SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 10, Pāda 2

बाधः

संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः

34adhikaraṇas
73sūtras
10.2.1 प्रथमे- कृष्णले चरौ पाकानुष्ठानाधिकरणे सूत्रे 1-2
कृष्णलेष्वर्थलोपादपाकः स्यात्।। 1।।
स्याद्वा प्रत्यक्षशिष्टत्वात्प्रदानवत्।। 2।।
द्वितीयपादे प्रथमाधिकरणमारचयति-

1विषयः

नास्त्यस्ति वा कृष्णलेषु पाकः श्रौतोऽप्यसंभवी

3पूर्वपक्षः

अदृष्टार्थतया स स्यादौष्ण्ये तु सुतरां भवेत्
''घृते श्रपयति'' इति प्रत्यक्षश्रुतिविहितोऽपि पाको विक्लेदनायोग्येषु न कर्तव्यः। इति पूर्वः पक्षः।

4सिद्धान्तः

दृष्टार्थस्य विक्लेदनस्यासंभवेऽप्यदृष्टार्थं कर्तव्यः
अन्यथा विधिवैयर्थ्यापत्तेः
यदा तु पाकशब्द औष्ण्यवाची, तदा न कोऽपि विवादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे सौर्यचरोः स्थाल्यामेव पाकाधिकरणे सूत्राणि 45-48”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.2 द्वितीये- कृष्णल उपस्तरणाभिधारणयोर्बाधाधिकरणे सूत्राणि 3-12
उपस्तरणाभिधारणयोरमृतार्थत्वादकर्म स्यात्।। 3।।
क्रियेत वाऽर्थवादत्वात्तयोः संसर्गहेतुत्वात्।। 4।।
अकर्म वा चतुर्भिराप्तिवचनात्सह पूर्णं पुनश्चतुरवत्तम्।। 5।।
क्रिया वा मुख्यावदानपरिमाणात्सामान्यात्तद्गुणत्वम्।। 6।।
तेषां चैकावदानत्वात्।। 7।।
आप्तिः संख्यासमानत्वात्।। 8।।
सतोस्त्वाप्तिवचनं व्यर्थम्।। 9।।
विकल्पस्त्वेकावदानत्वात्।। 10।।
सर्वविकारे त्वभ्यासानर्थक्यं हविषो हीतरस्य स्यात्, अपि वा स्विष्टकृतः स्यात्, इत रस्यान्याय्यत्वात्।। 11।।
अकर्म वा संसर्गार्थनिवृत्तित्वात्, तस्मादाप्तिसमर्थत्वम्।। 12।।
द्वितीयाधिकरणमारचयति-

1विषयः

उपस्ताराभिघारौ स्तस्तेषु नो वा द्वयं भवेत्

3पूर्वपक्षः

अदृष्टार्थमसंसक्तिर्दृष्टार्थो नेति लुप्यते
तेषु कृष्णलेषूपस्तरणमभिधारणं चेत्युभयं पाकवददृष्टार्थं कार्यम्। इति पूर्वः पक्षः।

4सिद्धान्तः

न तावत्पाकवदत्र प्रत्यक्षविधिरस्ति
चोदकस्तु दृष्टं द्वारमपेक्षते
प्रकृतादुवस्तरणाभिघारणयोर्दृष्टार्थत्वात्
सूक्ष्माणां पुरोडाशावयवानां स्रुचि संसक्तिं निवारयितुं तदुभयं क्रियते
कृष्णलानां तु संसक्तिप्रसङ्ग एव नास्ति
अतस्तन्निवारणलक्षणं द्वारं नास्तीत्युपस्तरणाभिघारणद्वयं लुप्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- कृष्णले चरौ पाकानुष्ठानाधिकरणे सूत्रे 1-2”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “दृष्टार्थस्य विक्लेदनस्यासंभवेऽप्यदृष्टार्थं कर्तव्यः अन्यथा विधिवैयर्थ्यापत्तेः यदा तु पाकशब्द औष्ण्यवाची, तदा न कोऽपि विवादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.3 तृतीये- कृष्णलचरौ भक्षसद्भावाधिकरणे सूत्राणि 13-16
भक्षाणां तु प्रीत्यर्थत्वादकर्म स्यात्।। 13।।
स्याद्वा निर्धानदर्शनात्।। 14।
वचनं वाज्यभक्षस्य प्रकृतौ स्यादभागित्वात्।। 15।।
वचनं वा हिरण्यस्य प्रदानवदाज्यस्य गुणभूतत्वात्।। 16।।
तृतीयाधिकरणमारचयति-

1विषयः

भक्षो नास्त्यस्ति वा तेषु नास्ति प्रीतेरभावतः
चुश्चुषाकारनिर्धानवचनात्स्यात्प्रदानवत्

3पूर्वपक्षः

यथा पुरोडाशे प्राशित्रादिभागो भक्ष्यते न तथा तेषु कृष्णलेषु भक्षोऽस्ति, प्रीतिरूपस्य दृष्टद्वारस्यासंभवात्। इति पूर्वः पक्षः।
''चुश्चुषाकारं भक्षयन्ति निर्धयन्तो भक्षयन्ति'' इति प्रत्यक्षवचनामाम्नायते। 'इक्षुदण्डभक्षणे तद्रसस्वीकारे च यः शब्दविशेषः, तस्यानुकरणं 'चुश्चुषा' इति। घृते निरुप्तेषु कृष्णलेषु यल्लिप्तमाज्यम्, तदन्तर्नेतुमिव बालाश्चुश्चुषां कृत्वा तदाज्यं निःशेषेण पिबन्तो भक्षयेयुः' इत्यर्थः। अनदनीयद्रव्याणामपि कृष्णलानां यथा वचनात्प्रदानम्। तद्वदभक्ष्यणामपि भक्षणं भवेत्।। 3।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- कृष्णल उपस्तरणाभिधारणयोर्बाधाधिकरणे सूत्राणि 3-12”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न तावत्पाकवदत्र प्रत्यक्षविधिरस्ति चोदकस्तु दृष्टं द्वारमपेक्षते प्रकृतादुवस्तरणाभिघारणयोर्दृष्टार्थत्वात् सूक्ष्माणां पुरोडाशावयवानां स्रुचि संसक्तिं निवारयितुं तदुभयं क्रियते कृष्णलानां तु संसक्तिप्रसङ्ग एव नास्ति अतस्तन्निवारणलक्षणं द्वारं नास्तीत्युपस्तरणाभिघारणद्वयं लुप्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.4 चतुर्थे- कृष्णलचरौ सहपरिहारविधानाधिकरणे सूत्रम्
एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहृतत्वात्।। 17।।
चतुर्थाधिकरणमारचयति-

1विषयः

सकृत्सहत्वयोरेकमेकधेत्यन्त्यमेव वा
एकं नियामकाभावादबाधादन्त्यमेव हि

2संशयः

'एकधा' इत्यनेन सकृत्त्वसहत्वयोरन्यतरद्विवक्षितम्, उत सहत्वमेव, इति संशयः।

3पूर्वपक्षः

'नियामकाभावादुभयोर्मध्ये यत्किंचिदन्यतरत्' इति पूर्वपक्षः।
अबाधोऽत्र नियामकः। प्रकृतौ- इडाप्राशित्रचतुर्धाकरणशंयुवाककालेषु चतुर्धाभक्षणसिद्धये चत्वार उपहारा उपदिष्टाः। अत्रापि ते चोदकप्राप्ताः। तत्र सकृत्त्वपक्षे- उपरितनास्त्रय उपहारास्तत्तत्कालविशेषाश्च बाध्येरन्। सहत्वपक्षे कालविशेषा एव बाध्यन्ते, न तु त्रय उपहाराः। तस्मात्- अन्त्यपक्षरूपं सहत्वमेव 'एकधा' इत्यस्य शब्दस्यार्थः।। 4।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- कृष्णलचरौ भक्षसद्भावाधिकरणे सूत्राणि 13-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.5 पञ्चमे- कृष्णलचरौ ब्रह्मणे सर्वभक्षभागार्पणाधिकरणे सूत्रे 18-19
सर्वत्वं च तेषामधिकारात्स्यात्।। 18।।
पुरुषापनयो वा तेषामवाच्यत्वात्।। 19।।
पञ्चमाधिकरणमारचयति-

1विषयः

सर्वं ब्रह्मण इत्यत्र ब्रह्मभागस्य सर्वता

3पूर्वपक्षः

अन्यभागस्यापि वाद्यो भागान्तरमबाधितुम्
कृष्णलभक्षण एवेदमपरं श्रूयते ''सर्वं ब्रह्मणे परिहरति'' इति। परिहारः समर्पणम्। ब्रह्मसहितानामृत्विजामेकैकस्य चतुर्षु कालेषु चत्वारो भक्षभागाश्चोदकप्राप्ताः। तत्र सर्वता किं ब्रह्मसंबन्धिचतुर्भागविषया, उत- इतरसंबन्धिभागचतुष्टयविषयाऽपि, इति संदेहः।
अध्यर्युप्रभृतीनामृत्विजां ये ये चत्वारो भागाः, तेषां बहूनामबाधनायाद्यः पक्षोऽभ्युपेयः। तत्रैषा वचनव्यक्तिः ब्रह्मसंबन्धमनूद्य सर्वत्वपरिहारयोरेकमनुवादेऽन्तर्भाव्येतरद्विधेयम्। 'यद्ब्रह्मणे सर्वं, तत्परिहरति' इति, 'यद्ब्रह्मणे परिहरति, तत्सर्वम्' इति। उभयथाऽपि विधेर्ब्रह्मभागमात्रे पर्यवसानाच्चोदकप्राप्ता अन्यभागा अबाधिता भविष्यन्ति। इति पूर्वः पक्षः।
सर्वत्वपरिहारावनूद्य ब्रह्मसंबन्धोऽत्र विधीयते- 'यत्परिहर्तव्यं सर्वं, तद्ब्रह्मणे' इति वचनव्यक्तिः। तत्र ब्रह्मभागानामितरभागानां च यत्सर्वत्वं, तस्य ब्रह्मसंबन्धे सति ब्रह्मभागानां व्रह्मसंबन्धस्य चोदकादेव प्राप्तत्वात्तत्रानर्थको विधिरन्यभागानां ब्रह्मसंबन्धविधाने पर्यवस्यति। तस्मादन्येषां भक्षणं बाध्यते।। 5।। 6।।

4सिद्धान्तः

सर्वत्वमन्यभागीयं ब्रह्मणोऽत्र विधीयते
स्वभागीयं चोदकाप्तं बाध्यतामन्यभक्षणम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- कृष्णलचरौ सहपरिहारविधानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.6 षष्ठे- भक्षभागानां स्वस्वकाले ब्रह्मणा भक्षणाधिकरणे सूत्रम्
पुरुषापनयात्स्वकालत्वम्।। 20।।
षष्ठाधिकरणमारचयति-

1विषयः

युगपत्स्वस्वकाले वा तत्सर्वं भक्षयेदयम्

3पूर्वपक्षः

अविलम्बादादिमोऽन्त्यस्तं तं कालमबाधितुम्
अतीताधिकरणद्वयेन 'युगपत्सर्वं ब्रह्मणे समर्पयेत्' इत्युक्तम्। तत्र भक्षयितुं युगपत्समर्पितस्य सर्वस्य मध्ये कियदपि भक्षयित्वाऽवशेषितस्य विलम्बे कारणाभावात् 'युगपत्' इत्यादिमः पक्षः प्राप्नोति।

4सिद्धान्तः

चोदकप्राप्तस्य तत्तत्कालस्याबाधो विलम्बे हेतुः
तस्मात्- 'स्वस्वकाले' इत्यन्त्यः पक्षोऽभ्युपेयः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- कृष्णलचरौ ब्रह्मणे सर्वभक्षभागार्पणाधिकरणे सूत्रे 18-19”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सर्वत्वमन्यभागीयं ब्रह्मणोऽत्र विधीयते स्वभागीयं चोदकाप्तं बाध्यतामन्यभक्षणम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.7 सप्तमे- ब्रह्मभक्षे चतुर्धाकरणादीनामभावाधिकरणे सूत्रम्
एकार्थत्वादविभागः स्यात्।। 21।।
सप्तमाधिकरणमारचयति-

1विषयः

चतुर्धाकृतिनिर्देशो तद्भक्षे स्तो न वाऽग्रिमः

3पूर्वपक्षः

चोदकात्तौ तु बह्वर्थव्यवस्थार्थत्वतोऽत्र न
प्रकृतौ पुरोडाशं चतुर्धा कृत्वा पश्चात् 'इदं ब्रह्मणः' इत्यादिना तत्तद्भागान्निर्दिशेत्। तौ चतुर्धाकरणनिर्देशौ पूर्वोक्ते ब्रह्मभक्षे चोदकवशाद्विद्येते। इत्यग्रिमः पक्षः प्राप्नोति।

4सिद्धान्तः

तत्र चतुर्धाकरणं बहूनामृत्विजां विभागार्थम्, निर्देशो भागानामसांकर्यार्थः
अत्र तु ब्रह्मण एकत्वात्तावुभौ न विद्येते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- भक्षभागानां स्वस्वकाले ब्रह्मणा भक्षणाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “चोदकप्राप्तस्य तत्तत्कालस्याबाधो विलम्बे हेतुः तस्मात्- 'स्वस्वकाले' इत्यन्त्यः पक्षोऽभ्युपेयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.8 अष्टमे- ऋत्विग्दानस्यानत्यर्थताधिकरणे सूत्राणि 22-28
ऋत्विग्दानं धर्ममात्रार्थं स्याद्ददातिसामर्थ्यात्।। 22।।
परिक्रयार्थं वा कर्मसंयोगाल्लोकवत्।। 23।।
दक्षिणायुक्तवचनाच्च।। 24।।
न चान्येनानम्येत परिक्रयात्कर्मणः परार्थत्वात्।। 25।।
परिक्रीतवच्चनाच्च।। 26।।
सनिवन्येव भृतिवचनात्।। 27।।
नैष्कर्तृकेण संस्तवाच्च।। 28।।
अष्टमाधिकरणमारचयति-

1विषयः

ऋत्विग्दानमदृष्टार्थमानत्यै वाऽग्रिमः श्रुतेः

2संशयः

तत्किमदृष्टार्थम्, आनत्यर्थं वा, इति संशयः।

3पूर्वपक्षः

वैरूप्यान्नियमान्मैवं दृष्टत्वादानतेः श्रुतिः
भृत्या परिक्रीय वशीकार आनतिः। अदृष्टार्थं तत्स्यात्। अन्नहिरण्यादीनामदृष्टार्थे त्यागे दानशब्दस्य प्रसिद्धत्वात्। यदि- अत्र दानं भृतिः स्यात्, तदानीमल्पाधिककर्मानुरूप्येण द्रव्यं देयं स्यात्। वैरूप्यं त्वत्र दृश्यते स्वल्पकर्मणि त्रैधातवीये सहस्रं देयम्, अधिककर्मणि ऋतपेये स्वल्पं सोमचमसमात्रं दीयते। तथा द्वादशशतादिपरिमाणनियमो मन्त्रवत्त्वनियमश्च भृतौ नोपपद्यते। कर्मकरानुमत्या न्यूनाधिकभावसंभवात्। तक्षरजकादिभृतौ मन्त्रादर्शनाच्च। तस्मात् 'अदृष्टार्थम्' इत्यग्रिमः पक्षः प्राप्नोति।
मैवम्। आनतेर्दृष्टप्रयोजनत्वात्। दानश्रुतिस्तु दृष्टार्थायां भृतावप्यस्ति 'भृतिर्देया' इति प्रयोगात्। परिमाणमन्त्रवत्त्वनियमाददृष्टमस्तु, दृष्टस्याभावात्। वैरूप्यं तु वचनबलादभ्युपगम्यते। दक्षिणाया भृतिरूपत्वं प्रत्यक्षवेदवाक्यादप्यवगम्यते ''दीक्षितमदीक्षिता दक्षिणापरिक्रीता ऋत्विजो याजयेयुः'' इति। तस्मात्- ऋत्विग्दानमानत्यर्थम्। एवं च सति सत्रे ऋत्विजां यजमानत्वाद्भृतिरूपा दक्षिणा न काऽपि देया- इत्येतद्विचारफलं द्रष्टव्यम्।। 9।। 10।।

4सिद्धान्तः

भृतौ च नियमादेतददृष्टं स्याद्विरूपता
वचनात्तेन सत्रेषु स्वामिनां न भृतिः क्वचित्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- ब्रह्मभक्षे चतुर्धाकरणादीनामभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तत्र चतुर्धाकरणं बहूनामृत्विजां विभागार्थम्, निर्देशो भागानामसांकर्यार्थः अत्र तु ब्रह्मण एकत्वात्तावुभौ न विद्येते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.9 नवमे- ज्योतिष्टोमे भक्षस्य प्रतिपत्त्यर्थताधिकरणे सूत्राणि 29-33
शेषभक्षाश्च तद्वत्।। 29।।
संस्कारो वा द्रव्यस्य परार्थत्वात्।। 30।।
शेषे च समत्वात्।। 31।।
स्वामिनि च दर्शनात्तत्सामान्यादितरेषां तथात्वम्।। 32।।
तथा चान्यार्थदर्शनम्।। 33।।
नवमाधिकरणमारचयति-

1विषयः

क्रयाय प्रतिपत्त्यै वा चमसेडादिभक्षणम्

3पूर्वपक्षः

क्रयाय पूर्ववन्मैवं यागीये स्वत्ववर्जनात्
अस्ति सोमे चमसभक्षः, अस्ति चेष्टाविडाप्राशित्रादिभक्षः। तत्र भक्षेण प्रीतानामृत्विजामानति-संभवाद्दक्षिणान्यायेन क्रयार्थं भक्षणम्। इति पूर्वः पक्षः।
यागदेवतायै संकल्पिते द्रव्ये स्वत्वमलभमानो यजमानो न तेन क्रेतुं शक्नोति। किंच ''यजमानपञ्चमाः संभूयेडां भक्षयन्ति'' इत्यक्रीतस्यापि यजमानस्य भक्षः श्रूयते। तत्साहचर्यादृत्विजामपि भक्षणं न क्रयार्थमिति गम्यते। तस्मात्प्रतिपत्त्यर्थो भक्षः। तेन क्रयार्थत्वाभावेन परिशिष्यमाणा सा प्रतिपत्तिर्यागोपयुक्तद्रव्यसंस्कारत्वेन सत्रेषु न बाध्यते।। 11।। 12।।

4सिद्धान्तः

अक्रीतयजमानस्य भक्षसत्त्वाच्च तेन सा
प्रतिपत्तिः संस्कृतित्वात्सत्रेषु न निवर्तते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- ऋत्विग्दानस्यानत्यर्थताधिकरणे सूत्राणि 22-28”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “भृतौ च नियमादेतददृष्टं स्याद्विरूपता वचनात्तेन सत्रेषु स्वामिनां न भृतिः क्वचित्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.10 दशमे- सत्रे ऋत्विग्वरणाभावाधिकरणे सूत्रम्
वरणमृत्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात्।। 34।।
दशमाधिकरणमारचयति-

1विषयः

ऋत्विजां वरणं सत्रे कार्यं नो वाऽत्र सोमवत्
कार्यं मैवं स्वकर्मत्वात्क्रयार्था प्रकृतौ वृतिः

3पूर्वपक्षः

''अग्निर्होता'' इत्यादिमन्त्रैः सोमे वरणमृत्विजामाम्नातम्। सोमवत्सत्रेऽपि तत्कार्यम्। अन्यथा वरणरहितानामृत्विक्त्वाभावात्सत्रं न सिध्येत्। अत एव तत्सिद्धये सत्रप्रकरणे 'ये यजमानाः, त ऋत्विजः' इति स्वतः प्रवृत्तानपि यजमानाननूद्य वरणसाध्यमृत्विक्त्वं तेष्वाधातव्यमिति विदधाति। तस्मात्- ऋत्विग्वरणं सत्रे कार्यम्।
मैवम्। सत्रं ह्यनुष्ठातॄणां सर्वेषां स्वकर्म। नहि स्वकर्मणि क्रयार्थं वरणमपेक्ष्यते। क्रयार्थं हि प्रकृतौ वरणम्। दानमेव क्रयार्थम्, वरणं त्वदृष्टार्थमिति चेत्-
मैवम्। वरणस्य भविष्यद्दानसूचनेनोत्साहजननार्थत्वात्। अन्यथा वरणकाले 'कच्चित्कल्याण्यो दक्षिणाः' इत्यृत्विजां प्रश्नः कथं संगच्छेत न च- ऋत्विक्त्वासिद्धिः शङ्कनीया। तत्र वक्तव्यम्- ऋत्विक्त्वं नाम किं कर्मकरत्वम्, उत- यागकर्तृत्वम्, इति। आद्ये कर्मकराणां स्वामित्वाभावेन 'ये यजमानास्त ऋत्विजः' इति वचनं विरुध्येत। द्वितीये तु स्वत एव यागं कर्तुं प्रवृत्तत्वाद्वरणमन्तरेणाप्यृत्विक्त्वं सिध्यति। ईदृशमेवार्त्विज्यं वचनेन विधीयते। तस्माद्दानवद्वरणं सत्रे लुप्यते।। 13।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- ज्योतिष्टोमे भक्षस्य प्रतिपत्त्यर्थताधिकरणे सूत्राणि 29-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अक्रीतयजमानस्य भक्षसत्त्वाच्च तेन सा प्रतिपत्तिः संस्कृतित्वात्सत्रेषु न निवर्तते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.11 एकादशे- सत्रे परिक्रयाभावाधिकरणे सूत्राणि 35-38
परिक्रयश्च तादर्थ्यात्।। 35।।
प्रतिषेधश्च कर्मवत्।। 36।।
स्याद्वा प्रासर्पिकस्य धर्ममात्रत्वात्।। 37।।
न दक्षिणाशब्दात्, तस्मान्नित्यानुवादः स्यात्।। 38।।
एकादशाधिकरणमारचयति-

1विषयः

क्रयः कार्यो न वा सत्रे निषेधात्कृतिकल्पनम्
नित्यानुवादेनाक्लृप्तेर्न क्रयो वरणं यथा

3पूर्वपक्षः

सत्कारपुरःसरम् ''अग्निर्होता'' इत्यादिप्रार्थना वरणम्। तच्च वरणं चिकीर्षुर्यजयानो वरणीयेभ्यो ब्राह्मणेभ्यः सोमं ब्रूयात्। 'तेभ्यः सोमं प्राह' इत्यापस्तम्बवचनात्। सोमाभिधानप्रकारश्चात्र कल्पे दर्शितः 'ज्योतिष्टोमेनाग्निष्टोमसंस्थेन रथंतरपृष्ठेन गवां द्वादशशतदक्षिणेनाहं यक्ष्ये, तत्र त्वमुद्गाता भव' इति। तत्र देयदक्षिणाद्रव्यनिश्चये ब्राह्मणाः स्वकीयाः कर्मविशेषे नियोक्तुं योग्या भवन्ति। सोऽयं क्रयः। स च प्रकृताविव सत्रे कार्यः। न च दक्षिणादानस्य निराकृतत्वेन देयद्रव्यनिश्चये लुप्ते सति तत्साध्यः क्रयोऽपि लुप्येत- इति शङ्क्यम्। निषेधमुपजीव्य क्रयानुष्ठानस्य कल्पयितुं शक्यत्वात्। तथा हि 'नह्यत्र गौर्दीयते, न वासः, न हिरण्यम्' इति सत्रे गवादिदानं निषिध्यते। स च निषेधोऽसत्यां प्रसक्तौ न संभवति। ततः सोमे देयद्रव्याणां सत्रे दानप्रसक्तिरभ्युपेया। सोमे च देयद्रव्याण्येवं श्रूयन्ते ''गौश्चाश्वश्चाश्वतरश्च गर्दभश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षिणा'' इति। तत्र गोवासोहिरण्यानां विशेषतो निषेधेन द्रव्यान्तराणां चोदकप्राप्तानामभ्यनुज्ञा प्रतीयते। ततो देयद्रव्यसद्भावात्क्रयः कार्यः। इति पूर्वः पक्षः।
'न ह्यत्र गौर्दीयते' इत्यनेन निषेधो न विधीयते। किंतु पूर्वोक्तेन निर्णयेन प्राप्त एव दानाभावोऽनूद्यते, ''अदक्षिणानि सत्राणीत्याहुः। नह्यत्र गौर्दीयते'' इति श्रुतौ परोक्त्युपन्यासस्य, प्रसिद्धिवाचकहिशब्दस्य च प्राप्तिगमकत्वात्। तस्मात्- नित्यानुवादस्य कल्पकत्वाभावाद्वरणवत्तदविनाभूतः क्रयोऽपि न कार्यः।। 14।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- सत्रे ऋत्विग्वरणाभावाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.12 द्वादशे- उदवसानीये दानस्य परिक्रयार्थताधिकरणे सूत्रे 39-40
उदवसानीयः सत्रधर्मा स्यात्, तदङ्गत्वात्तत्र दानं धर्ममात्रं स्यात्।। 39।।
न त्वेतत्प्रकृतित्वाद्विभक्तचोदितत्वाच्च।। 40।।
द्वादशाधिकरणमारचयति-

1विषयः

सत्राङ्गं स्यान्न वा पृष्ठशमनीयो ल्यपाऽङ्गता

3पूर्वपक्षः

सौत्रामण्यादिवन्मैवं त्यागादूर्ध्वं विधानतः
अस्ति सोमविकृतिः पृष्ठशमनीयनामको यागः। ''सत्रादुदवसाय पृष्ठशमनीयेन ज्योतिष्टोमेन सहस्रदक्षिणेन यजेरन्'' इति। 'उदवसाय' इत्यनेन ल्यप्प्रत्ययेन सत्रसमाप्तेः पूर्वकालत्वं, सत्रपृष्ठशमनीययोरेककर्तृकत्वं च प्रतीयते। तथा सति ''अग्निं चित्वा सौत्रामण्या यजेत। वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत। संस्थाप्य पौर्णमासीमिन्द्राय वैमृधाय पुरोडाशमष्टाकपालं निर्वपति'' इत्यत्र सौत्रामण्यादीनां यथा चयनाद्यङ्गत्वम्, तथा पृष्ठशमनीयस्य सत्राङ्गता भविष्यति। अङ्गत्वे सति श्रूयमाणा सहस्रदक्षिणा सत्रेष्विव परिक्रयार्था न भवतीत्यदृष्टार्थताऽभ्युपगम्यते। फलं च न कल्प्यम्, सत्रफलेनैव फलवत्त्वसिद्धेः। इति पूर्वः पक्षः।
उदवसानशब्दस्य त्यागवाचित्वात्सत्रत्यागादूर्ध्वं विधीयमानः कथं सत्राङ्गं भवेत्। 'अग्निं चित्वा' इत्यादौ त्यागशब्दो नास्तीति वैषम्यम्। एककर्तृकत्वपूर्वकालत्वे तु निमित्तविवक्षयाऽप्युपपद्येते। सत्रसमापनं निमित्तीकृत्य विधाने गृहदाहेष्टिवत्फलनैरपेक्ष्याद्विश्वजिन्न्यायेन फलं न कल्प्यम्। सत्येवमनङ्गत्वे सोमवद्दक्षिणा परिक्रयार्था। दक्षिणायाः श्रौतत्वेनालोपः पूर्वोत्तरपक्षयोः समानः। न्यायेनाप्यलोपः सिद्धान्ते विशिष्यते।। 15।। 16।।

4सिद्धान्तः

श्रूयमाणा दक्षिणेयं पूर्वपक्षेऽत्र धर्मकृत्
परिक्रयार्था सिद्धान्ते निमित्तं स्यात्समापनम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- सत्रे परिक्रयाभावाधिकरणे सूत्राणि 35-38”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.13 त्रयोदशे- उदवसानीयस्यर्त्विजां सत्रिभ्यो भिन्नताधिकरणे सूत्रे 41-42
तेषां तु वचनाद्द्वियज्ञवत्सहप्रयोगः स्यात्।। 41।।
तत्रान्यानृत्विजो वृणीरन्।। 42।।
त्रयोदशाधिकरणमारचयति-

1विषयः

तत्रर्त्विजः सत्रिणः किमन्ये वा स्युर्ल्यबुक्तितः

3पूर्वपक्षः

त एव, यष्ट्रभेदेऽपि क्रीतत्वादृत्विजः परे
तस्मिन्पृष्ठशमनीये सत्रिणामेवार्विज्यम्, 'उदवसाय' इति ल्यबन्तशब्देन कर्त्रैक्यप्रतीतेः। इति पूर्वः पक्षः।

4सिद्धान्तः

'उदवसाय यजेरन्' इति समभिव्याहारात्सत्रिभिः सहैकत्वं यष्टॄणां प्रतीयते
न च- ऋत्विजोऽयष्टारः
यजमानेन तेषां दक्षिणया क्रीतत्वात्
तस्मादृत्विजः सत्रिभ्योऽन्ये

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे- उदवसानीये दानस्य परिक्रयार्थताधिकरणे सूत्रे 39-40”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्रूयमाणा दक्षिणेयं पूर्वपक्षेऽत्र धर्मकृत् परिक्रयार्था सिद्धान्ते निमित्तं स्यात्समापनम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.14 चतुर्दशे- पृष्ठशमनीये प्रत्येकं यष्टृताधिकरणे सूत्रम्

1विषयः

एकैकशस्त्वविप्रतिषेधात्प्रकृतेश्चैकसंयोगात्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- उदवसानीयस्यर्त्विजां सत्रिभ्यो भिन्नताधिकरणे सूत्रे 41-42”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “'उदवसाय यजेरन्' इति समभिव्याहारात्सत्रिभिः सहैकत्वं यष्टॄणां प्रतीयते न च- ऋत्विजोऽयष्टारः यजमानेन तेषां दक्षिणया क्रीतत्वात् तस्मादृत्विजः सत्रिभ्योऽन्ये”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
चतुर्दशाधिकरणमारचयति-

1विषयः

संभूयैकैकशो वाऽत्र यष्टृताद्यो बहूक्तितः
द्वियागवद्बहुत्वस्य प्राप्तेरन्त्योऽस्तु सोमवत्

2संशयः

अस्मिन्पृष्ठशमनीये सत्रिणां संभूय यजमानत्वम्, उत- प्रत्येकम्, इति संशयः।

3पूर्वपक्षः

'संभूय' इत्याद्यः पक्षः प्राप्नोति। कुतः- 'यजेरन्' इति बहुवचननिर्देशात्। 'एतेन राजन्यपुरोहितौ सायुज्यकामौ यजेयाताम्' इत्यत्रोपादेयगतद्वित्वस्य विवक्षितत्वादुभौ संभूय यष्टारौ, तद्वदत्रापि स्यात्।
मैवम्। 'उदवसाय' इत्यत्रोदवसातॄणां सत्रिणां यद्बहुत्वं प्राप्तम्, तदेव तत्स्थानानाधिकृतेन 'यजेरन्' इत्यनेनानूद्याप्राप्तो यागो विधीयते। द्वियागे तु द्वित्वमप्यप्राप्तत्वेन विधेयमिति वैषम्यम्। ततो 'ग्रहं संमार्ष्टि' इत्यत्र ग्रहैकत्वमिवोद्देश्यगतत्वात् 'यजेरन्' इति बहुत्वमविवक्षितम्। एवमपीच्छया द्विशो बहुशो वा यष्टुं शक्यत्वादेकैकशो न नियमः- इति चेत्- न। चोदकेन तन्नियमसिद्धेः। सोमे तद्दर्शनात्। तस्मात्- 'सत्रिजः प्रत्येकं यजेरन्' इत्यन्त्यः पक्षोऽत्रास्तु।। 18।।
10.2.15 पञ्चदशे- कामेष्टौ दानस्यादृष्टार्थताधिकरणे सूत्रे 44-45
कामेष्टौ च दानशब्दात्।। 44।।
वचनं वा सत्रत्वात्।। 45।।
पञ्चमाधिकरणमारचयति-

1विषयः

अश्वां पुरुषीं वानत्यै धर्मार्थं वानतिर्यतः

3पूर्वपक्षः

इष्टिर्न सत्रं धर्मार्थे सत्रादङ्गं बहिर्न हि
सारस्वतसत्रे कामेष्टौ 'अश्वां पुरुषीं धेनुके दत्त्वा' इति तुरगमनुष्यगोजातीयानां स्त्रीणां दक्षिणात्वेन दानं श्रुतम्। तच्च- आनत्यर्थम्। कुतः- इष्टेरसत्रत्वात्। सत्रत्वे तु यजमानानामेवार्त्विज्याद्दानसाध्यक्रयाभावेन तत्साध्यमानमनमसंभवि स्यात्। इष्टिर्न सत्रम्, तल्लक्षणाभावात्। 'आसीरन्, उपेयुः' इत्यनयोरन्यतरचोदना तल्लक्षणम्। इह तु- इष्टिलक्षणभूता निर्वपतिचोदना पठ्यते ''अग्नये कामायाष्टाकपालं निर्वपति'' इति। इष्टौ च यजमानादृत्विजां पृथक्त्वादानत्यर्थं दानम्। इति पूर्वः पक्षः।
धर्मार्थं दानम्। कुतः- इष्टेः स्वरूपेणासत्रत्वेऽपि सत्राङ्गत्वेनेतराङ्गेष्विवेष्टावप्यस्यां यजमानानामेवार्त्विज्यात्।
ननु द्वादशाहः सत्राणां प्रकृतिः। न च तत्र कामेष्टिरस्ति। अतो न सत्रचोदकेनेष्टौ यजमानार्त्विज्यप्राप्तिः। इष्टिचोदकेन त्वन्य एवर्त्विजः प्राप्नुवन्ति।

4सिद्धान्तः

मैवम्
सत्रप्रयोगान्तःपातित्वेन प्रसङ्गाद्यजमानकर्तृकत्वसिद्धेः
तस्मात्- अत्र दानमदृष्टार्थम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- पृष्ठशमनीये प्रत्येकं यष्टृताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.16 षोडशे- दर्शपूर्णमासयोर्द्वेष्याय दानस्यादृष्टार्थताधिकरणे सूत्रम्
द्वेष्ये चाचोदनाहक्षिणापनयः स्यात्।। 46।।
षोडशाधिकरणमारचयति-

1विषयः

क्रीत्यै धर्माय वा द्वेष्ये दानं स्याद्दक्षिणोक्तितः

3पूर्वपक्षः

क्रयाय मैवं द्वेष्यत्वं नर्त्विजो धर्मकृत्ततः
दर्शपूर्णमासयोः श्रूयते ''यदि पत्नीः संयाजयन्कपालमभिजुहुयात्, वैश्वानरं द्वादशकपालं निर्वपेत्। तस्यैकहायनी गौर्दक्षिणा। तां द्वेष्याय दद्यात्'' इति। अत्र यजमानेन द्वेषणीये पुरुषे यद्दानं, तत्क्रयार्थम्, दक्षिणाशब्देन व्यवहृतानां प्रकृतौ क्रयार्थत्वदर्शनात्। इति पूर्वः पक्षः।

4सिद्धान्तः

न तावदृत्विजो द्वेष्यत्वं युक्तम्
'ऋत्विगाचार्यौ नातिचरितव्यौ' इति शास्त्रात्
यस्तु द्वेष्यः पुरुषः, नासावृत्विक्त्वाभावेन यागे कर्मकरत्वाभावात्क्रयमर्हति
तस्मात्- इदं दानमदृष्टार्थम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- कामेष्टौ दानस्यादृष्टार्थताधिकरणे सूत्रे 44-45”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् सत्रप्रयोगान्तःपातित्वेन प्रसङ्गाद्यजमानकर्तृकत्वसिद्धेः तस्मात्- अत्र दानमदृष्टार्थम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.17 सप्तदशे- जीवतामस्थियज्ञाधिकरणे सूत्रे 47-48
अस्थियज्ञोऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादस्थ्नाम्।। 47।।
यावदुक्तमुपयोगः स्यात्।। 48।।
सप्तदशाधिकरणमारचयति-

1विषयः

अस्थियागः किमस्थ्नां स्याज्जीवतां वाऽस्थिशब्दतः
अस्थ्नां मैवमनर्हत्वाल्लक्ष्यन्ते जीविनोऽस्थितः

3पूर्वपक्षः

इदं श्रूयते ''यदि सत्राय संदीक्षितानां यजमानः प्रमीयेत। अथ तं दग्ध्वा तस्य कृष्णाजिनेऽस्थीन्युपनह्य योऽस्य नेदिष्ठः स्यात्, तं तस्य स्थाने दीक्षयित्वा तेन सह यजेरन्। ततः संवत्सरेऽस्थीनि याजयेयुः'' इति। अत्र संवत्सरेऽतीते यो यागः श्रुतः तत्रास्थीन्येव कर्तॄणि। कुतः- अस्थिशब्दस्य तत्र मुख्यत्वात्।
मैवम्। अचेतनानामस्थ्नां यष्टुमनर्हत्वात्। जीवतामश्रुतत्वादयुक्तोऽयं यागः- इति चेन्न। अस्थिशब्दस्य तल्लक्षकत्वात्। एतादृशास्थिमता सह पुरुषेण पूर्वं यष्टुं प्रकान्तत्वेन लक्ष्यलक्षकयोरस्ति संबन्धः। जीवतां यष्टृत्वात् 'याजयेयुः' इत्युक्तणिजर्थभूताः के स्युः। न खल्वत्रान्ये संभवन्ति। अस्य यागस्य सत्राङ्गत्वात्- इति चेत्तर्हि परस्परं याजकाः सन्तु। तस्मात्- जीवतामयं यागः।। 21।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षोडशे- दर्शपूर्णमासयोर्द्वेष्याय दानस्यादृष्टार्थताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न तावदृत्विजो द्वेष्यत्वं युक्तम् 'ऋत्विगाचार्यौ नातिचरितव्यौ' इति शास्त्रात् यस्तु द्वेष्यः पुरुषः, नासावृत्विक्त्वाभावेन यागे कर्मकरत्वाभावात्क्रयमर्हति तस्मात्- इदं दानमदृष्टार्थम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.18 अष्टादशे- अस्थियागे,अस्थ्नां जपाद्यननुष्ठानाधिकरणे सूत्रम्
यदि तु वचनात्तेषां जपसंस्कारमर्थलुप्तं सेष्टितदर्थत्वात्।। 49।।
अष्टादशाधिकरणमारचयति-

1विषयः

अस्थिकर्तृमते चिन्तापञ्चकं स्याज्जपादिकम्

3पूर्वपक्षः

न वा, तच्चोदकात्कुर्युर्न कुर्वीरन्नसंभवात्
'अस्थीनि कर्तॄणि' इति पूर्वाधिकरणे पूर्वपक्षिणो मतम्। तदनुसारेणाधिकरणपञ्चकं कृत्वाचिन्तारूपेण प्रवर्तते।
प्रकृतौ यजमानस्य मन्त्रजपः केशश्मश्रुवपनं दीक्षानियमा इत्येवमादयः कर्तव्याः सन्ति। तत्सर्वं चोदकप्राप्तमस्थीनि कुर्युः। इति पूर्वः पक्षः।

4सिद्धान्तः

अचेतनानां तदसंभवान्न कुर्युः
इति राद्धान्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तदशे- जीवतामस्थियज्ञाधिकरणे सूत्रे 47-48”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.19 एकोनविंशे- अस्थियज्ञे शाखामानशुक्रस्पर्शानुष्ठानाधिकरणे सूत्रम्
क्रत्वर्थं तु क्रियेत गुणभूतत्वात्।। 50।।
एकोनविंशाधिकरणमारचयति-

1विषयः

औदुम्बरीमानशुक्रस्पर्शौ नोतास्ति तद्द्वयम्

3पूर्वपक्षः

पूर्ववन्नेति चेन्मैवमचैतन्येऽपि संभवात्

4सिद्धान्तः

प्रकृतौ औदुम्बर्याः शाखाया यजमानप्रमाणत्वम्, तथा शुक्रग्रहस्य यजमानस्पर्शः
तावुभावचेतनानामस्थ्नां जपादिवन्न विद्येते
इति पूर्वः पक्षः
अचेतनैरपि दण्डेनेव मातुं स्पष्टुं च शक्यत्वाद्विद्येते
इति राद्धान्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टादशे- अस्थियागे,अस्थ्नां जपाद्यननुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अचेतनानां तदसंभवान्न कुर्युः इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.20 विंशे- अस्थियज्ञेऽस्थ्नां काम्यकर्माद्यननुष्ठानाधिकरणे सूत्रम्
काम्यानि तु न विद्यन्ते कामाज्ञानाद्यथेतरस्यानुच्यमानानि।। 51।।
विंशाधिकरणमारचयति-

1विषयः

वृष्टिकामः सदो नीचैरिति कामोऽस्ति वा न वा

3पूर्वपक्षः

विद्यते स्पर्शवत्कामश्चेतनस्थस्ततो न हि
''यदि कामयेत वर्षुकः पर्जन्यः स्यात्- इति, नीचैः सदो मिनुयात्'' इत्यत्र 'सदोनामकस्य मण्डपस्य नीचमानेन गुणेन वृष्टिः फलति' इत्युक्तम्। तस्यां वृष्टौ कामः स्पर्शवदस्थ्नां विद्यते। इति मन्दप्रज्ञस्य पूर्वः पक्षः।

4सिद्धान्तः

कामस्य चेतनधर्मत्वान्नास्ति
इति राद्धान्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनविंशे- अस्थियज्ञे शाखामानशुक्रस्पर्शानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रकृतौ औदुम्बर्याः शाखाया यजमानप्रमाणत्वम्, तथा शुक्रग्रहस्य यजमानस्पर्शः तावुभावचेतनानामस्थ्नां जपादिवन्न विद्येते इति पूर्वः पक्षः अचेतनैरपि दण्डेनेव मातुं स्पष्टुं च शक्यत्वाद्विद्येते इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.21 एकविंशे- अस्थियज्ञेऽस्थ्नां सूक्तवाकगताशासनाननुष्ठानाधिकरणे सूत्राणि 52-54
ईहार्थाश्चाभावात्सूक्तवाकवत्।। 52।।
स्युर्वाऽर्थवादत्वात्।। 53।।
नेच्छाभिधानात्तदभावादितरस्मिन्।। 54।।
एकविंशाधिकरणमारचयति-

1विषयः

सूक्तवाकाशासनं स्यान्न वा, नित्यप्रवृत्तितः

2संशयः

तत्र सूक्तवाकगतो योऽयं यजमानाशासनप्रतिपादको मन्त्रभागः, तमस्थियज्ञे होता पठेत्, न वा, इति संशयः।

3पूर्वपक्षः

स्यान्मैवं फलनिर्देशात्फलेच्छाऽस्थ्नां न युज्यते
अस्थियज्ञगतायाः प्रायणीयादेरिष्टेः प्रस्तरप्रहरणमङ्गम्, तस्य नित्यत्वात्तस्मिन्विनियुक्तस्य सूक्तवाकमन्त्रस्य नित्यप्रवृत्ततया तद्भागपाठोऽपि स्यात्। इति पूर्वः पक्षः।

4सिद्धान्तः

यथा 'स्वर्गकामः' इत्यत्र कमियोगेन साध्यताप्रतीतेः स्वर्गशब्देन फलनिर्देशः
एवमाशासन-योगादायुरादिशब्दैः फलं निर्दिश्यते
फलेच्छा चास्थ्नां न युक्ता
तस्मात्तद्भागपाठो बाध्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विंशे- अस्थियज्ञेऽस्थ्नां काम्यकर्माद्यननुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कामस्य चेतनधर्मत्वान्नास्ति इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.22 द्वाविंशे- अस्थियज्ञे होतृकामाभावाधिकरणे सूत्रे 55-56
स्युर्वा होतृकामाः।। 55।।
न तदाशीष्ट्वात्।। 56।।
द्वाविंशाधिकरणमारचयति-

1विषयः

होतृकामो भवेन्नो वा होतुर्जीवनतो भवेत्

3पूर्वपक्षः

यजमानेष्टमेवासौ कामयेत्तेन नास्त्यसौ
प्रकृतौ- अस्ति होतृकामः 'यं कामयेत' 'वसीयान्स्यात्' इति, 'उच्चैस्तरां तस्य वषट्कुर्यात्' इत्यादिः। सोऽस्थियज्ञेऽपि निर्दिश्यताम्। कामयितुर्होतुर्जीवतस्तत्संभवात्। इति पूर्वः पक्षः।
''यां वै कांचन यज्ञे ऋत्विज आशिषमाशास्ते, यजमानायैव तामाशिषमाशासते'' इति श्रुतेर्यजमानेष्टमेव होत्रा कामयितव्यम्। अस्थीनि त्वचेतनान्येष्टुं न शक्नुवन्ति। तस्मात्- अत्र नास्ति होतृकामः।

4सिद्धान्तः

तदेतधिकरणपञ्चकं 'जीवतामयं यागः' इत्यस्मिन्सिद्धान्तिपक्षे विरुद्धम्
अचेतनत्वमुपजीव्य प्रवृत्तत्वात्
तस्मात्- तत्पक्षे चोदकप्राप्तानां यथोक्तधर्माणां नास्ति बाधः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकविंशे- अस्थियज्ञेऽस्थ्नां सूक्तवाकगताशासनाननुष्ठानाधिकरणे सूत्राणि 52-54”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यथा 'स्वर्गकामः' इत्यत्र कमियोगेन साध्यताप्रतीतेः स्वर्गशब्देन फलनिर्देशः एवमाशासन-योगादायुरादिशब्दैः फलं निर्दिश्यते फलेच्छा चास्थ्नां न युक्ता तस्मात्तद्भागपाठो बाध्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.23 त्रयोविंशे- यजमानस्य मरणेऽपि सर्वस्वारस्य समापनाधिकरणे सूत्रे 57-58
सर्वस्वारस्य दिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात्।। 57।।
स्याद्वोभयोः प्रत्यक्षशिष्टत्वात्।। 58।।
त्रयोविंशाधिकरणमारचयति-

1विषयः

सर्वस्वारो मृतेरूर्ध्वं त्यज्यतां वा समाप्यताम्
त्यज्यतां स्वाम्यभावेन प्रैषादन्यैः समाप्यताम्

3पूर्वपक्षः

सर्वस्वाराख्यः क्रतुरेवं श्रूयते ''मरणकामो ह्येतेन यजेत। यः कामयेत- अनामयः स्वर्गं लोकमियाम्'' इति। तस्य च क्रतोस्तृतीयसवने यजमानस्याग्निप्रवेश आम्नायते ''आर्भवे स्तूयमान औदुम्बरीं दक्षिणेन देशेनाहतेन वाससा परिवेष्ट्य 'ब्राह्मणाः समापयत मे यज्ञम्' इति संप्रेष्य संविशति'' इति। तस्य संशयपूर्वोत्तरपक्षा विस्पष्टाः।। 27।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वाविंशे- अस्थियज्ञे होतृकामाभावाधिकरणे सूत्रे 55-56”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तदेतधिकरणपञ्चकं 'जीवतामयं यागः' इत्यस्मिन्सिद्धान्तिपक्षे विरुद्धम् अचेतनत्वमुपजीव्य प्रवृत्तत्वात् तस्मात्- तत्पक्षे चोदकप्राप्तानां यथोक्तधर्माणां नास्ति बाधः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.24 चतुर्विंशे- सर्वस्वारे कार्यबाध्यव्यवस्थाधिकरणे सूत्रम्
गते कर्मास्थियज्ञवत्।। 59।।
चतुर्विंशाधिकरणमारचयति-

1विषयः

किं कार्यमत्र किं बाध्यमिति प्रश्ने तदुत्तरम्
मरणादूर्ध्वं समापनीयः सर्वस्वारशेषो विषयः।

2संशयः

तत्र बाध्याबाध्यानध्यवसायः संशयः।

3पूर्वपक्षः

क्रत्वर्थमस्थिवत्कार्यं बाध्यते मृतकर्तृकम्
अनध्यवसायस्य संशयत्वं न्यायविद्भिर्दर्शितम् 'अनवधारणत्वाविशेषादूहानध्यवसाययोर्न संशयादर्थान्तरभावः' इति। विप्रतिपत्त्यभावान्नास्त्यत्र पूर्वपक्षः।
यद्वा नियामकाभावादिच्छया किमपि कार्यम्, किमपि बाध्यम्। इति पूर्वः पक्षः।

4सिद्धान्तः

अस्थिकर्तृत्वपक्षे 'शुक्रस्पर्शादिकं क्रत्वर्थं योग्यत्वात्कार्यम्, मृतयजमानकर्तृकमन्त्रजपादिकमयोग्यत्वा-द्बाध्यम्' इति निर्णीतम्
एवमत्रापि यद्योग्यं क्रत्वर्थं तत्कार्यम्, यदयोग्यं यजमानकर्तृकं तद्बाध्यम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोविंशे- यजमानस्य मरणेऽपि सर्वस्वारस्य समापनाधिकरणे सूत्रे 57-58”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.25 पञ्चविंशे- सर्वस्वारे यजमानस्य दिष्टगतावप्यायुराशंसनाधिकरणे सूत्रे 60- 61
जीवत्यवचनमायुराशिषस्तदर्थत्वात्।। 60।।
वचनं वा भागित्वात्प्रग्यथोक्तात्।। 61।।
पञ्चविंशाधिकरणमारचयति-

1विषयः

मृतेः प्रागायुराशीर्नो स्याद्वा नो मृतिकामनात्

2संशयः

होत्रा पठितव्ये सूक्तवाके योऽयम् 'आयुराशास्ते' इति भागो यजमानविषयः, स किं सर्वस्वारे यजमानमरणात्पूर्वं वर्जनीयः, पठितव्यो वा, इति संशयः।

3पूर्वपक्षः

प्रागार्भवाज्जीवनार्थमायुराशासनं भवेत्
मुमूर्षोर्यजमानस्यायुर्निरपेक्षत्वेनार्थलोपाद्वर्जनीयः। इति पूर्वः पक्षः।

4सिद्धान्तः

आर्भवाख्यस्य पवमानस्य स्तूयमानत्वं यजमानस्य मरणकालः, ततः पूर्वं जिजीविषुत्वात्पठितव्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्विंशे- सर्वस्वारे कार्यबाध्यव्यवस्थाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अस्थिकर्तृत्वपक्षे 'शुक्रस्पर्शादिकं क्रत्वर्थं योग्यत्वात्कार्यम्, मृतयजमानकर्तृकमन्त्रजपादिकमयोग्यत्वा-द्बाध्यम्' इति निर्णीतम् एवमत्रापि यद्योग्यं क्रत्वर्थं तत्कार्यम्, यदयोग्यं यजमानकर्तृकं तद्बाध्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.26 षड्विंशे- द्वादशाहे, ऋतुयाज्याद्यनुष्ठानाधिकरणे सूत्रम्
क्रिया स्याद्धर्ममात्राणाम्।। 62।।
षड्विंशाधिकरणमारचयति-

1विषयः

आत्रेयदानर्तुयाज्यावृती सत्रेषु नाचरेत्

3पूर्वपक्षः

कुर्याद्वानतिलोपान्नो धर्मार्थं क्रियतां द्वयम्
प्रकृतौ ''हिरण्यमात्रेयाय ददाति'' इति श्रुतम्, ऋतुयाज्यावरणं चास्ति। तदुभयं सत्रेषु न कार्यम्। द्वारभूताया आनतेर्लुप्तत्वात्। यद्यपि- आत्रेयः कर्मकरेभ्यो बहिर्भूतः, तथाऽपि तद्दानेन यजमानस्यौदार्यं पश्यन्त ऋत्विजो धनकामा आनता भवन्ति। वरणस्य चानत्यर्थत्वमृत्विग्वरणे प्रारम्भकालीने प्रसिद्धम्। तस्मात्- आनत्यर्थमुभयं नाचरेत्। इति पूर्वः पक्षः।

4सिद्धान्तः

प्रथमवरणेनैवानतिसिद्धेः कालान्तरे वरणमदृष्टार्थम्
धनकामानामपि कर्मकराणां प्रारम्भकाले स्वयमङ्गीकृताया मृतेरधिकं धनं न लभ्यत इत्यात्रेयदानदर्शनं नानतिकरम्
तस्मात्- अदृष्टार्थमुभयं कर्तव्यम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चविंशे- सर्वस्वारे यजमानस्य दिष्टगतावप्यायुराशंसनाधिकरणे सूत्रे 60- 61”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आर्भवाख्यस्य पवमानस्य स्तूयमानत्वं यजमानस्य मरणकालः, ततः पूर्वं जिजीविषुत्वात्पठितव्यः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.27 सप्तविंशे- पवमानेष्टौ निर्वापानुष्ठानाधिकरणे सूत्रम्
गुणलोपे च मुख्यस्य।। 63।।
सप्तविंशाधिकरणमारचयति-

1विषयः

लुप्यते पवमानेष्टौ निर्वापः क्रियतेऽथवा

3पूर्वपक्षः

लुप्यते साधनाभावात्तेन मुख्यो न लुप्यते
आधानप्रकरणगतायां पवमानेष्टौ निर्वापसाधनं नास्ति। अग्निहोत्रहवणी हि प्रकृतौ निर्वापसाधनम्। सा च नाधानकाले संभवति। अग्निहोत्रस्याधानोत्तरकालीनत्वेन तद्धोमसाधनभूतायास्तस्या अपि तथात्वात्। इति प्राप्ते

4सिद्धान्तः

ब्रूमः- मुख्यो निर्वापः
तं प्रति गुणभूताऽग्निहोत्रहवणी
न हि गुणलोपेन मुख्यो लोपमर्हति।
किंच- अधानकाले स्वरूपेणैवाविद्यमानाया अग्निहोत्रहवण्याः साधनत्वं दूरापेतम्
ततः 'साधनाभावात्' इत्युपन्यासः
तस्मान्न निर्वापो लुप्यते
-

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षड्विंशे- द्वादशाहे, ऋतुयाज्याद्यनुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रथमवरणेनैवानतिसिद्धेः कालान्तरे वरणमदृष्टार्थम् धनकामानामपि कर्मकराणां प्रारम्भकाले स्वयमङ्गीकृताया मृतेरधिकं धनं न लभ्यत इत्यात्रेयदानदर्शनं नानतिकरम् तस्मात्- अदृष्टार्थमुभयं कर्तव्यम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.28 अष्टाविंशे- वाजपेये मुष्टिलोपाधिकरणे सूत्राणि 64-67
मुष्टिलोपात्तु संख्यालोपस्तद्गुणत्वात्स्यात्।। 64।।
न निर्वापशेषत्वात्।। 65।।
संख्या तु चोदनां प्रतिसामान्यात्तद्विकारः संयोगाच्च परं मुष्टेः।। 66।।
न चोदनाभिसंबन्धात्प्रकृतौ संस्कारयोगात्।। 67।।

1विषयः

शरावैः सप्तदशभिर्यश्चरुस्तत्र मुष्टयः
चत्वारः सन्ति नो वोत स्यादेकं मुष्टिसंख्ययोः

2संशयः

तत्र चरौ किं मुष्टिसंख्ये द्वे अपि विद्येते, किंवा द्वे अपि न विद्येते, उत- उभयोरेकमस्ति, अन्यन्नास्ति, यदा- एकम्, तदाऽपि किं मुष्टिरेव, किंवा संख्यैव, इति संशयः।

3पूर्वपक्षः

तत्किमाद्यश्चोदितत्वाच्छरावापूरणान्न सः
द्वितीयोऽस्त्विति चेन्मैवं द्विलोपे बाधगौरवात्
चोदकप्राप्तेः 'उभयमस्ति' इत्याद्यः पक्षः प्राप्नोति।
चतुर्भिर्मुष्टिभिः सप्तदशशरावपूरणसमर्थस्य चरोरनिष्पत्तेः स पक्षो न युक्तः। तर्हि 'मुष्टितत्संख्ये द्वे अपि बाध्ये' इति द्वितीयः पक्षोऽस्तु। इति चेत्-
मैवम्। एकतरबाधेनैव पूरणाभावपरिहारे सिद्धे सति द्वयोर्बाधे गौरवप्रसङ्गात्। ननु- अत्रोपदिष्टेन शरावद्रव्येणातिदिष्टं मुष्टिद्रव्यं बाध्यते। तथा सप्तदशसंख्यया चतुःसंख्या बाध्यते। इत्युभयबाधोऽवश्यंभावी।
मैवम्। भिन्नविषयत्वेन बाधासंभवात्। शरावसप्तदशसंख्ये यागसंबद्धे, मुष्टिचतुःसंख्ये तु निर्वापसंबद्धे, इति विषयभेदः। कथं तर्ह्यत्र बाधप्रसङ्गः, 'अन्यथानुपपत्त्यैव' इति वदामः। अनुपपत्तिश्च पूरणासंभवेन दर्शिता। पूरणं चैकबाधेनाप्युपपद्यते। मुष्टिबाधे यथोचितं चतुःसंख्योपेतैः कुडवादिभिः पूर्तिः स्यात्, चतुःसंख्याबाधे यथोचितमधिकसंख्योपेतैर्मुष्टिभिः पूर्तिर्भविष्यति। एवं तर्हि 'एकलोपः' इति तृतीयः पक्षोऽस्तु।
तत्र संख्या धर्मः, मुष्टिर्धर्मी। तथा सति मुष्टौ लुप्ते सति निराश्रयस्य धर्मस्यासिद्धेः संख्यालोपोऽप्यवश्यंभावी। संख्यायां लुप्तायां मुष्टिः शक्नोत्यवस्थातुम्। तस्मात् 'संख्यैव लुप्यताम्' इति प्राप्ते-

4सिद्धान्तः

तृतीयोऽस्त्वेकलोपोऽत्र धर्मः संख्यैव लुप्यताम्
क्रियायोगान्न तद्धर्मः प्राथम्यात्साऽनुगृह्यताम्
ब्रूमः- चतुःसंख्या तावन्न मुष्टिनाऽन्वेति कर्मकारकवाचिद्वितीयाविभक्त्यन्तस्य चतुःशब्दस्य सकर्मकेण निर्वपतिधातुना साक्षादन्वयात्। अतश्चतुःसंख्या न मुष्टिधर्मः। पार्ष्ठिकान्वयेन तु मुष्टिविशेषणं भविष्यति। संख्यामुष्ट्योः क्रियासंबन्धे समाने सत्यपि प्रथमश्रुतत्वात्साऽनुगृह्यते। चरमश्रुतत्वेन दुर्बलो मुष्टिर्बाध्यते। इति राद्धान्तः।। 32।। 33।। 34।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तविंशे- पवमानेष्टौ निर्वापानुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूमः- मुख्यो निर्वापः तं प्रति गुणभूताऽग्निहोत्रहवणी न हि गुणलोपेन मुख्यो लोपमर्हति। किंच- अधानकाले स्वरूपेणैवाविद्यमानाया अग्निहोत्रहवण्याः साधनत्वं दूरापेतम् ततः 'साधनाभावात्' इत्युपन्यासः तस्मान्न निर्वापो लुप्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.29 एकोनत्रिंशे- धेन्वादिशब्दानां गोवाचिताधिकरणे सूत्रम्
औत्पत्तिके तु द्रव्यतो विकारः स्यादकार्यत्वात्।। 68।।
एकोनत्रिंशाधिकरणमारचयति-

1विषयः

धेनुवत्सर्षभाश्छागे गवि वा गुणकीर्तनात्

3पूर्वपक्षः

अजेऽतिदिष्टे स्युर्मैवं गोजात्येकगुणोक्तितः
पशुविकृतिषु श्रूयते ''द्यावापृथिव्यां धेनुमालभेत। मारुतं वत्सम्। ऐन्द्रमृषभम्'' इति। तत्र धेनुशब्दो नवप्रसूतिकामाचष्टे। वत्सशब्दो बालम्। ऋषभशब्दः पुमांसम्। तथा सति गुणवाचिन एते शब्दा अतिदिष्टमजद्रव्यमबाधित्वा तदेव द्रव्यं यथोक्तगुणविशिष्टं वदन्ति। गौस्तु न प्रत्यक्षमिह श्रूयते, नाप्यतिदिश्यते प्रकृतावनुपदिष्टत्वात्। अतो न गां विशिंषन्ति। इति पूर्वः पक्षः।

4सिद्धान्तः

न खल्वेते यथोक्तगुणसामान्यवाचिनः, किं तर्हि गोगतानेव तान्गुणानाहुः
अतस्ते शब्दा अजेऽनुपपन्नाः सन्तोऽनुपदिष्टमनतिदिष्टमपि गां मुख्यवृत्त्या विशिंषन्तश्छागं बाधन्ते
इति राद्धान्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टाविंशे- वाजपेये मुष्टिलोपाधिकरणे सूत्राणि 64-67”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तृतीयोऽस्त्वेकलोपोऽत्र धर्मः संख्यैव लुप्यताम् क्रियायोगान्न तद्धर्मः प्राथम्यात्साऽनुगृह्यताम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.30 त्रिंशे- 'वायव्यं श्वेतम्' इत्यत्राजस्यैवालम्भनाधिकरणे सूत्रम्
नौमित्तिके तु कार्यत्वात्प्रकृतेः स्यात्तदापत्तेः।। 69।।
त्रिंशाधिकरणमारचयति-

1विषयः

वायव्यं श्वेतमित्यत्र यः कोऽपि च्छाग एव वा

3पूर्वपक्षः

विशेषानुक्तितः कोऽपि च्छाग एवास्त्वबाधनात्
''वायव्यं श्वेतमालभेत भूतिकामः'' इत्यत्र श्वेतशब्दस्य धेन्वादिशब्दवज्जातिविशेषवाचित्वाभावाद्यं कंचिदपि पशुं श्वेतगुणकं समर्पयति। इति पूर्व पक्षः।

4सिद्धान्तः

चोदकप्राप्तस्याजस्य बाधे कारणाभावात्तमेव समर्पयति
इति राद्धान्तः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकोनत्रिंशे- धेन्वादिशब्दानां गोवाचिताधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न खल्वेते यथोक्तगुणसामान्यवाचिनः, किं तर्हि गोगतानेव तान्गुणानाहुः अतस्ते शब्दा अजेऽनुपपन्नाः सन्तोऽनुपदिष्टमनतिदिष्टमपि गां मुख्यवृत्त्या विशिंषन्तश्छागं बाधन्ते इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.31 एकत्रिंशे- खलेवालीतण्डुलयोः खादिरव्रैहत्वानियमाधिकरणे सूत्रम्
विप्रतिषेधे तद्वचनात्प्राकृतगुणलोपः स्यात्तेन च कर्मसंयोगात्।। 70।।
एकत्रिंशाधिकरणमारचयति-

1विषयः

खलेवालीतण्डुलयोः खादिरव्रैहता न वा
यूपोक्तेर्मुख्यवृत्त्यर्थमुद्देशात्खादिरी हि सा

2संशयः

तत्र प्रकृतौ यद्यूपस्य खादिरत्वम्, यच्च तण्डुलानां व्रीहिसंबन्धित्वम्. तदुमयमनयोर्विकृत्योरस्ति, न वा, इति संशयः।

3पूर्वपक्षः

अवघाताद्यबाधार्थं व्रैहता तण्डुलेष्वपि
प्रत्यक्षवचनत्वार्थं कार्यं यूपेन लक्ष्यताम्
तत्र 'या खलेवाली सा यूपो भवति' इत्येवमुद्देश्यविधेयभावे यूपशब्दस्य मुख्यवृत्तिर्न सिध्येत्, यूपाहुतिशास्त्रीयतक्षणादिरहितायाः खलेवाल्या यूपशब्दवाच्यत्वासंभवात्। अतो यूपशब्देन यूपकार्यं पशूनियोजनादिकं लक्षणीयं स्यात्। 'यो यूपः सा खलेवाली' इत्येवमुद्देश्यविधेयभावे तु संस्कृतस्य खादिरयूपस्य खले मेढित्वेन स्थापयितुं शक्यत्वान्न कस्यापि शब्दस्य लक्षणावृत्तिः। तस्मात्- अस्ति खलेवाल्याः खादिरत्वम्, तथा चोदकप्राप्तावघाताद्यबाधार्थं तण्डुलेष्वपि व्रीहित्वमस्ति। इति पूर्वः पक्षः।
यूपमुद्दिश्य खलेवालीत्वविधाने यूपशब्दव्यवहितयोः खलेवालीशब्दभवतिशब्दयोरश्रुतस्य नैरन्तर्यपाठस्य कल्प्यत्वेन वाक्यं परोक्षं स्यात्। ततः प्रत्यक्षवाक्यपरित्यागाद्वरं यूपशब्दस्य मुख्यवृत्तिमात्रहानम्। तथासति 'खलेवाल्यां पशुनियोजनादिकं कार्यम्' इति वाक्यार्थः संपद्यते। तत्र कुतो यूपः, कुतस्तरां तदीयं खादिरत्वम्। तथा तण्डुलानां पेषणसंयवनादिरहितानामेव प्रजापतिदेवतासंबन्धोऽत्र श्रूयते। प्रकृतौ तु पेषणादिपरम्परया निष्पन्नस्य तण्डुलकार्यस्य पुरोडाशस्य हविषो देवतासंबन्धः। अतोऽसमानत्वान्नात्र चोदकातिदेशः। तथा सति खादिरत्वव्रैहत्वनियमाभावाद्या काचित्खलेवाली, तण्डुलाश्च ये केचित्सन्तु। इति राद्धान्तः।। 37।। 38।। 39।।

4सिद्धान्तः

अन्तरेण हविर्देवयोगान्नात्रातिदेशनम्
न नियन्तुं शक्यतेऽतः खादिरव्रैहताऽनयोः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रिंशे- 'वायव्यं श्वेतम्' इत्यत्राजस्यैवालम्भनाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “चोदकप्राप्तस्याजस्य बाधे कारणाभावात्तमेव समर्पयति इति राद्धान्तः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.32 द्वात्रिंशे- खलेवाल्यां तक्षणाद्यननुष्ठानाधिकरणे सूत्रे 71-72
परेषां प्रतिषेधः स्यात्।। 71।।
प्रतिषेधाच्च।। 72।।
द्वात्रिंशाधिकरणमारचयति-

1विषयः

खलेवाल्यां जोषणं च च्छेदनं तक्षणोच्छ्रयौ
स्युर्वा नो चोदकात्स्युर्नो वैयर्थ्याच्च विरोधतः

3पूर्वपक्षः

जोषणं प्रीतिपूर्वको यूपीयवृक्षस्य लक्षणलक्षिततया सेव्यत्वनिश्चयः। तल्लक्षणानि चापस्तम्बेनोक्तानि 'समेजातमशाखाजं बहुपर्णशाखमप्रतिशुष्काग्रमशुषिरम्' इत्यादीनि। खलेवाल्यां चोदकप्राप्ता अपि जोषणादयो नो कर्तव्याः। कुतः- वैयर्थ्यात्। पूर्वसिद्धाया एव खलेवाल्या यूपकार्ये विनियोगमात्रेण शास्त्रार्थस्य कृतत्वादन्यज्जोषणादिकं कृतमप्यनर्थकम्। अपि च तक्षणादीनि यूपत्वसंपादकानि। खलेवाली तु न यूपः। किंतु- अयूपे केवलं यूपकार्यमतिदिश्यते। तस्मात्- तक्षणादीनि तत्र न कर्तव्यानि। किंच यथा वृक्षस्य च्छेदनादिना वृक्षत्वमपैति, तथा खलेवालीत्वमेवापेयात्। नहि वरघाताय कन्योद्वाहः। जोषणस्य तु वृक्षत्वदशायां कर्तव्यस्य न खलेवालीत्वदशायां प्राप्तिरस्ति। तस्मात्- जोषणादयो न सन्ति।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकत्रिंशे- खलेवालीतण्डुलयोः खादिरव्रैहत्वानियमाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अन्तरेण हविर्देवयोगान्नात्रातिदेशनम् न नियन्तुं शक्यतेऽतः खादिरव्रैहताऽनयोः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.33 त्रयस्त्रिंशे- खलेवाल्यां पर्यूहणादिसंस्काराणामनुष्ठानाधिकरणे सूत्रम्
अर्थाभावे संस्कारत्वं स्यात्।। 73।।
त्रयस्त्रिंशाधिकरणमारचयति-

1विषयः

पर्यूहणाद्यञ्जनादि न स्यात्स्याद्वाऽत्र पूर्ववत्

3पूर्वपक्षः

न स्याद्दृष्टादृष्टभावादविरोधाच्च तद्भवेत्
सन्ति प्रकृतौ पर्यूहणादयः। तथा च कल्पसूत्रकारः ''ब्रह्मवनिं त्वा क्षत्रवनिम्'' इति प्रदक्षिणं पांसुभिः पर्यूह्य, ''ब्रह्म दृंह क्षत्रं दृंह'' इति मैत्रावरुणदण्डेन समभूमिपरिदृंहणं कृत्वा, ''उत्तम्भय पृथिवीम्- इत्यद्भिः परिषिञ्चति'' इति। अस्ति चाञ्जनप्रोक्षणादि। तदेतदुभयविधमत्र खलेवाल्यां नास्ति, अयूपत्वेन च्छेदनादिवत्तन्निवृतेः। इति पूर्वः पक्षः।

4सिद्धान्तः

न तावदुभयं छेदनादिवद्व्यर्थम्, बलीवर्दादिभिश्चालितस्य मेढेः पर्यूहणादिभिर्दृढीकरणस्य दृष्टप्रयोजनस्य संभवात्
अञ्जनादिकं प्रकृताविवादृष्टार्थम्
न चैतेनोभयेन खलेवालीत्वमपैति
तस्मात्- अयूपत्वेऽपि (यत्) सार्थकमविरुद्धं च, तद्भवेत्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वात्रिंशे- खलेवाल्यां तक्षणाद्यननुष्ठानाधिकरणे सूत्रे 71-72”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.2.34 चतुस्त्रिंशे- मतद्वयसहितेऽधिकरणे सूत्रम्
अर्थेन च विपर्यासे तादर्थ्यात्तत्त्वमेव स्यात्।। 74।।
चतुस्त्रिंशाधिकरणं (महापितृयज्ञे धानास्ववघातानुष्ठानबोधक) भाष्यमतेनारचयति-

1विषयः

नावघातोऽवघातो वा धानानां नाविनष्टये

3पूर्वपक्षः

न नाशः क्रमबाधेऽतोऽवघातो नात्र बाध्यते
महापितृयज्ञे हविः किंचिच्छ्रूयते ''पितृभ्यो बर्हिषद्भ्यो धानाः'' इति। धानाशब्देन भृष्टं धान्यमभिधीयते। तासां धानानामवघाते सति सक्तुभावापत्तेर्धानात्वमेव विनश्येत्। अतस्तासाममिनाशाय नास्त्यवघातः। इति पूर्वः पक्षः।

4सिद्धान्तः

''धाना अवहन्तव्याः'' इति ह्यत्र चोदकवाक्यम्
तस्मिंश्च वाक्ये भर्जनसंपादितं धानात्वं पूर्वभावि, पश्चाद्भावी त्ववघातः, इति क्रमः प्रतीयते
तं क्रमं बाधित्वा प्रथमतोऽवघाते सति नास्ति धानात्वनाशः
अवधातस्य पदार्थस्य बाधाद्वरं तद्धर्मस्य क्रममात्रस्य बाधनम्
तस्मात्- अवघातः कार्यः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयस्त्रिंशे- खलेवाल्यां पर्यूहणादिसंस्काराणामनुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न तावदुभयं छेदनादिवद्व्यर्थम्, बलीवर्दादिभिश्चालितस्य मेढेः पर्यूहणादिभिर्दृढीकरणस्य दृष्टप्रयोजनस्य संभवात् अञ्जनादिकं प्रकृताविवादृष्टार्थम् न चैतेनोभयेन खलेवालीत्वमपैति तस्मात्- अयूपत्वेऽपि (यत्) सार्थकमविरुद्धं च, तद्भवेत्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
तदेवाधिकरणं (पेषणस्य प्राकृतताबोधक) वार्तिकमतेनारचयति-

1विषयः

पेषणं नूतनं मन्थे प्राकृतं वा क्रमान्तरात्

3पूर्वपक्षः

नूतनं प्राकृतं धर्ममात्रबाधस्य लाघवात्
महाप्रितृयज्ञ एवं श्रयते ''पितृम्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम्'' इति। मृतवत्सा धेनुरभिवान्या। द्रवद्रव्ये प्रक्षिप्य मथिताः सक्तवो मन्थः। तत्र यत्पेषणम्, तन्न प्राकृतम्। कुतः- क्रमव्यत्यासात्। प्रकृतौ हि प्रथमतः पेषणम्, पश्चात्पुरोडाशश्रपणम्, अत्र तु प्रथमतः श्रपणेन धानाः संपाद्य पश्चात्सक्तुभावाय पेषणम्। तस्मात्- नूतनम्। इति प्राप्ते-

4सिद्धान्तः

इति श्रीमाधवीये जैमिनीन्यायमालाविस्तरे दशमस्याध्यायस्य द्वितीयः पादः
ब्रूमः- चोदकप्राप्तप्राकृतपेषणतत्क्रमयोरुभयोर्बाधे गौरवात्क्रममात्रं बाध्यम्। पेषणपदार्थस्तु स एवेति तद्धर्माः 'दृषदि मन्थः' इत्यादयोऽत्र कर्तव्याः।
अत्र पादे- अधिकरणानि 34, सूत्राणि 74।
आदितः- अधिकरणानि 641, सूत्राणि 1785।
दशमाध्यायस्य तृतीयः पादः
बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते।
← Adhyāya 10, Pāda 1 Contents Adhyāya 10, Pāda 3 →