SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 10, Pāda 4

बाधः

नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः

27adhikaraṇas
60sūtras
10.4.1 प्रथमे- नारिष्ठहोमादिभिर्नक्षत्रेष्ट्यादीनां समुच्चयाधिकरणे सूत्रे 1-2
प्रकृतिलिङ्गासंयोगात्कर्मसंस्कारं विकृतावधिकं स्यात्।। 1।।
चोदनालिङ्गसंयोगे तद्विकारःप्रतीयेत प्रकृतिसंनिधानात्।। 2।।
चतुर्थपादे प्रथमाधिकरणमारचयति-

1विषयः

नक्षत्रेष्ट्युपहोमादिर्नारिष्ठादेर्निवर्तकः
समुच्चितो वा कार्यैक्यादाद्योऽन्त्योऽपूर्वभेदतः
अयमेको विषयः।

3पूर्वपक्षः

तथा श्येने श्रूयते ''लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति'' इति। प्रकृतावुपवीतं विहितम् 'उपव्ययते' इति। अयं द्वितीयो विषयः।
तथा पृष्ठ्ये षडहे श्रूयते ''मध्वाशयेद्घृतं वा'' इति। प्रकृतौ श्रुतम् ''पयो व्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्य'' इति। अयं तृतीयो विषयः। तत्र- उपहोमनिवीतमध्वशनानि क्रमेण नारिष्ठहोमोपवीतपयोव्रतानां निवर्तकानि। कुतः- कार्यैक्यात्। उपहोमनारिष्ठहोमयोस्तावज्जुहोतिशब्दैक्य-तदर्थैक्याभ्यां कार्यैक्यं प्रतीयते। अशनव्रतयोः शब्दभेदेऽप्यर्थभेदो नास्ति। निवीतोपवीतयोः शब्दार्थभेदेऽपि वीतशब्दस्मारितं कार्यमेकं स्यात्। तस्मात्- बाधः। इति पूर्वः पक्षः।
भवतु नाम दृष्टार्थैक्यं दृष्ट्वा बाधः। उदाहृतानि त्वपूर्वार्थानि। अपूर्वं च विध्येकगम्यतया विधिभेदेन भिद्यते। तस्मात्कार्यभेदात्समुच्चयोऽभ्युपेयः। न च निवीतोपवीतयोर्विरोधः शङ्कनीयः। वासोभ्यां तदुभयोपपत्तेः। नापि पयोव्रतस्य दृष्टार्थत्वम्, अल्पेन पयसा तृप्तिपुष्ट्यसंभवात्। उदाहरणद्वये कृत्वाचिन्ता वाऽस्तु।। 1।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- वाजपेये रथस्य भागनियामकताधिकरणे सूत्रे 74-75”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य तृतीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.2 द्वितीये- वर्णकद्वयसहिते सूत्रम्
चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसंनिधानात्।। 2।।
द्वितीयाधिकरण(स्य शरमयबर्हिषा कौशबर्हिर्बाधसाधकं प्रथम वर्णक)मारचयति-

1विषयः

समुच्चेयं शरमयं कौशेनोतास्य बाधकम्

3पूर्वपक्षः

प्राचुर्यस्य विधेराद्यो मैवं प्रतिपदोक्तितः
''सौमारौद्रं चरुं निर्वपेत्कृष्णानां व्रीहीणामभिचरन्'' इत्यत्र ''शरमयं बर्हिर्भवति'' इति श्रुतम्। तदिदं प्राकृतेन कुशबर्हिषा सह समुच्चीयते। कुतः- मयट्शब्देन शरप्राचुर्यस्य विधानादबाधेनापि तदुपपत्तेः। इति पूर्वः पक्षः।

4सिद्धान्तः

'नित्यं वृद्धशरादिभ्यः' [पा. सू. 4
3
143] इति सूत्रेण शरशब्दाद्विकारार्थे मयट्प्रत्ययः प्रतिपदोक्तः
अतस्तं परित्यज्य प्राचुर्यार्थो न ग्रहीतुं शक्यः
किंच प्राचुयर्थे कार्यान्तरं कल्प्यं स्यात्
तस्मात्कुशबर्हिषो बाधः
इति राद्धान्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- नारिष्ठहोमादिभिर्नक्षत्रेष्ट्यादीनां समुच्चयाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
वाजपेये रथघोषदुन्दुभिघोषाभ्यां दर्भमन्त्रयोरुभयोर्बाधकं द्वितीयवर्णकमारचयति-

3पूर्वपक्षः

वाजपेये श्रूयते ''रथघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोति। दुन्दुभिघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोति'' इति। प्रकृतौ त्वेवं श्रूयते ''उपावर्तध्वमिति बर्हिभ्यां स्तोत्रमुपाकरोति'' इति। उपाकरणं नाम स्तोत्रं प्रति प्रेरणम्। तत्र रथद्रव्यं दुन्दुभिद्रव्यं च द्वयं बर्हिर्द्रव्यस्य बाधकम्। घोषो मन्त्रस्य बाधकः, इति तावत्प्राप्त

4सिद्धान्तः

म्। रथश्च घोषश्चेति द्वंद्वसमासेनोभयोः प्राधान्यात्।
नैतद्युक्तम्। इतरेतरयोगद्वंद्वे 'रथघोषाभ्याम्' इति द्विवचनप्रसङ्गात्। समाहारद्वंद्वे तु घोषशब्दस्य समाहारलक्षकतया मुख्यवृत्तिर्हीयेत। 'रथस्य घोषः' इति तत्पुरुषसमासे मुख्यवृत्तिर्न हीयते। तत्रापि रथप्राधान्यं हीयते- इति चेत्- समाहारेऽपि समानम्। तस्मात्- घोषो द्रव्यमन्त्रयोर्बाधकः।
10.4.3 तृतीये- बार्हस्पत्यग्रहादिभिः प्रकृतैन्द्रवायवादिग्रहाणां समुच्चयाधिकरणे सूत्राणि 3-5
सर्वत्र तु ग्रहाम्नानमधिकं स्यात्प्रकृतिवत्।। 3।।
अधिकैश्चैकवाक्यत्वात्।। 4।।
लिङ्गदर्शनाच्च।। 5।।
तृतीयाधिकरणमारचयति-

1विषयः

बार्हस्पत्यादयः किं स्युः प्राकृतग्रहबाधकाः

3पूर्वपक्षः

समुच्चिता उताद्योऽस्तु कार्यैक्याद्ग्रहलिङ्गतः
बृहस्पतिसवे श्रूयते ''बार्हस्पत्यं ग्रहं गृह्णाति'' इति। विषुवति ''अर्कं गृह्णाति'' इति। महाव्रते ''शुक्रं गृह्णाति'' इति। अश्वमेधे श्रूयते ''सौवर्णराजताभ्यां महिमानौ गृह्णाति'' इति।
तत्र बार्हस्पत्यादयो ग्रहाः प्राकृतानामैन्द्रवायवादिग्रहाणां बाधकाः। कुतः- यागनिष्पादनलक्षणस्य कार्यस्यैकत्वात्। ग्रहशब्दसंयोगः कार्यैक्यगमकः। तस्मात्- बाधः। इति प्राप्ते-

4सिद्धान्तः

समुच्चयः प्रमाणाभ्यां ग्रहाणां प्रकृतौ यथा
विधेयोक्तेर्न लिङ्गं तच्चोक्तं लिङ्गं सुराग्रहे
ब्रूमः- यथा प्रकृतौ प्रथमचोदितस्यैन्द्रवायवग्रहस्य, पश्चाच्चेदितानां मैत्रावरुणादिग्रहाणां च समुच्चयः तथाऽत्रोपदिष्टानामतिदिष्टानां च समुच्चयः स्यात्। अथोच्यते प्राकृतानां परस्परमेककार्यत्वे मानाभावात्, प्रत्युत प्रयोगवचनेन संभूयकारित्वावगमाद्युक्तः समुच्चयः- इति। तर्ह्यत्रापि समानम्। यागनिष्पादकत्वं तु प्रयोगवचनप्रापितत्वात्सहितानामेव, न त्वेकैकस्य, ''अर्केण यजेत'' ''शुक्रेण यजेत'' इत्येवं पृथक्पृथक्त्यागसंबन्धाभावात्। ग्रहशब्दोऽपूर्वविधेयग्रहणक्रियां ब्रूते, न तु प्रकृतौ क्लृप्तकार्यं पदार्थमनुवदति, येन लिङ्गं स्यात्। किंच 'वाजपेये सोमग्रहाः सुराग्रहाश्च' इत्यदिष्टानामुपदिष्टानां च समुच्चयार्थमुच्यमानश्चशब्दः सर्वत्र समुच्चयं गमयति। तस्मान्न बाधः।। 6।। 7।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- वर्णकद्वयसहिते सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “'नित्यं वृद्धशरादिभ्यः' [पा. सू. 4 3 143] इति सूत्रेण शरशब्दाद्विकारार्थे मयट्प्रत्ययः प्रतिपदोक्तः अतस्तं परित्यज्य प्राचुर्यार्थो न ग्रहीतुं शक्यः किंच प्राचुयर्थे कार्यान्तरं कल्प्यं स्यात् तस्मात्कुशबर्हिषो बाधः इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.4 चतुर्थे- वाजपेये प्राजापत्यपशुभिः क्रतुपशूनां समुच्चयाधिकरणे सूत्रम्
प्राजापत्येषु चाम्नानात्।। 6।।
चतुर्थाधिकरणमारचयति-

1विषयः

प्राजापत्यैः पशूनां किं बाधो यद्वा समुच्चयः

3पूर्वपक्षः

अक्रियार्था पशूक्तिः स्याल्लिङ्गं तत्रास्ति बाधनम्
वाजपेये श्रूयते ''सप्तदश प्राजापत्यान्पशूनालभते'' इति। तैरेतैः प्राकृतपशूनामाग्नेयादीनां बाधः स्यात्। कुतः- पशुत्वलिङ्गात्। न हि पशुशब्दो ग्रहशब्दवदपूर्वो विधेयां क्रियां ब्रूते, येन लिङ्गत्वं हीयेत इति प्राप्ते-

4सिद्धान्तः

पशूनुद्दिश्य संख्याया देवस्य च विधौ भिदा
कर्मान्यत्वे ग्रहन्यायाद्रोधनाच्च समुच्चयः
ब्रूमः- किमत्र प्राकृतपश्वनुवादेन सप्तदशसंख्या, प्रजापतिदेवता च, इति गुणद्वयं विधीयते, उत विशिष्टमन्यत्कर्म। नाद्यः। वाक्यभेदापत्तेः। द्वितीये तु न पशुशब्दो लिङ्गम्। ततो ग्रहन्यायो योजनीयः। किंच- अवरोधनमेवमाम्नायते ''ब्रह्मवादिनो वदन्ति नाग्निष्टोमो नोक्थ्यो न षोडशी नातिरात्रः। अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवोऽवरुध्यन्त इति। पशुभिरिति ब्रूयात्। आग्नेयं पशुमालभते। अग्निष्टोममेतेनावरुन्धे। ऐन्द्राग्नेनोक्थ्यम्। ऐन्द्रेण षोडशिनः स्तोत्रम्। सारस्वत्याऽतिरात्रम्। मारुत्या बृहत्स्तोत्रम्। एतावन्तो वै यज्ञक्रतवः। तान्पशुभिरेवावरुन्धे'' इति। अस्मिन्नवरोधनाम्नाये चोदकप्राप्ताग्नेयादिपशुसद्भावस्य सिद्धवदनुवादात्समुच्चयोऽ-वगम्यते।। 8।। 9।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- बार्हस्पत्यग्रहादिभिः प्रकृतैन्द्रवायवादिग्रहाणां समुच्चयाधिकरणे सूत्राणि 3-5”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “समुच्चयः प्रमाणाभ्यां ग्रहाणां प्रकृतौ यथा विधेयोक्तेर्न लिङ्गं तच्चोक्तं लिङ्गं सुराग्रहे”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.5 पञ्चमे- सांग्रहणीष्टौ, आमनहोमैरनुयाजानां समुच्चयाधिकरणे सूत्रम्
आमने लिङ्गदर्शनात्।। 7।।

1विषयः

आमनाहुतिभिर्बाध्या अनुयाजा न वाऽग्रिमः
त्रित्वलिङ्गाद्विशिष्टोक्तेर्भेदौ मध्योक्तितोऽन्तिमः

3पूर्वपक्षः

पञ्चमाधिकरणमारयति-
सांग्रहणीये श्रूयते ''आमनमस्यामनमस्य देवा ये सजाता इति तिस्र आहुतीर्जुहोति'' इति। एताभिस्तिसृभिराहुतिभिः प्राकृतास्त्रयोऽनुयाजा बाध्याः। कुतः- त्रित्वलिङ्गात्। पूर्वाधिकरणे सप्तदशसंख्या-विशिष्टप्राकृतपश्वभावेन माभूद्बाध्यत्वम्। इह तु त्रित्वविशिष्टत्वादनुयाजा बाध्यन्ताम्। यद्वा तदनुवादेन मन्त्रगुणविधानात्प्राकृतमन्त्रबाधः। इति पूर्वः पक्षः।
किं त्रित्वमात्रमनूद्य मन्त्रसहिता आहुतयो विधीयन्ते, उत त्रित्वविशिष्टा आहुतीरनूद्य मन्त्रविधिः। आद्ये त्रित्वमग्न्यादिष्वपि सत्त्वेनान्वयान्न लिङ्गम्। द्वितीये विशेषणविशेष्ययोर्भेदेन वाक्यं भिद्येत। तस्मात्कर्मान्तरविधानान्न बाधः। किं तर्हि समुच्चयः। तत्र मध्योक्तिर्लिङ्गम्। तथा चाम्नायते ''पुरस्ताच्चोपरिष्टाद्वा जुहुयाद्बहिरात्मनः सजातीयान्दध्यात्। यन्मध्यतो जुहोति मध्यत एव सजातीयान्मनुते'' इति। तस्मादामनहोमानामनुयाजैः सह समुच्चयः।। 10।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- वाजपेये प्राजापत्यपशुभिः क्रतुपशूनां समुच्चयाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पशूनुद्दिश्य संख्याया देवस्य च विधौ भिदा कर्मान्यत्वे ग्रहन्यायाद्रोधनाच्च समुच्चयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.6 षष्ठे- महाव्रते पत्न्युपगानेनर्त्विगुपगानस्य समुच्चयाधिकरणे सूत्रे 8-9
उपगेषु शरवत्स्यात्प्रकृतिलिङ्गसंयोगात्।। 8।।
आनर्थक्यात्त्वधिकं स्यात्।। 9।।
षष्ठाधिकरणमारचयति-

1विषयः

पत्नय उपगायन्तीत्यृत्विजां विनिवर्तिकाः

3पूर्वपक्षः

न वाद्यः सामगानोपचयः काण्डादिजस्ततः
गवामयने महाव्रतं नामैकाहः। तत्र श्रूयते ''पत्नय उपगायन्ति'' इति। तत्र पत्नय उपगायन्त्यः प्राकृतानामृत्विजामुपगातॄणां निवर्तिकाः, शारीरसामगानोपचयहेतुकाण्डवीणादिजोपगानकर्तृत्वात्। इति चेत्-
न। ''दिक्षु दुन्दुभयो नदन्ति'' इति दन्दुभिगानानामनन्तरविहितानां चित्तेविपरिवर्तमानानामिदमुपगानं कर्मान्तरम्। न च शारीरमेव गानम्, तस्येदमुपगानम्। दुन्दुभिनदनस्याशारीरत्वान्न पत्नीभिः क्रियमाणमुपगानमिति तन्त्रीगानेऽपि गानशब्दप्रयोगात्। किंच काण्डवीणादिभिः क्रियमाणमुपगानं दुन्दुभिगानसजातीयम्। तस्मात्- पत्न्यो नर्त्विङ्निवर्तिकाः।। 11।। 12।।

4सिद्धान्तः

नदनं दुन्दुभीनां हि चित्ते विपरिवर्तते
उपगानं भवेत्तेन योग्यं वीणादिजं ततः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- सांग्रहणीष्टौ, आमनहोमैरनुयाजानां समुच्चयाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.7 सप्तमे- अञ्जनाभ्यञ्जने नवनीताभ्यञ्जनस्य गौग्गुलवाभ्यञ्जनादिभिः समुच्चयाधिकरणे सूत्राणि 10-12
संस्कारे चान्यसंयोगात्।। 10।।
प्रयाजवदिति चेत्।। 11।।
नार्थान्यत्वात्।। 12।।
सप्तमाधिकरणमारचयति-

1विषयः

अभ्यङ्गो नावनीतः किं बाध्यो गौग्गुलवादिभिः

3पूर्वपक्षः

न वाद्यो लेपजैकत्वान्न शैत्यस्नेहभेदतः
अस्त्यञ्जनाभ्यञ्जनसंज्ञक एकोनपञ्चाशद्रात्रः सत्रविशेषः। तत्र श्रूयते ''गौग्गुलवेन प्रातःसवनेऽभ्यञ्जते, पैलुदारवेण माध्यंदिने सवने, सौगन्धिकेन तृतीयसवने'' इति। प्रकृतौ तु 'नवनीतेनाभ्यङ्गः' इति श्रुतम्। सोऽयमभ्यङ्गो बाध्यः, लेपजन्यस्य शरीरगतस्नेहकार्यस्योभयत्रैकत्वात्। इति पूर्वः पक्षः।

4सिद्धान्तः

नैतद्युक्तम्
कुतः- कार्यभेदात्
गौग्गुलवादिलेपजन्यं कार्यं चन्दनवच्छैत्यम्
तच्च नावनीतस्नेहाद्भिन्नम्
किंच नावनीतो दीक्षाकालीनः, इतरः सुत्याकालीनः
तस्माद्बाध्याभावात्समुच्चयः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- महाव्रते पत्न्युपगानेनर्त्विगुपगानस्य समुच्चयाधिकरणे सूत्रे 8-9”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नदनं दुन्दुभीनां हि चित्ते विपरिवर्तते उपगानं भवेत्तेन योग्यं वीणादिजं ततः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.8 अष्टमे- महाव्रते अहतवाससस्तार्यादिभिः समुच्चयाधिकरणे सूत्राणि 13-15
आच्छादने त्वैकार्थ्यात्प्राकृतस्य विकारः स्यात्।। 13।।
अधिकं वाऽन्यार्थत्वात्।। 14।।
समुच्चयं च दर्शयति।। 15।।
अष्टमाधिकरणमारचयति-

1विषयः

तार्प्याद्यहतवस्त्रस्य बाधकं स्यान्न वाऽग्रिमः

3पूर्वपक्षः

गुह्याच्छादनकार्यैक्यादयोग्यत्वात्समुच्चयः
महाव्रते श्रूयते ''तार्प्यं यजमानः परिधत्ते दर्भमयं पत्नी'' इति। प्रकृतौ- ''अहतं वासः परिधत्ते'' इति। घृताक्तः कम्बलस्तार्प्यमित्युच्यते। ताभ्यां तार्प्यदर्भमयाभ्यां दंपत्योरहतं वस्त्रं बाध्यते। कुतः- 'परिधत्ते' इत्यनेन प्रकृतिलिङ्गेन गुह्याच्छादनलक्षणस्य कार्यस्यैकत्वावगमात्।

4सिद्धान्तः

मैवम्
तार्प्यदर्भमययोर्गुह्यमाच्छादयितुमयोग्यत्वात्
तार्प्यादिपरिधानं 'वासांसि विस्त्रंसयति' इति वासोबहुत्वानुवादादुपरितनं प्रावरणं विधीयते
तस्मात्- कार्यभेदात्समुच्चयः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- अञ्जनाभ्यञ्जने नवनीताभ्यञ्जनस्य गौग्गुलवाभ्यञ्जनादिभिः समुच्चयाधिकरणे सूत्राणि 10-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतद्युक्तम् कुतः- कार्यभेदात् गौग्गुलवादिलेपजन्यं कार्यं चन्दनवच्छैत्यम् तच्च नावनीतस्नेहाद्भिन्नम् किंच नावनीतो दीक्षाकालीनः, इतरः सुत्याकालीनः तस्माद्बाध्याभावात्समुच्चयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.9 नवमे- महाव्रते रथंतरादिसाम्नां श्लोकादिसामभिः समुच्चयाधिकरणे सूत्रे 16-17
सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत।। 16।।
अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात्।। 17।।
नवमाधिकरणमारचयति-

1विषयः

बाध्यं श्लोकादिनाज्यादि न वाद्यः स्तुतिलिङ्गतः

3पूर्वपक्षः

देशसाम्नोर्विधौ भेदे वैशिष्ट्याच्च समुच्चयः
महाव्रते श्रूयते ''श्लोकेन पुरस्तात्सदसः स्तुवते, अनुश्लोकेन पश्चात्'' इत्यादि। तत्र श्लोकानुश्लोकनामकैः सामभिः प्राकृतान्याज्यपृष्ठादिस्तोत्रगतानि रथंतरवामदेव्यनामकानि सामानि बाध्यानि। कुतः- 'स्तुवते' इति प्रकृतिलिङ्गदर्शनात्। प्रकृतौ 'आज्यैः स्तुवते' 'पृष्ठैः स्तुवते' इति हि श्रुतम्।

4सिद्धान्तः

नैतत्सारम्
किमत्र स्तुतिमनूद्य देशसामगुणौ विधीयेते, किंवा गुणद्वयविशिष्टा स्तुतिः
नाद्यः
वाक्यभेदापत्तेः
द्वितीये तु कार्यभेदेन बाधाभावात्समुच्चयः स्यादिति

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- महाव्रते अहतवाससस्तार्यादिभिः समुच्चयाधिकरणे सूत्राणि 13-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् तार्प्यदर्भमययोर्गुह्यमाच्छादयितुमयोग्यत्वात् तार्प्यादिपरिधानं 'वासांसि विस्त्रंसयति' इति वासोबहुत्वानुवादादुपरितनं प्रावरणं विधीयते तस्मात्- कार्यभेदात्समुच्चयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.10 दशमे- विकृतिविशेषे प्राकृतसाम्नां कौत्सादिभिर्बाधाधिकरणे सूत्रम्
अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात्।। 17।।
दशमाधिकरणमारचयति-

1विषयः

समुच्चीयेत कौत्सादि यद्वा प्राकृतबाधकम्

3पूर्वपक्षः

स्तुत्यभावादादिमोऽन्त्यो लिङ्गप्रकरणद्वयात्
विकृतिविशेषे श्रूयते ''कौत्सं भवति, काण्वं भवति'' इति। तदेतत्कौत्सादिनामकं साम प्राकृतेन साम्ना समुच्चीयते। कुतः- प्राकृतस्य स्तुतिलिङ्गस्याभावेन कार्यैक्याभावात्।

4सिद्धान्तः

मैवम्
प्रकरणात्क्रत्वङ्गत्वे सति ऋगक्षराभिव्यक्तिसामर्थ्यलक्षणप्राकृतलिङ्गेन कार्यैक्यावगमात्
तस्मात्- बाधकम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- महाव्रते रथंतरादिसाम्नां श्लोकादिसामभिः समुच्चयाधिकरणे सूत्रे 16-17”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतत्सारम् किमत्र स्तुतिमनूद्य देशसामगुणौ विधीयेते, किंवा गुणद्वयविशिष्टा स्तुतिः नाद्यः वाक्यभेदापत्तेः द्वितीये तु कार्यभेदेन बाधाभावात्समुच्चयः स्यादिति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.11 एकादशे- कौत्सादिभिर्व्यवस्थयैकादिबाधाधिकरणे सूत्रे 18-19
सर्वेषामविशेषात्।। 18।।
एकस्य वा श्रुतिसामर्थ्यात्प्रकृतेश्चाविकारात्।। 19।।
एकादशाधिकरणमारचयति-

1विषयः

तत्सर्वबाधकं सर्वमेकद्व्याद्युक्तितोऽथवा
अविशेषादादिमोऽन्त्य एकाद्युक्तिविशेषतः
तत्पूर्वोक्तं कौत्सादिसाम विषयः।

3पूर्वपक्षः

तत्र किं कौत्सं साम प्राकृतसामनिवर्तकम्, काण्वमपि तथा, इत्येकैकस्य सर्वनिवर्तकत्वमुच्यते। आहोस्विदेकवचनान्तनिर्दिष्टमेकस्य निवर्तकम्, द्विवचनान्तनिर्दिष्टं द्वयोः, बहुवचनान्तनिर्दिष्टानि बहूनाम्। तत्र नियामकाभावादाद्यः पक्षः प्राप्नोति।
एकादिवचनरूपाणां श्रुतीनां नियामकत्वादन्त्यः पक्षोऽभ्युपेयः। तथा हि- ''कौत्सं भवति, वासिष्ठस्य जनित्रे भवतः, क्रौञ्चानि भवन्ति'' इति निवर्तकेषु श्रूयमाणान्येकद्विबहुवचनानि निवर्त्यानामेतत्संख्यावत्त्वं प्रत्यासत्त्या बोधयन्ति। किंचैवं सत्यबाधितसामविषयश्चोदकोऽनुगृहीतो भवति। कृत्स्नबाधे तु सर्वश्चोदको निरुध्येत। तस्मात्- न सर्वबाधकः।। 17।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- विकृतिविशेषे प्राकृतसाम्नां कौत्सादिभिर्बाधाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् प्रकरणात्क्रत्वङ्गत्वे सति ऋगक्षराभिव्यक्तिसामर्थ्यलक्षणप्राकृतलिङ्गेन कार्यैक्यावगमात् तस्मात्- बाधकम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.12 द्वादशे- विवृद्धाविवृद्धस्तोमक्रतुषु क्रमेण प्राकृतसामबाधाबाधाधिकरणे सूत्रम्
स्तोमविवृद्धौ त्वधिकं स्यादविवृद्धौ द्रव्यविकारः स्यादितरस्याश्रुतित्वाच्च।। 20।।
द्वादशाधिकरणमारचयति-

1विषयः

स्तोमस्थयोर्वृद्ध्यवृद्ध्योः प्राकृतः किं निवर्तते
अवृद्धावेव वाद्यः स्यात्सामोत्पत्त्युपयोगतः

3पूर्वपक्षः

अवृद्धावुपयोगाय प्राकृतस्य निवर्तकम्
वृद्धिं प्रत्युपयोगित्वाद्वृद्धौ तु न निवर्तकः
सन्ति विवृद्धस्तोमका अविवृद्धस्तोमकाश्च विकृतिरूपाः क्रतवः। तत्रोभयत्रापि यानि सामान्युपदिष्टानि, तैरतिदिष्टानां साम्नां निवृत्तिः स्यात्। अन्यथा सामोत्पत्तिवैयर्थ्यात्। इति पूर्वः पक्षः।

4सिद्धान्तः

सिद्धान्तः स्पष्टार्थः।
18

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- कौत्सादिभिर्व्यवस्थयैकादिबाधाधिकरणे सूत्रे 18-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.13 त्रयोदशे- पवमाने विवृद्धाविवृद्धस्तोमकक्रतूनां सामावापोद्वापाधिकरणे सूत्रे 21-22
पवमाने स्यातां तस्मिन्नावापोद्वापदर्शनात्।। 21।।
त्रयोदशाधिकरणमारचयति-

1विषयः

क्वापि स्तोत्र ऋचि क्वापि स्यादावापस्तथोद्धृतिः
पवमानेषु गायत्र्यादिष्वेवोताविशेषतः

3पूर्वपक्षः

आद्यो नो परिसंख्यानादत्र ह्येवेति तद्विधेः
विध्यन्तराशेषभूतमपूर्वं तद्विधीयते
अवृद्धस्तोमकेषु प्राकृतस्यातिदिष्टस्य साम्न उद्वापः, प्रत्यक्षोपदिष्टानामावापः। 'वृद्धस्तोमकेष्वावाप एव' इति पूर्वाधिकरणे स्थितम्। तावेवावापोद्वापौ यस्मिन्कस्मिंश्चित्स्तोत्रे यस्यां कस्यांचिदृचि स्याताम्। कुतः- नियामकाभावात्। इति पूर्वः पक्षः।
नो स्वल्वेतद्युक्तम्। एवकारेण प्रकृतपवमानव्यतिरिक्तेष्वाज्यादिस्तोत्रेषु, गायत्रीबृहत्यनुष्टुव्युक्तास्वृक्ष्वा-वापोद्वापयोः परिसंख्यातत्वात्। एवकारश्चैवमाम्नायते ''त्रीणि ह वै यज्ञस्योदराणि यद्गायत्री, बृहती, अनुष्टुप्, च। अत्र ह्येवावपन्ति, अत एवोद्वपन्ति'' इति।
ननु मा भूतामन्यत्रावापोद्वापौ। विवक्षितदेशेषु कथं प्राप्नुतः- इति चेत्- अनेन वाक्येन तद्विधानात्- इति

4सिद्धान्तः

न च अयमर्थवादः
अनन्यशेषत्वात्
नाप्यनुवादः
अपूर्वार्थत्वात्
तस्मात्- पवमानेष्वेव गायत्र्यादिष्वावापोद्वापौ।
20
ब्रूमः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- विवृद्धाविवृद्धस्तोमक्रतुषु क्रमेण प्राकृतसामबाधाबाधाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सिद्धान्तः स्पष्टार्थः। 18”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.14 चतुर्दशे- यागादौ विधिशब्देनैव देवताभिधानाधिकरणे सूत्रे 23-24
विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना।। 23।।
शेषाणां चोदनैकत्वात्तस्मात्सर्वत्र श्रूयते।। 24।।
चतुर्दशाधिकरणमारचयति-

1विषयः

पर्यायेणापि देवोक्तिर्वैधेनैव पदेन वा
अर्थाभेदादादिमोऽन्त्यः शब्दपूर्वान्वयित्वतः

2संशयः

दर्शपूर्णमासयोर्ये निगमाः, तेष्वग्न्यादिदेवताः किं पावकशुच्यादिना येन केनापि पर्यायेणाभिधातव्याः, किंवा तत्तद्विध्युद्देशगतेनाग्न्यादिपदेनैव, इति संशयः।

3पूर्वपक्षः

तत्र शब्दोऽर्थप्रत्यायनार्थः, तत्पर्यायाणां स्वरूपभेदेऽप्यर्थाभेदाद्येन केनाप्यमिधानम्। इति पूर्वः पक्षः।
यत्र ह्यर्थैः कार्यमासाद्यते तत्र शब्दोऽर्थप्रत्यायनार्थो भवति। यत्र पुनः शब्द एव कार्यम्, तत्र कार्यसंबन्धार्थं शब्द एव प्रत्याययितव्यः। तद्यथा देवदत्ते गौरवातिशयमुत्पादयितुं राजसभायामाचार्योपाध्यायादिशब्दैस्तं व्यवहरन्ति। पितृमातॄमातुलादयश्च तत्रसंबन्धविशेषवाचकशब्देन यथा तुष्यन्ति न तथा स्वनामग्रहणेन। प्रत्युत कुप्यन्त एव। तद्वदत्रापि- अग्न्यादिवैधशब्द एव कार्यमासक्तम्। विधिं विना यागदेवतयोः संबन्धाभावात्। विधिकृते तु तत्संबन्धे शब्दस्य प्रयोजकत्वं दुर्वारम्। अत एव- अयाट्स्वाहाकारोज्जित्यादिनिगमेषु नियमेन वैधा एवाग्न्यादिशब्दाः प्रयुज्यन्ते- ''अयाडग्नेः प्रिया धामानि'' ''अयाट् सोमस्य प्रिया धामानि'' ''स्वाहाऽग्निम्'' ''स्वाहा सोमम्'' ''अग्नेरहनुज्जितिमनूज्जेषम्'' ''सोमस्याहमुज्जितिमनूज्जेषम्'' इत्यादिना। तस्मात्- वैधपदैरेव तत्तद्वेवताभिधानम्।। 22।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- पवमाने विवृद्धाविवृद्धस्तोमकक्रतूनां सामावापोद्वापाधिकरणे सूत्रे 21-22”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न च अयमर्थवादः अनन्यशेषत्वात् नाप्यनुवादः अपूर्वार्थत्वात् तस्मात्- पवमानेष्वेव गायत्र्यादिष्वावापोद्वापौ। 20”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.15 पञ्चदशे- अतिदेशस्थलेऽपि वैधशब्देनैव देवताभिधानाधिकरणे सूत्रम्
तथोत्तरस्यां ततौ तत्प्रकृतित्वात्।। 25।।
पञ्चदशाधिकरणमारचयति-

1विषयः

सौर्यादिनिगमे कोऽपि शब्दः स्याद्वैध एव वा
चरौ सूर्यान्वयादाद्यः प्रयोगान्वयतोऽन्तिमः

3पूर्वपक्षः

'सौर्यं चरुं निर्वपेत्' इत्यादिविकृतिषु चोदकातिदिष्टा ये निगमाः, तेष्वग्न्यादिशब्दस्थाने सूर्याद्यर्थप्रत्यायकः शब्द ऊहितव्यः। स चार्थ आदित्यादिना पर्यायेणापि प्रत्याययितुं शक्यते। वैधस्तु सूर्यशब्दश्चरुयाग एवान्वितः। न त्वग्न्यादिशब्दवन्निगमेषु पठितः। तस्मात्- यः कोऽपि। इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- अत्र 'सौर्यं निर्वपेत्' इति प्रयोगवचनेन सूर्यान्वयो भवति। न तु 'सौर्यश्चरुः' इति चरुणा। कारकविभक्तिर्हि द्वितीया। सा चाख्यातेन संबध्यते न नाम्ना। सति प्रयोगान्वये याज्यापुरोनुवाक्ययोर्निगमे वा यत्र प्रयोगोऽपेक्षितः, तत्र सर्वत्र सूर्यशब्द एव युक्तः। प्रकृतावपि निगमेषु नार्थमात्रविवक्षयाऽग्निशब्दः प्रयुज्यते, किं तर्हि वैधविवक्षयाऽपि। तथा सत्यतिदेशोऽपि वैधशब्दविषय एव भविष्यति। तस्मात्- सूर्यशब्द एव प्रयोक्तव्यः।। 23।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- यागादौ विधिशब्देनैव देवताभिधानाधिकरणे सूत्रे 23-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.16 षोडशे- आधानेऽग्नेः सगुणेनाभिधानाधिकरणे सूत्राणि 26-29
प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात्।। 26।।
अविकारो वाऽर्थशब्दानपायात्स्याद्द्रव्यवत्।। 27।।
तथारम्भासमवायाद्वा चोदितेनाभिधानं स्यादर्थस्य श्रुतिसमवायित्वादवचने च गुणशास्त्रमनर्थकं स्यात्।। 28।।
द्रव्येष्वारम्भगामित्वादर्थे विकारः सामर्थ्यात्।। 29।।
षोडशाधिकरणमारचयति-

1विषयः

निगमे पावकाग्न्योः किमग्निः स्यादथवोभयम्

3पूर्वपक्षः

अग्निश्चोदकतो मैवं वैधोऽग्निः सगुणो यतः
आधाने श्रूयते ''अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेत्। अग्नये पावकाय। अग्नये शुचये'' इति। तत्र गुणगुणिनोः पावकाग्न्योर्मध्येऽग्निशब्द एव निगमे प्रयोक्तव्यः। कुतः- तस्यैव चोदकप्राप्तमन्त्रपठितत्वात्।

4सिद्धान्तः

मैवम्
पावकगुणयुक्तस्याग्नेर्वैधत्वेन सर्वप्रयोगेषु तथैव प्राप्तत्वात्
तस्माच्छब्दद्वयं पठनीयम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- अतिदेशस्थलेऽपि वैधशब्देनैव देवताभिधानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.17 सप्तदशे- आधानाज्ययोरग्नेर्निर्गुणेनाभिधानाधिकरणे सूत्रे 30-31
बुधन्वान्पवमानवद्विशेषनिर्देशात्।। 30।।
मन्त्रविशेषनिर्देशान्न देवताविकारः स्यात्।। 31।।
सप्तदशाधिकरणमारचयति-

1विषयः

बृधन्वत्तादिगुणको देवो वाच्योऽथ केवलः
आद्यो देवगुणत्वेन मैवं मन्त्रगुणत्वतः

3पूर्वपक्षः

आधाने पवमानेष्टिष्वाज्यभागौ प्रकृत्य श्रूयते ''वृधन्वानाग्नेयः कार्यः, पावकवान्सौम्यः'' इति। तत्र निगमेषु 'बृधन्वन्तमग्निमावह, पावकवन्तं सोममावह' इत्येवं सगुणो देवो वक्तव्यः। कुतः- वृधन्वत्त्वादेर्देवगुणत्वात्। तथा हि श्रूयते ''वृधन्वानाग्नेयः कार्यः, पावकवान्सौम्यः'' इति। न खल्वाज्यभागस्य देवताद्वारेण विना साक्षाद्बृधन्वच्छब्दः संभवति। तस्मात्- देवगुणत्वात्सगुणो देवो वाच्यः।
मैवम्। बृधन्वत्ताया मन्त्रगुणत्वात्। न ह्यत्राग्नेयशब्दो यागपरः। किं तर्हि मन्त्रपरः। संभवति हि मन्त्रस्य साक्षाद्वृधन्वच्छब्दयोगः। ''अग्निं स्तोमेन बोधय'' इत्यस्मिन्मन्त्रे वृधिधातोः प्रयुक्तत्वाद्बृधन्वत्ताविधिनाग्नेयमन्त्रान्तरं निवर्त्यते। न च तद्धितान्त आग्नेयपद उपसर्जनीभूतो देवतावाचकोऽग्निशब्दो वृधन्वच्छब्देन विशेष्टुमर्हति। तस्मात्- केवलोऽग्निशब्दो निगमे पठितव्यः।। 25।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- आधानेऽग्नेः सगुणेनाभिधानाधिकरणे सूत्राणि 26-29”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् पावकगुणयुक्तस्याग्नेर्वैधत्वेन सर्वप्रयोगेषु तथैव प्राप्तत्वात् तस्माच्छब्दद्वयं पठनीयम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.18 अष्टादशे- गवानुबन्धपृषदाज्यहोमयोर्विधिशब्दाभ्यामेवोस्रावनस्पतिशब्दाभ्यामभिधानाधिकरणे सूत्रे 32-33
विधिनिगमभेदात्प्रकृतौ तत्प्रकृतित्वाद्विकृतावपि भेदः स्यात्।। 32।।
यथोक्तं वा विप्रतिपत्तेर्न चोदना।। 33।।
अष्टादशाधिकरणमारचयति-

1विषयः

किं गोवनस्पती केनाप्युतोस्राविधिशब्दतः

3पूर्वपक्षः

वक्तव्यौ निगमाद्भेदो विधेर्दृष्टस्तथाऽग्रिमः
ज्योतिष्टोमे पशुः श्रूयते ''गौरनुबन्ध्यः'' इति। तथा पशौ स्विष्टकृद्विकारः पठितः- ''पृषदाज्येन वनस्पतिं यजति'' इति। तावेतौ गोवनस्पती निगमेषु येन केनापि पर्यायशब्देन वक्तव्यौ। कुतः- प्रकृतौ विधिनिगमयोर्भेददर्शनेन वैधशब्दनियमाभावात्। तथा हि- अग्नीषोमीयपशुरनुबन्ध्यस्य प्रकृतिः। तत्र पशुशब्दो वैधः, 'अग्नीषोमीयं पशुमालाभेत' इति तद्विधानात्। निगमेषु च्छागशब्दः ''छागस्य वपाया भेदसोऽनुब्रूहि'' इति। तथा वनस्पतियागस्य स्विष्टकृद्यागः प्रकृतिः। तत्र स्विष्टकृच्छब्दसहितोऽग्निशब्दो वैधः, ''अग्निं स्विष्टकृतं यजति'' इति विधानात्। निगमेषु केवलोऽग्निशब्दः पठितः ''ये दैव्या ऋत्विजस्तेभिरग्ने'' इति। सत्येवं विधिनिगमभेदे वैधशब्दनियमस्य प्रकृतावभावाद्विकृतावपि तदभावे सति येन केनाप्यभिधानम्। इति पूर्वः पक्षः।
प्रकृतौ योऽयं विधिनिगमभेदः स आर्थिकः। न चार्थिकं चोदकः प्रतिदिशति। तस्मात्- वैध एव निगमेषु प्रयोक्तव्यः। न चैवमनुबन्ध्यनिगमे वैधो गोशब्दः प्राप्नुयात्, इति शङ्कनीयम्। तत्रोस्राशब्दस्य साक्षादाम्नातत्वात्। ''उस्राया वपाया मेदसोऽनुब्रूहि'' इति ह्याम्नायते। तस्मादुस्रावनस्पतिशब्दौ वक्तव्यौ। इति राद्धान्तः।। 26।। 27।।

4सिद्धान्तः

स भेद आर्थिकस्तं तु प्रापयेच्चोदको न हि
उस्रा प्रकरणाम्नानाद्वैधत्वेन वनस्पतिः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- आधानाज्ययोरग्नेर्निर्गुणेनाभिधानाधिकरणे सूत्रे 30-31”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.19 एकोनविंशे- अवभृथेऽग्नीवरुणयोः सस्विष्टकृच्छब्देनाभिधानाधिकरणे सूत्रे 34-35
स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान्निर्वर्तेत।। 34।।
संयोगो वाऽर्थापत्तेरभिधानस्य कर्मजत्वात्।। 35।।
एकोनविंशाधिकरणमारचयति-

1विषयः

किंमग्नीवरुणौ स्विष्टकृच्छब्देन विवर्जितौ
वक्तव्यौ सहितौ वाद्यो रूढत्वादगुणोक्तितः

3पूर्वपक्षः

कदाचित्कृतवान्स्विष्टमिति योगाद्गुणे सति
पावकाग्निनयेनात्र वक्तव्यौ सगुणाविमौ
अवभृथे श्रूयते ''अग्नीवरुणौ स्विष्टकृतौ यजति'' इति। तत्र निगमेषु स्विष्टकृच्छब्दवर्जितावग्नीवरुणौ वक्तव्यौ। कुतः- स्विष्टकृच्छब्दस्य योगासंभवेन वह्नौ रूढस्य गुणवाचित्वाभावात्। 'स्विष्टं कृतवान्' इत्येवं भूतार्थे किप्प्रत्ययविधानात्तादृशो योगो वक्तव्यः। न चासावत्र संभवति। स्विष्टस्य करिष्यमाणत्वात्। रूढौ तु कार्यलक्षणया 'स्विष्टकृत्कार्ये, अग्नीवरुणौ' इति वचनव्यक्तिः संपद्यते। तस्मात्- स्विष्टकृच्छब्देन वर्जितौ। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- तेन सहितौ वक्तव्यौ
कुतः- अस्मिन्प्रयोगे स्विष्टस्य करिष्यमाणत्वेऽप्यतीतप्रयोगे कृतत्वेन योगसंभवे क्लृप्तयोगं परित्यज्य कल्प्यरूढ्याश्रयणायोगात्
ततः- पावकत्वगुणयुक्ताग्निवत्स्विष्टकृत्त्वगुणयुक्तौ वक्तव्यौ।
28
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- गवानुबन्धपृषदाज्यहोमयोर्विधिशब्दाभ्यामेवोस्रावनस्पतिशब्दाभ्यामभिधानाधिकरणे सूत्रे 32-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स भेद आर्थिकस्तं तु प्रापयेच्चोदको न हि उस्रा प्रकरणाम्नानाद्वैधत्वेन वनस्पतिः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.20 विंशे- अग्नीषोमीयपशौ सर्वत्रैव प्रयोगे निर्गुणेनाग्निशब्देनाग्नेरभिधानाधिकरणे सूत्रे 36-37
सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात्।। 36।।
सर्वस्य वैककर्म्यात्।। 37।।
विंशाधिकरणमारचयति-

1विषयः

स्विष्टकृत्त्वगुणो लोप्यो याग एवाखिलेषु वा

3पूर्वपक्षः

यज्यन्वयाद्याग एव प्रयोगान्वयतोऽन्तिमः
पशुपुरोडाशे स्विष्टकृति गुणरहितः केवलोऽग्निः श्रूयते ''अग्निं यजति'' इति। तत्र गुणरहितस्याग्नेर्यजिधातुनाऽन्वयाद्याग एव स्विष्टकृत्त्वगुणो लोप्यः।

4सिद्धान्तः

मैवम्
यजतिशब्दस्य प्रयोगवचनत्वादखिलेषु निगमप्रयोगेष्वसौ लोप्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- अवभृथेऽग्नीवरुणयोः सस्विष्टकृच्छब्देनाभिधानाधिकरणे सूत्रे 34-35”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- तेन सहितौ वक्तव्यौ कुतः- अस्मिन्प्रयोगे स्विष्टस्य करिष्यमाणत्वेऽप्यतीतप्रयोगे कृतत्वेन योगसंभवे क्लृप्तयोगं परित्यज्य कल्प्यरूढ्याश्रयणायोगात् ततः- पावकत्वगुणयुक्ताग्निवत्स्विष्टकृत्त्वगुणयुक्तौ वक्तव्यौ। 28”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.21 एकविंशे- अनुयाजेषु स्विष्टकृद्यागस्य संस्कारकर्मताधिकरणे सूत्रम्
स्विष्टकृदावापिकोऽनुयाजे स्यात्प्रयोजनवदङ्गानामर्थसंयोगात्।। 38।।
एकविंशाधिकरणमाह-

1विषयः

अनुयाजोऽन्तिमो योऽसौ किमारादुपकारकः

3पूर्वपक्षः

स्विष्टकृत्संस्कृतिर्वाद्योऽनुयाजान्तरसाम्यतः
दर्शपूर्णमासयोस्त्रयोऽनुयाजाः समाम्नाताः। तत्र प्रथमद्वितीयानुयाजवत्तृतीयोऽप्यारादुपकारः। इति पूर्वः पक्षः।
अस्ति प्रधानहोमनारिष्ठहोमानन्तरभावी प्राशित्रादिभक्षणात्प्राचीनः पुरोष्ठाशादिद्रव्यकः स्विष्टकृद्धोमः सर्वेषां हविषाम्। ''उत्तरार्धात्सकृत्स्विष्टकृतेऽवद्यति'' इत्यादिना प्राशित्रादिभक्षणोत्तरकालीनेष्वाज्य-द्रव्यकेष्वनुयाजेषु तृतीये स्विष्टकृत्त्वगुणेन प्रत्यभिज्ञाऽस्ति। ''देवोऽग्निः स्विष्टकृत्'' इति मन्त्रपाठात्। सा च पूर्वस्विष्टकृद्देवतास्मरणसंस्कारे सत्यर्थवती स्यात्, प्रथमद्वितीययोस्तु मास्ति सा, इति वैषम्यम्। किंच संस्कारपक्षे दृष्टार्थस्तृतीयः स्यात्। तस्मात्- अन्त्यप्रयाजवदन्त्योऽनुयाजः स्यात्।

4सिद्धान्तः

स्विष्टकृत्त्वगुणस्याग्नेः प्रत्यभिज्ञार्थवत्त्वतः
दृष्टार्थत्वाच्च संस्कारो भवेदन्त्यप्रयाजवत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- अग्नीषोमीयपशौ सर्वत्रैव प्रयोगे निर्गुणेनाग्निशब्देनाग्नेरभिधानाधिकरणे सूत्रे 36-37”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् यजतिशब्दस्य प्रयोगवचनत्वादखिलेषु निगमप्रयोगेष्वसौ लोप्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.22 द्वाविंशे- दर्शपूर्णमासयोर्याज्यापुरोनुवाक्ययोः संस्कारकर्मताधिकरणे सूत्राणि 39-41
अन्वाहेति च शस्त्रवत्कर्म स्याच्चोदनान्तरात्।। 39।।
संस्कारो वा चोदितस्य शब्दवचनार्थत्वात्।। 40।।
स्याद्गुणार्थत्वात्।। 41।।
द्वाविंशाधिकरणमारचयति-

1विषयः

अन्वाहेत्यर्थकर्म स्यात्संस्कारो वाऽर्थकर्मता

3पूर्वपक्षः

शस्त्रवत्कार्यताज्ञानाद्दृष्टार्थत्वेन संस्कृतिः
''तिष्ठन्याज्यामन्वाह, आसीनः पुरोनुवाक्याम्'' इति दर्शपूर्णमासयोः श्रुतम्। तदेतच्छस्त्रादिवदर्थकर्म स्यात्। यथा 'स्तौति शंसति' इत्यत्र कर्तव्यताप्रतीतेः स्तोत्रशस्त्रयोरर्थकर्मत्वम्, तथाऽनुवचनस्यापि- इति चेत्-

4सिद्धान्तः

मैवम्
चोदितदेवतास्मरणसंस्कारस्य दृष्टप्रयोजनत्वात्
तस्मिन्सत्यदृष्टस्य कल्पयितुमशक्यत्वात्
ननु मन्त्रसामर्थ्यादेव देवतास्मरणसिद्धेः 'अन्वाह' इति तद्विधानं व्यर्थम्
एवं तर्हि प्रागनुवचनमनूद्य 'तिष्ठन्, आसीनः' इति स्थानासनगुणौ विधीयेयाताम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे- अनुयाजेषु स्विष्टकृद्यागस्य संस्कारकर्मताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्विष्टकृत्त्वगुणस्याग्नेः प्रत्यभिज्ञार्थवत्त्वतः दृष्टार्थत्वाच्च संस्कारो भवेदन्त्यप्रयाजवत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.23 त्रयोविंशे- मनोतायामूहाभावाधिकरणे सूत्रम्
मनोतायां तु वचनादविकारः स्यात्।। 42।।
त्रयोविंशाधिकरणमारचयति-

1विषयः

मनोतामन्त्र ऊहोऽस्ति वायव्ये नास्ति वाऽस्त्यसौ
आग्नेय्येवेतिवचनं प्रकृतौ सार्थकं यतः

3पूर्वपक्षः

अग्नीषोमावग्निनैव लक्ष्येतां वचनं विना
अनर्थकात्तत्र वाक्याद्विकृतावूहवारणम्
''त्वं ह्यग्ने प्रथमो मनोता'' इत्ययं मनोतामन्त्रोऽग्नीषोमीयपशौ पठितः। वायव्यपशावप्ययं चोदकप्राप्तः। तत्र ''त्वं हि वायो प्रथमः'' इत्यवेमूहोऽस्ति। यत्तु वचनम् 'यद्यप्यन्यदेवत्यः पशुः, आग्नेय्येव मनोता कार्या' इति। तत्प्रकृतौ पठितं तत्रैव सार्थकम्। द्विदेवत्यपशावेकदेवत्यमन्त्रस्य प्रकरणपठितस्याप्ययोग्यत्वशङ्कायां पुनर्विघानार्थत्वात्।

4सिद्धान्तः

मैवम्
'छत्रिणो गच्छन्ति' इत्यादिवन्मन्त्रगतस्याग्निशब्दस्याग्नीषोमलक्षकत्वेनायोग्यत्वाशङ्काया अनुदयात्प्रकृतावनर्थकं तद्वाक्यं विकृतावूहनिवारणेन चरितार्थं भवति
तस्मात्- ऊहो नास्ति।
34

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वाविंशे- दर्शपूर्णमासयोर्याज्यापुरोनुवाक्ययोः संस्कारकर्मताधिकरणे सूत्राणि 39-41”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् चोदितदेवतास्मरणसंस्कारस्य दृष्टप्रयोजनत्वात् तस्मिन्सत्यदृष्टस्य कल्पयितुमशक्यत्वात् ननु मन्त्रसामर्थ्यादेव देवतास्मरणसिद्धेः 'अन्वाह' इति तद्विधानं व्यर्थम् एवं तर्हि प्रागनुवचनमनूद्य 'तिष्ठन्, आसीनः' इति स्थानासनगुणौ विधीयेयाताम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.24 चतुर्विंशे- कण्वरथंतरस्य स्वयोनौ गानाधिकरणे सूत्राणि 43-46
पृष्ठार्थेऽन्यद्रथंतरात्तद्योनिपूर्वत्वात्स्यादृचां प्रविभक्तत्वात्।। 43।।
स्वयोनौ वा सर्वाख्यत्वात्।। 44।।
यूपवदिति चेत्।। 45।।
न कर्मसंयोगात्।। 46।।
चतुर्विंशाधिकरणमारचयति-

1विषयः

बृहद्रथंतरैकीययोनौ कण्वरथंतरम्
रथंतरस्यैव योनौ किं स्वयोनावुताग्रिमः

3पूर्वपक्षः

चोदकस्याविशेषेण, द्वितीयो नामसाम्यतः
अनङ्गत्वान्नातिदेशः स्वयोनौ पठितत्वतः
वैश्यस्तोमे पृष्ठस्तोत्रे सामविशेषो विहितः ''कण्वरथंतरं पृष्ठं भवति'' इति। प्रकृतौ पृष्ठस्तोत्रे बृहद्रथंतरसामनी विकल्पिते। ''त्वामिद्धि हवामहे'' इतीयमृग्वृहतो योनिः। ''अभि त्वा शूर'' इति रथंतरस्य।''पुनानः सोम'' इति कण्वरथंतरस्य। तत्र बृहद्रथंतरयोरन्यतरस्य साम्नो योनौ कण्वरथंतरं गेयम्। कुतः- चोदकप्राप्तयोर्विशेषनियामकाभावात्। अथवा रथंतरस्यैव योनौ गेयम्। कुतः- 'रथंतर' इति नामसाम्यस्य धर्मातिदेशार्थत्वेन नियामकत्वात्।

4सिद्धान्तः

नैतद्युक्तम्
बृहद्रथंतरसाम्नोरेव प्रकृतावङ्गत्वेन विधानम्, न तु तद्योन्योः
अतो नास्ति तयोरतिदेशतः प्राप्तिः
तस्मात् 'स्वयोनौ गेयम्' इति परिशिष्यते
प्राप्तिश्च सामगानामुत्तराग्रन्थपाठादवगन्तव्या
एवं सति श्रुतहान्यश्रुतकल्पने न भविष्यतः।
36

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोविंशे- मनोतायामूहाभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् 'छत्रिणो गच्छन्ति' इत्यादिवन्मन्त्रगतस्याग्निशब्दस्याग्नीषोमलक्षकत्वेनायोग्यत्वाशङ्काया अनुदयात्प्रकृतावनर्थकं तद्वाक्यं विकृतावूहनिवारणेन चरितार्थं भवति तस्मात्- ऊहो नास्ति। 34”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.25 पञ्चविंशे- कण्वरथंतरस्य स्वयोन्युत्तरयोर्गानाधिकरणे सूत्रे 47-48
कार्यत्वादुत्तरयोर्यथाप्रकृति।। 47।।
समानदेवते वा तृचस्याविभागात्।। 48।।
पञ्चविंशाधिकरणमारचयति-

1विषयः

संदेहनिर्णयौ पूर्ववदेवोत्तरयोर्ऋचोः

3पूर्वपक्षः

योनित्यागः समश्चेन्न तृचशब्देन बाधनात्
''एकं साम तृचे क्रियते'' इति श्रुतेः कण्वरथंतरसाम्न ऋचां त्रयमाश्रयः। तत्र- एका स्वयोनिः, इतरे स्वयोन्युत्तरे। एवं बृहद्रथंतरसाम्नोर्द्रष्टव्यम्। तत्र बृहदुत्तरयो रथंतरोत्तरयोर्वाऽतिदेशप्राप्त्यविशेषेण स्वेच्छया गेयम्। इत्याद्यः पक्षः।
नामसाम्याद्रथंतरोत्तरयोरेव गेयम्। इति द्वितीयः।
प्रकृतावृचः साक्षादङ्गत्वाभावेऽपि सामद्वारकमङ्गत्वमङ्गीकृत्य चोदकप्राप्त्या पक्षद्वयोपन्यासः।
योनिवदुत्तरयोरप्यृचोरुत्तराग्रन्थे पठितत्वात्स्वयोन्युत्तरयोर्गेयम्। इति तृतीयपक्षो राद्धान्तः।
बृहदुत्तरयोः स्वयोन्युत्तरयोर्वा गीयताम्। सर्वथाऽपि स्वयोन्यृक्त्यागः, ऋगन्तरपरिग्रहश्च समानः। तथा सति चोदकोऽत्र प्रापकः। इति पूर्वपक्षिणोऽभ्यधिका शङ्का।

4सिद्धान्तः

तृचशब्दः समानच्छन्दस्कानामेकदेवत्यानामृचां त्रये प्रसिद्धः
अतस्तृचश्रुत्या प्रत्यक्षया चोदकप्राप्तस्य बाधः
इति राद्धान्ताशयः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्विंशे- कण्वरथंतरस्य स्वयोनौ गानाधिकरणे सूत्राणि 43-46”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नैतद्युक्तम् बृहद्रथंतरसाम्नोरेव प्रकृतावङ्गत्वेन विधानम्, न तु तद्योन्योः अतो नास्ति तयोरतिदेशतः प्राप्तिः तस्मात् 'स्वयोनौ गेयम्' इति परिशिष्यते प्राप्तिश्च सामगानामुत्तराग्रन्थपाठादवगन्तव्या एवं सति श्रुतहान्यश्रुतकल्पने न भविष्यतः। 36”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.26 षङ्विंशे- अग्निष्टुति स्तुतशस्त्रयोरविकाराधिकरणे सूत्रम्
ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात्।। 49।।
षड्विंशाधिकरणमारचयति-

1विषयः

आग्नेयेषु ग्रहेषूहो नास्ति वा स्तुतशस्त्रयोः

3पूर्वपक्षः

संस्कारत्वादस्ति मैवमर्थकर्मत्वनिश्चयात्

4सिद्धान्तः

अग्निष्टुदाख्य एकाहे श्रूयते ''आग्नेया ग्रहा भवन्ति'' इति
तेषु चोदकप्राप्तयोर्नानादेवतयोः स्तुतशस्त्रयोः संस्कारकर्मत्वभ्रमेणास्त्यूहः
इति वदन्तं प्रत्येतदुत्तरम्- द्वितीयाध्याये तयोरर्थकर्मत्वस्य निर्णीतत्वान्नास्त्यूह इति

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चविंशे- कण्वरथंतरस्य स्वयोन्युत्तरयोर्गानाधिकरणे सूत्रे 47-48”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तृचशब्दः समानच्छन्दस्कानामेकदेवत्यानामृचां त्रये प्रसिद्धः अतस्तृचश्रुत्या प्रत्यक्षया चोदकप्राप्तस्य बाधः इति राद्धान्ताशयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.4.27 सप्तविंशे- चातुर्मास्येष्वाज्यशब्दस्याविकारेणावाहनाधिकरणे सूत्राणि 50-59
उभयपानात्पृषदाज्ये दध्नः स्यादुपलक्षणं निगमेषु पातव्यस्योपलक्षणात्।। 50।।
न वा परार्थत्वाद्यज्ञपतिवत्।। 51।।
स्याद्वावाहनस्य तादर्थ्यात्।। 52।।
न वा संस्कारशब्दत्वात्।। 53।।
स्याद्वा द्रव्याभिधानात्।। 54।।
दध्नस्तु गुणभूतत्वादाज्यपा निगमाः स्युर्गुणत्वं श्रुतेराज्यप्रधानत्वात्।। 55।।
दधि वा स्यात्प्रधानमाज्ये प्रथमान्त्यसंयोगात्।। 56।।
अपि वाज्यप्रधानत्वाद्गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात्।। 57।।
अपि वाख्याविकारत्वात्तेन स्यादुपलक्षणम्।। 58।।
न वा स्याद्गुणशास्त्रत्वात्।। 59।।
सप्तविंशाधिकरणमारचयति-

2संशयः

सोऽयमाज्यपशब्दो विक्रियते, न वा, इति संशयः।

3पूर्वपक्षः

विकारोऽपि त्रिविधः। तत्र 'दध्याज्यपान्' इत्याद्यस्तावत्प्राप्नोति। कुतः- 'अथ पृषदाज्यं गृह्णाति द्वयं वा, इदं सर्पिश्चैव दधि च' इति द्रव्यद्वयस्योक्तत्वात्।
आज्यस्योपस्तरणाभिधारणार्थत्वेन हविःशेषत्वाद्धविष्ट्वं नास्तीति दध्येव हविः। ततः 'दधिपान्' इति द्वितीयः पक्षः।
पृषदाज्यशब्देन द्रव्यान्तरमुच्यते। ''पृषदाज्येनानुयाजान्यजति'' इति तस्य हविष्ट्वम्। ततः 'पृषदाज्यपान्' इति तृतीयः पक्षः।
अत्र पादे- अधिकरणानि 27, सूत्राणि 59।
आदितः- अधिकरणानि 688, सूत्राणि 1919।
दशमाध्यायस्य पञ्चमः पादः
षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षङ्विंशे- अग्निष्टुति स्तुतशस्त्रयोरविकाराधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अग्निष्टुदाख्य एकाहे श्रूयते ''आग्नेया ग्रहा भवन्ति'' इति तेषु चोदकप्राप्तयोर्नानादेवतयोः स्तुतशस्त्रयोः संस्कारकर्मत्वभ्रमेणास्त्यूहः इति वदन्तं प्रत्येतदुत्तरम्- द्वितीयाध्याये तयोरर्थकर्मत्वस्य निर्णीतत्वान्नास्त्यूह इति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 10, Pāda 3 Contents Adhyāya 10, Pāda 5 →