SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 10, Pāda 3

बाधः

बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते

20adhikaraṇas
75sūtras
10.3.1 प्रथमे- पश्वादौ सामिधेन्यादिप्राकृतेतिकर्तव्यतानुष्ठानाधिकरणे सूत्राणि 1-12
विकृतौ शब्दवत्त्वात्प्रधानस्य गुणानामधिकोत्पत्तिः संनिधानात्।। 1।।
प्रकृतिवत्तस्य चानुपरोधः।। 2।।
चोदनाप्रभुत्वाच्च।। 3।।
प्रधानं त्वङ्गसंयुक्तं तथाभूतमपूर्वं स्यात्तस्य विध्युपलक्षणात्सर्वो हि पूर्ववान्विधिरविशेषात्प्रवर्तितः।। 4।।
न चाङ्गविधिरनङ्गे स्यात्।। 5।।
कर्मणश्चैकशब्द्यात्संनिधाने विधेराख्यासंयोगो गुणेन तद्विकारः स्याच्छब्दस्य विधिगामित्वाद्गुणस्य चोपदेश्यत्वात्।। 6।।
अकार्यत्वाच्च नाम्नः।। 7।।
तुल्या च प्रभुता गुणे।। 8।।
सर्वमेवं प्रधानमिति चेत्।। 9।।
तथाभूतेन संयोगाद्यथार्थविधयः स्युः।। 10।।
विधित्वं चाविशिष्टमेवं प्राकृतानां वैकृतैः कर्मणा योगात्तस्मात्सर्वं प्रधानार्थम्।। 11।।
समत्वाच्च तदुत्पत्तेः संस्कारैरधिकारः स्यात्।। 12।।
तृतीयपादे प्रथमाधिकरणमारचयति-

1विषयः

प्रयाजैकादशत्वादिविशेषविधिभिर्युते

3पूर्वपक्षः

पश्वादौ सामिधेन्यादिविध्यन्तो नास्त्युतास्त्यसौ
अग्नीषोमीयपशावेकादश प्रयाजाः श्रुताः, चातुर्मास्येषु नव प्रयाजाः, वायव्यपशौ ''हिरण्यगर्भः'' इत्याघारमन्त्रः, इत्यादिभिर्युतेषु पश्वादिषु प्राकृतेतिकर्तव्यता सामिधेन्यादिर्नास्ति। कुतः- संख्यामन्त्रादिगुणविशिष्टस्य प्रयाजाघाराद्यङ्गस्य प्रत्यक्षविधौ सत्युपदिष्टेनैवाङ्गेन निराकाङ्क्षे पश्वादौ चोदकस्याप्रवृत्तेः। इति पूर्वः पक्षः।
पश्वादिविधिस्तावदितिकर्तव्यतामाकाङ्क्षति। तत्र 'प्राकृताङ्गान्यतिदिश्य वा तदाकाङ्क्षा पूर्यताम्, विधास्यमानान्यङ्गान्तराण्युपदिश्य वा' इति वीक्षायां कॢप्तोपकारतया प्राकृताङ्गातिदेश एव न्याय्यः। ततश्चातिदेशतः प्राप्तप्रयाजाद्यङ्गमनूद्य गुणमात्रविधौ लाघवं भवति। गुणविशिष्टाङ्गविधौ तु गौरवं स्यात्। तस्मात्- संख्यान्तरमन्त्रान्तराभ्यां पूर्वयोः संख्यामन्त्रयोर्बाधेऽपि प्रयाजाघारसामिधेन्यादीतिकर्तव्यता प्राप्नोत्येवातिदेशात्। इति राद्धान्तः।। 1।। 2।।

4सिद्धान्तः

विशिष्टाङ्गविधौ नासौ चोदकस्याप्रवृत्तितः
लाघवाद्गुणमात्रस्य विधेः सोऽस्त्यतिदेशतः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुस्त्रिंशे- मतद्वयसहितेऽधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “''धाना अवहन्तव्याः'' इति ह्यत्र चोदकवाक्यम् तस्मिंश्च वाक्ये भर्जनसंपादितं धानात्वं पूर्वभावि, पश्चाद्भावी त्ववघातः, इति क्रमः प्रतीयते तं क्रमं बाधित्वा प्रथमतोऽवघाते सति नास्ति धानात्वनाशः अवधातस्य पदार्थस्य बाधाद्वरं तद्धर्मस्य क्रममात्रस्य बाधनम् तस्मात्- अवघातः कार्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.2 द्वितीये- हिरण्यगर्भमन्त्रस्योत्तराघारगुणताधिकरणे सूत्राणि 13-17
हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात्।। 13।।
प्रकृस्यनुपरोधाच्च।। 14।।
उत्तरस्य वा मन्त्रार्थित्वात्।। 15।।
विध्यातिदेशात्तच्छ्रुतौ विकारः स्याद्गुणानामुपदेश्यत्वात्।। 16।।
पूर्वस्मिंश्चामन्त्रत्वदर्शनात्।। 17।।
द्वितीयाधिकरणमारचयति-

1विषयः

हिरण्यगर्भ आघारे पूर्वस्मिन्नुत्तरेऽथवा
लिङ्गादाद्ये समं लिङ्गं क्लृप्तकार्यत्वतोऽन्तिमे

3पूर्वपक्षः

वायव्यपशौ ''हिरण्यगर्भः समवर्तताग्रे- इत्याघारमाघारयति'' इति श्रुतो मन्त्रः पूर्वस्मिन्नाघारे स्यात्। कुतः- मन्त्रलिङ्गात्। प्रकृतौ प्राजापत्यः पूर्व आघारः। अस्मिन्नपि मन्त्रे हिरण्यगर्भशब्देन प्रजापतिरभिधीयते। ''प्रजापतिर्वैहिरण्यगर्भः'' इति वाक्यशेषात्। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- अन्तिम आघारेऽयं मन्त्रः। कुतः- क्लृप्तकार्यत्वात्। प्रकृतावमन्त्रकः प्रथमाघारः ''प्रजापतिं मनसा ध्यायन्नाघारयति'' इति ध्यानमात्रस्याभिधानात्। यतः ''तूष्णीमाघारमाघारयति'' इत्यमन्त्रकत्वं साक्षादेव श्रुतम्। द्वितीये त्वाघार ''ऊर्ध्वोऽध्वरः'' इत्याद्यैन्द्रो मन्त्रो विहितः। अतो मन्त्रकार्यं तत्र क्लृप्तम्। तस्मात्- द्वितीय आघारे ''हिरण्यगर्भः'' मन्त्रविधिः। यत्तु प्रजापतिदेवता लिङ्गम्, तदिन्द्रेऽपि समानम्। इन्द्रोऽपि हि प्रजानां पतिः। तस्मात् ''ऊर्ध्वोऽध्वरः'' इति मन्त्रं बाधित्वा हिरण्यादिमन्त्रस्तत्र विधीयते।। 3।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- पश्वादौ सामिधेन्यादिप्राकृतेतिकर्तव्यतानुष्ठानाधिकरणे सूत्राणि 1-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विशिष्टाङ्गविधौ नासौ चोदकस्याप्रवृत्तितः लाघवाद्गुणमात्रस्य विधेः सोऽस्त्यतिदेशतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.3 तृतीये- चातुर्मास्येषु सोमेष्वासादननियोजनयोः प्राकृतगुणविधित्वाधिकरणे सूत्राणि 18-22
संस्कारे तु क्रियान्तरं तस्य विधायकत्वात्।। 18।।
प्रकृत्यनुपरोधाच्च।। 19।।
विधेस्तु तत्र भावात्संदेहे यस्य शब्दस्तदथः स्यात्।। 20।।
संस्कारसामर्थ्याद्गुणसंयोगाच्च।। 21।।
विप्रतिषेधात्क्रियाप्रकरणे स्यात्।। 22।।
तृतीयाधिकरणमारचयति-

1विषयः

किमुत्करासादनं च परिधौ च नियोजनम्
कर्मान्तरे प्राकृतयोर्गुणो वाद्योऽस्त्वसंभवात्

3पूर्वपक्षः

पृथुतामुत्कराग्रस्य परिधेश्च स्थविष्ठताम्
आश्रित्य संभवात्कर्तुं गुणौ तौ लाघवान्मतौ
सौमिकेषु चातुर्मास्येषु श्रूयते ''उत्करे वाजिनमासादयति परिधौ पशुं नियुञ्जीत'' इति। एते आसादननियोजने प्राकृताभ्यामन्ये कर्मणी विधीयेते, इत्याद्यः पक्षो युक्तः। कुतः- प्राकृतयोरत्यन्तमसंभवात्। वेदेरुद्धृतानां पांसूनां तीक्ष्णाग्रौ राशिरुत्करः। न हि तत्र वाजिनाख्यनीरस्यासादनं संभवति। नाप्यङ्गुलीवदणीयसि परिधौ पशुर्नियोक्तुं शक्यते। ततः प्राकृतस्य दृष्टप्रयोजनस्यासंभवाददृष्टार्थत्वम्। तदेतत्सदृशे आसादननियोजने कर्मान्तरे विधीयेते। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- प्रयाजैकादशत्वादिवल्लाघवात्प्राकृतयोरेव वाजिनासादनपशुनियोजनयोरुत्करपरिधिगुणौ विधीयेते
न च तीक्ष्णत्वेऽपि सूच्यग्रवदयोग्यत्वम्, मृद्राश्यग्रस्य पृथुत्वेन स्वल्पपात्रासादनयोग्यत्वात्
परिधिश्चैष्टिकवेद्यामिव नाणीयान्, किं तूत्तरवेद्यां स्थविष्ठः
तस्मात्- गुणविधिः।
4
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- हिरण्यगर्भमन्त्रस्योत्तराघारगुणताधिकरणे सूत्राणि 13-17”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.4 चतुथ- अग्निचयने प्राकृतवैकृतोभयदीक्षाहुतीनामनुष्ठानाधिकरणे सूत्राणि 23-29
षड्भिर्दीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात्।। 23।।
अभ्यासात्तु प्रधानस्य।। 24।।
आवृत्त्या मन्त्रकर्म स्यात्।। 25।।
अपि वा प्रतिमन्त्रत्वात्प्राकृतानामहानिः स्यादन्यायश्चकृतेऽभ्यासः।। 26।।
पौर्वापर्यं चाभ्यासे नोपपद्यते नैमित्तिकत्वात्।। 27।।
तत्पृथक्त्वं च दर्शयति।। 28।।
न चाविशेषाद्व्यपदेशः स्यात्।। 29।।
चतुर्थाधिकरणमारचयति-

1विषयः

षड्भिर्दीक्षयतीत्यग्निगतं प्राकृतबाधकम्

3पूर्वपक्षः

समुच्चितं वा बाधः स्यात्कार्यैक्यात्तच्च वाक्यतः
अग्निचयने दीक्षाहुतयः श्रूयन्ते ''षड्भिर्दीक्षयति'' इति। प्राकृतावपि ''स्रुवेण चतस्त्रो जुहोति दीक्षितत्वाय'' इत्यादिना दीक्षाहुतयः षड्विहिताः। तत्र मन्त्रा भिन्नाः ''आकूत्यै प्रयुजेऽग्नये स्वाहा'' इत्यादयः प्राकृता मन्त्राः। ''आकूतिमग्निं प्रयुजं स्वाहा'' इत्यादयो वैकृताः। तत्र 'वैकृतमाहुतिमन्त्रषट्कं किं प्राकृतस्य बाधकम्, किंवा प्राकृतेन समुच्चितम्' इति संशये-
'बाधकम्' इति तावत्प्राप्त

4सिद्धान्तः

अग्नौ होमाङ्गताक्लृप्तेरतिदिष्टेन तुल्यता
विनावृत्तिं द्वादशत्वसिद्धये स्यात्समुच्चयः
म्। कुतः- कार्यैक्यात्। दीक्षणीयेष्ट्यङ्गभूताहुत्युपकारलक्षणं यत्कार्यं प्राकृतानां मन्त्राणाम्, तदेव वैकृतानामपि। न च विकृतौ तन्न प्रतीयते- इति शङ्कयम्, स्वाहान्ततारूपेण लिङ्गेन मन्त्राणामाहुत्युपकारकत्वप्रतीतेः। आहुतीनां च ''षड्भिर्दीक्षयति'' इति वाक्येन दीक्षणीयाङ्गत्वप्रतीतेः। तस्मात्- श्रूयमाणैर्मन्त्रैरतिदिष्टानां बाधः। इति पूर्वः पक्षः।
अग्नौ मन्त्राणां स्वरूपं यद्यपि प्रत्यक्षश्रुतिसिद्धम्। तथाऽपि होमाङ्गत्वं लिङ्गेन कल्प्यम्। तथा चातिदेशकल्प्यैर्मन्त्रैस्तुल्यबलत्वान्न बाध्यबाधकता। एवमपि न समुच्चये प्रमाणमस्ति इति चेत्- अस्त्येव, ''द्वादश जुहोति'' इति संख्याविधानेन तत्सिद्धेः। न च वैकृतानामेव षण्णामावृत्त्या सिध्यतीति वाच्यम्, आवृत्तेरश्रुतत्वात्। न च सा कल्पयितुं शक्यते अन्यथाऽपि संख्योपपत्तेः। तस्मात्- समुच्चयः इति सिद्धान्तः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- चातुर्मास्येषु सोमेष्वासादननियोजनयोः प्राकृतगुणविधित्वाधिकरणे सूत्राणि 18-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- प्रयाजैकादशत्वादिवल्लाघवात्प्राकृतयोरेव वाजिनासादनपशुनियोजनयोरुत्करपरिधिगुणौ विधीयेते न च तीक्ष्णत्वेऽपि सूच्यग्रवदयोग्यत्वम्, मृद्राश्यग्रस्य पृथुत्वेन स्वल्पपात्रासादनयोग्यत्वात् परिधिश्चैष्टिकवेद्यामिव नाणीयान्, किं तूत्तरवेद्यां स्थविष्ठः तस्मात्- गुणविधिः। 4”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.5 पञ्चमे- पुनराधानेऽग्न्याधानदक्षिणानां निवृत्त्यधिकरणे सूत्राणि 30-33
आग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणा दानमधिकं स्याद्वाक्यसंयोगात्।। 30।।
शिष्टत्वाच्चेतरासां यथास्थानम्।। 31।।
विकारस्त्वप्रकरणे हि काम्यानि।। 32।।
शङ्कते च निवृत्तेरुभयत्वं हि श्रूयते।। 33।।
पञ्चमाधिकरणमारचयति-

1विषयः

एकादिना समुच्चेयं पुनर्निष्कृत इत्यदः
बाधकं वा समुच्चेयमुभयीरित्युदीरणात्

2संशयः

सेयं पुनर्निष्कृतादिदक्षिणा किमतिदिष्ट्यैकादिसंख्यया समुच्चीयते, उत तां बाधते, इति संशयः।

3पूर्वपक्षः

आधानदक्षिणोपेतमुभयीरित्यनूद्यते
ददातीत्यविधायित्वात्कार्यैक्याद्बाधकं भवेत्
'उभयीर्ददात्याधेयिकीः पौनराधेयिकीश्च' इत्युक्तत्वासमुच्चयः। इति पूर्वः पक्षः।

4सिद्धान्तः

'ददाति' इति वर्तमाननिर्देशस्य विधित्वाभावादाधानकाले पूर्वं दत्तं पुनराधानकाले तदेव दीयमानं च मिलित्वा 'उभयीः' इत्यनूद्यते
दक्षिणास्वरूपस्य कार्यस्यैकत्वादुपदिष्टमतिदिष्टस्य बाधकम्।
8

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुथ- अग्निचयने प्राकृतवैकृतोभयदीक्षाहुतीनामनुष्ठानाधिकरणे सूत्राणि 23-29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अग्नौ होमाङ्गताक्लृप्तेरतिदिष्टेन तुल्यता विनावृत्तिं द्वादशत्वसिद्धये स्यात्समुच्चयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.6 षष्ठे- आग्रयणे वासोवत्साभ्यामन्वाहार्यस्य निवृत्त्यधिकरणे सूत्रम्
वासो वत्सं च सामान्यात्।। 34।।
षष्ठाधिकरणमारचयति-

1विषयः

वासो वत्सं समुच्चेयमन्वाहार्येण वा न वा

3पूर्वपक्षः

अविरोधात्समुच्चेयं न कार्यैक्याद्विरोधतः
आग्रयणे श्रूयते ''वासो दक्षिणा, वत्सः प्रथमजो दक्षिणा'' इति। तदेतत्प्राकृतेनान्वाहार्येण सह विरोधाभावात्समुच्चीयते। इति मन्दः पूर्वपक्षः।

4सिद्धान्तः

एककार्यत्वेन विरोधित्वान्न समुच्चयः, किंतु बाधः
इति राद्धान्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- पुनराधानेऽग्न्याधानदक्षिणानां निवृत्त्यधिकरणे सूत्राणि 30-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “'ददाति' इति वर्तमाननिर्देशस्य विधित्वाभावादाधानकाले पूर्वं दत्तं पुनराधानकाले तदेव दीयमानं च मिलित्वा 'उभयीः' इत्यनूद्यते दक्षिणास्वरूपस्य कार्यस्यैकत्वादुपदिष्टमतिदिष्टस्य बाधकम्। 8”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.7 सप्तमे- आग्रयणे वासोवत्सयोरन्वाहार्यधर्मानुष्ठानाधिकरणे सूत्रम्
अर्थापत्तेस्तद्धर्मा स्यान्निमित्ताख्याभिसंयोगात्।। 35।।
सप्तमाधिकरणमारचयति-

1विषयः

अन्वाहार्यस्य धर्मोऽत्र न कार्यः क्रियतेऽथ वा

3पूर्वपक्षः

न तद्धर्मत्वतो मैवं साधनत्वप्रयुक्तितः
सन्त्यन्वाहार्यधर्माः। तान्कल्पसूत्रकार उदाजहार- 'दक्षिणसद्भ्य उपहर्तवा इति संप्रेष्यति। ये ब्राह्मणा उत्तरतः, तान्यजमान आह 'दक्षिणस एत' इति। तेभ्योऽन्वाहार्यं ददाति। ''ब्राह्मणा अयं व ओदनः, प्रतिगृह्णीत। उत्तरतः परीत' इति संप्रेष्यति' इति। सोऽयं धर्मोऽत्र वासोवत्से न कार्यः, तस्यान्वाहार्यनिमित्तत्त्वात्- इति चेत्-

4सिद्धान्तः

मैवम्
अन्वाहार्यस्य दक्षिणारूपत्वेनानतिसाधनत्वप्रयुक्तास्ते धर्माः क्रियन्ते
तत्साधनत्वं वाससि वत्सेऽपि समानम्
तस्मात्- अत्रापि सन्ति ते धर्माः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- आग्रयणे वासोवत्साभ्यामन्वाहार्यस्य निवृत्त्यधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एककार्यत्वेन विरोधित्वान्न समुच्चयः, किंतु बाधः इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.8 अष्टमे- आग्रयणे वत्से पाकाभावाधिकरणे सूत्रम्
दाने पाकोऽर्थलक्षणः।। 36।।
अष्टमाधिकरणमारचयति-

1विषयः

पाकोऽस्ति नो वा वत्से स्यादन्वाहार्यस्य दर्शनात्

3पूर्वपक्षः

न वत्सनाशादश्रौती दक्षिणा मांसदानतः
अन्वाहार्ये पाकोऽस्ति। पूर्वन्यायेन तद्धर्मातिदेशाद्वत्सेऽपि पाकः स्यात्। इति चेत्-

4सिद्धान्तः

वत्सनाशप्रसङ्गात्
'अस्तु' इति चेन्न
तथासति मांसदानेन श्रुतहानाश्रुतकल्पने प्रसज्येयाताम्
तस्मात्- नास्ति वत्से पाकः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- आग्रयणे वासोवत्सयोरन्वाहार्यधर्मानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अन्वाहार्यस्य दक्षिणारूपत्वेनानतिसाधनत्वप्रयुक्तास्ते धर्माः क्रियन्ते तत्साधनत्वं वाससि वत्सेऽपि समानम् तस्मात्- अत्रापि सन्ति ते धर्माः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.9 नवमे- आग्रयणे वाससि पाकाभावाधिकरणे सूत्रम्
पाकस्य चान्नकारितत्वात्।। 37।।
नवमाधिकरणमारचयति-

1विषयः

वासस्यस्ति न वा पाको विनाशाभावतोऽस्त्यसौ

3पूर्वपक्षः

वैयर्थ्यादप्यशक्यत्वात्पाको वाससि नोचितः
वासस उष्णोदकभाण्डप्रक्षेपेण वत्सस्येव विनाशो नास्ति। तस्मात्- अन्वाहार्यवत्पाकोऽस्ति। इति चेत्-

4सिद्धान्तः

ओदनत्वार्थो हि पाकः
न हि वाससः सहस्रधा पच्यमानस्याप्योदनता संभवति
न च पाकः कर्तुं शक्यते
नह्युष्णोदकसंयोगः पाकशब्दार्थः, किं तर्हि तण्डुलानां विक्लित्तिं जनयितुं कृतः पुरुषप्रयत्नः
न च वाससि विक्लित्तिः
तस्मात्- अतिदिष्टः पाको बाध्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- आग्रयणे वत्से पाकाभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न वत्सनाशप्रसङ्गात् 'अस्तु' इति चेन्न तथासति मांसदानेन श्रुतहानाश्रुतकल्पने प्रसज्येयाताम् तस्मात्- नास्ति वत्से पाकः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.10 दशमे- आग्रयणे वासोवत्सयोरभिघारणाभावाधिकरणे सूत्रम्
तथाऽभिघारणस्य।। 38।।
दशमाधिकरणमारचयति-

1विषयः

अभिघारोऽस्ति नो वाऽत्र शक्यत्वाद्वत्सवाससोः

3पूर्वपक्षः

अस्त्यन्वाहार्यवन्मैवं स्वादुताया असंभवात्

4सिद्धान्तः

स्पष्टोऽर्थः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- आग्रयणे वाससि पाकाभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न ओदनत्वार्थो हि पाकः न हि वाससः सहस्रधा पच्यमानस्याप्योदनता संभवति न च पाकः कर्तुं शक्यते नह्युष्णोदकसंयोगः पाकशब्दार्थः, किं तर्हि तण्डुलानां विक्लित्तिं जनयितुं कृतः पुरुषप्रयत्नः न च वाससि विक्लित्तिः तस्मात्- अतिदिष्टः पाको बाध्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.11 एकादशे ज्योतिष्टोमे गवामेव द्वादशशतस्य दक्षिणात्वाधिकरणे सूत्राणि 39-49
द्रव्यविधिसंनिधौ संख्या तेषां गुणत्वात्स्यात्।। 39।।
समत्वात्तु गुणानामेकस्य श्रुतिसंयोगात्।। 40।।
यस्य वा संनिधाने स्याद्वाक्यतो ह्यभिसंबन्धः।। 41।।
असंयुक्ता तु तुल्यवदितराभिर्विधीयन्ते तस्मात्सर्वाधिकारः स्यात्।। 42।।
असंयोगाद्विधिश्रुतावेकजाताधिकारः स्याच्छ्रुत्याकोपात्क्रतोः।। 43।।
शब्दार्थश्चापि लोकवत्।। 44।।
सा पशूनामुत्पत्तितो विभागात्।। 45।।
अनियमोऽविशेषात्।। 46।।
भागित्वाद्वा गवां स्यात्।। 47।।
प्रत्ययात्।। 48।।
लिङ्गदर्शनाच्च।। 49।।
एकादशाधिकरणमारचयति-

2संशयः

तत्र संशयः सेयं संख्या किं गवादिसर्वद्रव्यविषया किंवा कतिपयविषया।

3पूर्वपक्षः

सर्वत्वपक्षेऽपि प्रतिद्रव्यमियं संख्या, उत मिलितानाम्।
तत्र गवादिद्रव्याणि प्रधानानि, संख्या, तद्गतो गुणः। प्रतिप्रधानं च गुणावृत्तिर्न्याय्या। तस्मात्- 'गवादिद्रव्येषु प्रत्येकमियं संख्या' इति प्रथमपक्षगते प्रथमे संख्याविकल्पे प्राप्ते-

4सिद्धान्तः

ब्रूमः- नैतद्युक्तम्। वाक्यभेदप्रसङ्गात्। अतो 'मिलितानामियं संख्या' इति द्वितीयसंख्याविकल्पोऽभ्युपेयः। तथा च सति समुच्चयवाचिनश्चशब्दा अनुगृह्यन्ते।
एतदप्ययुक्तम्। अनौचित्यात्। न हि व्रीहियवादिधान्येषु द्वादशाधिकशतान्तर्गता द्वित्रादिसंख्योचिता। परिक्रीतस्यार्त्विजो द्वित्रैर्त्बीजैः प्रयोजनाभावात्प्रस्थाधिकखार्यादिसंख्या तत्रोचिता। न चेयमत्र श्रुता। तस्मात्- 'मिलितानां सर्वेषां समुच्चयः' इत्ययं पक्षो न युक्तः।
'कतिपयविषया संख्या' इत्यस्मिन्नपि पक्षे किमाद्याः षड्विधाः पशवः, किंवा गवादिद्रव्येष्वेकं द्रव्यम्। तत्र पशुषु श्रूयमाणायाः संख्याया उचितत्वात् 'पशवः' इति प्राप्ते-
ब्रूमः- नैतद्युक्तम्। 'तस्य द्वादशशतं दक्षिणा' इत्यत्र 'तस्य' इत्येकवचनान्तेन षष्णां गवादिपशूनामन्वेतुमयोग्यत्वात्। एकत्वपक्षे किं यत्किंचिदेकम्, किं वा माषद्रव्यम्, उत गोद्रव्यम्। तत्र-नियामकाभावात् 'यत्किंचित्' इति प्राप्तम्। तन्न। संनिधेर्नियामकत्वात्। 'माषाश्च तस्य द्वादशशतं दक्षिणा' इति माषाः संनिहिताः। तर्हि 'अस्तु माषद्रव्यम्' इति चेत्-
न। प्रस्थादिपरिमाणसंख्यौचित्येन निराकृतत्वात्। तस्मात् 'गोद्रव्यम्' इति पक्षः परिशिष्यते। प्रथमश्रुतत्वोपकारौ तत्र नियामकौ। अस्ति हि महानुपकारः, ऋत्विजः प्रतिग्रहीतुर्गव्येनाज्यक्षीरा-दिनाऽग्निहोत्रदर्शपूर्णमासादिसिद्धेः।
ननु 'तस्य प्रकृतस्य ऋतोर्द्वादशशतं दक्षिणा' इत्यन्वयाद्गोद्रव्यं न प्रतीयते- इति चेन्न। 'यद्वोद्रव्यं तस्य द्वादशशतम्' इति वाक्येन तत्प्रतीतेः। वाक्यं हि प्रकरणाद्बलीयः। तस्मात्- 'गवां द्वादशशतम्' इति राद्धान्तः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- आग्रयणे वासोवत्सयोरभिघारणाभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्पष्टोऽर्थः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.12 द्वादशे- विभज्य गोदक्षिणाया दानाधिकरणे सूत्राणि 50-52
तस्य दानं विभागेन प्रदानानां पृथक्त्वात्।। 50।।
परिक्रयाच्च लोकवत्।। 51।।
विभागं चापि दर्शयति।। 52।।
द्वादशाधिकरणमारचयति-

1विषयः

गोदाने विहिते स्वेच्छा नियतिर्वाऽन्तिमेऽपि किम्

2संशयः

पूर्वोक्त एव गवां दाने संशयः- ऋत्विग्भ्यो देयानामुक्तसंख्यानां गवां विभागाविभागयोर्यजमानेच्छैव प्रयोजिका, उतास्त्यन्यतरनियतिः।

3पूर्वपक्षः

अविभागो विभागो वा नियमानुक्तितोऽग्रिमः
यदाऽपि नियतिः, तदाऽपि अविभागः, विभागो वा विभागनियामकस्यानुक्तत्वात् 'इच्छा' इति तावत्प्राप्त

4सिद्धान्तः

अविभागो बहुत्वोक्तेर्बहुत्वं न विवक्षितम्
विभागे स्वामिभिः स्वत्वसिद्धेर्लिङ्गं च दृश्यते
म्।
'ऋत्विग्भ्यो दक्षिणां ददाति' इति बहुवचनश्रवणेन समूहस्य प्रतिग्रहीतृत्वात् 'अविभागः' इति पक्षान्तरम्। ग्रहैकत्ववदुद्देश्यगतत्वाद्बहुत्वं न विवक्षितमित्येकैकः प्रतिग्रहीता। तथा सति विभागावश्यंभावात्। समूहाय दत्ते सत्येकैकस्य स्वामित्वाभावे परस्वत्वापादनलक्षणो दानशब्दार्थो न सिध्येत्। किंच ''तुथो वा विश्ववेदा विभजतु'' इति मन्त्रे विभागलिङ्गं दृश्यते। तस्मात्- विभागानियमो राद्धान्तः।। 22।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे ज्योतिष्टोमे गवामेव द्वादशशतस्य दक्षिणात्वाधिकरणे सूत्राणि 39-49”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.13 त्रयोदशे- ज्योतिष्टोमे समाख्यानुसारेण दक्षिणाविभागाधिकरणे सूत्राणि 53-55
समं स्यादश्रुतत्वात्।। 53।।
अपि वा कर्म वैषम्यात्।। 54।।
अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते दर्शनाद्विशेषस्य तथाऽभ्युदये।। 55।।
त्रयोदशाधिकरणमारचयति-

1विषयः

स विभागः समो नो वा विशेषाश्रवणात्समः

3पूर्वपक्षः

वैषम्यं स्याद्यथायासमेवं तत्स्यात्समाख्यया
पूर्वोक्तः स विभागः समः स्यात्। कुतः- वैषम्यहेतोर्विशेषस्याश्रवणात्। साम्यहेतुस्तु लौकिको न्यायः। लोके हि पुत्राणां पितृधने समविभागो दृष्टः। तस्मात् 'समः' इत्येकः पक्षः।
कर्मकरेषु प्रयासानुरूपेण भृतितारतम्यं दृष्टम्। तद्वदत्रापि। इति द्वितीयः पक्षः।

4सिद्धान्तः

द्वादशाहे दीक्षायामेवं समाम्नायते ''अर्धिनो दीक्षयति, पादिनो दीक्षयति'' इति
अर्धं येषामृत्विजां तेऽर्धिनः
एवं पादिनो योजनीयाः
तद्विशेषो याज्ञिकमुखादवगन्तव्यः
ततः श्रौतसमाख्यानुरूपेण केषांचिदर्धम्, केषांचित्पादः, इत्यादिविषमो विभागः
इति राद्धान्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- विभज्य गोदक्षिणाया दानाधिकरणे सूत्राणि 50-52”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अविभागो बहुत्वोक्तेर्बहुत्वं न विवक्षितम् विभागे स्वामिभिः स्वत्वसिद्धेर्लिङ्गं च दृश्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.14 चतुर्दशे भूनाम्नि धेनुदानेन निखिलदक्षिणाबाधाधिकरणे सूत्राणि 56-58
तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात्सामान्यात्तद्विकारः स्याद्यथेष्टिर्गुणशब्देन।। 56।।
सर्वस्य वा क्रतुसंयोगादेकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वादर्थे विकृतौ श्रुतिभूतं स्यात्तस्मात्समवायाद्धि कर्मभिः।। 57।।
चोदनानामनाश्रयाल्लिङ्गेन नियमः स्यात्।। 58।।
चतुर्दशाधिकरणमारचयति-

1विषयः

भूनाम्नि धेनुर्बाधेत गाः किंवा कृत्स्नदक्षिणाम्
धेन्वा विशेषितत्वाद्गा दक्षिणैकत्वतोऽखिलाम्

3पूर्वपक्षः

अतीताभ्यामधिकरणाभ्यां बाधोपोद्घातत्वेन प्रकृतौ दक्षिणा निरूपिता। अत्र विकृतौ बाधो निरूप्यते। 'अथैष भूः' इति भूनामकमेकाहविशेषमुपक्रम्य 'धेनुर्दक्षिणा' इति श्रूयते। सेयं धेनुर्गोमात्रं बाधते। कुतः- 'या गौः सा धेनुः' इति विशेषयितुं योग्यत्वात्। न हि 'योऽश्वः, सा धेनुः' इति विशेषणं युज्यते। तस्मात्- गोविशेषरूपया धेन्वा प्राकृतस्य गोसामान्यस्यैव बाधो नेतरस्य इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- इयं धेनुरखिलां दक्षिणां बाधते। कुतः- गवादीनां माषान्तानां सर्वेषामेव दक्षिणारूपत्वात् 'दक्षिणा' इत्येकवचनमिह प्रयुज्यते। 'गौश्च' इत्यादयः समुच्चचवाचिनश्च शब्दा एकत्व एवोपपद्यन्ते। आनतिश्चैवं सत्यत्यन्तसुलभा। यदि दक्षिणा भिद्येरन्, तदानीमेकयैवानतिसिद्धेरितरासां वैयर्थ्यं दुर्वारम्। तस्मात्- निखिलदक्षिणाबाधः।। 24।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- ज्योतिष्टोमे समाख्यानुसारेण दक्षिणाविभागाधिकरणे सूत्राणि 53-55”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “द्वादशाहे दीक्षायामेवं समाम्नायते ''अर्धिनो दीक्षयति, पादिनो दीक्षयति'' इति अर्धं येषामृत्विजां तेऽर्धिनः एवं पादिनो योजनीयाः तद्विशेषो याज्ञिकमुखादवगन्तव्यः ततः श्रौतसमाख्यानुरूपेण केषांचिदर्धम्, केषांचित्पादः, इत्यादिविषमो विभागः इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.15 पञ्चदशे 'एकां गाम्' इत्यनेन गोगतसंख्याबाधाधिकरणे सूत्रम्
एकां पञ्चेति धेनुवत्।। 59।।
पञ्चदशाधिकरणमारचयति-

1विषयः

एकां पञ्चेति कृत्स्नां वा गोसंख्यां वा निवर्तयेत्

3पूर्वपक्षः

स्यादाद्यो दक्षिणायोगान्मैवं व्यवहितत्वतः
इदं श्रूयते ''यस्य सोममपहरेयुरेकां गां दक्षिणां दद्यात्। अभिदग्धे पञ्चगाः'' इति। तदिदं संख्याविशिष्टं द्रव्यं विधीयमानं गवाश्वादिदाक्षिणां कृत्स्नां निवर्तयेत्। तस्य दक्षिणाशब्दयोगेन कार्यैकत्वात्।

4सिद्धान्तः

मैवम्
विशिष्टविधौ गौरवात्, गवां प्राप्तवाच्च, संख्यामात्रं विधेयम्
तस्य च गोपदेन व्यवधानान्न दक्षिणायोगोऽस्ति
योगे तु गोगतां स्वविरोधिनीं पूर्वप्राप्तां संख्यामेव निवर्तयेत्, न त्वन्यत्किंचित्
इति राद्धान्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे भूनाम्नि धेनुदानेन निखिलदक्षिणाबाधाधिकरणे सूत्राणि 56-58”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.16 षोडशे- साद्यस्क्रे त्रिवत्सेन सोमक्रयसाधनमात्रबाधाधिकरणे सूत्राणि 60-62
त्रिवत्सश्च।। 60।।
तथा च लिङ्गदर्शनम्।। 61।।
एके तु श्रुतिभूतत्वासंख्यया गवां लिङ्गविशेषेण।। 62।।
षोडशाधिकरणमारचयति-

1विषयः

त्रिवत्सेनर्षभो बाध्यः कृत्स्नं वा क्रयसाधनम्

3पूर्वपक्षः

ऋषभः पुंगवत्वान्न क्रयोद्देशबिधानतः
साद्यस्क्रे वर्षत्रयोपेतो गौः श्रूयते ''त्रिवत्सः साण्डः सोमक्रयणः'' इति। प्रकृतौ- ''अजया क्रीणाति, हिरण्येन क्रीणाति, वृषभेण क्रीणाति'' इत्यादिना क्रयसाधनान्याम्नातानि। तत्र पुंगवत्वसाम्येन बाध्यं वृषभमात्रम्। इति पूर्वः पक्षः।

4सिद्धान्तः

नैतद्युक्तम्
कुतः- क्रयमुदिश्य त्रिवत्सविधानात्
साण्डत्वोद्देशेन तद्विधावग्नीषोमीयादावपि त्रिवत्सः प्रसज्येत
तस्मात्- क्रयसाधनं कृत्स्नं बाध्यम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे 'एकां गाम्' इत्यनेन गोगतसंख्याबाधाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् विशिष्टविधौ गौरवात्, गवां प्राप्तवाच्च, संख्यामात्रं विधेयम् तस्य च गोपदेन व्यवधानान्न दक्षिणायोगोऽस्ति योगे तु गोगतां स्वविरोधिनीं पूर्वप्राप्तां संख्यामेव निवर्तयेत्, न त्वन्यत्किंचित् इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.17 सप्तदशे- अश्वमेधे प्राकाशेनाध्वर्युभागबाधाधिकरणे सूत्रे 63-64
प्राकाशौ तथेति चेत्।। 63।।
अपि त्ववयवार्थत्वाद्विभक्तप्रकृतित्वाद्गुणेदंताविकारः स्यात्।। 64।।
सप्तदशाधिकरणमारचयति-

1विषयः

किं प्राकाशौ बाधकौ स्तः कृत्स्नस्याध्वर्यवस्य वा

3पूर्वपक्षः

ददातियोगात्कृत्स्नस्य न विशिष्टेन योगतः
अश्वमेधे श्रूयते ''हिरण्मयौ प्राकाशावर्ध्वयवे ददाति'' इति। प्राकाशौ दीपस्तम्भावित्येके। दर्पणावित्यपरे। तै किं प्राकृतस्य दक्षिणाद्रव्यस्य कृत्स्नस्य बाधकौ, उत- अध्वर्युभागस्यैव।
तत्र 'प्राकाशौ ददाति' इति कर्मकारकवाचिद्वितीयाश्रुतिकृतेन दानसंबन्धेन 'प्राकाशावध्वर्यवे' इति वाक्यकृते पुरुषसंबन्धेऽपोदिते सति देयद्रव्यप्रतीतेर्देयान्तरस्य कृत्स्नस्य बाधः। इति पूर्वः पक्षः।

4सिद्धान्तः

'अध्वर्यवे ददाति' इति संप्रदानवाचिचतुर्थीश्रुतिकृतस्य दानक्रियासंबन्धस्यापवदितुमशक्यत्वात्संप्रदान-विशिष्टदानक्रियया संबन्धेऽपि द्वितीयाश्रुतेरविरोधादध्वर्युभागस्यैव बाधः
इति राद्धान्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- साद्यस्क्रे त्रिवत्सेन सोमक्रयसाधनमात्रबाधाधिकरणे सूत्राणि 60-62”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतद्युक्तम् कुतः- क्रयमुदिश्य त्रिवत्सविधानात् साण्डत्वोद्देशेन तद्विधावग्नीषोमीयादावपि त्रिवत्सः प्रसज्येत तस्मात्- क्रयसाधनं कृत्स्नं बाध्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.18 अष्टादशे- उपहव्ये श्यावाश्वेनाखिलदक्षिणाबाधाधिकरणे सूत्राणि 65-67
धेनुवच्चाश्वदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य।। 65।।
एके तु कर्तृसंयोगात्स्रग्वत्तस्य लिङ्गविशेषेण।। 66।।
अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात्।। 67।।
अष्टादशाधिकरणमारचयति-

1विषयः

श्यावाश्वो ब्रह्मभागस्य बाधको निखिलस्य वा

3पूर्वपक्षः

आद्यः प्राकाशवन्मैवं धेनुवत्सोऽपि नान्यगः
अस्त्युपहव्यनामक एकाहविशेषः। तत्र श्रूयते ''अश्वः श्यावो रुक्मललाटो दक्षिणा'' ''स ब्रह्मणे देयः'' इति। प्राकाशन्यायेनायं ब्रह्मभागस्यैव बाधकः। इति पूर्वः पक्षः।

4सिद्धान्तः

दक्षिणाशब्दसंयोगाद्धेनुन्यायेन कृत्स्नस्य बाधकः
उपरितनेन तु 'ब्रह्मणे देयः' इति वाक्यान्तरेण तस्याश्वस्य ब्रह्मव्यतिरिक्तपुरुषान्तरसंबन्धो बाध्यते
सथा सति पुरुषान्तरस्यातिदिष्टोपदिष्टदक्षिणाद्वयबाधाल्लौकिकदानादिना केनचिदुपायेनानतिः सिध्यति

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- अश्वमेधे प्राकाशेनाध्वर्युभागबाधाधिकरणे सूत्रे 63-64”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “'अध्वर्यवे ददाति' इति संप्रदानवाचिचतुर्थीश्रुतिकृतस्य दानक्रियासंबन्धस्यापवदितुमशक्यत्वात्संप्रदान-विशिष्टदानक्रियया संबन्धेऽपि द्वितीयाश्रुतेरविरोधादध्वर्युभागस्यैव बाधः इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.3.19 एकोनविंशे- सोमचमसेन कृत्स्नदक्षिणापुरुषान्तरयोर्बाधाधिकरणे सूत्राणि 67-73
तथा च सोमचमसः।। 68।।
सर्वविकारो वा क्रत्वर्थे प्रतिषेधात्पशूनाम्।। 69।।
ब्रह्मदानेऽविशिष्टमिति चेत्।। 70।।
उत्सर्गस्य क्रत्वर्थत्वात्प्रतिषिद्धस्य कर्म स्यान्न च गौणः प्रयोजनमर्थः स दक्षिणानां स्यात्।। 71।।
यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात्।। 72।।
सर्वं वा पुरुषापनयात्तासां क्रतुप्रधानत्वात्।। 73।।
एकोनविंशाधिकरणमारचयति-

1विषयः

किं सोमचमसो ब्रह्मभागहार्युत कृत्स्नहृत्
पशूनां निन्दया सर्वप्रसक्तेर्ब्रह्मभागहृत्

3पूर्वपक्षः

निन्देयं न निषेधाय चमसस्तुतये त्वसौ
श्यावाश्ववत्सर्वदेयपुरुषान्तरबाधकः
ऋतपेये श्रूयते ''औदुम्बरः सोमचमसो दक्षिणा'' ''स प्रियाय सगोत्राय ब्रह्मणे देयः'' इति। सोऽयं सोमचमसो ब्रह्मभागमेव बाधते। कुतः- ''यत्पशून्दद्यात्, सोऽनृतं कुर्यात्'' इति पशुदाननिन्दया सर्वदानप्रसक्तेः। तस्मान्न सर्वबाधकः। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- नात्र निषेधाय पशुनिन्दोच्यते
किंतु विधित्सितसोमचमसस्तुत्यर्थोऽयमर्थवादः
तेन निन्दायाः सर्वप्रसञ्जकत्वं नास्ति
तस्मात्- सर्वप्रसक्तिरूपाया अभ्यधिकाशङ्काया निराकृतत्वात्पूर्वाधिकरणन्यायेनात्र निर्णयो द्रष्टव्यः।
29
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- उपहव्ये श्यावाश्वेनाखिलदक्षिणाबाधाधिकरणे सूत्राणि 65-67”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “दक्षिणाशब्दसंयोगाद्धेनुन्यायेन कृत्स्नस्य बाधकः उपरितनेन तु 'ब्रह्मणे देयः' इति वाक्यान्तरेण तस्याश्वस्य ब्रह्मव्यतिरिक्तपुरुषान्तरसंबन्धो बाध्यते सथा सति पुरुषान्तरस्यातिदिष्टोपदिष्टदक्षिणाद्वयबाधाल्लौकिकदानादिना केनचिदुपायेनानतिः सिध्यति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
तस्मिन्नेवाधिकरणे कृत्वाचिन्तारूपं विचारं बुद्धिव्युत्पादनाय रचयति-

1विषयः

पूर्वोक्तं निर्णयं पूर्वपक्षयित्वैकवाक्यताम्
भ्रान्त्या कृत्वा दक्षिणांशं ब्रह्मभागं निवर्तयेत्

3पूर्वपक्षः

दक्षिणोक्तिः क्रतौ दृष्टा सर्वत्रासौ न पुंसि सा
वाक्यभेदश्च दुर्वारो युक्तोऽतः पूर्वनिर्णयः
श्यावाश्वाधिकरणे ''रुक्मललाटो दक्षिणा'' इत्यस्य ''स ब्रह्मणे देयः'' इत्यस्य चान्तराले ''स ह्यनिरुक्तः'' इति वाक्यान्तरं पठितम्। तेन व्यवधानाद्विस्पष्टो वाक्यभेदः। इह त्वव्यवधानादेकं वाक्यमिति भ्रान्तिः। एकवाक्यतायां तु चमसशब्दस्य दक्षिणाशब्देन ब्रह्मशब्देन च संबन्धे सति कृत्स्नदक्षिणायाः पुरुषान्तरस्य च निवृत्तिः। तथा सति पूर्वोक्तसिद्धान्त एवात्र पूर्वपक्षी भवति।
दक्षिणामुद्दिश्य चमस एको विधेयः। तस्य ब्रह्मसंबन्धोऽपरो विधेयः। ततोऽर्थभेदाद्वाक्यभेदो दुर्वारः। तस्मात्- दक्षिणाशब्देन तदंशं लक्षयित्वा ब्रह्मसंबद्धदक्षिणांशमनूद्य चमसमात्रविधानात्तद्भागस्यैव निवृत्तिः।
कृत्वाचिन्तामुद्घाटयति-

4सिद्धान्तः

प्रायेण वैदिकव्यवहारेषु दक्षिणाशब्दः क्रतुविषय एव दृष्टः, न तु पुरुषविषयः
अतः क्रतुदक्षिणारूपश्चमसः सर्वां क्रतुदक्षिणां निवर्तयेत्
वाक्यभेदस्तु विस्पष्टं भासमानः काशकुशमवलम्ब्य न्यायविदा न निवारयितुं युक्तः
तस्मात्- कृत्स्नदक्षिणापुरुषान्तरयोर्बाधः
इत्ययमेव राद्धान्तो युक्तः।
31
10.3.20 विंशे- वाजपेये रथस्य भागनियामकताधिकरणे सूत्रे 74-75
यजुर्युक्ते त्वध्वर्योर्दक्षिणा विकारः स्यात्।। 74।।
अपि वा श्रुतिभूतत्वात्सर्वासां तस्य भागो नियम्यते।। 75।।
विंशाधिकरणमारचयति-

1विषयः

यजुर्युक्तोऽध्वर्युभागं बाधते यमयत्युत

3पूर्वपक्षः

बाधः प्राकाशवन्मैवं पक्षे प्राप्तेर्नियम्यते
वाजपेये श्रूयते ''यजुर्युक्तं रथमध्वर्यवे ददाति'' इति। अस्यायमर्थः 'रथशकटदासीनिष्कादीनि सप्तदश द्रव्याणि प्राकृतगवाश्वादिदक्षिणाद्रव्यबाधकान्यत्र विहितानि। तेषु च प्रतिद्रव्यं सप्तदशसंख्या विहिता। ततो रथाः सप्तदश। तेषु मुख्यं रथं यजमानारोहणाय ''इन्द्रस्य वज्रोऽसि'' इत्यादियजुर्वेदोक्तैर्मन्त्रैः सज्जी करोति। सोऽयं यजुर्युक्तो रथः। त च दक्षिणाकालेऽध्वर्यवे दद्यात्' इति। 'प्राकाशावध्वर्यवे ददाति' इत्यत्र यथा चोदकप्राप्तस्याध्वर्युभागस्य बाधः, एवमत्रापि।
ननु सप्तदशद्रव्यविधानेनैव प्राकृतद्रव्यबाधसिद्धिः। बाढम्। तथाऽपि 'अर्धिनः, पादिनः' इत्यादिसमाख्याप्रापिता विषमविभागविशेषक्लृप्तिः, सा यजुर्युक्तरथरूपभागविशेषविधिना बाध्यते। तस्मात्- अध्वर्योर्न रथान्तरभागोऽस्ति, नापि शकटदास्यादिभागः। इति पूर्वः पक्षः।
नैतद्युक्तम्। प्राकाशदृष्टान्तवैषम्यात्। अत्यन्तमप्राप्तौ हि प्राकाशौ तत्र विधेयौ। यजुर्युक्तरथस्तु पक्षे प्राप्तः। तथा हि 'सप्तदश रथान्ददाति' इत्युक्ते 'कस्य को रथः' इति चिन्तायां यजमानेच्छाया नियामकत्वात्। 'यदाऽध्यर्यवे तं दातुमिच्छति, तदा प्राप्नोति, यदा नेच्छति, तदा न प्राप्नोति' इति पक्षे प्राप्तः। ततो यो यजुर्युक्तो रथः, सोऽध्वर्यवेऽवश्यं देय इति नियम्यते। अतो न कस्याप्यनेन बाधः।। 33।।
अत्र पादे- अधिकरणानि 20, सूत्राणि 75।
आदितः- अधिकरणानि 661, सूत्राणि 1860।
दशमाध्यायस्य चतुर्थः पादः
नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः।

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य तृतीयः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- सोमचमसेन कृत्स्नदक्षिणापुरुषान्तरयोर्बाधाधिकरणे सूत्राणि 67-73”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- नात्र निषेधाय पशुनिन्दोच्यते किंतु विधित्सितसोमचमसस्तुत्यर्थोऽयमर्थवादः तेन निन्दायाः सर्वप्रसञ्जकत्वं नास्ति तस्मात्- सर्वप्रसक्तिरूपाया अभ्यधिकाशङ्काया निराकृतत्वात्पूर्वाधिकरणन्यायेनात्र निर्णयो द्रष्टव्यः। 29”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 10, Pāda 2 Contents Adhyāya 10, Pāda 4 →