10.8.1
द्वितीये- निषेधस्यार्थवादताधिकरणे सूत्रम्
SŪअपूर्वे चार्थवादः स्यात्।। 5।।
द्वितीयाधिकरणमारचयति-
1विषयः
न सोमेऽध्वर इत्युक्तौ निषेधः पर्युदस्यते
उतार्थवादो वाद्यः स्यादसमस्तपदोक्तितः
3पूर्वपक्षः
सोमे प्रसक्तिरङ्गेष्टावविकल्पाय मध्यमः
नैवास्त्यत्र समासस्य नियमः पाणिनेर्मते
दर्शपूर्णमासयोराज्यभागौ प्रकृत्य तौ ''न तौ पशौ करोति'' इति निषिध्य पश्चात् ''न सोमेऽध्वरे'' इत्येवमाम्नायते। तत्र- अयं प्रतिषेधः स्यात्। कुतः- नशब्दस्य सोमशब्देन सह समस्तत्वाभावात्। 'अब्राह्मणमाकारयति, अधर्मं करोति' इत्यादिषु पर्युदासप्रदेशेषु समस्तत्वदर्शनात्। व्यस्तोऽयं नकारः क्रियापदेनान्वित आज्यभागानुष्ठानं प्रतिषेधति।
ननु- पशोरिष्टिविकृतित्वेन चोदक आज्यभागौ प्रसञ्जयति। सोमस्य त्वविकृतित्वान्नास्ति तत्प्रसक्तिरिति चेत्- बाढम्। तथाऽपि सोमाङ्गभूतास्तु दीक्षाणीयादिष्विष्ठिषु या प्रसक्तिः सैवाङ्गिनि सोमे प्रसक्तिर्भविष्यति। तस्मात्- प्रतिषेधः। इत्याद्यः पक्षः।
चोदकप्रतिषेधाभ्यां 'दीक्षणीयादावाज्यभागौ वा कुर्यात्' इत्येवं विकल्पः स्यात्। स चाष्टदोषग्रस्तः। अतः पूर्वाधिकरण इव पर्युदासोऽस्तु। तत्र कात्यायनमतेन समासनियमेऽपि पाणिनेर्मतेऽनियमः। तस्मात्- सोमव्यतिरिक्ते कर्मण्याज्यभागौ कर्तव्यौ। इति मध्यमः पक्षः।
यथा वरणेषु तद्व्यतिरिक्ताङ्गेषु च चोदकेन प्रसक्तिसाधारण्ये सति वरणपर्युदासेनाङ्गान्तरविषये चोदको व्यवस्थाप्यते, तथाऽत्रापि पर्युदासवादिना पर्युदासात्पुरा पर्युदसनीये सोमे, इतरत्र च साधारण्येनाज्यभागप्रसक्तिर्वाच्या। सा किम्- उपदेशात्स्यात्, अतिदेशाद्वा। न प्रथमः। प्रकरणेन दर्शपूर्णमासयोरवरुद्धस्याज्यभागोपदेशस्य सोमे प्रसञ्जकत्वाभावात्। न द्वितीयः। अन्योन्याश्रयत्वप्रसङ्गात्। उपदेशवाक्यार्थे पर्युदासादिना निर्णीते सति पश्चाच्चोदकेन प्रसक्तिः। सत्यां च प्रसक्तौ पश्चात्पर्युदासनिर्णयः। तस्मात् न पर्युदासः। का तर्हि 'न सोमेऽध्वरे' इति वाक्यस्य गतिः। उच्यते- 'न पशौ करोति' इत्यस्य निषेधस्य शेषः सन्दृष्टान्तो वर्ण्यते- 'यथा न तौ सोमेऽध्वरे करोति, तथा तौ न पशौ कुर्यात्' इति। ततः- अर्थवादः। इति राद्धान्तः।। 3।। 4।। 5।।
4सिद्धान्तः
पुरैतस्मात्सोमयाग आज्यभागाप्रसक्तितः
न पर्युदासः किंत्वर्थवादो दृष्टान्तवर्णनात्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- प्रदेशानारभ्यविधानयोर्निषेधस्य पर्युदासताधिकरणे सूत्राणि 1-4”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अन्याय्यत्वाद्विकल्पस्य विध्यंशः सा निषेधगीः तेनानुयाजवाक्यस्थस्तदर्थं पर्युदस्यति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.2
तृतीये- अतिरात्रे षोडशिग्रहनिषेधस्य विकल्परूपताधिकरणे सूत्रम्
SŪशिष्ट्वा तु प्रतिषेधः स्यात्।। 6।।
तृतीयाधिकरणमारचयति-
1विषयः
नातिरात्रे पर्युदासो वादो वाऽथ निषेधनम्
आद्योऽनुयाजवन्मैवं विध्येकविषयत्वतः
दृष्टान्ते विधिः सर्वविषयः, निषेधोऽनुयाजमात्रविषयः, इत्यनुयाजपर्युदासेऽपि न विधेर्निर्विषयत्वम्।
3पूर्वपक्षः
अत एवार्थवादोऽपि न युक्तः पशुसोमवत्
निषेधः स्याद्विकल्पोऽत्र व्रीह्यादाविव युज्यते
तर्हि 'न पशौ करोति' इत्यत्र 'न सोमे' इतिवदर्थवादोऽस्तु। इति चेत्-
न। स्तुत्यस्तावकयोर्विधिनिषेधयोरेकविषयत्वेन व्याहतितादवस्थ्यात्। ''अपशवोऽन्ये गोअश्वेभ्यः'' इत्यत्र पश्वन्तरनिषेधेन गोअश्वविधेः स्तुतिर्दृष्टा। इह तु षोडशिनिषेधेन षोडशिन एव स्तुतौ स्पष्टो व्याघातः। तस्मात्- प्रतिषेधः- इति तृतीयः पक्षोऽस्तु।
4सिद्धान्तः
न च- अत्रापि व्याघातः शङ्क्यः
अनुष्ठानविकल्पाङ्गीकारेण भिन्नप्रयोगविषयत्वात्
सत्स्वप्यष्टसु दोषेषु गत्यन्तराभावाद्व्रीहियववद्विकल्पोऽभ्युपेयः
तस्मात्- प्रतिषेधः
इति राद्धान्तः।
6
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- निषेधस्यार्थवादताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पुरैतस्मात्सोमयाग आज्यभागाप्रसक्तितः न पर्युदासः किंत्वर्थवादो दृष्टान्तवर्णनात्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.3
चतुर्थे- जर्तिलोक्तौ निषेधस्यार्थवादताधिकरणे सूत्रम्
SŪन चेदन्यं प्रकल्पयेत्प्रक्लृप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च।। 7।।
चतुर्थाधिकरणमारचयति-
1विषयः
जर्तिलोक्तौ चतुर्धा किं विकल्पोऽथ पयःस्तुतिः
3पूर्वपक्षः
विकल्पः पूर्ववन्मैवं वाक्यैक्यात्पयसा सह
अग्निहोत्रे श्रूयते ''जर्तिलयवाग्वा जुहुयात्, गवीधुकयवाग्वा जुहुयात्, न ग्राम्यान्पशून्हिनस्ति, नारण्यान्। अथो खल्वाहुः- अनाहुतिर्वै जर्तिला गवीधुकाश्च। पयसाऽग्निहोत्रं जुहुयात्'' इति। जर्तिला आरण्यास्तिलाः। गवीधुका आरण्या गोधूमाः। तयोरुभयोर्विकल्पः श्रौत एव।
'अनाहुतिः' इति पूर्वयोः पक्षयोर्दूषितत्वात्- होमाभावस्तृतीयः पक्षः।
न च- अत्र 'जर्तिलगवीधुकयोरनाहुतिः' इत्येतेन पर्युदासः संभवति। आहुतिपदान्वितस्य नञ्पदस्य जर्तिलगवीधुकपदान्वयायोगात्। पयोविधिश्चतुर्थः पक्षः। एतेषां परस्परविरुद्धानां चतुर्णां गत्यन्तराभावात्षोडशिग्रहणाग्रहणवद्विकल्पः। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- पयोविधिना सह जर्तिलादेरेकवाक्यत्वेनार्थवादत्वं युक्तम्
ग्राम्याररण्यपशुहिंसाराहित्येन प्रशस्तयोरपि जर्तिलगवीधुकयोरग्निहोत्रं प्रत्याहुतित्वं नास्ति
पयसस्तु तदस्ति
''इत्थं महाभागं पयः'' इति स्तूयते
तस्मात्- अर्थवादः
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- अतिरात्रे षोडशिग्रहनिषेधस्य विकल्परूपताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न च- अत्रापि व्याघातः शङ्क्यः अनुष्ठानविकल्पाङ्गीकारेण भिन्नप्रयोगविषयत्वात् सत्स्वप्यष्टसु दोषेषु गत्यन्तराभावाद्व्रीहियववद्विकल्पोऽभ्युपेयः तस्मात्- प्रतिषेधः इति राद्धान्तः। 6”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.4
पञ्चमे- त्रैयम्बकादावभिघारणानभिघारणादीनामर्थवादताधिकरणे सूत्रम्
SŪपूर्वैश्च तुल्यकालत्वात्।। 8।।
पञ्चमाधिकरणमारचयति--
1विषयः
अभिघारनिषेधौ च होमाहोमौ विकल्पितौ
विधास्यमानशेषौ वा विकल्पः श्रुतिसाम्यतः
3पूर्वपक्षः
निषेधस्य विधेश्चात्र मीमांस्यत्वेन वर्णनात्
समीमांसावुभावर्थवादोऽस्त्वर्थे विधित्सिते
चातुर्मास्येषु त्र्यम्बकमन्त्रसंयोगेन त्र्यम्बकनामका एककपालाः पुरोडाशा बहवो विहिताः। तान्प्रकृत्य श्रूयते ''अभिघार्या अनभिघार्या इति मीमांसान्ते ब्रह्मवादिनः'' इत्यादि। आधाने श्रूयते ''हेतव्यमग्निहोत्रं, न वा, इति मीमांसन्ते ब्रह्मवादिनः'' इत्यादि। अस्मिन्नुदाहरणद्वये नञ्श्रुतिर्विचारार्था। अनयोरुदाहरणयोर्विधिनिषेधौ वाचकशब्दाभ्यां श्रूयमाणत्वात्समानबलौ। ततः षोडशिग्रहणाग्रहणवद्विकल्पः।
न च- जर्तिलवद्विधास्यमानस्तुत्यर्थत्वं शङ्क्यम्। दृष्टान्तस्य विषमत्वात्। दृष्टान्ते तावज्जर्तिलादेरन्यदेव विधास्यमानं पयः। तस्य स्तुतिर्युक्ता। इह तूपक्रमे विहितवेवाभिघारणहोमौ मीमांस्यन्तौ (संमीमांस्यान्ते) पुनर्विधीयेते। ''अभिधार्या एव'' ''तूष्णीमेव होतव्यम्'' इति वाक्यशेषयोः पठ्यमानत्वात्। न च तेनैव तस्य स्तुतिः संभवति। पुनर्विधानं त्वनुवादत्वेन गुणार्थत्वेन चोपपद्यते। निषेधस्य स्तावकत्वं दूरापेतम्। नहि तस्यैव निषेधेन तदेव स्तोतुं शक्यते। तस्मात्- विधिनिषेधौ विकल्पार्थौ। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- इतिशब्देन मीमांसाप्रकारवाचिना विधिनिषेधयोर्मीमांस्यत्वं प्रतीयते
ततो विधिनिषेधविशिष्टा मीमांसा विधित्सितार्थस्तुत्यै
'इत्थं महाभागो विधित्सितोऽर्थो यन्मीमांसया निर्णेतव्यः' इति स्तूयते
तस्मात्- एकवाक्यत्वादर्थवादः।
9
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- जर्तिलोक्तौ निषेधस्यार्थवादताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- पयोविधिना सह जर्तिलादेरेकवाक्यत्वेनार्थवादत्वं युक्तम् ग्राम्याररण्यपशुहिंसाराहित्येन प्रशस्तयोरपि जर्तिलगवीधुकयोरग्निहोत्रं प्रत्याहुतित्वं नास्ति पयसस्तु तदस्ति ''इत्थं महाभागं पयः'' इति स्तूयते तस्मात्- अर्थवादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.5
षष्ठे- आधान उपवादस्य विकल्पताधिकरणे सूत्राणि 9-11
SŪउपवादश्च तद्वत्।। 9।।
SŪप्रतिषेधादकर्मेति चेत्।। 10।।
SŪन शब्दपूर्वत्वात्।। 11।।
षष्ठाधिकरणमारचयति-
1विषयः
उन्नेयो ब्रह्मगानस्य निषेधो विहितस्तुतिः
विकल्पितो वा शून्योऽपि वपोत्खेद इव स्तुतिः
3पूर्वपक्षः
विध्यनन्वयतोऽस्तोत्रं ब्रह्मोद्गाता तथा सति
विषयैक्याद्विकल्पोऽत्र षोडशिग्रहवन्मतः
आधाने वामदेव्यादिसाम्नां गानानि विहितानि। आधान एवेदमपरमाम्नायते ''उपवीता वा एतस्याग्नयो भवन्ति, यस्याग्न्याधेये ब्रह्मा सामानि गायति'' इति। उपशब्दः सामीप्यं ब्रूते। वीता विगताः कालविलम्बमन्तरेण परित्यक्ता इत्यर्थः। अनया निन्दया ब्रह्मणः सामगाननिषेध उन्नीयते। स निषेध उद्गातुर्विहितं वामदेव्यादिसामगानं स्तौति।
ननु ब्रह्मणः सामगानमप्रसक्तम्। ततस्तन्निषेधोऽत्यन्तमसंभावितत्वाच्छशविषाणवच्छून्यः। न हि वन्ध्यापुत्रो वा तद्वधो वा संभावयितुं शक्यते। तथा सति तादृशेन निषेधेन कथं स्तुतिः- इति चेत्-
'वपोत्खेदवत्' इति
4सिद्धान्तः
का तर्ह्यस्य वाक्यस्य गतिः- इति चेत्- उच्यते
ब्रह्मशब्दोऽत्र विप्रत्वजातिद्वारेणोद्गातारं ब्रूते
यस्य च गानं प्रसक्तं, तस्मिन्निषेधे सति विधिनिषेधाभ्यामेकविषयाभ्यामुद्गातुर्गानं विकल्प्यते।
11
ब्रूमः। ''स आत्मनो वपामुदखिदत्'' इत्यनेनात्यन्तासंभावितार्थेन यथा प्राजापत्यस्य तूपरस्याजस्य विधिः स्तूयते, तद्वत्। इति प्राप्ते-
ब्रूमः- नेदं वामदेव्यादिसामविधीनां स्तोत्रं भवितुमर्हति। विधीनामनेकत्वेन स्वस्वसंनिधिपठितैरर्थवादैर्निराकाङ्क्षत्वेन च तदन्वयायोगात्।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- त्रैयम्बकादावभिघारणानभिघारणादीनामर्थवादताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- इतिशब्देन मीमांसाप्रकारवाचिना विधिनिषेधयोर्मीमांस्यत्वं प्रतीयते ततो विधिनिषेधविशिष्टा मीमांसा विधित्सितार्थस्तुत्यै 'इत्थं महाभागो विधित्सितोऽर्थो यन्मीमांसया निर्णेतव्यः' इति स्तूयते तस्मात्- एकवाक्यत्वादर्थवादः। 9”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.6
सप्तमे- दीक्षितदाननिषेधस्य पर्युदासताधिकरणे सूत्राणि 12-15
SŪदीक्षितस्य दानहोमपाकप्रतिषेधोऽविशेषात्सर्वदानहोमपाकप्रतिषेधः स्यात्।। 12।।
SŪअक्रतुयुक्तानां वा धर्मः स्यात्क्रतोः प्रत्यक्षशिष्टत्वात्।। 13।।
SŪतस्य वाऽप्यानुमानिकमविशेषात्।। 14।।
SŪअपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्, प्रतिषेधे विकल्पः स्यात्।। 15।।
सप्तमाधिकरणमारचयति-
1विषयः
दीक्षितो न ददातीति प्राप्तं सर्वं निषिध्यते
3पूर्वपक्षः
अतिदिष्टपुमर्थे वा पुमर्थं वोक्तितोऽग्रिमः
ज्योतिष्टोमे श्रूयते ''दीक्षितो न ददाति, न जुहोति, न पचति'' इति। तत्र यद्दानादिकं पुरुषार्थं, यच्च क्रत्वर्थम्, तत्राप्युपदिष्टमतिदिष्टं च, तत्सर्वं प्रतिषिध्यते। कुतः- 'न ददाति' इत्यादिवचनस्य सामान्यरूपत्वात्। इत्याद्यः पक्षः।
उपदिष्टस्यापि प्रतिषेधे सत्युपदेशो व्यर्थः स्यादिति ततोऽतिदिष्टं, पुरुषार्थं च, इत्युभयमेव प्रतिषिध्यते। क्रत्वर्थत्वेनोपदिष्टं दानादिकमनुष्ठेयम्। इति मध्यमः पक्षः।
नित्याग्निहोत्रदानादिकं पुरुषार्थत्वेन यत्प्रत्यक्षश्रुतावुपदिष्टं ज्योतिष्टोमकालेऽपि प्राप्तम्, यच्चातिदिष्टं दानादिकं, तयोरुभयोर्मध्ये प्रत्यक्षोपदिष्टनिषेधस्योपदिष्टमेव संनिहितमिति पुमर्थस्यैवात्र निषेधः।
न च नित्याग्निहोत्रदानादौ विधिनिषेधयोः प्रवृत्त्या विकल्पः शङ्क्यः। भिन्नविषयत्वात्। क्रत्वर्थो निषेधः क्रतुकाले तदनुष्ठानं निवारयति। पुरुषार्थस्तु विधिः कालान्तरे तदनुष्ठापयति। तस्मात्- पुमर्थस्य निषेधः। यदि प्रतिषेधपक्षे वाक्यभेदः शङ्क्येत, तर्हि पुमर्थदानादिव्यतिरिक्तं क्रतुकालेऽनुष्ठेयमिति पर्युदासोऽस्तु।। 13।। 14।।
4सिद्धान्तः
उपदेशार्थवत्त्वाय मध्यमोऽन्त्यस्तु संनिधेः
एकवाक्यत्वलोभश्चेत्पुमर्थं पर्युदस्यताम्
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- आधान उपवादस्य विकल्पताधिकरणे सूत्राणि 9-11”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “का तर्ह्यस्य वाक्यस्य गतिः- इति चेत्- उच्यते ब्रह्मशब्दोऽत्र विप्रत्वजातिद्वारेणोद्गातारं ब्रूते यस्य च गानं प्रसक्तं, तस्मिन्निषेधे सति विधिनिषेधाभ्यामेकविषयाभ्यामुद्गातुर्गानं विकल्प्यते। 11”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.7
अष्टमे- वर्त्महोमादिभिराहवनीयस्य बाधाधिकरणे सूत्रम्
SŪअविशेषेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्संदिग्धमाराद्विशेषशिष्टं स्यात्।। 16।।
अष्टमाधिकरणमारचयति-
1विषयः
विकल्पितो बाध्यते वाहवनीयः पदादिभिः
3पूर्वपक्षः
सामान्यस्य विशेषेण प्रत्यक्षोक्तित्वसाम्यतः
अनारभ्य श्रूयते ''यदाहवनीये जुह्वति, तेन सोऽस्याभीष्टः प्रीतः'' इति।
ज्योतिष्टोमे श्रूयते ''पदे जुहोति, वर्त्मनि जुहोति'' इति।
राजसूये श्रूयते ''वल्मीकवपायामुत्सृज्य जुहोति'' इति।
तथाऽन्यत्र श्रूयते ''गार्हपत्ये पत्नीसंयाजाञ्जुहोति'' इति।
तत्र- अनारभ्यवादे होमसामान्यमनूद्याहवनीयो विहितः। प्रकरणनियमितैः पदादिवाक्यैस्तदनुबद्धा विशिष्टहोमा विहिताः। गार्हपत्यवाक्येन होमविशेषमनूद्य गार्हपत्यो विहितः। तत्र पदादिहोमेषु सामान्यशास्त्रेण प्राप्त आहवनीया विशेषशास्त्रप्राप्तैः पदादिभिः सह विकल्प्यते। कुतः- उभयोः प्रत्यक्षवचनयोः क्रत्वर्थत्वेन समानबलत्वात्।
ननु ''ऐन्द्या गार्हपत्यमुपतिष्ठते'' इत्यत्र यथा श्रुत्या लिङ्गं बाध्यते। यथा वा चोदकातिदिष्टानां कुशानामुपदिष्टैः शरैर्बाधः। तथा सामान्यस्य विशेषेण बाधोऽस्तु इति- चेत्-
न। वैषम्यात्। लिङ्गं बिलम्बितत्वाद्दुर्बलम्। चोदकश्चानुमेयतया दुर्बलः। न त्वेवं सामान्यशास्त्रं विलम्ब्यते, नाप्यनुमीयते। अतो दौर्बल्याभावाद्विकल्पः। इति प्राप्ते-
4सिद्धान्तः
लिङ्गचोदकवद्बाधो नास्ति तेन विकल्पितः
विशेषार्थे लक्षणा स्यादतो मुख्येन बाध्यते
ब्रूमः- होमसामान्यस्यानुवादकं यच्छास्त्रं तत्समान्ये मुख्यत्वाद्धोमविशेषानुपादे लाक्षणिकतया दुर्बलम्। विशेषशास्त्रं तु व्यावृत्त्या विधायकत्वात्प्रबलम्। न च पदादिशास्त्रमपि होमसामान्यमेवानूद्य पदादिविधायकत्वेन समानबलं स्यात्- इति शङ्क्यम्। प्रकरणनियमितत्वेन विशिष्टविधायकस्य सामान्यानुवादकत्वायोगात्। तस्मात्- प्रबलेन विशेषेण सामान्यं बाध्यते।। 15।। 16।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- दीक्षितदाननिषेधस्य पर्युदासताधिकरणे सूत्राणि 12-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उपदेशार्थवत्त्वाय मध्यमोऽन्त्यस्तु संनिधेः एकवाक्यत्वलोभश्चेत्पुमर्थं पर्युदस्यताम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.8
नवमे- वैमृधादिषु साप्तदश्यविधेर्वाक्यशेषाधिकरणे सूत्राणि 17-19
SŪअप्रकरणे तु यच्छास्त्रं विशेषे श्रूयमाणमविकृतमाज्यभागवत्प्राकृतप्रतिषेधार्थम्।। 17।।
SŪविकारे तु तदर्थं स्यात्।। 18।।
SŪवाक्यशेषो वा क्रतुना ग्रहणात्स्यादनारभ्यविधानस्य।। 19।।
नवमाधिकरणमारचयति-
1विषयः
सामिधेनीसाप्तदश्यं वैमृधादावपूर्वगीः
3पूर्वपक्षः
संहृतिर्वोपकारस्य क्लृप्त्याद्योऽस्त्वाज्यभागवत्
अनारभ्याम्नायते ''सप्तदश सामिधेनीरनुब्रूयात्'' इति। तथा वैमृधेऽध्वरकल्पायां पशौ चातुर्मास्येषु मित्रविन्दायामाग्रयणेष्ट्यादौ च पुनः साप्तदश्यं विहितम्। यद्यपि- अनारभ्याधीतानां प्रकृतिगामित्वं न्याय्यम्, तथाऽपि श्रुतेन पाञ्चदश्येनावरुद्धत्वाद्विकृतिष्वेतन्निविशते। तथा सति वैमृधादिषु विकृतिष्वनारभ्यवादप्राप्ताः सप्तदश सामिधेन्यः प्राकरणिकेन विधिना पुनर्विधीयमाना गृहमेधीयाज्यभागवत्क्लृप्तोपकारत्वेनोतिकर्तव्यताकाङ्क्षां पूरयन्त्यश्चोदकं लोपयन्त्यो वैमृधादेरपूर्वतां गमयन्ति। साप्तदश्यं त्वनारभ्यवादप्राप्तमनूद्यते। इति प्राप्ते-
4सिद्धान्तः
सामिधेन्यश्चोदकाप्ताः साप्तदश्यं तु वैमृधे
पुनर्वाक्येन संहार्यमनारभ्योक्तिचोदितम्
ब्रूमः- वैमृधादिषु सामिधेन्य आज्यभागवन्न विधीयन्ते, किंतु चोदकप्राप्तास्ता अनूद्य साप्तदश्यं विधीयते। तच्च साप्तदश्यं वैमृधादिप्रकरणेष्वाम्नातैर्विधिभिः कासुचिदेव विकृतिषु प्राप्तम्। अनारभ्यवादेन तु सर्वासु विकृतिषु। तत्रानारभ्यवादो विलम्बते। प्रथमं विधेयस्य साप्तदश्यस्य सामिधेनीसंबन्धमवबोध्य, अन्यथानुपपत्त्या क्रतुप्रवेशं परिकल्प्य, प्रकृतौ पाञ्चदश्यपराहतत्वेन विकृतिषु सर्वासु निवेशः क्रियते- इति विलम्बः। प्राकरणिकैर्विधिभिः सामिधेनीसंबन्ध एव बोध्यः। क्रतौ तद्विशेषे च प्रवेशो न कल्प्यः। प्रत्यक्षप्रकरणपाठेनैव तत्सिद्धेः। ततः साप्तदश्यस्य वैमृधादिविकृतिविशेषसंबन्धे सहसा प्रतिपन्ने सति तद्विरोधात्संबन्धो न कल्पयितुं शक्यः। अनारभ्यवादस्तु वैमृधादिषु प्राप्तस्य नित्यानुवादोऽस्तु। यद्वा प्राकरणिकविधिर्वैमृधादिषु सप्तदश्यप्रापकः। अनारभ्यवादस्तु प्राप्तस्य पाञ्चदश्यस्य बाधकः। सर्वथाऽपि चतुर्धाकरणवदुपसंहार वचनत्वान्नाज्यभागवदपूर्वं कर्म।। 17।। 18।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- वर्त्महोमादिभिराहवनीयस्य बाधाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “लिङ्गचोदकवद्बाधो नास्ति तेन विकल्पितः विशेषार्थे लक्षणा स्यादतो मुख्येन बाध्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.9
दशमे- अविहितस्वाहाकारेषु प्रदानेषु स्वाहाकारविधानाधिकरणे सूत्राणि 20-22
SŪमन्त्रेष्ववाक्यशेषत्वं गुणोपदेशात्स्यात्।। 20।।
SŪअनाम्नाते च दर्शनात्।। 21।।
SŪप्रतिषेधाच्च।। 22।।
दशमाधिकरणमारचयति-
1विषयः
स्वाहेत्युक्तिर्दर्विहोमे संहारः स्यान्न वाऽग्रिमः
3पूर्वपक्षः
पूर्वन्यायान्न तन्मन्त्रे स्वाहाकाराविधित्वतः
अनारभ्य श्रूयते ''वषट्कारेण स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते'' इति। दर्विहोमविशेषे श्रूयते ''पृथिव्यै स्वाहा, अन्तरिक्षाय स्वाहा'' इत्यादि। तत्र पूर्वाधिकरणे यथाऽनारभ्यविहितस्य साप्तदश्यस्य प्राकरणिकविधिनोपसंहारः, तथोपसंहारे सति होमान्तरेषु नास्ति स्वाहाकारः। इति प्राप्ते-
4सिद्धान्तः
विधित्वेऽपि नियम्यः स्यान्न व्यत्यासवषट्कृती
होमान्तरे वषट्कारस्वाहाकारविकल्पनम्
ब्रूमः- ''पृथिव्यै स्वाहा'' इति मन्त्रपाठोऽयम्। न त्वत्र स्वाहाकारोऽनारभ्याधीतब्राह्मणवाक्येनैव विधीयते। न खलु ''यमादित्या अंशुमाप्याययन्ति'' इत्यादियाज्यामन्त्रगता आदित्यादिशब्दाः कस्यचिदर्थस्य विधायका दृष्टाः। यथा सिद्धार्थवाच्यादित्यशब्दो न विधीयते, यथा वा क्रियावाचित्वेऽपि वर्तमानार्थः 'आप्याययन्ति' इति शब्दो न विधायकः, तथा दैविकहविर्विषयः 'दत्तम्' इत्यस्मिन्नर्थे वर्तमानः स्वाहाशब्दो नोच्चारणं विदधाति। तथा सत्युपसंहार्योपसंहारकयोरेकविषयत्वशङ्काया अप्यभावान्नास्त्येवात्र पूर्वन्यायः।
ननु प्रकरणादिना मन्त्रस्य होमे विनियुक्तत्वात्स्वाहाकारविधिरर्थाल्लभ्यते- इति चेत्- एवमपि ब्राह्मणवाक्येन पक्षे प्राप्तः स्वाहाकारो नियम्यते। अस्मिन्दर्विहोमे स्वाहाकारेणैवान्नं प्रदीयते। ततः पाक्षिको वषट्कारोऽर्थान्निवर्तते। किंच- ''पुरस्तात्स्वाहाकारा वा अन्ये देवाः, उपरिष्टात्स्वाहाकारा अन्ये'' इति ब्राह्मणोक्तवाक्येन 'स्वाहा पृथिव्यै' इत्यपि पाठः पक्षे प्राप्नोति। तत्र 'पृथिव्यै स्वाहा' इत्येव नियम्यते। अर्थात्- व्यत्यासो वषट्कृतिश्च निवर्तते। तस्मात्- अविधित्वविधित्वयोरुपसंहाराभावेन होमान्तरेष्वनारभ्य-विहितयोर्वषट्कारस्वाहाकारयोर्विकल्पः सुस्थितो भवति।। 19।। 20।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- वैमृधादिषु साप्तदश्यविधेर्वाक्यशेषाधिकरणे सूत्राणि 17-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सामिधेन्यश्चोदकाप्ताः साप्तदश्यं तु वैमृधे पुनर्वाक्येन संहार्यमनारभ्योक्तिचोदितम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.10
एकादशे- अग्न्यतिग्राह्यस्य विकृतावुपदेशाधिकरणे सूत्राणि 23-28
SŪअग्न्यतिग्राह्यस्य विकृतावुपदेशादप्रवृत्तिः स्यात्।। 23।।
SŪमासि ग्रहणं च तद्वत्।। 24।।
SŪग्रहणं वा तुल्यत्वात्।। 25।।
SŪलिङ्गदर्शनाच्च।। 26।।
SŪग्रहणं समानविधानं स्यात्।। 27।।
SŪमासि ग्रहणमभ्यासप्रतिषेधार्थम्।। 28।।
एकादशाधिकरणमारचयति-
1विषयः
नातिदेशोऽतिदेशो वा वह्न्यतिग्राह्ययोर्न सः
3पूर्वपक्षः
विकृतौ पुनरुक्तत्वादेषोऽङ्गान्तरवद्भवेत्
इदं श्रूयते ''य एवं विद्वानग्निं चिनुते'' इति। ''उपष्टम्भनं वा एतद्यज्ञस्य यदतिग्राह्याः'' इति। अतिग्राह्यसंज्ञका ग्रहा यज्ञस्योपष्टम्भकत्वादनुष्ठेया इत्यर्थः। अत्र चीयमानस्याग्नेरतिग्राह्याणां च विकृतिष्वतिदेशो नास्ति। कुतः- पुनरुक्तिवैयर्थ्यप्रसङ्गात्। विकृतौ ह्येवं पुनरुच्यते- ''अथातोऽग्निमग्निष्टोमेनानुयजन्ति, तमुक्थ्येन तमतिरात्रेण, तं द्विरात्रेण'' इत्यादि। अयमर्थः- 'इष्टकाचितमग्निमनु तस्मिंश्चितेऽग्नावग्निष्टोमाद्यनुष्ठानम्' इति। तत्र- अग्निष्टोमः प्रकृतिः, उक्थ्यादयो विकृतयः। यदि विकृतिषु चोदकश्चितमग्निमतिदिशेत्, तदानीमुक्थ्यादिषु चोदकादेव तत्प्राप्तेः पुनर्विधानमनर्थकं स्यात्। अतिग्राह्याश्च विकृतिषु पुनर्विधीयन्ते- 'पृष्ठ्ये गृह्णीयात्' 'उक्थ्ये गृह्णीयात्'। तस्मात्- विधानार्थवत्त्वाय विकृतावग्न्यतिग्राह्यातिदेशो नास्ति। इति प्राप्ते-
4सिद्धान्तः
प्रकृतेर्विकृतीनां च साम्याय स्यात्पुनर्वचः
साम्ये च गुणकामानां प्रवृत्तिः प्रकृताविव
ब्रूमः- ऐन्द्रवायवग्रहादीनामङ्गान्तराणामुक्थ्यादिविकृतिषु यथाऽतिदेशोऽभ्युपगतः, तथाऽग्निचयनस्या-तिग्राह्याणां चातिदेशः स्यात्। न हि- अखण्डः सकृत्प्रवृत्तश्चोदकः कानिचिदङ्गान्यतिदिश्येतराण्युपेक्षते- इति युक्तम्। अतिदेशप्राप्तानामपि पुनवर्चनं प्रकृतिसाम्यार्थम्। यथा प्रकृतावग्न्यतिग्राहयोः प्रत्यक्षविधिः, तथा विकृतिष्वपि, इति तत्साम्यम्। न च साम्ये प्रयोजनाभावः। गुणकामप्रवृत्तेस्तत्प्रयोजनत्वात्। ''श्येनचितिं चिन्वीत स्वर्गकामः' इत्यादिना श्येनाकारादिगुणफलभूतस्वर्गादिकामाः श्रुताः। ते चोपदिष्टमाश्रयमपेक्षन्ते। तस्मात्- 'अथातोऽग्निम्' इति वाक्येन प्रकृतावग्निष्टोमे कासुचिदुक्थ्यादिविकृतिषु चाग्निचयनलक्षण आश्रय उपदिश्यते। अन्यासु वाजपेयादिविकृतिषूपदिष्टस्याश्रयस्याभावात्। अतिदिष्टस्य चानाश्रयत्वाद्गुणकामानां नास्ति प्रवृत्तिः। तस्मात्- पुनर्विधानवैयर्थ्याभावादस्त्यतिदेशः।। 21।। 22।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- अविहितस्वाहाकारेषु प्रदानेषु स्वाहाकारविधानाधिकरणे सूत्राणि 20-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विधित्वेऽपि नियम्यः स्यान्न व्यत्यासवषट्कृती होमान्तरे वषट्कारस्वाहाकारविकल्पनम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.11
द्वादशे- उपस्तरणाभिधारणाभ्यां सहैव चतुरवदानाधिकरणे सूत्राणि 29-32
SŪउत्पत्तितादर्थ्याच्चतुरवत्तं प्रधानस्य होमसंयोगादधिकमाज्यमतुल्यत्वाल्लोकवदुत्पत्तेर्गुण-भूतत्वात्।। 29।।
SŪतत्संस्कारश्रुतेश्च।। 30।।
SŪताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विरवघारणेन तदाप्तिवचनात्।। 31।।
SŪतुल्यवच्चाभिधाय सर्वेषु भक्त्यनुक्रमणात्।। 32।।
द्वादशाधिकरणमारचयति-
1विषयः
चतुर्द्विर्वा पुरोडाशेऽवदानं होमतोक्तितः
2संशयः
चतुष्ट्वं तूपस्तरणाभिघारणार्थाभ्यामाज्यावदानाभ्यां सह संपद्यते, इति संशयः।
3पूर्वपक्षः
चतुर्मैवं सहाज्येन सिद्धस्यात्रानुवादतः
तत्र चतुरवत्तस्य द्वितीयया विभक्त्या होमकर्मत्वमुच्यते। न च- उपस्तरणाद्यर्थस्याज्यस्य होमकर्मत्वमस्ति। तस्मात्- पुरोडाशावदानस्यैव चतुर्वारत्वम्। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- न तावदत्र होमानुवादेन चतुरवत्तत्वं विधीयते
होमस्याप्राप्तत्वात्
नापि विशिष्टविधिः
गौरवप्रसङ्गात्
होममात्रविधाने चतुरवत्तत्वमनुवाद्यम्
तच्चाज्यसहितस्यैव युक्तम्
'द्विर्हविषोऽवद्यति' इति विधिना पुरोडाशावदाने द्वित्वस्यैव प्राप्तत्वात्
तस्मात्- पुरोडाशे द्विरवदानम्
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- अग्न्यतिग्राह्यस्य विकृतावुपदेशाधिकरणे सूत्राणि 23-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रकृतेर्विकृतीनां च साम्याय स्यात्पुनर्वचः साम्ये च गुणकामानां प्रवृत्तिः प्रकृताविव”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.12
त्रयोदशे- उपांशुयाजेऽपि चतुरवत्तस्यावश्यकताधिकरणे सूत्रे 33-34
SŪसाप्तदश्यवन्नियम्येत।। 33।।
SŪहविषो वा गुणभूतत्वात्तथाभूतविवक्षा स्यात्।। 34।।
त्रयोदशाधिकरणमारचयति-
1विषयः
उपांशुयाजे किं न स्यादवदानचतुष्टयम्
3पूर्वपक्षः
स्याद्वा नास्त्युपसंहारान्नानूक्तिर्वाक्यतोऽस्ति तत्
दर्शपूर्णमासयोः श्रुतं चतुरवत्तं नोपांशुयाजे। कुतः- साप्तदश्यवदुपसंहारात्। यथा साप्तदश्यमनारभ्याधीतं परिगणितासु मित्रविन्दादिविकृतिषु पुनः श्रूयमाणं तास्वेवोपसंहृतम्, एवमुपस्तरणाभिघारणोपेये हविषि श्रूयमाणं तत्रैवोपसंहर्तव्यम्। तथा च पुरोडाशसांनाय्ययोस्तत्पर्यवस्यति। उपांशुयाजस्य तूपस्तरणादिराहित्यान्नास्ति चतुरवत्तम्। इति प्राप्ते
4सिद्धान्तः
ब्रूमः- योऽयमुपसंहारत्वेनोदाहृतोऽवत्तविधिः सोऽनुवादः- इति पूर्वत्रोक्तम्
अत उपसंहारो न शङ्कितुं शक्यः
मा भूदुपसंहारः, तथाऽप्युपांशुयाजे चतुरवत्तं कथं सिध्यति- इति चेत्- 'चतुरवत्तं जुहोति' इति वाक्यम्- इति ब्रूमः
तस्मात्- अस्त्युपांशुयाजे चतुरवत्तम्
-
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- उपस्तरणाभिधारणाभ्यां सहैव चतुरवदानाधिकरणे सूत्राणि 29-32”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- न तावदत्र होमानुवादेन चतुरवत्तत्वं विधीयते होमस्याप्राप्तत्वात् नापि विशिष्टविधिः गौरवप्रसङ्गात् होममात्रविधाने चतुरवत्तत्वमनुवाद्यम् तच्चाज्यसहितस्यैव युक्तम् 'द्विर्हविषोऽवद्यति' इति विधिना पुरोडाशावदाने द्वित्वस्यैव प्राप्तत्वात् तस्मात्- पुरोडाशे द्विरवदानम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.13
चतुर्दशे- दर्शपूर्णमासयोराग्नेयैन्द्राग्नयोरनुवादताधिकरणे सूत्राणि 35-46
SŪपुरोडाशाभ्यामित्यधिकृतानां पुरोडाशयोरुपदेशस्तच्छ्रुतित्वाद्वैश्यस्तोमवत्।। 35।।
SŪन त्वनित्याधिकारोऽस्ति विधौ नित्येन संबन्धस्तस्मादवाक्यशेषत्वम्।। 36।।
SŪसति च नैकदेशेन कर्तुः प्रधानभूतत्वात्।। 37।।
SŪकृत्स्नत्वात्तु तथा स्तोमे।। 38।।
SŪकर्तुः स्यादिति चेत्।। 39।।
SŪन गुणार्थत्वात्प्राप्ते च नोपदेशार्थः।। 40।।
SŪकर्मणोऽस्तु प्रकरणे तन्न्यायत्वाद्गुणानां लिङ्गेन कालशास्त्रं स्यात्।। 41।।
SŪयदि तु सांनाय्यं सोमयाजिनो न ताभ्यां समवायोऽस्ति विभक्तकालत्वात्।। 42।।
SŪअपि वा विहितत्वाद्गुणार्थायां पुनः श्रुतौ संदेहे श्रुतिर्द्विदेवतार्था स्याद्यथाऽनभिप्रेतस्तथाग्नेयो दर्शनादेकदेवते।। 43।।
SŪविधिं तु बादरायणः।। 44।।
SŪप्रतिषिद्धविज्ञानाद्वा।। 45।।
SŪतथा चान्यार्थदर्शनम्।। 46।।
चतुर्दशाधिकरणमारचयति-
3पूर्वपक्षः
दर्शपूर्णमासयोरिदमाम्नायते- ''पुरोडाशाभ्यामेवासोमयाजिनं याजयेत्- यावेतावाग्नेयश्चैन्द्राग्नश्च'' इति। तत्र षट् पक्षान्क्रमेणोपन्यासपूर्वकं निरस्य सप्तममुपस्थापयति।
''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इत्यत्र योऽधिकारी श्रुतः, तस्यायं शेषः स्यात्। कुतः- तच्छ्रुतेः। पुरोडाशसाधनकस्य यागस्य यः कर्ताऽधिकारवाक्ये श्रूयते, स एवात्रासोमयाजिशब्देन विशेषितः श्रूयते। इत्याद्यः पक्षः।
नैष युक्तः। कार्त्स्न्यनित्यत्वयोर्बाधप्रसङ्गात्। तथा हि 'पुरोडाशाभ्यामेव' इत्येवकारेण सांनाय्योपांशुयाजयोर्व्यवच्छेदः। तथा पुरोडाशब्दस्य 'आग्नेयश्चैन्द्राग्नश्च' इति विशेषितत्वादग्नीषोमीयस्यापि व्यवच्छेदः। ततः कार्त्स्न्यं बाध्येत। अथ 'असोमयाजिनमेव' इत्यन्वयः, तदानीं सोमयागादूर्ध्वं दर्शपूर्णमासव्यवच्छेदाद्यावज्जीवादिवाक्यात्प्रापितं नित्यत्वं बाध्येत। तस्मात्- दर्शपूर्णमासाभ्यामन्ये आग्नेयैन्द्राग्नकर्मणी विधीयेते। इति द्वितीयः पक्षः।
'यावेतौ' इति प्रसिद्धानुवादेन दर्शपूर्णमासावेव प्रत्यभिज्ञायेते। 'पुरोडाशाभ्यामेव' इत्येवकारश्च कर्मान्तरपक्षे व्यर्थः स्यात्। तस्मात्- प्रसिद्धकर्मानुवादेन 'याजयेत्' इति णिजर्थ ऋत्विजं प्रति विधीयते। एवकारस्य प्रयोजनं सांनाय्यादिनिवृत्तिः। इति तृतीयः पक्षः।
सोऽप्यनुपपन्नः। ऋत्विग्गामिफलस्य कस्यचिदश्रवणात्। न च विश्वजिन्न्यायेन कल्पयितुं शक्यम्। परार्थकर्मणि प्रवृत्तस्यार्थवृत्तेरेवासंभवात्। तस्मात्- कालविधिरस्तु। सोमयागात्प्राचीने काले पुरोडाशाभ्यामेव याजयेत्, न तु सांनाय्येन। सोऽयं चतुर्थः पक्षः।
एषोऽप्ययुक्तः। असोमयाजिशब्दस्य काले लक्षणावृत्तिप्रसङ्गात्। तस्मादैन्द्राग्नस्यैकस्य पौर्णमास्यामप्राप्तत्वेन विधिरस्तु। आग्नेयस्तु पौर्णमास्याममावास्यायां च नित्यप्राप्तत्वादनूद्यते। इति पञ्चमः पक्षः।
सोऽप्ययुक्तः। सकृत्प्रयुक्तस्यैकस्य लिङ्प्रत्ययस्य विधित्वमनुवादत्वं चेति वैषम्यप्रसङ्गात्। एवकारश्चात्र व्यर्थः। तस्मात्- अगत्या तल्लाक्षणिकमभ्युपेत्यापि कालस्य विधिरस्तु। तथा हि- असोमयाजिनः सांनाप्ये तावत्प्रतिप्रसवः श्रूयते ''तदु ह संनयेत्'' इति। 'यदा सोमयागो नास्ति तदाऽपि संनयेदेव' इत्यर्थः। तथा सति सोमासोमयाजिनोरुभयोरप्यमावास्यायां सांनाय्यमैन्द्राग्नपुरोडाशेन भिन्नविषयाभावाद्विकल्पितम्। सोऽयं विकल्पितः पुरोडाशः सोमयागात्प्रागेव, पश्चात्तु सांनाय्यमेव, इत्यभिप्रेत्य कालो विधीयते। तथा सत्येतच्छास्त्रं सार्थकम्, नान्यथा। इति षष्ठः पक्षः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- उपांशुयाजेऽपि चतुरवत्तस्यावश्यकताधिकरणे सूत्रे 33-34”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- योऽयमुपसंहारत्वेनोदाहृतोऽवत्तविधिः सोऽनुवादः- इति पूर्वत्रोक्तम् अत उपसंहारो न शङ्कितुं शक्यः मा भूदुपसंहारः, तथाऽप्युपांशुयाजे चतुरवत्तं कथं सिध्यति- इति चेत्- 'चतुरवत्तं जुहोति' इति वाक्यम्- इति ब्रूमः तस्मात्- अस्त्युपांशुयाजे चतुरवत्तम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.14
पञ्चदशे- उपांशुयाजस्य ध्रौवाज्यद्रव्यताधिकरणे सूत्रे 47-48
SŪउपांशुयाजमन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद्यथाकामी प्रतीयेत।। 47।।
SŪध्रौवाद्वा सर्वसंयोगात्।। 48।।
पञ्चदशाधिकरणमारचयति-
1विषयः
उपांशुयाजे यत्किंचिद्द्रव्यमाज्यमुताग्रिमः
विशेषानुक्तितो मैवं ध्रौवाज्यस्य विधानतः
3पूर्वपक्षः
''उपांशुयाजमन्तरा यजति'' इत्यत्र द्रव्यविशेषस्यानुक्तत्वादैच्छिकं द्रव्यम्। इति चेत्-
मैवम्। आज्यस्य श्रुतत्वात्। ''तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्'' इति हि श्रुतम्। न च- एवमप्यनियतं यत्किंचिदाज्यम्- इति शङ्क्यम्। ध्रौवस्य विहितत्वात्। ''सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्'' इति विहितम्। विध्यश्रवणेऽपि ध्रौवाज्यस्य सप्रयोजनत्वाय विपरिणामः कर्तव्यः।। 29।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- दर्शपूर्णमासयोराग्नेयैन्द्राग्नयोरनुवादताधिकरणे सूत्राणि 35-46”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.15
षोडशे- उपांशुयागस्य प्राकृतदेवतानियमाधिकरणे सूत्रे 49-50
SŪतद्वच्च देवतायां स्यात्।। 49।।
SŪतान्त्रीणां वा प्रकरणात्।। 50।।
षोडशाधिकरणमारचयति-
1विषयः
तत्र यः कोऽपि देवः स्यात्तान्त्रिको वाऽग्रिमो भवेत्
3पूर्वपक्षः
अविशेषात्प्रकरणात्तान्त्रिकोऽत्र नियम्यते
तत्रोपांशुयाजे या काचिद्देवता स्यात्। ''विष्णुरुपांशु यष्टव्यः'' इत्यादेरर्थवादत्वेनाविधायकत्वात्। अन्यस्य च देवताविधेरदर्शनात्। यागेन देवतामात्रस्यैव कल्पनाच्च ।
4सिद्धान्तः
मैवम्- उपांशुयाजस्य दर्शपूर्णमासप्रकरणपठितत्वाद्दर्शपूर्णमासतन्त्रमध्यपठित एव कश्चिद्देवः प्रत्यासत्त्योपांशुयाजे नियम्यते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- उपांशुयाजस्य ध्रौवाज्यद्रव्यताधिकरणे सूत्रे 47-48”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.8.16
सप्तदशाष्टादशयोः- उपांशुयाजस्य विष्णवादिदेवताकत्वपौर्णमासीकर्तव्यत्वयोरधिकरणयोः सूत्राणि 51-61
SŪधर्माद्वा स्यात्प्रजापतिः।। 51।।
SŪदेवतायास्त्वनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्मादिहाधिकारेण।। 52।।
SŪविष्णुर्वा स्याद्धौत्राम्नानादमावास्याहविश्च स्याद्धौत्रस्य तत्र दर्शनात्।। 53।।
SŪअपि वा पौर्णमास्यां स्यात्प्रधानशब्दसंयोगाद्गुणत्वान्मन्त्रो यथा प्रधानं स्यात्।। 54।।
SŪआनन्तर्यं च सांनाय्यस्य पुरोडाशेन दर्शयति, अमावास्याविकारे।। 55।।
SŪअग्नीषोमविधानात्तु पौर्णमास्यामुभयत्र विधीयते।। 56।।
SŪप्रतिषिध्यविधानाद्वा विष्णुः समानदेशः स्यात्।। 57।।
SŪतथा चान्यार्थदर्शनम्।। 58।।
SŪन चानङ्गं सकृच्छ्रुतावुभयत्र विधीयेतासंबन्धात्।। 59।।
SŪगुणानां च परार्थत्वात्प्रवृत्तौ विधिलिङ्गानि दर्शयति।। 60।।
SŪविकारे चाश्रुतित्वात्।। 61।।
सप्तदशाधिकरणमारचयति-
3पूर्वपक्षः
तान्त्रिकदेवेषु नियामकाभावात्- यः कोऽपि। इति चेत्- न। वक्ष्यमाणानामुपांशुत्वादीनां नियामकत्वात्। ''यत्किंचित्प्राजापत्यं यज्ञे क्रियते, उपांश्वेव तत्क्रियते'' इति वचनादुपांशुत्वधर्मसाम्येन प्रजापतिर्देवता- इति चेत्- न। 'प्रजापतिं मनसा ध्यायेत्' इति विधेस्तूष्णींभावस्यैव प्रजापतिधर्मत्वात्। प्रथमयागदेवत्वेन मुख्यत्वादग्निर्देवता। इति चेत्- न। उपांशुयाजक्रमेऽग्निविषययाज्याद्यपाठात्। 'तावब्रूताम्' इत्यादिपूर्वोदाहृतवाक्यादग्नीषोमौ देवता। इति चेत्- न। तस्य वाक्यस्य पौर्णमासीकालविधायकत्वात्। कस्यांचिच्छाखायामुपांशुयाजक्रमे वैष्णवयाज्यापुरोनुवाक्ययोः पठात्- विष्णुर्देवता। इति चेत्- न। तथा सति शाखान्तरप्रोक्तयोः प्राजापत्ययोर्याज्यापुरोनुवाक्ययोर्बाधः प्रसज्येत। तस्मात्- नानाशाखासु पठिताभ्यां विष्णुप्रजापत्यग्नीषोमविषययाज्यपुरोनुवाक्याभ्यां प्राप्तास्तिस्त्रो देवता विकल्पन्ते। अत एवोपांशुयाजविधिशेषेऽर्थवादेऽप्येतदेव प्राप्तं देवतात्रयमनूद्यते ''विष्णुरुपांशु यष्टव्योऽजामित्वाय, प्रजापतिरुपांशु यष्टव्योऽजामित्वाय, अग्नीषोमावुपांशु यष्टव्यावजामित्वाय'' इति। तस्मात्- देवताविकल्पो राद्धान्तः।। 31।।32।।33।।34।।35।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- उपांशुयागस्य प्राकृतदेवतानियमाधिकरणे सूत्रे 49-50”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम्- उपांशुयाजस्य दर्शपूर्णमासप्रकरणपठितत्वाद्दर्शपूर्णमासतन्त्रमध्यपठित एव कश्चिद्देवः प्रत्यासत्त्योपांशुयाजे नियम्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
अष्टादशाधिकरणमारचयति-
1विषयः
दर्शादिर्वा तस्य कालो दर्श एवान्य एव वा
द्विपुरोडाशसांनिध्यादाद्यो दर्शेऽग्नितोऽग्रतः
3पूर्वपक्षः
विष्णुयाज्योक्तितो युक्तो मध्यमः पूर्णिमाविधेः
स एव कालो याज्याया उत्कर्षः पूर्णिमादिने
''जामि वा एतद्यज्ञस्य क्रियते, यदन्वञ्चौ पुरोडाशावुपांशुयाजमन्तरा यजति ह्यजामित्वाय'' इति पुरोडाशयोर्मध्ये स यागो विहितः। पुरोडाशौ च पौर्णमास्यामाग्नेयाग्नीषोमौ, अमावास्यायामाग्नेयैन्द्राग्नौ। ततो द्विपुरोडाशसंनिधेः समानत्वाद्दर्शः पूर्णिमा च, इत्युभयमुपांशुयाजस्य कालः। इत्याद्यः पक्षः।
दर्शं प्रकृत्य याज्याकाण्ड आग्नेययाज्याया अधस्ताद्वैष्णवयाज्यायाः पाठात्प्रकरणस्य संनिधितः प्रबलत्वाद्दर्श एव कालः। इति मध्यमः पक्षः।
4सिद्धान्तः
''तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्'' इति पौर्णमास्यास्तत्कालत्वेन विधानाद्वाचनिकस्य विधेः प्रबलत्वात्पौर्णमास्येव कालः
तथा सति वैष्णवयाज्याप्रकरणादुत्कृष्यताम्।
36
10.8.17
एकोनविंशे- एकपुरोडाशायामप्युपांशुयाजाधिकरणे सूत्राणि 62-70
SŪद्विपुरोडाशायां स्यादन्तरार्थत्वात्।। 62।।
SŪअजामिकरणार्थत्वाच्च।। 63।।
SŪतदर्थमिति चेन्न तत्प्रधानत्वात्।। 64।।
SŪअशिष्टेन च संबन्धात्।। 65।।
SŪउत्पत्तेस्तु निवेशः स्याद्गुणस्यानुपरोधेनार्थस्य विद्यमानत्वाद्विधानादन्तरार्थस्य नैमित्तिकत्वात्तदभावेऽश्रुतौ स्यात्।। 66।।
SŪउभयोस्तु विधानात्।। 67।।
SŪगुणानां च परार्थत्वादुपवेषवद्यदेति स्यात्।। 68।।
SŪअनपायश्च कालस्य लक्षणं हि पुरोडाशौ।। 69।।
SŪप्रशंसार्थमजामित्वम्।। 70।।
एकोनविंशाधिकरणमारचयति-
3पूर्वपक्षः
सोमात्प्रागग्नीषोमीयपुरोडाशरहिता केवलाग्नियपुरोडाशयुक्ता पौर्णमासी भवति। ''स सोमेनेष्ट्वाऽग्नीषोमीयो भवति'' इति वाक्येनाग्नीषोमीययोः सोमोत्तरकालत्वावगमात्। तस्मात्- उपांशुयाजो नास्ति। कुतः- ''उपांशुयाजमन्तरा यजति'' इति पुरोडाशद्वयान्तरालवत्त्वस्य गुणत्वेन विधानात्। इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- किं पुरोडाशावन्तरालकालस्य विशेषणभूतौ, उत लक्षणभूतौ। नाद्यः। अन्तरालकालवत्तद्विशेषणयोः पुरोडाशयोरुपांशुयाजे गुणत्वप्रसङ्गात्। न चैतद्युक्तम्। उपांशुयाजवत्तयोरपि स्वातन्त्र्येणैव फलान्वयात्। द्वितीये तु- शङ्खन्यायेनोपलक्षकस्याग्नीषोमीयपुरोडाशस्यैवाभावेऽप्युपलक्ष्ये काले यागोऽस्ति। यथा- 'शङ्खध्वनिवेलायां राजसेवार्थं प्रतिदिनमागन्तव्यम्' इत्युक्ते कस्मिंश्चिद्दिने तं शङ्खं धमतः पुरुषस्याभावेनोपलक्षकस्य ध्वनेरभावेऽप्युपलक्षिते तस्मिन्काले सेवकः समागच्छति, तथाऽत्रापि द्रष्टव्यम्। यदि तत्र कालोपलक्षकमन्यदेव व्यापारः सूर्यगत्यादिकं संभाव्यते, तर्ह्यत्रापि संभवत्येवाग्नेयपुरोडाश उपलक्षकः। तस्मात्- एकपुरोडाशायामपि पौर्णमास्यामस्त्युपांशयाजः।। 38।।
अत्र पादे- अधिकरणानि 19, सूत्राणि 70।
आदितः- अधिकरणानि 775, सूत्राणि 2229।
।। समाप्तश्चायं दशमोऽध्यायः।।
अथैकादशाध्यायस्य प्रथमः पादः
तन्त्रस्योपोद्घातो वर्णितः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशाष्टादशयोः- उपांशुयाजस्य विष्णवादिदेवताकत्वपौर्णमासीकर्तव्यत्वयोरधिकरणयोः सूत्राणि 51-61”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]