यः। तस्य विकृतिकालत्वात्, प्राजापत्यपशूनां च विकृतिरूपत्वात्। इति तृतीयः पक्षः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- पात्राणामाधानमारभ्य धारणनियमाधिकरणे सूत्राणि 43-45”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- आधानकाले पवमानेष्टिषु चोदकप्राप्तत्वात्पात्राण्याधानमारभ्य धारयितव्यानि अन्यथा- आधानपौर्णमास्योर्मध्ये यजमानस्य कदाचिन्मरणे पात्राभावेन दाहाभावप्रसङ्गात् तस्मात् 'आधानमारभ्य धारणम्' इत्ययं परपक्षोऽभ्युपगन्तव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.3.16 षोडशे- सवनीयपुरोडाशे देवतोत्कर्षाधिकरणे सूत्रे 53-54
SŪउत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वात्, यथा निष्कर्षेऽनन्वयः।। 53।।
SŪवाक्यसंयोगाद्वोत्कर्षः समानतन्त्रत्वादर्थलोपादनन्वयः।। 54।।
षोडशाधिकरणमारचयति-

1विषयः

सवनीयपुरोडाशे देवोत्कर्षो न विद्यते
अस्ति वा पश्वनङ्गत्वान्नान्वयाभावतोऽस्ति सः
तत्र देवतावाचिनां हरिवदिन्द्रपूष्ण्वदिन्द्रादिपदानामुत्कर्षो विषयः।

3पूर्वपक्षः

मैवम्
सूक्तवाकमन्तरेण पृथगुच्चारितानां देवतापदानामन्वयाभावात्
सूक्तवाके त्वस्त्यन्वयः
तथा हि- ''अग्निमद्य होतारमवृणीतायं यजमानः'' इत्यस्मिन्पाशुके सूक्तवाके ''भृज्जन्निन्द्राय हरिवते धाना अयं यजमानः'' इत्यस्त्यन्वयः
तस्मात्- उत्कर्षोऽस्ति
इति सिद्धान्तः
तस्य चैवं संभावना- सवनीयपशोस्तावदनुयाजा उत्कृष्यन्ते, ''आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति'' इत्यनुयाजानामाग्निमारुतशस्त्रादधस्तनं स्वकालं निर्वाप्योर्ध्वकालस्य विहितत्वात्। उत्कृष्टेष्वनुयजेषु तदुत्तरकालीनः सूक्तवाकोऽर्थादुत्कृष्यते। तस्मिंश्च सूक्तवाके देवतावाचीनि पदानि प्रयोक्तव्यानि। प्रसङ्गिनः पुरोडाशस्य पृथक्सूक्तवाको नास्ति। ततः पशुसंबन्धिसूक्तवाकोत्कर्षेण पुरोडाशसंबन्धिदेवतावाचिपदोत्कर्षः संभावितः। स चोत्कर्षो नास्ति- इति तावत्प्राप्त

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तर एकादशाध्यायस्य तृतीयः पादः
म्। कुतः- तासां देवतानां पश्वनङ्गत्वात् ।
अत्र पादे- अधिकरणानि 16, सूत्राणि 54।
आदितः- अधिकरणानि 818, सूत्राणि 2419।
एकादशाध्यायस्य चतुर्थः पादः
तथैवावापः प्रपञ्चितः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- सर्वसोमानामुपरिष्टात्प्राजापत्यप्रचाराधिकरणे सूत्राणि 46-52”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 11, Pāda 2 Contents Adhyāya 11, Pāda 4 →