SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 11, Pāda 4

तन्त्रम्

तथैवावापः प्रपञ्चितः

21adhikaraṇas
57sūtras
11.4.1 प्रथमे राजसूये सौमापौष्णादिकेऽङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 1-3
SŪचोदनैकत्वाद्राजसूयेऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि।। 1।।
SŪप्रतिदक्षिणं वा कर्तृसंबन्धादिष्टिवदङ्गभूतत्वात्समुदायो हि तन्निर्वृत्त्या तदेकत्वादेकशब्दोपदेशः स्यात्।। 2।।
SŪतथा चान्यार्थदर्शनम्।। 3।।
चतुर्थपादे प्रथमाधिकरणमारचयति-

1विषयः

सौमापौष्णादिके तन्त्रमङ्गानामुत भिन्नता

3पूर्वपक्षः

तन्त्रं फलैक्यतो मैवं दक्षिणाकर्तृभेदतः
राजसूये श्रूयते ''सौमापौष्ण एकादशकपालः, ऐन्द्रापौष्णश्चरुः, पौष्णश्चरुः, श्यामो दक्षिणा'' इति। ''आग्नावैष्णव एकादशकपालः, ऐन्द्रावैष्णवश्चरुः, वैष्णवस्त्रिकपालः, वामनो दक्षिणा'' इति। तत्र द्वयोस्त्रिकयोस्तन्त्रेणाङ्गानुष्ठानम्। कुतः- कृत्स्नस्य राजसूयस्य फलैकत्वेन तदेकदेशयोरनयोरपि फलैकत्वात्। न च दर्शपूर्णमासयोरिवात्र कालभेदोऽस्ति, येनावापः शङ्क्येत। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- श्यामवामनयोर्दक्षिणयोर्भेदेन ताभ्यामानतानां कर्तॄणां भेदादङ्गानि भिद्यन्ते
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- सवनीयपुरोडाशे देवतोत्कर्षाधिकरणे सूत्रे 53-54”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तर एकादशाध्यायस्य तृतीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.2 द्वितीये- राजसूये कर्तुस्तन्त्रताधिकरणे सूत्राणि 4-8
SŪअनियमः स्यादिति चेत्।। 4।
SŪनोपदिष्टत्वात्।। 5।।
SŪलाघवातिपत्तिश्च।। 6।।
SŪप्रयोजनैकत्वात्।। 7।।
SŪविशेषार्था पुनः श्रुतिः।। 8।।
द्वितीयाधिकरणमारचयति-

1विषयः

राजसूये प्रक्रमस्थकर्तारो नियता न किम्

3पूर्वपक्षः

नियता वा दक्षिणानां भेदादनियता अमी
राजसूयस्य प्रक्रमे ये कर्तारः, त एवासमाप्तेर्न नियम्यन्ते। दक्षिणादिभेदेन कर्तृभेदस्य पूर्वमुक्तत्वात्। तथा च यया दक्षिणया ये परिक्रीताः, ते तदीयकर्मानुतिष्ठन्तु। इतरस्मिन्कर्मणि दक्षिणान्तरेण ते वाऽन्ये वा परिक्रीयन्ताम्। इति प्राप्ते-

4सिद्धान्तः

अनेकसमुदायात्मराजसूयाय ते वृताः
आदौ ते न नियम्यन्ते विशेषे दक्षिणाभिदा
ब्रूमः- 'अनेन राजसूयसंज्ञेन कर्मसमुदायेन मां याजय' इत्येवमादौ यजमानेन वृतत्वादा समाप्तेस्त एव कर्तारः। ईदृशमेव वरणं न्याय्यम्, समुदायस्यैकफलत्वात्। प्रतिकर्म पृथग्वरणे गौरवात्। कदाचिद्वरीतव्यानामलाभे विघ्नप्रसङ्गाच्च। कर्त्रैक्येऽपि कर्तृत्वधर्मविशेषे दक्षिणाभेद उपयुज्यते। पूर्वकर्तृत्वाधिष्ठानभूता एव वामनेन क्रीताः सन्त आग्नावैष्णवादित्रिकं कुर्युः, अयुतेन क्रीताः सन्तोऽभिषेचनीयम्, इति कर्तृत्वधर्मविशेषः। तस्मात्- नियताः।। ।2।। 3।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे राजसूये सौमापौष्णादिकेऽङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 1-3”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- श्यामवामनयोर्दक्षिणयोर्भेदेन ताभ्यामानतानां कर्तॄणां भेदादङ्गानि भिद्यन्ते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.3 तृतीये- अवेष्टावङ्गानां भेदाधिकरणे सूत्राणि 9-11
SŪअवैष्टो चैकतन्त्र्यं स्याल्लिङ्गदर्शनात्।। 9।।
SŪवचनात्कामसंयोगेन।। 10।।
SŪक्रत्वर्थायामिति चेन्न वर्णसंयोगात्।। 11।।
तृतीयाधिकरणमारचयति-

1विषयः

अवेष्टावङ्गतन्त्रत्वं भेदो वा लिङ्गतोऽग्रिमः
नोत्पत्तौ दक्षिणाभेदाल्लिङ्गं बाह्यप्रयोगगम्

3पूर्वपक्षः

राजसूयप्रकरणे श्रूयते ''दिशामवेष्टयो भवन्ति'' इति। ताश्चावेष्टय उत्पत्तिवाक्यैरेवमाम्नायन्ते- ''आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा। ऐन्द्रमेकादशकपालमृषभो दक्षिणा। वैश्वदेवं चरुं पिशङ्गी पष्ठौही दक्षिणा। मैत्रावरुणीमामिक्षां वशा दक्षिणाबार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणा'' इति। तास्ववेष्टिषु तन्त्रेणाङ्गानामनुष्ठानम्। कुतः- तल्लिङ्गात्। 'यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वा तमभिघारयेत्। यदि राजन्यः, ऐन्द्रम्। यदि वैश्यः, वैश्वदेवम्' इति। तत्र मध्ये निधानं प्रयोगैक्ये लिङ्गम्। तदैक्याच्च तन्त्रम्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- उत्पत्तिगतेन दक्षिणाभेदेन प्रयोगभेदावगमादङ्गानां भेदः। लिङ्गं तु बहिष्प्रयोगविषयम्। अस्ति च प्रयोगद्वयम्। राजसूयप्रकरणपाठादन्तःप्रयोग एकः। न च प्रकरणादुत्कर्षः कर्तुं शक्यः। राजसूयाङ्गभूतदिग्व्यस्थापननिमित्तोन्मादपरिहाररूपेणार्थवादेन तत्संबन्धावगमात्। तथा च श्रूयते ''ईश्वरो वा एष दिशोऽनून्मदितोः। यं दिशोऽनु व्यवस्थापयति। दिशामवेष्टयो भवन्ति। दिक्ष्वेव प्रतितिष्ठत्यनुन्मादाय'' इति। राजसूयाद्बहिष्प्रयोगस्तु ''एतयान्नाद्यकामं याजयेत्'' इति विहितः। न च- असौ राजसूयान्तः पाती। 'यदि ब्राह्मणः' इत्यादिना वर्णसंयोगावगमात्। राजसूये च व्राह्मणवैश्ययोरनधिकारात्। तस्मात् 'बहिष्प्रयोगे तन्त्रम्, अन्तःप्रयोगे भेदः' इति निर्णयः।। 4।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- राजसूये कर्तुस्तन्त्रताधिकरणे सूत्राणि 4-8”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अनेकसमुदायात्मराजसूयाय ते वृताः आदौ ते न नियम्यन्ते विशेषे दक्षिणाभिदा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.4 चतुर्थे- पवमानेष्टिहविषां भेदेनानुष्ठानाधिकरणे सूत्राणि 12-15
SŪपवमानहविःष्वैकतन्त्र्यं प्रयोगवचनैकत्वात्।। 12।।
SŪलिङ्गदर्शनाच्च।। 13।।
SŪवचनात्तु तन्त्रभेदः स्यात्।। 14।।
SŪसहत्वे नित्यानुवादः स्यात्।। 15।।
चतुर्थाधिकरणमारचयति-

1विषयः

पवमानेष्टिहविषां तन्त्रं भेदोऽथवाऽग्रिमः

3पूर्वपक्षः

साध्यदेशाद्यभेदान्नो काम्ये भेदोक्तितोऽन्तिमः
आधानप्रकरणे पठ्यते- ''अग्नये पवमानायाष्टाकपालं निर्वपेत्, अग्नये पावकाय, अग्नये शुचये'' इति। तैरेतैर्हविर्भिः साध्यस्याग्नेरेकत्वाद्देशाद्यभेदाच्चाङ्गानां तन्त्रम्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- ''यः कामयेत- उत्तरं वसीयान्, श्रेयान्, स्याम्- इति, तस्याग्नये पवमानाय निरुप्याथ पावकाय शुचये चोत्तरे हविषी समानबर्हिषी निर्वपेत्'' इति वचनात्काम्यप्रयोगे प्रथमस्य हविषोऽङ्गभेदः, उत्तरयोस्तन्त्रम्
नित्यप्रयोगे तु त्रयाणां तन्त्रम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- अवेष्टावङ्गानां भेदाधिकरणे सूत्राणि 9-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.5 पञ्चमे- द्वादशाहे दीक्षोपसत्सुत्यानां प्रत्येकस्य द्वादशाहताधिकरणे सूत्राणि 16-23
SŪद्वादशाहे तत्प्रकृतित्वादेकैकमहरपवृज्येत कर्मपृथक्त्वात्।। 16।।
SŪअह्नां वा श्रुतिभूतत्वात्तत्र साङ्गं क्रियेत यथा माध्यंदिने।। 17।।
SŪअपि वा फलकर्तृसंबन्धात्सहप्रयोगः स्यादाग्नेयाग्नीषोमीयवत्।। 18।।
SŪसाङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात्।। 19।।
SŪतदपेक्षं च द्वादशत्वम्।। 20।।
SŪदीक्षोपसदां च संख्या पृथक्पृथक्प्रत्यक्षसंयोगात्।। 21।।
SŪतथा चान्यार्थदर्शनम्।। 22।।
SŪचोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात्।। 23।।
पञ्चमाधिकरणमारचयति-

3पूर्वपक्षः

द्वादशाहस्यैकैकमहः पृथक्कर्म तस्मिंश्च सदीक्षस्य सोपसत्कस्य ससुत्यस्य ज्योतिष्टोमस्य विध्यन्तोऽतिदिष्टः। अतिदिष्टानामुपसदां दीक्षाणां च प्राकृतसंख्याबाधनाय पृथग्द्वादशत्वं श्रुतम्। ततो दीक्षोपसदर्थं चतुर्विंशतिदिनानि, सुत्यार्थमेकं दिनमिति पञ्चविंशतिः। ईदृशस्य कर्मविशेषस्याह्नो द्वादशभिरावृत्तिभिः शतत्रयं स्यात्। इत्याद्यः पक्षः।
तथा सत्यह्नां द्वादशत्वं श्रूयमाणं बाध्येत। तस्मात्- द्वादश दिवसाः। इति मध्यमः पक्षः।
तदाऽपि दीक्षोपसद्भ्यामुपेतस्यैकैकस्याह्नः साङ्गज्योतिष्टोमविकारत्वात्सर्वं सद्य एव कर्तव्यम्। इत्येकः पक्षः।
प्रकृतौ दीक्षोपसदोर्मुख्यकालात्प्रागेवानुष्ठितत्वादिहापि तथैवानुष्ठानं प्राप्तम्। तच्च मुख्यकालेऽनुष्ठाने बाध्येत। तस्मात्- अङ्गद्वयस्य प्रधानस्य च द्वादश दिनानि विभज्यानुष्ठानम्। इति पक्षान्तरम्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- पवमानेष्टिहविषां भेदेनानुष्ठानाधिकरणे सूत्राणि 12-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- ''यः कामयेत- उत्तरं वसीयान्, श्रेयान्, स्याम्- इति, तस्याग्नये पवमानाय निरुप्याथ पावकाय शुचये चोत्तरे हविषी समानबर्हिषी निर्वपेत्'' इति वचनात्काम्यप्रयोगे प्रथमस्य हविषोऽङ्गभेदः, उत्तरयोस्तन्त्रम् नित्यप्रयोगे तु त्रयाणां तन्त्रम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.6 षष्ठे- प्रधानैरपृथक्कालानामङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 24-27
SŪभेदस्तु तद्भेदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्।। 24।।
SŪतथा चान्यार्थदर्शनम्।। 25।।
SŪश्वः सुत्यावचनं तद्वत्।। 26।।
SŪपश्वतिरेकश्च।। 27।।
षष्ठाधिकरणमारचयति-

1विषयः

सवनीयादिकं तत्र सकृत्स्याद्भिद्यतेऽथवा

3पूर्वपक्षः

प्रयोगैक्यात्सकृन्मैवं मुख्यकाले विधानतः
तत्र द्वादशाहे सवनीयपश्वादिकमङ्गं दीक्षादिवत्सकृदेवानुष्ठेयम्। कुतः ''द्वादशाहेन प्रजाकामं याजयेत्'' इति प्रयोगैकत्वावगमात्। इति चेत्-

4सिद्धान्तः

मैवम्
दीक्षादीनामन्यस्मिन्कालेऽनुष्ठेयत्वात्
सवनीयादिकं तु मुख्यकालेऽनुष्ठेयम्
अतो मुख्यकालानां भेदाद्भिद्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- द्वादशाहे दीक्षोपसत्सुत्यानां प्रत्येकस्य द्वादशाहताधिकरणे सूत्राणि 16-23”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.7 सप्तमे- उपसत्काले सुब्रह्मण्याह्वानस्याविकारेण कर्तव्यताधिकरणे सूत्रे 28-29
SŪसुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषामुपलक्षणं प्रकृत्यन्वयादावाहनवत्।। 28।।
SŪअपि वेन्द्राभिधानत्वात्सकृत्स्यादुपलक्षणम्, कालस्य लक्षणार्थत्वादविभागाच्च।। 29।।
सप्तमाधिकरणमारचयति-

1विषयः

उपसत्काल आह्वानं द्वादशाहे विकारभाक्

3पूर्वपक्षः

न वाद्य उपलक्ष्यत्वादत्राह्नां प्रकृताविव
उपसत्काले यत्सुब्रह्मण्याह्नं प्रकृतावस्ति, तद्द्वादशाहे चोदकप्राप्तम्। तस्य मुख्यकालादन्यः काल इति कृत्वा तन्त्रं पूर्वं निर्णीतम्। इदानीमन्योऽत्रोहरूपो विकारस्तन्त्रावापपर्यवसायी विचार्यते।
प्रकृतौ प्रथमोपसद्दिनमारभ्य त्रयोदशेऽह्नि प्रथमसुत्या, चतुर्दशेऽह्नि द्वितीयसुत्या, इत्येवंक्रमेण चतुर्विंशेऽह्नि चरमसुत्या भवति। तथा च प्रकृतौ 'चतुरहः' इति संख्याविशिष्टेनाहःशब्देन सुत्याया उपलक्षितत्वादत्रापि द्वादशानां सुत्यानामहःशब्देनोपलक्षणीयत्वे सति तद्विशेषणभूतचतुःसंख्यास्थाने यथोचितं त्रयोदशचतुर्दशादिसंख्यानामूहनीयत्वेन विकारो भवति। ततो विशेषणभेदेन विशेष्यस्याहःशब्दस्यापि द्वादशकृत्व आवृत्तावर्थात्सुब्रह्मण्यावापः स्यात्। इति प्राप्ते-

4सिद्धान्तः

सुत्यागमनमात्रस्य विवक्षा प्रकृतौ ततः
विकारमन्तरेणात्र तत्सिध्येत्तेन तन्त्रता
ब्रूमः- प्रकृताविन्द्रस्य सुत्यागमनमात्रं विवक्षितम्। चतुरहत्वं त्वर्थप्राप्तमनूद्यते। उभयविवक्षायां ''सुत्यामागच्छ, चतुरह आगच्छ'' इति वाक्यं भिद्येत। तथा- अत्रापि 'त्रयोदशाहे सुत्यामागच्छ' इत्येवंविधं विकारमन्तरेण 'चतुरहे सुत्यामागच्छ' इत्येवाह्वानेऽपि चतुरहशब्दस्याविवक्षितार्थत्वात्सुत्याकारेण द्वादशानामेकत्वादशेषसुत्यागमनं सिध्यति। तस्मादिह रूपविकाराभावात्पूर्वोक्तं तन्त्रं सुस्थितम्।। 12।। 13।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- प्रधानैरपृथक्कालानामङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 24-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् दीक्षादीनामन्यस्मिन्कालेऽनुष्ठेयत्वात् सवनीयादिकं तु मुख्यकालेऽनुष्ठेयम् अतो मुख्यकालानां भेदाद्भिद्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.8 अष्टमे- वाजपेये प्राजापत्येषु कुम्भ्यादीनां तन्त्रताधिकरणे सूत्रम्
SŪपशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात्तन्त्रभावः स्यात्।। 30।।
अष्टमाधिकरणमारचयति-

1विषयः

प्राजापत्येषु कुम्भ्यादेर्भेदो नो वाऽङ्गभेदतः

3पूर्वपक्षः

भेदो मैवं विशेषाङ्गश्रपणादौ प्रभुत्वतः
वाजपेये सप्तदशप्राजापत्यपशुषु कुम्भ्या हृदयशूलस्य वपाश्रपण्याश्च भेदः स्यात्। तत्तत्पश्वङ्गानां भिन्नत्वात्।

4सिद्धान्तः

मैवम्
पश्वङ्गानां बहुत्वेऽपि प्रौढकुम्भ्यादेर्दृष्टार्थे श्रपणादौ प्रभुत्वात्
तस्मात्- तन्त्रम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- उपसत्काले सुब्रह्मण्याह्वानस्याविकारेण कर्तव्यताधिकरणे सूत्रे 28-29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सुत्यागमनमात्रस्य विवक्षा प्रकृतौ ततः विकारमन्तरेणात्र तत्सिध्येत्तेन तन्त्रता”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.9 नवमे- भिन्नदेवताकेष्वपि शूलादीनां तन्त्रताधिकरणे सूत्रे 31-32
SŪभेदस्तु संदेहाद्देवतान्तरे स्यात्।। 31।।
SŪअर्थाद्वा लिङ्गकर्म स्यात्।। 32।।
नवमाधिकरणमारचयति-

1विषयः

किमैकादशिनेष्वस्य कुम्भ्यादेर्भिन्नता न वा

3पूर्वपक्षः

असंदेहाय भेदो न लिङ्गादेवास्य सिद्धितः
भिन्नदेवताकेष्वैकादशिनेषु पशुष्वेककुम्भीपाके सति 'किमङ्गं कां देवतां प्रत्युपाकृतस्य पशोः संबन्धि' इति संदेहे सति प्रदानं संकीर्येत। तस्मात्- कुम्भ्यादिरावापः। इति चेत्-

4सिद्धान्तः

मैवम्
चिह्नकरणमात्रेणैव संदेहापगमसिद्धौ लाघवात्
तस्मात्- अत्रापि तन्त्रम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- वाजपेये प्राजापत्येषु कुम्भ्यादीनां तन्त्रताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् पश्वङ्गानां बहुत्वेऽपि प्रौढकुम्भ्यादेर्दृष्टार्थे श्रपणादौ प्रभुत्वात् तस्मात्- तन्त्रम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.10 दशमे- वसाकुम्भ्याऽपि तन्त्रताधिकरणे सूत्राणि 33-36
SŪअयाज्यत्वाद्वसानां भेदः स्यात्स्वयाज्याप्रदानत्वात्।। 33।।
SŪअपि वा प्रतिपत्तित्वात्तन्त्रं स्यात्स्वत्वस्याश्रुतिभूतत्वात्।। 34।।
SŪसकृदिति चेत्।। 35।।
SŪन कालभेदात्।। 36।।
दशमाधिकरणमारचयति-

1विषयः

तत्तन्त्रं हेयमुत नो, चिह्नं नास्ति वसास्वतः

3पूर्वपक्षः

हेयं, नो प्रतिपत्तित्वात्सांकर्येणाप्यदोषतः
ऐकादशिनेषु कुम्भ्यादेर्यत्तन्त्रं निर्णीतम्, तत्परित्याज्यम्। कुतः- अङ्गानामिव वसानां चिह्नकरणासंभवेन सांकर्यप्रसङ्गात्। इति चेत्-
मैवम्। वसाहोमस्य प्रतिपत्तिकर्मत्वेन द्रव्यं प्रति प्रयोजकत्वाभावेन द्रव्यश्रपणार्थं कुम्भीभेदप्रयोजकत्वस्य दूरापेतत्वात्। न च- अत्र द्रव्यसांकर्यं दोषाय भवति। व्यवस्थापकप्रमाणाभावात्।

4सिद्धान्तः

ननु- तत्तदेवताविषययाज्यार्धर्चान्तेषु भिन्ना होमाः पूर्वं निर्णीताः
बाढम्
तथैवार्धर्चान्ते तद्धूयताम्, किमायातं द्रव्यसांकर्ये
तस्मात्- कुम्भ्यादेस्तन्त्रं न त्याज्यम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- भिन्नदेवताकेष्वपि शूलादीनां तन्त्रताधिकरणे सूत्रे 31-32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् चिह्नकरणमात्रेणैव संदेहापगमसिद्धौ लाघवात् तस्मात्- अत्रापि तन्त्रम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.11 एकादशे- भिन्नजातिषु कुम्भ्यादीनां भेदेनानुष्ठानाधिकरणे सूत्रे 37-38
SŪजात्यन्तरेषु भेदः स्यात्पक्तिवैषम्यात्।। 37।।
SŪवृद्धिदर्शनाच्च।। 38।।
एकादशाधिकरणमारचयति-

1विषयः

भिन्नजातिषु कुम्भ्यादेस्तन्त्रं भेदोऽथवाऽग्रिमः

3पूर्वपक्षः

पूर्ववत्पाकवैषम्ये साहित्यासंभवाद्भिदा
एकजातिषु पशुषु यथा कुम्भ्योस्तन्त्रं पूर्वोक्तम्, तथाऽत्रापि। इति चेत्-

4सिद्धान्तः

मैवम्
अवेरङ्गानि सहसा पच्यन्ते, अजाङ्गानि तु विलम्बेन
ततः साहित्यासंभवात्कुम्भ्यादेर्भेदः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- वसाकुम्भ्याऽपि तन्त्रताधिकरणे सूत्राणि 33-36”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ननु- तत्तदेवताविषययाज्यार्धर्चान्तेषु भिन्ना होमाः पूर्वं निर्णीताः बाढम् तथैवार्धर्चान्ते तद्धूयताम्, किमायातं द्रव्यसांकर्ये तस्मात्- कुम्भ्यादेस्तन्त्रं न त्याज्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.12 द्वादशे- अश्वप्रतिग्रहेष्टौ प्रतिपुरोडाशं कपालभेदाधिकरणे सूत्राणि 39-41
SŪकपालानि च कुम्भीवत्तुल्यसंख्यानाम्।। 39।।
SŪप्रतिप्रधानं वा प्रकृतिवत्।। 40।।
SŪसर्वेषां चाभिप्रथनं स्यात्।। 41।।
द्वादशाधिकरणमारचयति-

1विषयः

तन्त्रं चतुष्कपालानां भेदो वा तन्महत्त्वतः

3पूर्वपक्षः

कुम्भवत्तन्त्रता मैवं भेदः स्यात्प्रकृताविव
इदं श्रूयते ''यावतोऽश्वान्प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालान्निर्वपेत्'' इति। यथा प्राजापत्येषु कुम्भ्या महत्त्वेन तन्त्रम्, तथाऽत्रापि तन्त्रम्। इति चेत्-

4सिद्धान्तः

मैवम्
प्रकृतौ प्रतिपुरोडाशं कपालभेदेन तद्भेदस्यैव चोदकप्राप्तेः
किंच- अत्यन्तविशालेषु कपालेषु चतुर्षु पुरोडाशानां शतेष्ववस्थापितेष्वेकस्यैव कपालस्यैकदेशे पुरोडाशस्यैकस्य समाप्तेर्न कोऽपि पुरोडाशश्चतुष्कपालः सिध्येत्
तस्मात्- प्रतिपुरोडाशं कपालचतुष्कभेदः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- भिन्नजातिषु कुम्भ्यादीनां भेदेनानुष्ठानाधिकरणे सूत्रे 37-38”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अवेरङ्गानि सहसा पच्यन्ते, अजाङ्गानि तु विलम्बेन ततः साहित्यासंभवात्कुम्भ्यादेर्भेदः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.13 त्रयोदशे- व्रीह्यवहननादौ प्रतिप्रहारं मन्त्रस्यानावृत्त्यधिकरणे सूत्रे 42-43
SŪएकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वम्।। 42।।
SŪतस्मिन्मन्त्रार्थनानात्वादावृत्तौ मन्त्रस्यासकृत्प्रयोगः स्यात्।। 43।।
त्रयोदशाधिकरणमारचयति-

1विषयः

अवघातार्थमन्त्रः किमसकृत्सकृदेव वा

3पूर्वपक्षः

प्रहारभेदादावृत्तिः कर्मैक्येन सकृद्भवेत्
''अवरक्षो दिवः सपत्नं वध्यासम्- इत्यवहन्ति'' इत्यवघाते विहितो मन्त्र आवर्तनीयः। अवघातस्य प्रहाररूपत्वात्। प्रहाराणां च भिन्नत्वात्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- तण्डुलनिष्पत्तिपर्यन्तत्वेनाक्षिप्तप्रहाराभ्यासयुक्तस्यावघातस्यैककर्मत्वात्तत्र विनियुक्तस्य मन्त्रस्यावघातोपक्रमे सकृदेव पाठः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- अश्वप्रतिग्रहेष्टौ प्रतिपुरोडाशं कपालभेदाधिकरणे सूत्राणि 39-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रकृतौ प्रतिपुरोडाशं कपालभेदेन तद्भेदस्यैव चोदकप्राप्तेः किंच- अत्यन्तविशालेषु कपालेषु चतुर्षु पुरोडाशानां शतेष्ववस्थापितेष्वेकस्यैव कपालस्यैकदेशे पुरोडाशस्यैकस्य समाप्तेर्न कोऽपि पुरोडाशश्चतुष्कपालः सिध्येत् तस्मात्- प्रतिपुरोडाशं कपालचतुष्कभेदः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.14 चतुर्दशे- नानाबीजेष्टौ प्रतिप्रहारं मन्त्रावृत्त्यधिकरणे सूत्रम्
SŪद्रव्यान्तरे कृतार्थत्वात्तस्य पुनःप्रयोगान्मन्त्रस्य च तद्गुणत्वात्पुनःप्रयोगः स्यात्तदर्थेन विधानात्।। 44।।
चतुर्दशाधिकरणमारचयति-

1विषयः

नानाबीजेषु तन्मन्त्रः सकृद्वाऽसकृदग्रिमः

3पूर्वपक्षः

विशेषाग्रहणान्मैवमवघातस्य भेदतः
नानाबीजेष्टौ बीजानामवघातस्याङ्गभूतो मन्त्रः 'अयमेतदर्थः' इति विशेषस्यागृह्यमाणत्वात्सकृदादौ प्रयोज्यः। इति चेत्-

4सिद्धान्तः

मैवम्
अवघातानां भिन्नत्वेन समन्त्रत्वाय प्रत्यवघातं मन्त्रस्याऽवर्तनीयत्वात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- व्रीह्यवहननादौ प्रतिप्रहारं मन्त्रस्यानावृत्त्यधिकरणे सूत्रे 42-43”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- तण्डुलनिष्पत्तिपर्यन्तत्वेनाक्षिप्तप्रहाराभ्यासयुक्तस्यावघातस्यैककर्मत्वात्तत्र विनियुक्तस्य मन्त्रस्यावघातोपक्रमे सकृदेव पाठः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.15 पञ्चदशे- प्रतिनिर्वापादिमन्त्रावृत्त्यधिकरणे सूत्रे 45-46
SŪनिर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत्प्रयोजनैकत्वात्।। 45।।
SŪद्रव्यान्तरवद्वा स्यात्तत्संस्कारात्।। 46।।
पञ्चदशाधिकरणमारचयति-

1विषयः

निर्वापादिषु तन्मन्त्राः सकृद्भेदेन वाऽग्रिमः

3पूर्वपक्षः

द्रव्यकर्मैक्यतो मैवं संस्कारस्य पृथक्त्वतः
दर्शपूर्णमासयोर्निर्वापबर्हिर्लवनवेदिपरिस्तरणाज्यग्रहणेष्वावृत्तयः श्रुताः ''चतुरो मुष्टीन्निर्वपति'' ''अयुग्वा युग्वा मुष्टीर्लुनाति'' ''त्रिधा तु पञ्चधा तु वा वेदिं स्तृणाति'' ''चतुर्जुह्वां गृह्णाति'' इति। तेषु निर्वापादिषु मन्त्रा विहिताः ''देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि'' इति, ''बर्हिर्देवसदनं दामि'' इति, ''ऊर्णाम्रदसं त्वा स्तृणामि'' इति, ''शुक्रं त्वा शुक्रायां धाम्ने धाम्ने देवेभ्यो यजुषे यजुपे गृह्णामि'' इति च। तत्तन्मन्त्रा द्रव्यैक्यात्कर्मैक्याच्च व्रीह्यवघातन्यायेन सकृत्पाठ्याः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- समन्त्रकप्रथममुष्टिनिर्वापेण ये संस्कृतास्तण्डुलाः, तेभ्योऽन्ये मुष्ट्यन्तरनिर्वापेण संस्कार्याः
अतस्तत्संस्कारसिद्धये नानाबीजन्यायेन मन्त्रावृत्तिः
एवं लवनादिषु योज्यम्
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- नानाबीजेष्टौ प्रतिप्रहारं मन्त्रावृत्त्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अवघातानां भिन्नत्वेन समन्त्रत्वाय प्रत्यवघातं मन्त्रस्याऽवर्तनीयत्वात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.16 षोडशे- वेदिप्रोक्षणे प्रत्यावृत्तिमन्त्रानावृत्त्यधिकरणे सूत्रे 47-48
SŪवेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनःप्रयोगात्।। 47।।
SŪएकस्य वा गुणविधिर्द्रव्यैकत्वात्तस्मात्सकृत्प्रयोगः स्यात्।। 48।।
षोडशाधिकरणमारचयति-

1विषयः

वेदिप्रोक्षणमन्त्रः किमावर्त्यः सकृदेव वा

3पूर्वपक्षः

आद्यः स्यात्प्रोक्षणत्रित्वात्संस्कार्यैकत्वतः सकृत्
वेद्यास्त्रिः प्रोक्षणं विहितम्। तत्र मन्त्र आम्नायते ''वेदिरसि बर्हिषे त्वा'' इति। तत्र त्रिः प्रोक्षणक्रियाया आवृत्त्या तन्मन्त्रस्याप्यावृत्तिः। इति चेत्-

4सिद्धान्तः

मैवम्
संस्कार्यवेद्या एकत्वेन समन्त्रकप्रथमप्रोक्षणेन तत्संस्कारसिद्धौ पुर्नर्न मन्त्रः
वैयर्थ्यात्
प्रोक्षणावृत्तिस्तु वाचनिकी, इति वैषम्यम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- प्रतिनिर्वापादिमन्त्रावृत्त्यधिकरणे सूत्रे 45-46”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- समन्त्रकप्रथममुष्टिनिर्वापेण ये संस्कृतास्तण्डुलाः, तेभ्योऽन्ये मुष्ट्यन्तरनिर्वापेण संस्कार्याः अतस्तत्संस्कारसिद्धये नानाबीजन्यायेन मन्त्रावृत्तिः एवं लवनादिषु योज्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.17 सप्तदशे- कण्डूयनमन्त्रस्यानावृत्त्यधिकरणे सूत्रे 49-50
SŪकण्डूयने प्रत्यङ्गं कर्मभेदात्स्यात्।। 49।।
SŪअपि वा चोदनैककालमैककर्म्यं स्यात्।। 50।।
सप्तदशाधिकरणमारचयति-

1विषयः

एककालीनबह्वङ्गकण्ड्वां मन्त्रे भिदा न वा
अङ्गभेदान्मन्त्रभेदो निर्वृत्त्यैकत्वतो न सः

3पूर्वपक्षः

ज्योतिष्टोमे ''कृष्णविषाणया कण्डूयते'' इति प्रोक्तसाधनोपेते कण्डूयने ''सुपिप्पलाभ्यस्त्वौषधीभ्यः'' इत्यादिको मन्त्रो विहितः। तत्र युगपद्बह्वङ्गेषूत्पन्नायां कण्ड्वां प्रत्यङ्गमभ्यस्यमाने कण्डूयने मन्त्राभ्यासः कर्तव्यः। कुतः- कण्डूयितव्यानामङ्गानां भिन्नत्वात्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- न ह्यङ्गशेषो मन्त्रः, येन तद्भेदादभ्यस्येत। किंतु कण्डूनिवृत्तये यत्प्राप्तं कण्डूयनम्, तदेव कृष्णविषाणाविशिष्टत्वाकारेण विधीयते। विधीयमानस्य तस्य कण्डूयनस्य शेषो मन्त्रः। तेन च कण्डूयनेनात्मनि निर्दुःखत्वलक्षणः संस्कार उत्पाद्यते। तत्र संस्कार्यात्मन एकत्वात्सकृन्मन्त्रपाठेन तत्सिद्धे- र्नावघातवन्मन्त्रस्यावृत्तिः। कण्डूयनं तु दृष्टप्रयोजनपर्यन्तं प्रत्यङ्गं नानाबीजावघातवदावर्त्यताम्। तस्मात्- सकृदेव कण्डूयनमन्त्रः।। 23।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- वेदिप्रोक्षणे प्रत्यावृत्तिमन्त्रानावृत्त्यधिकरणे सूत्रे 47-48”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् संस्कार्यवेद्या एकत्वेन समन्त्रकप्रथमप्रोक्षणेन तत्संस्कारसिद्धौ पुर्नर्न मन्त्रः वैयर्थ्यात् प्रोक्षणावृत्तिस्तु वाचनिकी, इति वैषम्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.18 अष्टादशे- स्वप्नादिमन्त्रानावृत्त्यधिकरणे सूत्रम्
SŪस्वप्ननदीतरणाभिवर्षणामेध्यप्रतिमन्त्रणेषु चैवम्।। 51।।

1विषयः

ब्रूमः- रात्रिगतां कृत्स्नां निद्रामुद्दिश्य मन्त्रविधानान्निमित्तमेकम्
एवमितरत्रापि योज्यम्
तस्मात्- नास्त्यावृत्तिः

3पूर्वपक्षः

दीक्षितस्य स्वप्ननद्युत्तरणवृष्टिक्लेदनामेध्यदर्शननिमित्तकास्तत्तन्मन्त्रजपाः पठिताः ''त्वमग्ने व्रतपा असि'' इत्यादिः स्वप्नमन्त्रः। ''देवीरापो अपांनपात्'' इत्यादिर्नदीतरणमन्त्रः। ''उन्दतीर्बलं धत्ते'' इत्यादिर्वृष्टिक्लेदनमन्त्रः। ''अबद्धं मनः'' इत्यादिरमेध्यदर्शनमन्त्रः। यदि निद्रा मध्ये प्रबोधैरल्पैर्व्यवधीयेत, नदी च बहुस्रोतोयुक्ता द्वीपैः, वृष्टिश्च विच्छेदैः, अमेध्यानि च देशैः, तदा तैरन्तरायैर्निमित्तेषु भिद्यमानेषु नैमित्तिका मन्त्रा आवर्त्याः- इत्येवं प्राप्ते-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- कण्डूयनमन्त्रस्यानावृत्त्यधिकरणे सूत्रे 49-50”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.19 एकोनविंशे- दीक्षितस्य प्रयाणे मन्त्रानावृत्त्यधिकरणे- सूत्रम्
SŪप्रयाणे त्वार्थनिर्वत्तेः।। 52।।
एकोनविंशाधिकरणमारचयति-

1विषयः

प्रयाणे प्रत्यहं मन्त्रो भिन्नो नो वाऽत्र विश्रमैः

3पूर्वपक्षः

प्रयाणभेदाद्भिन्नो नो गत्यैक्यादानिवृत्तितः
''भद्रादभिश्रेयः'' इत्यादिः प्रयाणमन्त्रः। तस्य दीक्षितस्य विश्रमभेदेन निर्गमनभेदाद्भेदः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- निर्गमनादारभ्य पुनः प्रवेशपर्यन्तं विश्रमव्यवधानेऽपि प्रयोजनैक्यादेकमेव प्रयाणम्
ततो न मन्त्रावृत्तिः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- स्वप्नादिमन्त्रानावृत्त्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.20 विंशे- उपरवमन्त्रस्यावृत्त्यधिकरणे सूत्रे 53-54
SŪउपरवमन्त्रस्तन्त्रं स्याल्लोकवद्बहुवचनात्।। 53।।
SŪन संनिपातित्वात्, असंनिपातिकर्मणां विशेषाग्रहणे कालैकत्वात्सकृद्वचनम्।। 54।।
विंशाधिकरणमारचयति-

1विषयः

तन्त्रेणोपरवे मन्त्रो भिद्यते वा, बहूक्तितः

3पूर्वपक्षः

तन्त्रं बहूक्तिः पूजार्था भिन्नोऽसौ खेयभेदतः
सन्ति ज्योतिष्टोमे पीठपादचतुष्टयाकारा बाहुमात्रखाता उपरवनामकाश्चत्वारो गर्ताः। तदीयखननमन्त्रे बहुवचनं श्रूयते ''रक्षोहणो वल्गहनो वैष्णवान्खनामि'' इति। तच्च प्रत्युपरवं मन्त्रावृत्तौ नोपपद्यते। तस्मात्- तन्त्रम्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- एकस्मिन्नपि बहुवचनं पूजार्थमाचार्यादिष्विव प्रयोक्तुं शक्यम्
खेयास्तूपरवा भिन्नाः
ततः-खननभेदेन तदङ्गभूतो मन्त्र आवर्तनीयः
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- दीक्षितस्य प्रयाणे मन्त्रानावृत्त्यधिकरणे- सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- निर्गमनादारभ्य पुनः प्रवेशपर्यन्तं विश्रमव्यवधानेऽपि प्रयोजनैक्यादेकमेव प्रयाणम् ततो न मन्त्रावृत्तिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.4.21 एकविंशे-हविष्कृदादिमन्त्राणामावृत्त्यधिकरणे सूत्राणि 55-57
SŪहविष्कृदध्रिगुपुरोनुवाक्यामनोतस्यावृत्तिः कालभेदात्स्यात्।। 55।।
SŪअध्रिगोश्च विपर्यासात्।। 56।।
SŪकरिष्यद्वचनात्।। 57।।
एकविंशाधिकरणमारचयति-

3पूर्वपक्षः

सवनीयेषु पुरोडाशेषु हविष्कृन्मन्त्रश्चोदकप्राप्तः। प्राजापत्येषु पशुष्वध्रिगुप्रैषमन्त्रः। कृष्णग्रीवयोः पश्वोरनुवाक्यामनोतामन्त्रौ। ''हविष्कृदेहि'' इति हविष्कृन्मन्त्रः। ''दैव्याः शमितारः'' इत्यध्रिगुप्रैषमन्त्रः। ''अग्ने नय सुपथा'' इति पुरोनुवाक्या। ''त्वं ह्यग्ने प्रथमो मनोता'' इति मनोतामन्त्रः। एते चतुर्विधा मन्त्राः स्वस्वविषये तन्त्रेण पठनीयाः। तथा सति सवनीयपुरोडाशानां सहोपक्रमोऽनुगृह्यते।
एवमुदाहरणान्तरेष्वपि। तत्र प्राजापत्याः पशवः क्रतुपशुभिः सहोपक्रान्ताः। अतो द्विविधेष्वपि पशुषु तन्त्रम्। कृष्णग्रीवौ च सहोपक्रान्तौ, अतस्तयोः पुरोनुवाक्यायास्तन्त्रम्। तथा मनोतामन्त्रस्यापि। इति प्राप्ते

4सिद्धान्तः

-
अत्र पादे- अधिकरणानि 21, सूत्राणि 57।
आदितः- अधिकरणानि 839, सूत्राणि 2476।
।।अध्यायश्च समाप्तः।।
द्वादशाध्याययस्य प्रथमः पादः
पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः।
'अभ्यर्हितं पूर्वम्' इति न्यायमाश्रित्य तन्त्रप्रसङ्गप्रतिपादकयोरेकादशद्वादशाध्याययोः पूर्वोत्तरभाव उपपादितः। तन्त्रप्रसङ्गयोर्लक्षणभेदोऽप्यनेन सूचितो भवति।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तथैवावापः प्रपञ्चितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- उपरवमन्त्रस्यावृत्त्यधिकरणे सूत्रे 53-54”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- एकस्मिन्नपि बहुवचनं पूजार्थमाचार्यादिष्विव प्रयोक्तुं शक्यम् खेयास्तूपरवा भिन्नाः ततः-खननभेदेन तदङ्गभूतो मन्त्र आवर्तनीयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 11, Pāda 3 Contents Adhyāya 12, Pāda 1 →