SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Jaiminīya Nyāyamālā-Vistara · Adhyāya 10, Pāda 1

बाधः

बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः

11adhikaraṇas
48sūtras
10.1.1 प्रथमे- वर्णकत्रयसहिते सूत्राणि 1-3
विधेः प्रकरणान्तरेऽतिदेशात्सर्वकर्म स्यात्।। 1।।
अपि वाऽभिधानसंस्कारद्रव्यमर्थे क्रियेत तादर्थ्यात्।। 2।।
तेषामप्रत्यक्षविशिष्टत्वात्।। 3।।
दशमाध्यायस्य प्रथमपादे प्रथमाधिकरणे (विकृतौ लुप्तार्थप्राकृतानां बाधसाधकं) प्रथमवर्णकमारचयति-

1विषयः

वेदिः स्वयंकृतेत्यादौ प्राकृतं सर्वमाचरेत्

2संशयः

तत्र संशयः 'किं लुप्तार्थमलुप्तार्थं च सर्वमङ्गजातं विकृतावप्यनुष्ठेयम्, उत लुप्तार्थं वर्जनीयम्' इति।

3पूर्वपक्षः

लुप्तार्थं बाध्यतां वाद्यश्चोदकप्रापितत्वतः
चोदकस्य साधारणत्वात्सर्वमनुष्ठेयमित्याद्यपक्षे प्राप्ते-
सिद्धान्तं

4सिद्धान्तः

अपेक्षासत्तियोग्यत्वहानेरुद्धननादिकम्
बाध्यतेऽपेक्षितं सर्वं चोदकेनातिदिश्यते
ब्रूमः- अङ्गी ह्यङ्गैरुपकृतः फलं साधयति। तथा सत्यङ्गिनोऽङ्गकृत उपकारे साक्षादपेक्षा, उपकारद्वारा त्वङ्गेषु। प्रत्यासन्नश्चाङ्गिनं प्रत्यङ्गेभ्य उपकारः। योग्यताऽपि साक्षादपेक्षां पूरयितुमुपकारस्यैवास्ति, न त्वङ्गानाम्। वेदिनिष्पादनलक्षणदृष्टोपकारयुक्तानि प्रकृतावुद्धननाद्यङ्गानि। विकृतौ तु वेद्याः स्वतः सिद्धत्वेन निष्पादनोपकारो लुप्यते। तत उपकारद्वारकाण्याकाङ्क्षासंनिधियोग्यत्वान्युद्धननाद्यङ्गेषु हीयन्ते। तस्मात्- उद्धननादीनि नानुष्ठेयानि। सोऽयं चोदकप्रापितस्योद्धननाद्यनुष्ठेयत्वप्रत्ययस्य भ्रान्तित्वेन निश्चयो बाध इत्युच्यते। चोदकस्य त्वलुप्तोपकारैरुपकारद्वारेणाकाङ्क्षासंनिधियोग्यत्वयुक्तैर्हविरासादनाद्यङ्गैश्चरितार्थता संपद्यते।। 2।। 3।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चदशे- 'आज्येन शेषं संस्थापयति' इत्यनेन कर्मान्तरविधानाधिकरणे सूत्राणि 56-60”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
(कृष्णलेष्ववहन्तिबाधसाधकं) द्वितीयवर्णकमारचयति-

1विषयः

अवघातः कृष्णलानामस्ति नो वाऽस्ति पाकवत्

3पूर्वपक्षः

प्रत्यक्षोक्त्या चरेत्पाकमवघाते तु नास्ति सा
विकृतिरूपाणां काम्येष्टीनां काण्डे पठ्यते ''प्राजापत्यं घृते चरुं निर्वपेच्छतकृष्णलमायुष्कामः'' इति। कृष्णलशब्दः सुवर्णशकलवाची। प्रकृतौ 'व्रीहीनवहन्ति' इति पुरोडाशहेतूनां व्रीहीणामवघातो विहितः, सोऽत्र चरुहेतूनां कृष्णलानां चोदकवशादस्ति, नो वा, इति संदेहः। 'अस्ति' इति पूर्वपक्षप्रतिज्ञा। वितुषीकरणं प्राकृत उपकारः। लुप्तेऽप्युपकारे तत्सत्तायां 'पाकवत्' इति निदर्शनम्। लुप्तेऽपि विक्लेदनोपकारे पाकः प्रतिवादिनोऽभिमतः, तद्वदवघातोऽप्यस्तु- इति चेत्-

4सिद्धान्तः

'घृते श्रपयति' इति प्रत्यक्षोक्त्या पाकोऽभ्युपगन्तव्यः
अवघाते तु सोक्तिर्नास्ति, इति वैषम्यादवघातो नास्ति
वर्णकान्तरम्
(वैश्वदेवचरौ विष्ण्वावाहनबाधसाधकं) तृतीयवर्णकमारचयति-

1विषयः

वेश्वदेवस्य तन्त्रे यः पक्षे विष्णुः स किं पुरा

3पूर्वपक्षः

आवाह्यो वा न वावाह्य आग्नेयाङ्गातिदेशनात्
काम्येष्टिष्वेवं श्रूयते ''वैश्वदेवं चरुं निर्वपेद्भ्रातृव्यवान्। तं बर्हिषदं कृत्वा शम्यया स्फ्येन व्यूहेत् 'इदमहममुं चामुं च व्यूहामि' इति। यं द्विष्यासं ध्यायन्यदधो विमृज्येद्यच्च स्फ्य आश्लिष्येत्, तद्विष्णव उरुक्रमायावद्येत्'' इति। अस्यायमर्थः 'अयं शत्रुक्षयार्थश्चरुः। तस्य प्रकृतिभूतादाग्नेयपुरोडाशाद्विशेष उच्यते पुरोडाशशेषं यागोत्तरकाले बर्हिष्यवस्थाप्य चतुर्णामृत्विजां भक्ष्यविभागाय हस्तेन चतुर्धा कुर्यात्। ततः- इदं ब्रह्मणः, इदमध्वर्योः, इदं होतुः, इदमग्नीधः, इति तत्तद्भागान्पृथगुपदिशेत्। अत्रोग्रकर्मत्वान्न हस्तेन विभागः। किंतु तीक्ष्णाग्रेण शम्या स्फ्यनामकेन यज्ञायुधद्वयेन। मन्त्रं च ''इदमिदमहं ब्रह्मभागं व्यूहामि'' इत्येवमादिरूपं पठेत्, इत्येतावान्विशेषः। ततो यदि कदाचिच्चरुलेशो व्यूहनकाले भूमौ पतेत्, यज्ञायुधेन वा लिप्येत। तदा तं पतितं लिप्तं चरुलेशं तीव्रपराक्रमाय शत्रुक्षयसमर्थाय विष्णवेऽवद्येत्। व्यूहनकालेऽवदानकाले च शत्रुं तीक्ष्णं ध्यायेत्' इति। तत्र वैश्वदेविकतन्त्रमध्ये चरुलेशस्याधःपाताश्लेषणपक्षे वैष्णवयागो विहितः। अतो वैश्वदेविकेऽनुष्ठितान्याघारप्रयाजाज्यभागादीन्यङ्गानि वैष्णवेऽपि प्रसङ्गादुपकुर्वन्ति, इति न पृथक्क्रियन्ते। आवाहनं त्वनुष्ठानवैषम्येण न प्रसङ्गात्सिध्यति। 'विश्वान्देवानावह' इति हि तत्रावाहनम्। अत्र तु 'विष्णुमावह' इति वैषम्यम्। सामिधेनीप्रयाजयोर्मध्यकाले होत्रा देवतावाहनार्थो निगदः पठ्यते। सोऽयं वैश्वदेवावाहनस्य कालः। न खलु तदानीं विष्णुः प्रसक्तः। प्रयाजाज्यभागप्रधानयागनारिष्ठहोमचतुर्धाकरणेष्वनुष्ठितेष्वाश्लेषणपक्षे वैष्णवयागस्य प्राप्स्यमानत्वात्। अतोऽप्रसक्तोऽपि विष्णुर्भविष्यद्यागसिद्धये पूर्वस्मिन्काल आवाह्यो, न वा, इति संदेहः।
'आवाह्यश्चोदकवशात्' इति प्राप्तम्। न च वैष्णवस्य वैश्वदेवाप्रकृतित्वान्नास्ति चोदकः- इति शङ्क्यम्। तयोरुभयोरप्याग्नेयविकृतित्वेनोभयत्राप्याग्नेयाङ्गानामतिदेशात्। तस्मात्- मान्यानां विप्रादीनामनिमन्त्रणे भोजनार्थागमनादर्शनान्मान्यतमाया देवताया अनावाहने हविःस्वीकारस्य दूरापेतत्वादप्रसक्तोऽपि विष्णुर्भविष्यद्यागसिद्ध्यर्थमावाह्यः। इति प्राप्ते-

4सिद्धान्तः

वैश्वदेवावाहनस्य काले स्फ्याश्लेषवर्जनात्
विष्णुयागस्य संदेहाद्विष्णोरावाहनं न हि
ब्रूमः- किं चतुर्धाकरणादूर्ध्वमावाह्यते, किंवा प्रयाजेभ्यः पुरा। नाद्यः। 'अकाले कृतमकृतं स्यात्' इति न्यायेनावाहनस्य निरर्थकत्वात्। न द्वितीयः। विष्णुयागनिमित्तस्य भविष्यदाश्लेषस्य पाक्षिकत्वेन नैमित्तिकस्य विष्णुयागस्यापि पाक्षिकत्वात्। तथा सत्ययागपक्षे कृतमावाहनमनर्थायैव स्यात्। न हि निमन्त्रितो विप्रादिरभोजितः संतुष्यति, प्रत्युत शपत्येव। एतदेवाभिप्रेत्योच्यते ''देवताभ्यो वा एष आवृश्च्यते, यो यक्ष्य इत्युक्त्वा न यजते'' इति। यागपक्षे तु विनाऽप्यावाहनं याग उपपद्यते। कदाचिदनिमन्त्रितानामपि पूज्यानां स्नेहातिशयेन स्वयमेव भोक्तुमागच्छतां लोके दृष्टत्वात्। तस्मात्- नास्ति विष्णोरावाहनम्।। 5।। 6।।
10.1.2 द्वितीये- दीक्षणीयादिषु- आरम्भणीयाबाधाधिकरणे सूत्रम्
इष्टिरारम्भसंयोगादङ्गभूताग्निवर्तेतारम्भस्य प्रधानसंयोगात्।। 4।।
द्वितीयाधिकरणमारचयति-

1विषयः

आरम्भणीया सोमाङ्गदीक्षणीयादिगा न वा

3पूर्वपक्षः

अलोपादादिमोऽन्त्यः स्यादारम्भद्वारलोपनात्
दर्शपूर्णमासयोरारप्स्यमानपुरुषसंस्कारार्थमारम्भणीयेष्टिर्विधीयते- ''आग्नावैष्णवमेकादशकपालं निर्वपद्देर्शपूर्णमासावारप्स्यमानः'' इति। सेयं सोमयागाङ्गभूतासु दीक्षणीयादिषु दर्शपूर्णमासेष्टिविकृतिषु कार्या, न वा- इति संदेहः।
दर्शपूर्णमासेष्ट्यङ्गभूता या आरम्भणीया, तासु प्रयाजादिवच्चोदकप्राप्ताया लोपकारणाभावात्कार्या- इत्याद्यः पक्षः।
किम्- आरम्भणीयाऽत्र क्रियमाणा सती सोमयागमारप्स्यमानस्य संस्कारः स्यात्, किंवा दीक्षणीयामारप्स्यमानस्य। नाद्यः। सोमयागस्य दर्शपूर्णमासविकृतित्वाभावेन सोमयागमारप्स्यमानस्य चोदकेनारम्भणीयाया अप्राप्तत्वात्। न द्वितीयः। अङ्गानां दीक्षणीयादीनां पृथगारम्भासंभवात्।

4सिद्धान्तः

ननु 'दीक्षणीयायास्तन्त्रं प्रकल्पयति' इति कल्पसूत्रकारैः पृथगारम्भो विहितः
मैवम्
अस्यारम्भस्य पुरुषसंस्कारेष्टिं प्रत्यप्रयोजकत्वात्
अन्यथा ततः प्रागनुष्ठितानामृत्विग्वरणादीनामसंस्कृत पुरुषानुष्ठानं प्रसज्येत
तस्मादारम्भाख्यद्वारलोपादारम्भणीया लुप्यत इत्यन्तिमः पक्षोऽभ्युपेयः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे- वर्णकत्रयसहिते सूत्राणि 1-3”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अपेक्षासत्तियोग्यत्वहानेरुद्धननादिकम् बाध्यतेऽपेक्षितं सर्वं चोदकेनातिदिश्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.1.3 तृतीये- अनुयज्ञादिष्वारम्भाणीयाबाधाधिकरणे सूत्रम्
प्रधानाच्चान्यसंयुक्तात्सर्वारम्भान्निवर्तेतानङ्गत्वात्।। 5।।
तृतीयाधिकरणमारचयति-

1विषयः

सा किमस्त्यनुमत्यादौ न वाऽङ्गिन्यस्त्युपक्रमात्
संघस्योपक्रमो नेष्टेर्द्वारलोपान्न सा भवेत्

2संशयः

''अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति'' इत्यादिना राजसूये दर्शपूर्णमासेष्टिविकृतयोऽनुमत्यादयो विहिताः, तास्वारम्भणीयाऽस्ति, न वा, इति संशयः।

3पूर्वपक्षः

दीक्षणीयादिवदनुमत्यादीनामन्याङ्गत्वाभावात्सोमयाग-वत्सर्वासामङ्गित्वेनोपक्रमसंभवात्तद्द्वारेणारम्भणीयाऽस्ति- इति पूर्वः पक्षः।
यद्यपि- अङ्गिभूता अनुमत्यादयः, तथाऽप्येकैकस्या इष्टेः पृथगारम्भो नास्ति। अन्यथा प्रधानेष्वाग्नेयादिष्वारम्भणीयायाः षट्कृत्वोऽनुष्ठानं प्रसज्येत। अथोच्येत प्रधानानां षण्णामाग्नेयादीनां संघस्य दर्शपूर्णमासेष्टित्वात्तस्यैक आरम्भः- इति। तर्ह्यत्रापीष्टिपशुसोमदर्विहोमरूपाणामनेकेषां प्रधानानां संघस्य राजसूयत्वात्संघस्यैवोपक्रमोऽस्तु। न चासौ संघो दर्शपूर्णमासविकृतिः। येन तत्रारम्भणीयाशङ्क्येत। अस्ति चात्रापरः सर्वारम्भार्थो यागः, ''अग्निष्टोममग्ने ज्योतिष्टोममाहरति'' इति ज्योतिष्टोमावान्तरसंस्थाभेद-रूपस्याग्निष्टोमस्याम्नानात्। तस्मादनुमत्यादिष्विष्टिष्वारम्भद्वारस्य लोपात्साम्भणीया न भवेत्।। 8।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- दीक्षणीयादिषु- आरम्भणीयाबाधाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ननु 'दीक्षणीयायास्तन्त्रं प्रकल्पयति' इति कल्पसूत्रकारैः पृथगारम्भो विहितः मैवम् अस्यारम्भस्य पुरुषसंस्कारेष्टिं प्रत्यप्रयोजकत्वात् अन्यथा ततः प्रागनुष्ठितानामृत्विग्वरणादीनामसंस्कृत पुरुषानुष्ठानं प्रसज्येत तस्मादारम्भाख्यद्वारलोपादारम्भणीया लुप्यत इत्यन्तिमः पक्षोऽभ्युपेयः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.1.4 चतुर्थे- आरम्भणीयायामारम्भणीयाबाधाधिकरणे सूत्राणि 6-8
तस्यां तु स्यात्प्रयाजवत्।। 6।।
न वाऽङ्गभूतत्वात्।। 7।।
एकवाक्यत्वाच्च।। 8।।

1विषयः

तस्यां साऽस्ति न वाऽङ्गत्वेऽप्यस्याः पृथगुपक्रमात्
अस्ति मैवं वचोऽशक्तेर्विधाने चातिदेशने

2संशयः

अतस्तस्यामपि दर्शपूर्णमासयोरिवारप्स्यमान-पुरुषसंस्काराय साऽनुष्ठेया, न वा, इति संशयः।

3पूर्वपक्षः

चोदकप्राप्तत्वादनुष्ठेया। ननु सोमाङ्गदीक्षणीयादिवदस्या दर्शपूर्णमासाङ्गत्वेनारम्भद्वारं लुप्यते- इति। न, वैषम्यात्। ऋत्विग्वरणादिना प्रयोगमारभ्यानुतिष्ठतः पुरुषस्यानुष्ठानमध्ये दीक्षणीया प्रवर्तते। दर्शपूर्णमासारम्भस्त्वारम्भणीयायामनुष्ठितायां पश्चात्संपद्यते। ततो दर्शपूर्णमासोपक्रमादन्य आरम्भणीयोपक्रमः- इति। द्वारसद्भावादारम्भणीयामारप्स्यमानः स्वसंस्कारार्थमारम्भणीयामन्यां कुर्यात्। अनवस्था तु लोकसिद्धबीजाङ्कुरादिदृष्टान्तेन समाधेया इति प्राप्ते-

4सिद्धान्तः

ब्रूमः- आरम्भणीयायामारम्भणीयान्तरं न कार्यम्। कुतः- अङ्गान्तरवदतिदेष्टुमशक्यत्वात्। तथा हि प्रकृतौ ''समिधो जयति'' इत्यादिवाक्यैः प्रयाजाद्यङ्गानां स्वरूपमुपदिश्यते। प्रकरणेन त्वङ्गाङ्गिभावो बोध्यते। ततः ''सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः'' इत्यादिकायां विकृतौ निर्वापलिङ्गानुमितं चोदकवाक्यमेवं पवर्तते 'इष्टिवच्चरौ प्रयाजाद्यङ्गान्यनुष्ठेयानि' इति। एवं च सत्यारम्भणीयायामिदं वाच्यं, किम्-''आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमानः'' इत्येतद्वाक्यं समिदादिवाक्यवदङ्गभूतामारम्भणीयां विदधातु किंवा यथा सौर्यादिवाक्यमङ्गातिदेशमनुमापयति, तथा दर्शपूर्णमासाङ्गभूतायामारम्भणीयायामन्यस्या आरम्भणीयाया अङ्गातिदेशमनुप्रापयतु उत- उभयं करोतु- इति। नाद्यः। अङ्गविधावुपक्षीणत्वेनातिदेशानुमाने शक्त्यभावात्। न द्वितीयः। अविहितत्वेनातिदेष्टुमयोग्यस्याङ्गस्यातिदेशे शक्त्यभावात्। न तृतीयः। वाक्यभेदापत्तेः।
ननु- अनेन न्यायेन सौर्यवाक्येऽपि वाक्यभेदः स्यात्। एकस्यैव वाक्यस्य यागविध्यङ्गातिदेशयोः प्रवृत्तत्वात्। मैवम्। वाक्यद्वयसद्भावात्। प्रत्यक्षं वाक्यं यागविधायकम्। अनुमितं वाक्यमङ्गातिदेशकम्। तर्हि- अत्रापि तादृशं वाक्यद्वयं भवतु- इति चेत्- बाढम्। अत एवारम्भणीयायां प्रयाजाद्यङ्गान्यनुष्ठीयन्ते। तद्वदारम्भणीयान्तररूपमप्यङ्गमनुष्ठीयताम्- इति चेत्- न। दर्शपूर्णमासप्रकरणे प्रयाजाद्यङ्गविधायकसमिदादिवाक्यवदारम्भणीयान्तररूपाङ्गविधायिनः कस्यचिद्वाक्यस्याभावात्। नहि प्रकृतावविद्यमानमङ्गं विकृतावतिदेशमर्हति। तस्मात्- संप्रतिपन्नस्यैवारम्भणीयाविधायिनो वाक्यस्येष्ट्यङ्गस्वरूपविधानाय समिदादिवाक्यस्थानीयत्वम्, अतिदेशाय सौर्यवाक्यस्थानीयत्वं च, इत्याकारद्वयं वर्णनीयम्। तथा सति- आवृत्तिलक्षणो वाक्यभेदः केन वार्येत। तस्मात्- आरम्भणीयायामारप्स्यमानपुरुषसंस्कारायारम्भणीयान्तरं न कार्यम्।। 9।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- अनुयज्ञादिष्वारम्भाणीयाबाधाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.1.5 पञ्चमे- खलेवाल्यां यूपाहुतिबाधाधिकरणे सूत्रम्
कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात्।। 9।।
पञ्चमाधिकरणमारचयति-

1विषयः

यूपाहुतिः खलेवाल्यां कार्या नो वाऽतिदेशतः

2संशयः

सेयमाहुतिः खलेवाल्यां कार्या, न वा, इति संशयः।

3पूर्वपक्षः

कार्या होमच्छेदनार्थो नाच्छेद्यायां स युज्यते
'तद्धर्मातिदेशात्पशुनियोजनवत्कार्या' इति पूर्वपक्षः।

4सिद्धान्तः

'यूपमच्छैष्यता' इति वाक्यस्यायमर्थः- 'अयूपं खादिरादिकाष्ठविशेषं शास्त्रीयच्छेदनादिसंस्कारैर्यूपीकर्तुं काष्ठस्य शास्त्रीयच्छेदनयोग्यतायै होमः कर्तव्यः' इति
नहि खलेवाल्याः शास्त्रीयं छेदनमस्ति
पूर्वमेव च्छिन्नस्य काष्ठस्य कृषीवलैः खले निखातत्वात्
तस्मात्- छेदनद्वारलोपादाहुतिर्न विद्यते

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- आरम्भणीयायामारम्भणीयाबाधाधिकरणे सूत्राणि 6-8”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.1.6 षष्ठे- खलेवाल्यां स्थाण्वाहुतिबाधाधिकरणे सूत्राणि 10-13
स्थाणौ तु देशमात्रत्वादनिवृत्तिः प्रतीयेत।। 10।।
अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत।। 11।।
समाख्यानं च तद्वत्।। 12।।
मन्त्रवर्णश्च तद्वत्।। 13।।
षष्ठाधिकरणमारचयति-

1विषयः

तस्यां स्थाण्वाहुतिः कार्या न वा, स्थाणौ विधानतः

2संशयः

सेयमाहुतिस्तस्यां खलेवाल्यां कार्या, न वा, इति संशयः।

3पूर्वपक्षः

कर्तव्योपकरोत्यारात्पशौ सा प्रकृताविव
स्थाणुमुपजीव्याहुतिविधानात्खलेवाल्यामपि स्थाणुत्वात्सा कर्तव्या। न च खलेवाल्याः शास्त्रीयसंस्काराभावेनाहुतिर्व्यर्था- इति शङ्कनीयम्। पशावारादुपकारकत्वात्। यथा प्रकृतौ यूपाद्वियोजितस्याव्रश्चनस्थाणोरसंस्कार्यत्वेन पशावुपकारः, तद्वत्। इति प्राप्ते-

4सिद्धान्तः

यूपीयाव्रश्चनस्थाणुद्वाराऽसौ यूपसंस्कृतिः
स्रग्वत्तत्संभवात्सेयमयूपाद्विनिवर्तते
ब्रूमः- 'आव्रश्च्यतेऽस्मात्' इत्याव्रश्चनमवशेषं वृक्षमूलम्। न खलु स्थाणुमात्रम्, आव्रश्चनमात्रं वोपजीव्येयमाहुतिः प्रवृत्ता, किं तर्हि यूपप्रकरणबलेन यूपीयाव्रश्चनस्थाणुत्वमुपजीव्य प्रवृत्ता। ततस्तद्द्वारेणासावाहुतिर्यूपसंस्कृतिः स्यात्। तथा च दृष्टसंस्कारे संभवत्यदृष्टमारादुपकारकत्वं कल्पयितुमयुक्तम्। न च यूपवियोजितस्थाणुगतातिशयेन यूपसंस्कारो न संभवति। यूपसंबन्धित्वेन तत्संभावात्। यथा- आचार्यस्य देवदत्तस्य शिरसोऽवतारिताया अपि स्रजः शिष्येण शुचि देशेऽवस्थापनम्। तत्संबन्धादाचार्यस्यैव संस्कारायावकल्पते, तद्वत्। अतो यूपसंस्कारार्थेयमाहुतिरयूपात्मिकायाः खलेवाल्या निवर्तते।। 11।। 12।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- खलेवाल्यां यूपाहुतिबाधाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “'यूपमच्छैष्यता' इति वाक्यस्यायमर्थः- 'अयूपं खादिरादिकाष्ठविशेषं शास्त्रीयच्छेदनादिसंस्कारैर्यूपीकर्तुं काष्ठस्य शास्त्रीयच्छेदनयोग्यतायै होमः कर्तव्यः' इति नहि खलेवाल्याः शास्त्रीयं छेदनमस्ति पूर्वमेव च्छिन्नस्य काष्ठस्य कृषीवलैः खले निखातत्वात् तस्मात्- छेदनद्वारलोपादाहुतिर्न विद्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.1.7 सप्तमे- उत्तमप्रयाजस्य संस्कारकर्मताधिकरणे सूत्रे 14-15
प्रयाजे च तन्न्यायत्वात्।। 14।।
लिङ्गदर्शनाच्च।। 15।।
सप्तमाधिकरणमारचयति-

1विषयः

अन्त्यः प्रयाज आरात्किमुपकार्युत संस्कृतिः

2संशयः

स किमिष्टेरारादुपकारकः, उत- आज्यभागादिषु यक्ष्यमाणानामग्न्यादिदेवतानां संस्कारकः, इति संशयः।

3पूर्वपक्षः

स्वाहाकारेतिदेवोक्तेर्मातृवन्मन्त्रवर्णनात्
तत्र स्वाहाकारशब्देन देवतोच्यते, यागस्य तदाकाङ्क्षणात्। न च प्रत्यक्षवचनमुपेक्ष्य मन्त्रवर्णाद्देवताकल्पनमुचितम्। ननु एवं सति विधिमन्त्रयोर्वैयधिकरण्यं प्रसज्येत। विधिना हि स्वाहाकाराख्या देवता विहिता, मन्त्रे तु यक्ष्यमाणाज्यभागादिदेवता अग्न्यादिदेवताः प्रतीयन्ते। ''स्वाहाऽग्निं, स्वाहा सोमं, स्वाहा प्रजापतिं, स्वाहाऽग्नीषोमौ'' इत्यादिको हि तन्मन्त्रः। नैष दोषः, मातृशब्दवन्मान्त्रवर्णिकाग्न्यादिशब्दानामनेकार्थत्वसंभवात्। यथा मातृशब्दः प्रस्थादिना धान्यस्य मातारं, जननीं चाचष्टे। तथाग्न्यादिशब्दः स्वाहाकाराख्यदेवतामाचक्षताम्। न च स्वाहाकाराख्यदेवतैव संस्क्रियतामिति वाच्यम्। संस्कृतायास्तस्या अन्यत्रोपयोगाभावात्। तस्मादिष्टेरारादुपकारकः। इत्याद्यः पक्षोऽभ्युपेयः।
मैवम्। चतुर्थ्या तद्धितेन वा सर्वत्र देवता विधीयते। न चात्र तौ विद्येते। किंच- अयं विधिर्देवतायागावुभौ विधत्ते, देवतामात्रं वा, यागमात्रं वा। नाद्यः। वाक्यभेदापत्तेः। न द्वितीयः। गौरवप्रसङ्गात्। न तृतीयः। अप्राप्तस्य यागस्याननुवाद्यत्वे सति तदनुवादेन देवताविध्ययोगात्। तस्मात्- चतुर्थः परिशिष्यते। तत्र च द्वितीयान्तः स्वाहाकारशब्दः ''पौर्णमासीं यजते'' इत्यादाविव कर्मनामधेयं भविष्यति। तस्मात्- आज्यभागादिदेवतासंस्कार उत्तमः प्रयाजः। एवं च सति सौर्यादिविकृतिषूत्तमप्रयाजमन्त्रे प्रधानदेवतावाच्यग्न्यादिपदपरित्यागो बाधविचारान्तर्गतस्याधिकरणस्य फलं भविष्यति।। 13।। 14।।

4सिद्धान्तः

आद्यो मैवं चतुर्थ्यादेरभावाद्यागमात्रके
विधित्सयाऽत्र सौर्यादावर्थोऽग्न्यादिनिवर्तनम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- खलेवाल्यां स्थाण्वाहुतिबाधाधिकरणे सूत्राणि 10-13”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यूपीयाव्रश्चनस्थाणुद्वाराऽसौ यूपसंस्कृतिः स्रग्वत्तत्संभवात्सेयमयूपाद्विनिवर्तते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.1.8 अष्टमे- अग्नियागस्यारादुपकारकत्वाधिकरणे सूत्राणि 16-18
तथाज्यभागाग्निरपीति चेत्।। 16।।
व्यपदेशाद्देवतान्तरम्।। 17।।
समत्वाच्च।। 18।।
अष्टमाधिकरणमारचयति-

1विषयः

आज्यभागो य आग्नेयः किं मुख्याग्नेः स संस्कृतिः

3पूर्वपक्षः

आरादुतोपकारी स्यात्पूर्वन्यायेन संस्कृतिः
दर्शपूर्णमासयोराम्नायते ''आज्यभागावग्नीषोमाभ्यां यजति'' इति। तयोः प्रथम आग्नेयः, द्वितीयः सौम्यः। तत्र सौम्यस्य नास्ति संदेहः। प्रधानदेवतासु केवलस्य सोमस्याभावात्। अग्निश्च केवल आग्नेयपुरोडाशे विद्यते। तस्मादाग्नेय आज्यभागः पुरोडाशदेवताया अग्नेः किं संस्कारः, उत- इष्टेरारादुपकार इति संदिह्यते। तत्र यथोत्तमप्रयाजो मन्त्रोक्तानां यक्ष्यमाणदेवतानां संस्कारः, तथा प्रथम आज्यभागोऽपि ''अग्निमग्न आवह'' इति निगदोक्तस्य प्रधानयागदेवतारूपस्याग्नेः संस्कारः- इति पूर्वः पक्षः।

4सिद्धान्तः

निगदेऽग्नेर्द्विरुक्तत्वाद्विधावेकपदोक्तितः
उपकारी ततः सोऽग्निः सौर्यादौ न निवर्तते
अत्रोच्यते- निगदस्तावदेवं पठ्यते- ''अग्निमग्न आवह। सोममावह। अग्निमावह'' इति। अस्यायमर्थः- 'भो आहुत्यधिकरणभूताग्ने, हविर्ग्राहिण आज्यभागद्वयाष्टाकपालपुरोडाशदेवतारूपान्- अग्निः, सोमः, अग्निः, इत्येतांस्त्रीनिहेष्टावावह' इति। तत्र पुरोडाशदेवतारूपादग्नेः प्रथमाज्यभागदेवतारूपोऽग्निरन्य इति गम्यते। अन्यथावाह्यस्याग्नेरेकस्य द्विरुक्तिवैयर्थ्यात्। ततः प्रथमाज्यभाग इज्यमानस्याग्नेः पुरोडाशदेवतात्वाभावात्तत्संस्कारकत्वमयुक्तम्। किंच- आज्यभागविधौ ''अग्नीषोमाभ्यां यजति'' इति देवताद्वयं समस्तेनैकेन पदेनोच्यते। तत्र यथा सोमस्य यागं प्रति गुणत्वं भवताऽभुपगमतम्, तथाऽग्नेरप्यभ्युपगन्तव्यम्। तच्च संस्कारपक्षे विरुद्धम्। संस्कार्यत्वेन प्राधान्यावश्यभावात्। तस्मात्- संस्कारपक्षासंभवात्प्रथमाज्यभागो द्वितीयाज्यभागवदिष्टेरारादुपकारकः। एवं च सति सौर्ययागेऽपि प्रथमाज्यभागेऽग्निर्न निवर्तते। इति बाधापवादो विचारफलं भविष्यति।। 15।। 16।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे- उत्तमप्रयाजस्य संस्कारकर्मताधिकरणे सूत्रे 14-15”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आद्यो मैवं चतुर्थ्यादेरभावाद्यागमात्रके विधित्सयाऽत्र सौर्यादावर्थोऽग्न्यादिनिवर्तनम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.1.9 नवमे- पशुपुरोडाशयागस्य देवतासंस्कारकत्वाधिकरणे सूत्राणि 19-33
पशावपीति चेत्।। 19।।
न तद्भूतवचनात्।। 20।।
लिङ्गदर्शनाच्च।। 21।।
गुणो वा स्यात्कपालवद्गुणभूतविकाराच्च।। 22।।
अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत स्वाहाकारवदङ्गानामर्थसंयोगात्।। 23।।
व्यृद्धवचनं च विप्रतिपत्तौ तदर्थत्वात्।। 24।।
गुणेऽपीति चेत्।। 25।।
नासंहानात्कपालवत्।। 26।।
ग्रहाणां च संप्रतिपत्तौ तद्ववचनं तदर्थत्वात्।। 27।।
ग्रहाभावे च तद्वचनम्।। 28।।
देवतायाश्च हेतुत्वं प्रसिद्धं तेन दर्शयति।। 29।।
अविरुद्धोपपत्तिरर्थापत्तेः शृतवद्गुणभूतविकारः स्यात्।। 30।।
स द्व्यर्थः स्यादुभयोः श्रुतिभूतत्वाद्विप्रतिपत्तौ तादर्थ्याद्विकारत्वमुक्तं तस्यार्थवादत्वम्।। 31।।
विप्रतिपत्तौ तासामाख्याविकारः स्यात्।। 32।।
अभ्यासो वा प्रयाजवदेकदेशोऽन्यदेवत्यः।। 33।।
नवमाधिकरणमारचयति-

1विषयः

उपकारी संस्कृतिर्वा पुरोडाशः पशूदितः

3पूर्वपक्षः

तद्धितोक्त्या द्वयोर्देवभेदादुपकृतिर्मता
ज्योतिष्टोमाङ्गभूताग्नीषोमीयपशौ श्रूयते ''अग्नीषोमीयस्य वपया प्रचर्याग्नीषोमीयं पशुपुरोडाशमेकादशकपालं निर्वपति'' इति। तत्र पशावुक्तः पुरोडाशः किं पशोरारादुपकारकः, उत प्रशुदेवतासंस्कारकः, इति संदेहः।
तत्र ''अग्नीषोमीयं पशुमालभेत'' इति पशुविधौ तद्धितोक्त्याऽग्नीषोमदेवता यथा गुणत्वेन पशौ विधीयते तथा पशुपुरोडाशे। तथा सति विधिभेदेन विधेयदेवताभेदात्संस्कारो न युक्तः। गुणत्वं च संस्कार्यत्वविरोधीति पूर्वोक्तम्। तस्मात्- पशोरारादुपकारकः। इति प्राप्ते-

4सिद्धान्तः

संदंशान्निश्चितेऽङ्गत्वे दृष्टोऽर्थः स्मृतिसंस्कृतिः
देवान्तरं चेद्विकृतावग्नीषोमनिवर्तनम्
ब्रूमः- देवताभेदवादिना तावदिदं वक्तव्यम्- पशुः पुरोडाशश्चेत्युभौ किं स्वतन्त्रौ यागौ, किंवाऽङ्गाङ्गिरूपौ। तत्रापि किमङ्गम्, किंवाऽङ्गी, इति। तत्र पशुधर्मैरुभयतः संदष्टस्य पुरोडाशस्य स्वतन्त्राङ्गित्वे प्रकरणपाठो बाध्येत, तद्वदभिमतमुपकारकत्वं न सिध्येत्। अङ्गत्वेऽपि दृष्टसंभवाददृष्टकल्पनमन्याय्यम्। संभवति चात्र दृष्टम्। पुरोडाशवाक्यगतेन तद्धितान्तपदेन पशुवाक्यविहिताया देवताया अनुवादे सति तदीयस्मरणपूर्वकनिर्वापेण पशुदेवतायाः संस्क्रियमाणत्वात्। एवं च सति पशुवाक्ये गुणत्वेन प्रतीयमानाया अपि देवतायाः पुरोडाशवाक्ये प्राधान्यावगमात्संस्कार्यत्वमविरुद्धम्। तस्मात्पशुदेवतासंस्कारः पुरोडाशः। एवं च सत्यग्नीषोमीयपशुविकृतौ वायव्यपशावग्नीषोमीयदेवतायां निवृत्तायां तदीयपशुपुरोडाशेऽपि सा निवर्तत इति बाधः फलिष्यति।। 17।। 18।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- अग्नियागस्यारादुपकारकत्वाधिकरणे सूत्राणि 16-18”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “निगदेऽग्नेर्द्विरुक्तत्वाद्विधावेकपदोक्तितः उपकारी ततः सोऽग्निः सौर्यादौ न निवर्तते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.1.10 दशमे- चरुशब्दस्यौदनवाचिताधिकरणे सूत्राणि 34-44
चरुर्हविर्विकारः स्यादिज्यासंयोगात्।। 34।।
प्रसिद्धग्रहणत्वाच्च।। 35।।
ओदनो वाऽग्नसंयोगात्।। 36।।
न द्व्यर्थत्वात्।। 37।।
कपालविकारो वा विशयेऽर्थोपपत्तिभ्याम्।। 38।।
गुणमुख्यविशेषाच्च।। 39।।
तच्छ्रुतौ चान्यहविष्ट्रवात्।। 40।।
लिङ्गदर्शनाच्च।। 41।।
ओदनो वा प्रयुक्तत्वात्।। 42।।
अपूर्वव्यपदेशाच्च।। 43।।
तथा च लिङ्गदर्शनम्।। 44।।
दशमाधिकरणमारचयति-

1विषयः

सौर्यं चरौ चरुः स्थाली किंवाऽन्नं लौकिकोक्तितः

3पूर्वपक्षः

स्थाल्यस्यां श्रपणं योग्यं कपालविकृतित्वतः
''सौर्यं चरुं निर्वपेत्'' इत्यादिवाक्ये चरुशब्दः किं स्थालीं वक्ति, उत- ओदनम्, इति संदेहः।
तत्र लौकिका आ हिमवत आ च कुमारीभ्यः सर्वेऽपि स्वस्वदेशीयभाषाप्रसिद्ध्या यत्किंचिद्गकारवकाराद्यक्षरमुपरि प्रक्षिप्य चरुशब्दमल्पे पात्रे पाकाधिकरणे ताम्रादिमये प्रयुञ्जते।
निघण्टुकाराश्च- 'उखा स्थाली चरुः' इत्येताञ्शब्दान्पर्यायत्वेनोपदिशन्ति। तस्मात्- चरुशब्दः स्थालीं वक्ति। यदि तस्या अदनीयत्वाभावेन पुरोडाशवत्प्रदानयोग्यता न स्यात्तर्हि मा भूत्पुरोडाशविकृतित्वम्। कपालविकृतित्वं भविष्यति। श्रपणयोग्यतायाः सद्भावात्। यथा कपालेषु हविः श्रप्यते तथा स्थाल्यामपि श्रपयितुं शक्यते। तस्मात्- चरुः स्थाली। इति प्राप्ते-

4सिद्धान्तः

विद्वच्छ्रुतिप्रसिद्ध्याऽन्नं देवता तद्धितोक्तितः
योग्यत्वेन प्रदेयं तत्पुरोडाशहविर्यथा
ब्रूमः- अन्नमेव चरुशब्देनोच्यते। कुतः- श्रुतिप्रसिद्धेः। ''आदित्यः प्रायणीयश्चरुः'' इति विधाय तद्वाक्यशेषे हि ''अदितिमोदनेन'' इत्योदनशब्देन चरुरनूद्यते। यदि भोज्यान्ने चरुशब्दः क्वापि न प्रयुज्यते, तर्हि- ओदनविशेषवाची चरुशब्दोऽस्तु, तत्र विद्वत्प्रसिद्धेः। विद्वांसो याज्ञिकाः शब्दैकगम्यधर्माधर्मव्यवहारिणः शब्दार्थाविप्लवे तात्पर्यवन्तोऽनवस्रावितान्तरूष्मपक्वे जीवतण्डुले विशदसिद्ध ओदने चरुशब्दं प्रयुञ्जते। एवं सत्योदनवाचित्वे 'सौर्यम्' इति तद्धितोऽप्युपपद्यते। यथा 'आग्नेयः' इति देवतातद्धितसंयुक्तः पुरोडाशः प्रदेयद्रव्यम्, तथा चरुरपि। अन्ये च निघण्टुकाराः 'हव्यपाके चरुः पुमान्' इति पठन्ति। तस्मात्- चरुशब्दोऽन्नवाची।। 19।। 20।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे- पशुपुरोडाशयागस्य देवतासंस्कारकत्वाधिकरणे सूत्राणि 19-33”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “संदंशान्निश्चितेऽङ्गत्वे दृष्टोऽर्थः स्मृतिसंस्कृतिः देवान्तरं चेद्विकृतावग्नीषोमनिवर्तनम्”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
10.1.11 एकादशे सौर्यचरोः स्थाल्यामेव पाकाधिकरणे सूत्राणि 45-48
स कपाले प्रकृत्या स्यादन्यस्य चाश्रुतित्वात्।। 45।।
एकस्मिन्वा विप्रतिषेधात्।। 46।।
न वाऽर्थान्तरसंयोगादपूपे पाकसंयुक्तं धारणार्थं चरौ भवति तत्रार्थात्पात्रलाभः स्यादनियमोऽविशेषात्।। 47।।
चरौ वा लिङ्गदर्शनात्।। 48।।
एकादशाधिकरणमारचयति-

3पूर्वपक्षः

विषयसंशयनिर्देशकं पूर्वार्धं स्पष्टार्थम्। यथा प्रकृतौ पुरोडाशस्य कपाले पाकः, तथा विकृतौ चरोः। इत्याद्यः पूर्वपक्षः।
पुरोडाशस्यापूपत्वात्कपालगतोष्मणा पाकः संभवति, चरुस्त्वोदनत्वादुदकगतोष्मणा पक्तव्यः, अतोऽप्राकृतकार्यत्वाच्चोदकप्राप्तिर्नास्तीति यद्युच्येत तर्ह्यनपूपस्य चरोरुदकधारणयोग्ये कटाहघटादौ यत्र क्वापि पाकः। इति द्वितीयः पक्षः।
निरुप्तानां मुष्टिचतुष्टयपरिमितानां तण्डुलानामल्पेनैव पात्रेण पक्तुं योग्यत्वाच्चरोः स्थाल्यामेव पाकः। इति राद्धान्तः।
पेषणादीन्यनुक्रामति-
पेषणं चूर्णनम्। यवनं पिष्टस्योदकमिश्रणम्। वाप उदकमिश्रणाय पिष्टस्य पात्रे प्रक्षेपः। तापः कपालानामङ्गारैः प्रतापनम्। उपहितिरङ्गारेषु कपालस्थापनम्। प्रथा कपालेष्ववस्थापितस्य पुरोडाशस्य हस्तसंघट्टनेन सर्वेषु कपालेषु प्रसारणम्। मार्जनं श्लक्ष्णीकरणम्। अध्यूहनं भस्मनाऽङ्गारैश्चोपर्याच्छादनम्। ज्वाला दर्भपिञ्जलैः प्रज्वालनम्। व्युद्धृत्यसादनं कपालेभ्यः पुरोडाशं पृथक्कृत्यान्तर्वेद्यवस्थापनम्।। 23।।
ननु पेषणादिनिवृत्तेः पूर्वाधिकरणद्वयफलत्वे किमिति सूत्रकारः प्रत्येकं सूत्रैर्विचारितवान्- इत्याशङ्क्य 'मन्दमतिव्युदासाय' इत्याह-
अत्र पादे- अधिकरणानि 11, सूत्राणि 58।
आदितः- अधिकरणानि 607, सूत्राणि 1711।
दशमाध्यायस्य द्वितीयः पादः
संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- चरुशब्दस्यौदनवाचिताधिकरणे सूत्राणि 34-44”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विद्वच्छ्रुतिप्रसिद्ध्याऽन्नं देवता तद्धितोक्तितः योग्यत्वेन प्रदेयं तत्पुरोडाशहविर्यथा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 9, Pāda 4 Contents Adhyāya 10, Pāda 2 →