11.1.1
प्रथमे- आग्नेयादीनां समुदितानां तन्त्रेण स्वर्गफलकत्वाधिकरणे सूत्राणि 1-4
SŪप्रयोजनाभिसंबन्धात्पृथक्सतां ततः स्यादैककर्म्यमेकशब्दाभिसंयोगात्।। 1।।
SŪशेषवद्वा प्रयोजनं प्रतिकर्म विभज्येत।। 2।।
SŪअविधानात्तु नैवं स्यात्।। 3।।
SŪशेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात्।। 4।।
एकादशाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-
1विषयः
षड्यागानां फलं स्वर्गः प्रत्येकं तन्त्रतोऽथवा
आद्यः पृथक्फलार्थित्वान्न संघस्य फलोक्तितः
3पूर्वपक्षः
''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति श्रुतं फलमाग्नेयादिभिः षड्भिर्यागैः प्रत्येकमभिसंबध्यते। कुतः- पृथगुत्पन्नतया परस्परनिरपेक्षाणां पृथगेव फलस्याकाङ्क्षितत्वात्। इति चेत्-
न। तत्समूहवाचिना दर्शपूर्णमासशब्देन व्यवहृत्य संघस्यैव फलसंबन्धनात्। तस्मात्- स्वर्गस्तेषां फलं तन्त्रेण। तन्यते विस्तार्यते बहूनामुपकारो येन सकृत्प्रवर्तितेन, तदिदं तन्त्रम्। तद्यथा बहूनां ब्राह्मणानां मध्ये कृतः प्रदीपस्तेषामुपकरोति, न त्वनुलेपनभोजनादिवत्प्रतिपुरुषमावृत्तिलक्षणमावापमपेक्षते। एवं स्वर्गस्तन्त्रेण फलम्।। 2।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- एकपुरोडाशायामप्युपांशुयाजाधिकरणे सूत्राणि 62-70”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.1.2
द्वितीये- अङ्गानामैककार्याधिकरणे सूत्राणि 5- 10
SŪअङ्गानां तु शब्दभेदात्क्रतुवत्स्यात्फलान्यत्वम्।। 5।।
SŪअर्थभेदस्तु तत्राथेहैकार्थ्यादैककर्म्यम्।। 6।।
SŪशब्दभेदान्नेति चेत्।। 7।।
SŪकर्मार्थत्वात्प्रयोगे ताच्छब्द्यं स्यात्तदर्थत्वात्।। 8।।
SŪकर्तृविधेर्नानार्थत्वाद्गुणप्रधानेषु।। 9।।
SŪआरम्भः शब्दपूर्वत्वात्।। 10।।
द्वितीयाधिकरणमारचयति-
1विषयः
कार्यभेदो न वाऽङ्गानां सौर्यचित्रादिवद्भिदा
3पूर्वपक्षः
करणैक्यात्तदेकत्वं द्वारभेदो बहुत्वतः
यानि प्रयाजाज्यभागाद्यङ्गानि, तेषां सर्वेषां करणं प्रत्युपकारभेदः स्यात्। कुतः- कार्यभेददर्शनात्। यथा- ''सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः'' ''चित्रया यजेत पशुकामः'' इत्यादिषु परस्परनैरपेक्ष्येण विहितानां सौर्यादीनां ब्रह्मवर्चसादिकार्यभेदः, तथा प्रयाजाज्यभागादीनां परस्परनिरपेक्षाणां करणोपकारा भिद्यन्ते। न च- अत्र पूर्वन्यायेन संघोपकारगमकं किंचिदस्ति। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- करणाकाङ्क्षानुसारेण ह्यङ्गोपकारः कल्प्यः
करणं च स्वयमेकं सत्स्वशक्त्युद्बोधनलक्षण-मेकमेवोपकारमङ्गकृतमपेक्षते
अङ्गबहुत्वं तु द्वारकार्यभेदेनोपपद्यते
यथा तण्डुलकाष्ठस्थाल्यादीनां कारकाणां द्वारभेद एवौदननिष्पादनलक्षणं प्रधानकार्यमेकमेव
तद्वदत्र द्वारभेदेऽप्युपकार एक एव
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- आग्नेयादीनां समुदितानां तन्त्रेण स्वर्गफलकत्वाधिकरणे सूत्राणि 1-4”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.1.3
तृतीये- दर्शपूर्णमासादिकाम्यकर्मणां सर्वाङ्गोपसंहाराधिकरणे सूत्राणि 11-19
SŪएकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषु प्राप्तेषु चोत्तरावत्स्यात्।। 11।।
SŪफलाभावान्नेति चेत्।। 12।।
SŪन कर्मसंयोगात्प्रयोजनमशब्ददोषं स्यात्।। 13।।
SŪऐकशब्द्यादिति चेत्।। 14।।
SŪनार्थपृथक्त्वात्समत्वादगुणत्वम्।। 15।।
SŪविधेस्त्वेकश्रुतित्वादपर्यायविधानान्नित्यवच्छ्रुतभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दार्थो निवीतवत्स्यात्सर्वप्रयोगे प्रवृत्तिः स्यात्।। 16।।
SŪतथा कर्मोपदेशः स्यात्।। 17।।
SŪक्रत्वन्तरेषु पुनर्वचनम्।। 18।।
SŪउत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात्स्वदोहे यथाकामी प्रतीयेत।। 19।।
तृतीयाधिकरणमारचयति-
1विषयः
उपकारः स एकेन कैश्चिद्वा निखिलैरुत
3पूर्वपक्षः
आकाङ्क्षापूरणादाद्यः फलाधिक्याय मध्यमः
योऽयं करणं प्रत्येक उपकारः पूर्वत्र निर्णीतः, स एकेनाङ्गेन सिध्यति। कारणस्याङ्गाकाङ्क्षायास्तावता पूरितत्वात्। यथा ग्रामगतैः सर्वैः कर्तव्यं करदानमेक एव राजकुलसमागतः करोति, कराकाङ्क्षा च तावता राज्ञो निवर्तते। तथाऽत्रापि द्रष्टव्यम्। यदि 'एतदङ्गमनुष्ठेयम्' इति विशेषनियामकं न स्यात्, तर्हि विकल्पोऽस्तु। इत्याद्यः पक्षः। यथा यावन्ति काम्यकर्माणि सौर्यचित्रादीन्यनुतिष्ठति तावत्फलं प्राप्नोति, तथा- अङ्गभूयस्त्वेन फलभूयस्त्वसंभवादिच्छया कानिचिदङ्गान्यनुष्ठेयानि। तैश्चातिशयवानेकः करणोपकारो जायते। इति मध्यमः पक्षः।
यथा जिघत्सया खले बीजभक्षणाय कपोतपङ्क्तिर्युगपत्पतति, तथा करणाकाङ्क्षां पूरयितुं सामर्थानि सर्वाण्यङ्गान्येकप्रयोगवचनपरिगृहीततया युगपत्प्राप्तानि तेषु केषांचित्परित्यागे हेतुर्नास्ति। तस्मात्- सर्वाण्यङ्गानि संभूयैकस्योपकारजननेन करणाकाङ्क्षां पूरयन्ति। इति सिद्धान्तः।
वार्तिककारस्तु पूर्वाधिकरणस्य वैयर्थ्यं मन्यमानोऽस्मिन्नेवाधिकरणेऽन्तर्भावयामास।
4सिद्धान्तः
कपोतवद्यौगपद्ये त्यागहेतोरभावतः
संभूयकरणाकाङ्क्षां पूरयन्त्युपकारतः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- अङ्गानामैककार्याधिकरणे सूत्राणि 5- 10”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- करणाकाङ्क्षानुसारेण ह्यङ्गोपकारः कल्प्यः करणं च स्वयमेकं सत्स्वशक्त्युद्बोधनलक्षण-मेकमेवोपकारमङ्गकृतमपेक्षते अङ्गबहुत्वं तु द्वारकार्यभेदेनोपपद्यते यथा तण्डुलकाष्ठस्थाल्यादीनां कारकाणां द्वारभेद एवौदननिष्पादनलक्षणं प्रधानकार्यमेकमेव तद्वदत्र द्वारभेदेऽप्युपकार एक एव”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.1.4
चतुर्थे- काम्यकर्मणां भूयोऽभ्यासाधिकरणे सूत्राणि 20-26
SŪकर्मण्यारम्भभाव्यत्वात्कृषिवत्प्रत्यारम्भं फलानि स्युः।। 20।।
SŪअधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः।। 21।।
SŪसकृत्तु स्यात्कृतार्थत्वादङ्गवत्।। 22।।
SŪशब्दार्थश्च तथा लोके।। 23।।
SŪअपि वा संप्रयोगे यथाकामी प्रतीयेताश्रुतित्वाद्विधिषु वचनानि स्युः।। 24।।
SŪऐकशब्द्यात्तथाऽङ्गेषु।। 25।।
SŪलोके कर्मार्थलक्षणम्।। 26।।
चतुर्थाधिकरणमारचयति-
1विषयः
काम्यकर्मप्रयोगः किं सकृदेवासकृच्च वा
3पूर्वपक्षः
फलसिद्धेरादिमोऽन्त्यो भूयः स्वेच्छानुसारतः
चित्रादिकाम्यकर्म सकृदेव प्रयोक्तव्यम्। तावतैव पश्वादिफलसिद्धेः। यथा प्रयाजाद्यङ्गं सकृदेवानुष्ठीयते, तद्वत्। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- विषमो दृष्टान्तः
करणस्याङ्गेषु सकृदेवाकाङ्क्षा
इह तु पुरुषः स्वर्गपश्वादीन्भूयो भूयः कामयते
ततस्तदनुसारेण प्रयोगावृत्तिः
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- दर्शपूर्णमासादिकाम्यकर्मणां सर्वाङ्गोपसंहाराधिकरणे सूत्राणि 11-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कपोतवद्यौगपद्ये त्यागहेतोरभावतः संभूयकरणाकाङ्क्षां पूरयन्त्युपकारतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.1.5
पञ्चमे- अवघातादीनामातण्डुलनिर्वृत्तेरभ्यासाधिकरणे सूत्रम्
SŪक्रियाणामर्थशेषत्वात्प्रत्यक्षोऽतस्तन्निवृत्त्याऽपवर्गः स्यात्।। 27।।
पञ्चमाधिकरणमारचयति-
1विषयः
अवघातः सकृन्नो वा सकृत्स्याद्विधिसिद्धितः
3पूर्वपक्षः
दृष्टा तण्डुलनिष्पत्तिस्तदन्तोऽभ्यस्यतामयम्
''व्रीहीनवहन्ति'' इत्यत्र सकृन्मुसलपातमात्रेण विधिप्रयुक्तस्यापूर्वस्य सिद्धेर्नास्त्यत्रावृतिः। इति चेत्-
4सिद्धान्तः
न
तण्डुलनिष्पत्तेर्दृष्टप्रयोजनत्वेन तत्पर्यन्तस्याभ्यासस्याश्रुतस्यापि कल्पनयित्वात्
एवं तण्डुलपेषणादावपि द्रष्टव्यम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- काम्यकर्मणां भूयोऽभ्यासाधिकरणे सूत्राणि 20-26”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- विषमो दृष्टान्तः करणस्याङ्गेषु सकृदेवाकाङ्क्षा इह तु पुरुषः स्वर्गपश्वादीन्भूयो भूयः कामयते ततस्तदनुसारेण प्रयोगावृत्तिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.1.6
षष्ठे- अदृष्टफलस्यावघातादेः सकृदनुष्ठानाधिकरणे सूत्रम्
SŪधर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात्।। 28।।
षष्ठाधिकरणमारचयति-
1विषयः
सर्वौषधावघातः किमावर्त्यः सकृदेव वा
3पूर्वपक्षः
आवर्त्यः पूर्ववन्मैवं दृष्टार्थस्यात्र वर्जनात्
4सिद्धान्तः
अग्निप्रकरणे श्रूयते ''औदुम्बरमुलूखलं सर्वौषधस्य पूरयित्वाऽवहन्ति, अथैतदुपदधाति'' इति
अत्रादृष्टमात्रस्य प्रयोजनत्वात्सकृदेवावघातः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- अवघातादीनामातण्डुलनिर्वृत्तेरभ्यासाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न तण्डुलनिष्पत्तेर्दृष्टप्रयोजनत्वेन तत्पर्यन्तस्याभ्यासस्याश्रुतस्यापि कल्पनयित्वात् एवं तण्डुलपेषणादावपि द्रष्टव्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.1.7
सप्तमे- प्रयाजादीनामङ्गानां सकृदनुष्ठानाधिकरणे सूत्राणि 29-37
SŪक्रतुवद्वाऽनुमानेनाभ्यासे फलभूमा स्यात्।। 29।।
SŪसकृद्वा कारणैकत्वात्।। 30।।
SŪपरिमाणं चानियमे न स्यात्।। 31।।
SŪफलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात्फलान्यत्वम्।। 32।।
SŪअर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजनमेकस्मिन्नर्थस्यापरिमाणत्वात्प्रधाने च क्रियार्थत्वादनियमः स्यात्।। 33।।
SŪपृथक्त्वाद्विधितः परिमाणं स्यात्।। 34।।
SŪअनभ्यासो वा प्रयोगवचनैकत्वात्सर्वस्य युगपच्छास्त्रादफलत्वाच्च कर्मणः स्यात्क्रियार्थत्वात्।। 35।।
SŪअभ्यासो वा छेदनसंमार्गावदानेषु वचनात्सकृत्त्वस्य।। 36।।
SŪअनभ्यासस्तु वाच्यत्वात्।। 37।।
सप्तमाधिकरणमारचयति-
1विषयः
अङ्गेऽभ्यासो न वा भूम्नाऽभ्यासो नाङ्गे पृथक्फलम्
3पूर्वपक्षः
अङ्ग्यावृत्त्यैव भूमाऽतः प्रयोगेऽङ्गं सकृद्भवेत्
एकस्मिन्यागे प्रयाजाद्यङ्गं फलभूमार्थिनाऽभ्यसनीयम्। कारीर्यादेः काम्यस्य कर्मणोऽभ्यासेन फलभूयस्त्वदर्शनात्। इति चेत्-
न। अङ्गोपकृतस्य प्रधानस्य यत्फलम्, ततोऽतिरिक्तस्य कस्यचिदभावाद्यदि फलभूमानमर्थयेत, तदा साङ्गंप्रधानमावर्तनीयम्। न त्वङ्गमात्रावृत्त्या तत्सिध्यति।
ननु- उपकारभूयस्त्वमङ्गावृत्तिलक्षणं फलभूयस्त्वे पर्यवस्यति। यथा सस्यादिषु कर्षणावृत्तिकृतो भूयानुपकारः फलं वर्धयति, तद्वत्- इति चेत्-
4सिद्धान्तः
न
तत्र दृष्टत्वात्
इह त्वदृष्ट उपकारः शास्त्रादेव बोध्यः
न च शास्त्रमुपकारभूयस्त्वायाङ्गावृत्तिं क्वचिद्ब्रूते
तस्मात्- एकस्मिन्प्रयोगे सकृदेव प्रयाजाद्यङ्गानुष्ठानम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- अदृष्टफलस्यावघातादेः सकृदनुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अग्निप्रकरणे श्रूयते ''औदुम्बरमुलूखलं सर्वौषधस्य पूरयित्वाऽवहन्ति, अथैतदुपदधाति'' इति अत्रादृष्टमात्रस्य प्रयोजनत्वात्सकृदेवावघातः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.1.8
अष्टमे- बहुवचनस्य त्रित्वपरत्वे कपिञ्जलाधिकरणे सूत्राणि 38-45
SŪबहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात्।। 38।।
SŪदृष्टः प्रयोग इति चेत्।। 39।।
SŪतथेह।। 40।।
SŪभक्त्येति चेत्।। 41।।
SŪतथेतरस्मिन्।। 42।।
SŪप्रथमं वा नियम्येत कारणादतिक्रमः स्यात्।। 43।।
SŪतथा चान्यार्थदर्शनम्।। 44।।
SŪप्रकृत्या च पूर्ववत्तदासत्तेः।। 45।।
अष्टमाधिकरणमारचयति-
1विषयः
कपिञ्जलेषु त्रित्वाद्याः पाक्षिकास्त्रित्वमेव वा
आद्यो बहुत्वसाम्यान्न त्रित्वेनैव कृतत्वतः
3पूर्वपक्षः
अश्वमेधे ''वसन्ताय कपिञ्जलानालभते'' इति त्रित्वचतुष्ट्वादिसंख्यानां बहुत्वसाम्यादिच्छया या काचिद्बहुत्वसंख्या स्वीकार्या। इति चेत्-
न। त्रित्वेनैव शास्त्रस्य कृतत्वात्। यो हि चतुष्ट्वादिसंख्यामुपादत्ते, तेन न तदन्तर्भूतं वर्जयितुं शक्यम्। त्रित्वमुपाददानेन त्वनन्तर्भूतं चतुष्ट्वादिकं वर्जयितुं शक्यते। अतोऽवश्यंभावित्वेन प्रथमभावित्वेन लाघवेन च त्रित्व उपात्ते शास्त्रार्थसिद्धौ ततोऽधिकपक्षिहिंसायां प्रत्यवायात्। तस्मात्- त्रित्वमेवोपादेयम्।। 10।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- प्रयाजादीनामङ्गानां सकृदनुष्ठानाधिकरणे सूत्राणि 29-37”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न तत्र दृष्टत्वात् इह त्वदृष्ट उपकारः शास्त्रादेव बोध्यः न च शास्त्रमुपकारभूयस्त्वायाङ्गावृत्तिं क्वचिद्ब्रूते तस्मात्- एकस्मिन्प्रयोगे सकृदेव प्रयाजाद्यङ्गानुष्ठानम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.1.9
नवमे- 'उत्तरा दोहयति' इत्यत्र सर्वासां गवां दोहनाधिकरणे सूत्राणि 46-52
SŪउत्तरासु न यावत्स्वमपूर्वत्वात्।। 46।।
SŪयावत्स्वं वाऽन्यविधानेनानुवादः स्यात्।। 47।।
SŪसाकल्यविधानात्।। 48।।
SŪबह्वर्थत्वाच्च।। 49।।
SŪअग्निहोत्रे चाशेषवद्यवागूनियमः।। 50।।
SŪतथा पयः प्रतिषेधः कुमाराणाम्।। 51।।
SŪसर्वप्रापिणाऽपि लिङ्गेन संयुज्य देवताभिसंयोगात्।। 52।।
नवमाधिकरणमारचयति-
1विषयः
उत्तरास्तिस्त्र एव स्युर्यावत्स्वं वाऽत्र पूर्ववत्
तिस्त्र एव हविः कात्र्स्न्यापूर्वयोर्विधितोऽन्तिमः
3पूर्वपक्षः
सांनाय्यदोहं प्रकृत्य श्रूयते ''वाग्यतस्तिस्र दोहयित्वा विसृष्टवागनन्वारभ्य तूष्णीमुत्तरा दोहयाति'' इति। तिसृभ्य उत्तरा गावो यजमानस्य यावत्य: सन्ति, तासां मध्ये कपिञ्जलन्यायेनोत्तरास्तिस्र एव गावो दोहनीया:। इपि प्राप्ते-
4सिद्धान्तः
ब्रूमः- 'नास्यैतां रात्रिं पयसाऽग्निहोत्रं जुहुयात्, कुमाराश्च न पयो लभेरन्' इति विद्यमानस्य पयसो हविष्ट्वं विधीयते। न च- अत्र कुमाराणां पयसो निषेधः। तथा सति दृष्टार्थत्वपरित्यागेनादृष्टार्थत्वं कल्प्येत, 'कुमाराश्च न' इत्येवं चशब्दश्चापिशब्दार्थवाची प्रयुज्यमानस्तदा व्यर्थः स्यात्। किंच ''बहु दुग्धीन्द्राय देवेभ्यो हविः'' इति मन्त्रे हविषां बाहुल्यं प्रतीयते। तेन प्राप्तं सर्वोत्तरादोहनमनूद्यापूर्वमनन्वारम्भणमत्र विधीयते। तस्मात्-विधेयकपिञ्जलवैषम्याद्धविर्बाहुल्यार्थं सर्वा उत्तरा दोहनीयाः।। 11।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- बहुवचनस्य त्रित्वपरत्वे कपिञ्जलाधिकरणे सूत्राणि 38-45”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.1.10
दशमे- आग्नेयादीनां प्रधानानां भेदेऽप्याघारादीनामङ्गानां तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 53-66
SŪप्रधानकर्मार्थत्वादङ्गानां तद्भेदात्कर्मभेदः प्रयोगे स्यात्।। 53।।
SŪक्रमकोपश्च यौगपद्ये स्यात्।। 54।।
SŪतुल्यानां तु यौगपद्यमेकशब्दोपदेशात्स्याद्विशेषाग्रहणात्।। 56।।
SŪऐकार्थ्यादव्यवायः स्यात्।। 56।।
SŪतथा चान्यार्थदर्शनं कामुकायनः।। 57।।
SŪतन्न्यायत्वादशक्तेरानुपूर्व्यं स्यात्संस्कारस्य तदर्थत्वात्।। 58।।
SŪअसंस्पृष्टोऽपि तादर्थ्यात्।। 59।।
SŪविभवाद्वा प्रदीपवत्।। 60।।
SŪअर्थात्तु लोके विधिः प्रतिप्रधानं स्यात्।। 61।।
SŪसकृदिज्या कामुकायनः परिमाणविरोधात्।। 62।।
SŪविधेस्त्वितरार्थत्वात्सकृदिज्याश्रुतिव्यतिक्रमः स्यात्।। 63।।
SŪविधिवत्प्रकरणाविभागे प्रयोगं बादरायणः।। 64।।
SŪक्वचिद्विधानान्नेति चेत्।। 65।।
SŪन विधेश्चोदितत्वात्।। 66।।
दशमधिकरणमारचयति-
1विषयः
प्रत्यङ्गि कार्याण्यङ्गानि तन्त्रेणोताङ्गिनो यतः
3पूर्वपक्षः
एकैकस्योपकार्यत्वं तस्मात्प्रत्यङ्ग्यनुष्ठितिः
पौर्णमास्यां त्रीण्याग्नेयादीन्यङ्गीनि प्रयाजाज्यभागैरुपकार्याणि। तेष्वेकैकस्याङ्गिन उपकारापेक्षित्वात्प्रतिप्रधानमङ्गानि पृथगनुष्ठेयानि। इपि प्राप्ते-
4सिद्धान्तः
विधानवदनुष्ठानं सकृदेवोपकारकम्
तद्देशकालकर्तॄणामेकत्वान्नर्तकादिवत्
ब्रूमः- यथा ''समिधो यजति'' इत्यादिविधानं सकृदेव प्रवृत्तम् न त्वाग्नेयादित्रयोद्देशेन पृथक्प्रवर्तते। तथाऽनुष्ठानमपि सकृदेव प्रवर्तते। प्रवृत्तं सत्रयाणामुपकाराकाङ्क्षां पूरयति। यथा बहूनां पुरतो नृत्यन्नर्तकः सर्वेषां सुखं युगपन्निर्वर्तयति, तद्वत्। तस्मात्- आग्नेयादिषु देशकालकर्तॄणामेकत्वादङ्गानां तन्त्रेणानुष्ठानम्।। 12।।।। 13।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- 'उत्तरा दोहयति' इत्यत्र सर्वासां गवां दोहनाधिकरणे सूत्राणि 46-52”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
11.1.11
एकादशे- कृष्णग्रीवयोः प्रथमतृतीययोर्भेदेन प्रदानाधिकरणे स्रत्राणि 67-70
SŪव्याख्यातं तुल्यानां यौगपद्यमगृह्यमाणविशेषाणाम्।। 67।।
SŪभेदस्तु कालभेदाच्चोदनाव्यवायात्स्याद्विशिष्टानां विधिः प्रदानकालत्वात्।। 68।।
SŪतथा चान्यार्थदर्शनम्।। 69।।
SŪविधिरिति चेन्न वर्तमानापदेशात्।। 70।।
एकादशाधिकरणमारचयति-
1विषयः
कृष्णग्रीवद्वये तन्त्रं पृथग्वा देवतैक्यत:
तन्त्रं सौम्यव्यवायेन कालभेदात्पृथग्भवेत्
3पूर्वपक्षः
न
सौम्यपशुना व्यवधाने सति कालैक्यासंभवेन तन्त्रासंभवात्
तस्मात्- आवापः
काम्यपशुकाण्डे श्रूयते ''आग्नेयं कृष्णग्रीवमालभेत, सौम्यं बभ्रुम्, आग्नेयं कृष्णग्रीवं पुरोधायां स्पर्धमानः'' इति। अयमर्थः- 'ममैव पौरोहित्यमस्तु नान्यस्य' इत्येवं स्पर्धोपेतो यथोक्तवर्णोपेतं पशुत्रयमालभेत- इति। तत्र आद्यन्तयोः कृष्णग्रीवयोः पश्वोर्देवतैक्यात्तन्त्रेणानुष्ठानम्। इति चेत्-
अत्र पादे- अधिकरणानि 11, सूत्राणि 77।
आदितः- अधिकरणानि 786, सूत्राणि 2299।
एकादशाध्यायस्य द्वितीयः पादः
तन्त्रावापौ संक्षेपेणोक्तौ।
4सिद्धान्तः
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तर एकादशाध्यायस्य प्रथमः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तन्त्रस्योपोद्घातो वर्णितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- आग्नेयादीनां प्रधानानां भेदेऽप्याघारादीनामङ्गानां तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 53-66”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विधानवदनुष्ठानं सकृदेवोपकारकम् तद्देशकालकर्तॄणामेकत्वान्नर्तकादिवत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]