SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Vaiyāsika Nyāyamālā · Adhyāya 4, Pāda 1

फलम्

श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता

13adhikaraṇas
21sūtras
4.1.1 आवृत्त्यधिकरणम्
प्रथमे श्रवणमननादीना.मावृत्त्यधिकरणे सूत्रे
आवृत्ति.रसकृ.दुपदेशात्॥4.1.1॥
लिङ्गाच्च॥4.1.2॥
चतुर्थाध्यायस्य प्रथमपादस्य प्रथमाधिकरणारचयति –

1विषयः

श्रवणाद्या.स्सकृत्कार्या आवृत्त्या वा सकृ.द्यतः।

3पूर्वपक्षः

शास्त्रार्थ.स्तावता सिध्ये-त्प्रयाजादौ सकृत्कृतेः॥ 1॥
“सकृत्कृते, कृतः शास्त्रार्थः” इति न्यायेन श्रवणादीनां प्रयाजादिवत्, सकृदेवानुष्ठानम्। इति प्राप्ते,

4सिद्धान्तः

आवृत्त्या दर्शनान्ता.स्ते तण्डुलान्ता.वघातवत्।
दृष्टेऽत्र सम्भव.त्यर्थे नादृष्टं कल्प्यते बुधैः॥ 2॥
ब्रूमः- उक्तन्यायस्यादृष्टफलविषयत्वात्। अत्र ब्रह्मसाक्षात्कारलक्षणस्य दृष्टफलस्य सम्भवात्, “दृष्टे सम्भवति, अदृष्टं न कल्पनीयम्” इति न्यायेन, अवघातवत् फलसिद्धिपर्यन्तं श्रवणादि आवर्तनीयम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “मुक्तिफलाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.2 आत्मत्वोपासनाधिकरणम्
द्वितीये आत्मत्वेन ब्रह्मणो ग्रहणाधिकरणे सूत्रम्
आत्मेति तूपगच्छन्ति, ग्राहयन्ति च॥4.1.3॥
द्वितीयाधिकरणमारचयति –

1विषयः

ज्ञात्रा स्वान्यतया ब्रह्म ग्राह्य.मात्मतयाथ वा।

3पूर्वपक्षः

अन्यत्वेन विजानीया-द्दुःख्यदुःखि.विरोधतः॥ 3॥
यच्छास्त्रप्रतिपाद्यं ब्रह्म, तज्जीवेन ज्ञात्रा, स्वव्यतिरिक्ततया ग्रहीतव्यम्, दुःखि- अदुःखिनोः जीवब्रह्मणो.रेकत्वविरोधात्। इति प्राप्ते,

4सिद्धान्तः

औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यताम्।
गृह्णन्त्येवं महावाक्यै-स्स्वशिष्या.न्ग्राहयन्ति च॥ 4॥
ब्रूमः- “वस्तुतो ब्रह्मस्वरूपस्यैव सतो जीवस्य, अन्तःकरणोपाधिकृतो दुःखित्वादिसंसारधर्मः” इति वियत्पादे (ब्र.सू.2/3/) जीवविचारे प्रपञ्चितम्। अतो वास्तवविरोधाभावा.दात्मत्वेनैव ब्रह्म गृह्यताम्।
अत एव “अहं ब्रह्मास्मि” “अयमात्मा ब्रह्म” इत्यादिमहावाक्यैः, तत्त्वविदः आत्मत्वेनैव ब्रह्म गृह्णन्ति। तथा “तत्त्वमसि” इत्यादिमहावाक्यैः स्वशिष्या.न्ग्राहयन्त्यपि। तस्मात्- आत्मत्वेनैव ब्रह्म ग्रहीतव्यम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आवृत्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आवृत्त्या दर्शनान्ता.स्ते तण्डुलान्ता.वघातवत्। दृष्टेऽत्र सम्भव.त्यर्थे नादृष्टं कल्प्यते बुधैः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.3 प्रतीकाधिकरणम्
तृतीये प्रतीकेऽहंदृष्टिनिराकरणाधिकरणे सूत्रम्
न प्रतीके न हि सः॥4.1.4॥
तृतीयाधिकरणमारचयति –

1विषयः

प्रतीकेऽहंदृष्टिरस्ति न वा, ब्रह्मविभेदतः।

3पूर्वपक्षः

जीवप्रतीकयो.र्ब्रह्म-द्वाराऽहंदृष्टि.रिष्यते॥ 5॥
“मनो ब्रह्मेत्युपासीत” “आदित्यो ब्रह्म” इत्यादिषु ब्रह्मदृष्ट्या संस्कृतं मनआदित्यादि प्रतीक.मुपास्यम्। तच्च प्रतीकम्, उपासकेन स्वात्मतया ग्रहीतव्यम्, प्रतीकस्य ब्रह्मकार्यत्वेन, ब्रह्मणा सह भेदाभावात्। जीवस्य च ब्रह्माभिन्नत्वात्, ब्रह्मद्वारोपास्य.प्रतीकस्य उपासकजीवस्य च भेदाभावेन एकत्वसम्भवात्। इति प्राप्ते,

4सिद्धान्तः

प्रतीकत्वोपासकत्व-हानि.र्ब्रह्मैक्यवीक्षणे।
अवीक्षणे तु भिन्नत्वा-न्नास्त्यहंदृष्टि.योग्यता॥ 6॥
ब्रूमः- यदि ब्रह्मकार्यस्य प्रतीकस्य ब्रह्मैक्य.मवलोक्यते, तदा प्रतीकस्वरूपमेव विलीयते, घटस्य मृद्रूपेणैक्ये विलयदर्शनात्। यदि च जीवस्य ब्रह्मैक्य.मवलोक्येत, तदा जीवत्वापाये सति, उपासकत्वं हीयेत।
अथ- उपास्य-उपासकस्वरूपलोभेन, कार्यकारणैक्यं जीवब्रह्मैक्यं च न पर्यालोच्येत, तदा गोमहिषवत् अत्यन्तभिन्नयोः प्रतीकोपासकयोः नास्त्येकत्वयोग्यता। तस्मात्- प्रतीके नास्ति अहंदृष्टिः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आत्मत्वोपासनाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यताम्। गृह्णन्त्येवं महावाक्यै-स्स्वशिष्या.न्ग्राहयन्ति च॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.4 ब्रह्मदृष्ट्यधिकरणम्
चतुर्थे उपास्ये ब्रह्मदृष्ट्यधिकरणे सूत्रम्
ब्रह्मदृष्टि.रुत्कर्षात्॥4.1.5॥
चतुर्थाधिकरणमारचयति –

1विषयः

किमन्यधी.र्ब्रह्मणि स्या-दन्यस्मि.न्ब्रह्मधी.रुत।

3पूर्वपक्षः

अन्यदृष्ट्योपासनीयं ब्रह्मात्र फलदत्वतः॥ 7॥
“मनो ब्रह्म”- इत्यत्र ब्रह्मस्वरूपमनोदृष्टिं ब्रह्मणि कृत्वा, ब्रह्म उपासनीयम्, ब्रह्मणः फलप्रदत्वेनोपास्यतार्हत्वात्। इति प्राप्ते,

4सिद्धान्तः

उत्कर्षेतिपरत्वाभ्यां ब्रह्मदृष्ट्याऽन्यचिन्तनम्।
अन्योपास्त्या फलं दत्ते ब्रह्मातिथ्याद्युपास्तिवत्॥ 8॥
ब्रूमः- ब्रह्मण उत्कृष्टत्वात्, दृष्टि.र्निकृष्टे मनसि कर्तव्या। लोके हि निकृष्टे भृत्ये, राजदृष्टिं कृत्वा, राजवत् तं पूजयन्ति।
किञ्च “मनो ब्रह्मेत्युपासीत” इत्यत्र ब्रह्मशब्दः, इतिशब्दपरत्वेन दृष्टिलक्षको भविष्यति। मनश्शब्दश्चानितिपरत्वात् मुख्यार्थवाची। यथा “स्थाणुं चौर इति प्रत्येति” इत्यत्र स्थाणुशब्दो मुख्यार्थवाची, चौरशब्दो दृष्टिलक्षकः, तद्वत्।
न च- अब्रह्मस्वरूपस्य मनसः उपास्यत्वे, ब्रह्मणः फलप्रदत्वानुपपत्तिः, अब्रह्मस्वरूपस्याप्यतिथे.रुपासने, कर्माध्यक्षत्वेन यथा फलं प्रयच्छति, तद्व.दत्रापि सम्भवात्। तस्मात् अब्रह्मणि प्रतीके, ब्रह्मधीः कर्तव्या॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रतीकाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रतीकत्वोपासकत्व-हानि.र्ब्रह्मैक्यवीक्षणे। अवीक्षणे तु भिन्नत्वा-न्नास्त्यहंदृष्टि.योग्यता॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.5 आदित्यादिमत्यधिकरणम्
पञ्चमे अङ्गेष्वादित्यत्वादिधीकरणाधिकरणे सूत्रम्
आदित्यादिमतय.श्चाङ्ग उपपत्तेः॥4.1.6॥
पञ्चमाधिकरणमारचयति –

1विषयः

आदित्यादा.वङ्गदृष्टि-रङ्गे रव्यादिधी.रुत।

3पूर्वपक्षः

नोत्कर्षो ब्रह्मजत्वेन द्वयो.स्तेनैच्छिकी मतिः॥ 9॥
“य एवासौ तपति, तमुद्गीथ.मुपासीत” इत्यत्र, आदित्यदेवतां प्रतीकं कृत्वा, कर्माङ्गभूत-उद्गीथदृष्टिः कर्तव्या, विपर्ययेण वा कर्माङ्गे आदित्यदृष्टिः। आदित्योद्गीथयो.रुभयोः ब्रह्मकार्यत्वेन, पूर्वाधिकरणोत्कर्षन्यायानवतारेण नियामकाभावात्। इति प्राप्ते,

4सिद्धान्तः

आदित्यादिधियाऽङ्गानां संस्कारे कर्मणः फले।
युज्यतेऽतिशय.स्तस्मा-दङ्गेष्वर्कादिदृष्टयः॥ 10॥
ब्रूमः- आदित्यदृष्ट्या कर्माङ्गं संस्कर्तव्यम्। तथा सति, दृष्टिभिः संस्कृतस्य कर्मणः, फलातिशयसम्भवात्। विपर्यये तु, कर्माङ्गै.रादित्यदेवतायां संस्कृतायां, किं तव फलिष्यति? न ह्यक्रियात्मिका देवता फलस्य साधनं भवति। अन्यथा देवतायाः साधारणत्वेन यजमानायजमानयोः फलसाम्यप्रसङ्गात्। तस्मात्- अङ्गेष्वादित्यादिदृष्टयः कर्तव्याः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ब्रह्मदृष्ट्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उत्कर्षेतिपरत्वाभ्यां ब्रह्मदृष्ट्याऽन्यचिन्तनम्। अन्योपास्त्या फलं दत्ते ब्रह्मातिथ्याद्युपास्तिवत्॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.6 आसीनाधिकरणम्
आसीनः सम्भवात्॥4.1.7॥
ध्यानाच्च॥4.1.8॥
अचलत्वं चापेक्ष्य॥4.1.9॥
स्मरन्ति च॥4.1.10॥

1विषयः

नास्त्यासनस्य नियम उपास्ता.वुत विद्यते।

3पूर्वपक्षः

न देहस्थितिसापेक्षं मनोऽतो नियमो न हि॥ 11॥
षष्ठे, उपासने आसनावश्यकताधिकरणे सूत्राणि
<w:tab w:val=“left” w:pos=“2279”/><w:tab w:val=“center” w:pos=“3835”/></w:tabs><w:ind w:firstLine=“720”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>षष्ठाधिकरणमारचयति –
“आसीनेनैवोपासितव्यम्” इति नास्ति नियमः, मानसव्यापारं प्रति देहस्थितिविशेषस्यानुपयुक्तत्वात्। इति प्राप्ते,

4सिद्धान्तः

शयनोत्थानगमनै-र्विक्षेपस्यानिवारणात्।
धीसमाधान.हेतुत्वा-त्परिशिष्यत आसनम्॥ 12॥
ब्रूमः- परिशेषा.दासनं नियम्यते। तथाहि- न ताव.च्छयानेनोपासितुं शक्यम्, अकस्मा.न्निद्रयाऽभिभूतेः सम्भवात्। नाप्युत्थितेन गच्छता वा, देहधारणमार्गनिश्चयादिव्यापारेण चित्तस्य विक्षिप्तत्वात्। अत आसीनेनैवोपासितव्यम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आदित्यादिमत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आदित्यादिधियाऽङ्गानां संस्कारे कर्मणः फले। युज्यतेऽतिशय.स्तस्मा-दङ्गेष्वर्कादिदृष्टयः॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.7 एकाग्रताधिकरणम्
सप्तमे उपासने दिगादिनियम.निराकरणाधिकरणे सूत्रम्
यत्रैकाग्रता तत्राविशेषात्॥4.1.11॥
सप्तमाधिकरणमारचयति –

1विषयः

दिग्देशकालनियमो विद्यते वा न विद्यते।

3पूर्वपक्षः

विद्यते वैदिकत्वेन कर्मस्वेतस्य दर्शनात्॥ 13॥
“ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि” इति दिङ्नियमः। “प्राचीनप्रवणे वैश्वदेवेन यजेत” इति देशनियमः। “अथ यदपराह्णे पिण्डपितृयज्ञेन चरन्ति” इति कालनियमः। तदेत.न्नियमत्रयं यथा कर्मणि दृश्यते, तथोपासनेऽपि द्रष्टव्यम्। वैदिकत्वस्याविशेषात्। इति प्राप्ते,

4सिद्धान्तः

ऐकाग्र्यस्याविशेषेण दिगादि.र्न नियम्यते।
मनोनुकूल इत्युक्ते-र्दृष्टार्थं देशभाषणम्॥ 14॥
ब्रूमः- ऐकाग्र्यं हि ध्यानस्य प्रधानं साधनम्। न च- तस्य दिगादिनियन्त्या कश्चि.दतिशयो विद्यते। अतो नास्ति नियमः।
अत एव श्रुति.र्योगाभ्यासाय प्रदेशं निर्दिश्यन्ती “मनोनुकूले” इत्येवाह। “यस्मिन्देशे सौमनस्यं, तत्रैव मनो युञ्ज्यात्, नतु शास्त्रेण नियमितः कश्चि.द्देशोऽस्ति” इत्यर्थः। “समे शुचौ शर्करा-वह्नि-वालुकाविवर्जिते” इति योगाभ्यासाय देशविशेषः श्रूयते- इति चेत्। सत्यम्। दृष्टसौकर्यार्थं तु तत्- इति वाक्यशेषे मनोनुकूलत्वविशेषणा.न्निश्चीयते। तस्मात्- नास्ति दिगादिनियमः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आसीनाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “शयनोत्थानगमनै-र्विक्षेपस्यानिवारणात्। धीसमाधान.हेतुत्वा-त्परिशिष्यत आसनम्॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.8 आप्रायणाधिकरणम्
अष्टमे उपासनाना.मामरणावर्तनाधिकरणे सूत्रम्
अप्रायणा.त्तत्रापि हि दृष्टम्॥4.1.12॥
तदधिगम उत्तरपूर्वाघयो.रश्लेषविनाशौ तद्व्यपदेशात्॥4.1.13॥
अष्टमाधिकरणमारचयति –

1विषयः

उपास्तीनां यावदिच्छ-मावृत्ति.स्स्या.दुतामृति।

3पूर्वपक्षः

उपास्त्यर्थाभिनिष्पत्ते-र्यावदिच्छं न तूपरि॥ 15॥
विजातीयप्रत्ययेनानन्तरितसजातीयप्रत्ययप्रवाहः उपास्तिशब्दार्थः। स च कियताऽपि कालेन सम्पद्यते। अतो यावदिच्छ.मावृत्तिः, न त्वामरणम्। इति प्राप्ते,

4सिद्धान्तः

अन्त्यप्रत्ययतो जन्म भाव्यत.स्तत्प्रसिद्धये।
आमृत्यावर्तनं न्याय्यं सदातद्भाववाक्यतः॥ 16॥
ब्रूमः- भाविजन्मनः प्रयोजकोऽन्त्यप्रत्ययः आमरण.मावृत्ति.मन्तरेण न सुलभः। अत एव स्मृतिः- “सदा तद्भावभावितः” इत्याह।
कथं तर्हि- ज्योतिष्टोमादिकर्मणा स्वर्गं गच्छतोऽन्त्यप्रत्ययः। “कर्मजन्यापूर्ववशात्” इति ब्रूमः। उपासनेऽप्यपूर्व.मस्ति- इति चेत् बाढम्। नैतावता निरन्तरावृत्तिलक्षणो दृष्टोपायः परित्याज्यो भवति। अन्यथा सर्वस्य सुखदुःखादेः अपूर्वजन्यत्वेन भोजनाद्यर्थो दृष्टः प्रयत्नः परित्यज्येत। ततो दृष्टार्थोपायत्वा.दामरण.मावर्तनं कर्तव्यम्॥
यद्यपि- एतान्यष्टावधिकरणानि साधनविचारत्वात्, पेर्वाध्याये योग्यानि, तथाऽपि फलप्रत्यासन्नसाधनत्वत् फलाध्याये विचारितानि॥
तदधिगमाधिकपणम्
नवमे ज्ञानिनः पापलेपनिराकरणाधिकरणे सूत्रम्

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकाग्रताधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ऐकाग्र्यस्याविशेषेण दिगादि.र्न नियम्यते। मनोनुकूल इत्युक्ते-र्दृष्टार्थं देशभाषणम्॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
नवमाधिकरणमारचयति –

1विषयः

अनाश इति शास्त्रेषु घोषा.ल्लेपोऽस्य विद्यते॥ 17॥

3पूर्वपक्षः

ज्ञानिनः पापलेपोऽस्ति नास्ति वाऽनुपभोगतः॥
अकर्त्रात्मधिया वस्तु-महिम्नैव न लिप्यते॥
“नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” इति पापाविनाशस्य सर्वशास्त्रप्रसिद्धत्वात् ब्रह्मज्ञानिनोऽप्यस्ति पापलेपः। इति प्राप्ते,

4सिद्धान्तः

अश्लेषनाशा.वप्युक्ता-वज्ञे घोषस्तु सार्थकः॥ 18॥
ब्रूमः- तत्र ताव.न्निर्गुणब्रह्मात्मतत्त्वविदः पापलेपशङ्काऽपि नोदेति। “नाकार्षम्, न करोमि न करिष्यामि”, इति कालत्रयेपि अकर्तृब्रह्मस्वरूपत्वेन निश्चितत्वात्। न ह्यकर्तुर्लेपं मन्दाः अपि शङ्कन्ते।
नापि सगुणब्रह्मविदो लेपोऽस्ति, अश्लेषविनाशयोः श्रुतत्वात्। ब्रह्मसाक्षात्कारा.दूर्ध्वं देहेन्द्रियव्यवहारवशा.त्सम्भावितस्य पापस्याश्लेषः श्रूयते। तद्यथा- “यथा पुष्करपलाश आपो न श्लिष्यन्ते, एवमेवंविदि पापं कर्म न श्लिष्यते” इति। साक्षात्कारात्पूर्वन्तु, इह जन्मनि जन्मान्तरेषु च सञ्चितस्य पापसङ्घातस्य विनाशः श्रूयते- “तद्यथेषीका.तूल.मग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते” इति। “नाभुक्तम्”- इत्यादि शास्त्रं तु, सगुण-निर्गुण-ब्रह्मज्ञानरहितविषयम्। तस्मात्- नास्ति ज्ञानिनः पापलेपः॥
4.1.9 इतरासंश्लेषाधिकरणम्
दशमे ज्ञानिनः पुण्यलेपनिराकरणाधिकरणे सूत्रम्
इतरस्याप्येव.मसंश्लेषः पाते तु॥4.1.14॥
दशमाधिकरणमारचयति –

1विषयः

पुण्येन लिप्यते नो वा, लिप्यतेऽस्य श्रुतत्वतः।

3पूर्वपक्षः

न हि श्रौतेन पुण्येन श्रौतं ज्ञानं विरुध्यते॥ 19॥
मा भूत्पापलेपः। पुण्यलेपस्तु विद्यते, पुण्यस्य श्रौतत्वेन श्रौतब्रह्मज्ञानेन समं विरोधाभावात्। इति प्राप्ते,

4सिद्धान्तः

अलोपे वस्तुसामर्थ्या-त्समानः पुण्यपापयोः।
श्रुतं पुण्यं पापतया तरणं च समं श्रुतम्॥ 20॥
ब्रूमः- अकर्त्रात्मवस्तुसामर्थ्यात्, पापवत्पुण्येनापि न लिप्यते। सगुणज्ञानिनस्तु, उपासनव्यतिरिक्तं काम्यं पुण्यं पापव.दधमजन्महेतुत्वात् पापसम.मेवेति मत्वा, पापत्वेनैव दहरविद्यावाक्यशेषे श्रुतिः परामृशति- “सर्वे पाप्मानोऽतो निवर्तन्ते” इति। अस्याय.मर्थः- “सुकृतं दुष्कृतं तत्फलं च पूर्ववाक्ये यद्य.दनुक्रान्तम्, ते सर्वे पाप्मानोऽस्मा.दुपासका.न्निवर्तन्ते” इति।
किञ्च- “उभे उ हैवैष एते तरति” इति श्रुतिः, पुण्यपापयो.रुभयो.र्ज्ञानिनां तरणं सममेव ब्रूते। तस्मात्- पापव.त्पुण्येनापि न लिप्यते॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आप्रायणाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अन्त्यप्रत्ययतो जन्म भाव्यत.स्तत्प्रसिद्धये। आमृत्यावर्तनं न्याय्यं सदातद्भाववाक्यतः॥ 16॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.10 अनारब्धाधिकरणम्
एकादशे ज्ञाना.दनारब्धपुण्यपापयोरेव निवृत्त्यधिकरणे सूत्रम्
अनारब्धकार्ये एव तु पूर्वे तदवधेः॥4.1.15॥
एकादशाधिकरणमारचयति –

1विषयः

आरब्धे नश्यतो नो वा सञ्चिते इव नश्यतः।

3पूर्वपक्षः

उभयत्राप्यकर्तृत्व-तद्बोधौ सदृशौ खलु॥ 21॥
ज्ञानात्पूर्वं सञ्चिते पुण्यपापे द्विविधे- आरब्धे, अनारब्धे च। तयो.र्द्विविधयो.रप्यकर्तृत्व.मात्मनः समानम्, तद्बोधश्च समः। ततः- अनारब्धव.दारब्धयोरपि ज्ञानोदयसमये एव विनाशः। इति प्राप्ते,

4सिद्धान्तः

आदेहपात.संसार-श्रुते.रनुभवा.दपि।
इषुचक्रादि दृष्टान्ता-न्नैवारब्धे विनश्यतः॥ 22॥
ब्रूमः। श्रुति-अनुभव-युक्तिभ्यः आरब्धयोरविनाशो गम्यते। “तस्य तावदेव चिरं- यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इति श्रुतिः।
अस्या अयमर्थः- “तस्य तत्त्वविदो मुक्तिर्विलम्बमानाऽपि नात्यन्तं विलम्बते। किन्तु गर्भाधानकाले क्लृप्तस्यायुषः क्षयाभावेन यावद्देहः प्राणैर्न विमोक्ष्यते, तावदेव विलम्बते। अथ देहप्राणवियोगे सति ब्रह्म सम्पद्यते” इति।
यथाऽनया श्रुत्या तत्त्वविदोऽप्यादेहपातं संसारोऽङ्गीकृतः, तथा विद्वदनुभवोऽप्यस्मि.न्नर्थे स्फुटः। युक्ति.श्चोच्यते- यथा लोके तूणनिष्ठेषु बाणेषु, धानुष्कस्य स्वीकारपरित्यागयोः स्वातन्त्र्येऽपि, मुक्ते बाणे स्वातन्त्र्यं न दृश्यते, स तु बाणो वेगे क्षीणे स्वयं पतति। एवं कुलाल-चक्रभ्रमण.मुदाहर्तव्यम्।
तथा दार्ष्टान्तिकब्रह्मज्ञानस्यापि, अनारब्धकर्मनाशकत्वे स्वातन्त्र्यमस्तु, न त्वारब्धे कर्मणि, आरब्धस्य प्रवृत्तिफलत्वात्। यद्येतैः श्रुत्यादिभिः आरब्धस्थिति.र्नाभ्युपगम्यते, तदा उपदेष्टु.रभावा.द्विद्यासम्प्रदायः उच्छिद्येत। न तावत्- अविद्वा.नुपदेष्टा- इति वक्तुं शक्यम्। विद्वांस्तु वेदनसमये एव मुच्यत इति को नामोपदेष्टा सम्भवति। तस्मात्- नारब्धयो.र्नाशः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “इतरासंश्लेषाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अलोपे वस्तुसामर्थ्या-त्समानः पुण्यपापयोः। श्रुतं पुण्यं पापतया तरणं च समं श्रुतम्॥ 20॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.11 अग्निहोत्राधिकरणम्
द्वादशे अग्निहोत्रादिनित्यकर्मणो नाशनिराकरणाधिकरणे सूत्रे
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्॥4.1.16॥
अतोऽन्याऽपि ह्येकेषा.मुभयोः॥4.1.17॥
द्वादशाधिकरणमारचयति –

1विषयः

नश्येन्नो वाऽग्निहोत्रादि नित्यं कर्म, विनश्यति।

3पूर्वपक्षः

यतोऽयं वस्तुमहिमा न क्वचि.त्प्रतिहन्यते॥ 23॥
ज्ञानात्पूर्वमिह जन्मनि जन्मान्तरे वाऽनुष्ठितं यदग्निहोत्रादि नित्यं कर्म, तस्यापि काम्यकर्मव.दकर्त्रात्मवस्तुबोधमहिम्ना नाशोऽभ्युपेयः। इति प्राप्ते,

4सिद्धान्तः

अनुषक्तफलांशस्य नाशेऽप्यन्यो न नश्यति।
विद्याया.मुपयुक्तत्वा-द्भाव्यश्लेषस्तु काम्यवत्॥ 24॥
ब्रूमः- द्वा.वंशौ नित्यकर्मणः- एकोंऽशः प्राधान्येन चित्तशुद्धिप्रदः, अपरोंऽशोऽनुषङ्गेण स्वर्गादिफलप्रदः। तस्य नाशोऽस्तु नाम।
चित्तशुद्धिप्रदस्य तु विद्याया.मुपयुक्तत्वात् न नाशो वर्णयितुं शक्यः। न हि लोके भोगेनोपक्षीणं व्रीह्यादिकं नष्टं मन्यन्ते। यत्तु ज्ञानादूर्ध्वं नित्यं कर्म, तस्य काम्यव.दश्लेषः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अनारब्धाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आदेहपात.संसार-श्रुते.रनुभवा.दपि। इषुचक्रादि दृष्टान्ता-न्नैवारब्धे विनश्यतः॥ 22॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.12 विद्याज्ञानसाधनाधिकरणम्
त्रयोदशे नित्यकर्मणो.र्विद्यासाधनताधिकरणे सूत्रम्
यदेव विद्ययेति हि॥4.1.18॥
त्रयोदशाधिकरणमारचयति –

1विषयः

किमङ्गोपास्तिसंयुक्त-मेव विद्योपयोग्युत।

3पूर्वपक्षः

केवलं वा, प्रशस्तत्वा-त्सोपास्त्येवोपयुज्यते॥ 25॥
विद्यासाधनं नित्यकर्म द्विविधं सम्भाव्यते- अङ्गावबद्धोपास्तिसहितम्, तद्रहितं च। तत्र- सोपासनस्य कर्मणः प्रशस्तत्वा.त्तदेव विद्यासाधनम्, न तूपास्तिरहितम्। इति प्राप्ते,

4सिद्धान्तः

केवलं वीर्यव.द्विद्या-संयुक्तं वीर्यवत्तरम्।
इति श्रुते.स्तारतम्या-दुभयं ज्ञानसाधनम्॥ 26॥
ब्रूमः- “यदेव विद्यया करोति- तदेव वीर्यवत्तरं भवति” इति श्रुतिः, “सोपासनस्य कर्मणोऽतिशयेन वीर्यमस्ति” इति वदन्ती, निरुपासनस्यापि वीर्यमात्र.मभ्यनुजानाति। अन्यथा तरप्-प्रत्ययानुपपत्तेः। तस्मात्- सोपासन-निरुपासनयो.स्तारतम्येन विद्यासाधनत्वम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अग्निहोत्राधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अनुषक्तफलांशस्य नाशेऽप्यन्यो न नश्यति। विद्याया.मुपयुक्तत्वा-द्भाव्यश्लेषस्तु काम्यवत्॥ 24॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.1.13 इतरक्षपणाधिकरणम्
चतुर्दशे अधिकारिणामपि मुक्तिसम्भवाधिकरणे सूत्रम्
भोगेन त्वितरे क्षपयित्वा सम्पद्यते॥4.1.19॥
वाङ्मनसि दर्शना.च्छब्दाच्च॥4.2.1॥
अत एव च सर्वाण्यनु॥4.2.2॥
चतुर्दशाधिकरणमारचयति –

1विषयः

बहुजन्मप्रदारब्ध-युक्तानां नास्त्युतास्ति मुक्।
विद्यालोपे कृतं कर्म फलदं तेन नास्ति मुक्॥ 27॥

3पूर्वपक्षः

आरब्धं भोजये.देव न तु विद्यां विलोपयेत्।
सुप्त.बुद्धव.दश्लेष-तादवस्थ्या.त्कुतो न मुक्॥ 28॥
अधिकारिपुरुषाणां मुक्ति.र्नास्ति, प्रारब्धभोगाय बहुषु जन्मसु स्वीकृतेषु, तत्र पूर्वार्जितविद्यायां यत्कर्म क्रियते, तस्य फलप्रदत्वे सति, उत्तरोत्तरजन्मपरम्पराया अवश्यम्भावित्वात्। इति प्राप्ते,

4सिद्धान्तः

इति वैयासिकन्यायमालायां चतुर्थ्याध्यायस्य प्रथमः पादः॥ 1॥
ब्रूमः- आरब्धं कर्म, स्वफले सुखदुःखे भोजयेत्, तदर्थमेव प्रवृत्तत्वात्। न हि विद्यालोपार्थं किंचित्कर्म पूर्व.मनुष्ठितम्, येन कर्मवशा.द्विद्यालोपः आशङ्क्येत।
न च- मरण.व्यवधानमात्रेण विद्यालोपः, सुषुप्तिव्यवधानेन तल्लोपादर्शनात्। अतो विद्यया.मवस्थितायां, बहुभिरपि क्रियमाणैः कर्मभि.रश्लेषात्- अस्त्यधिकारिणां मुक्तिः॥
यद्यप्येतद्गुणोपसंहारपादे निर्णीतम्, तथाऽपि तस्यैवाक्षेपसमाधाने- इत्यनवद्यम्॥
चतुर्थाध्यायस्य द्वितीयः पादः
प्रथमे वागादीनां मनसि वृत्तिलयाधिकरणे सूत्रे

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य, जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विद्याज्ञानसाधनाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “केवलं वीर्यव.द्विद्या-संयुक्तं वीर्यवत्तरम्। इति श्रुते.स्तारतम्या-दुभयं ज्ञानसाधनम्॥ 26॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
चतुर्थाध्यायस्य द्वितीयपादे प्रथमाधिकरणमारचयति –

1विषयः

वागादीनां स्वरूपेण वृत्त्या वा मानसे लयः।

3पूर्वपक्षः

श्रुति.र्वाङ्मनसीत्याह स्वरूपविलय.स्ततः॥ 1॥
उत्क्रान्तिक्रम.श्छान्दोग्ये श्रूयते- “अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यां देवतायाम्” इति। तत्र म्रियमाणस्य पुरुषस्य वागादीनि दशेन्द्रियाणि, मनसि लीयन्ते। स च लयः किं स्वरूपेण, वृत्त्या वा? इति संशये सति, “वाङ्मनसि” इति श्रुतौ वृत्तिशब्दाश्रवणात्, स्वरूपलयः। इति प्राप्ते,

4सिद्धान्तः

न लीयतेऽनुपादाने कार्यं वृत्तिस्तु लीयते।
वह्निवृत्ते.र्जले शान्ते-र्वाक्शब्दो वृत्तिलक्षकः॥ 2॥
ब्रूमः- मनसो वागादिकं प्रति अनुपादानत्वात्, “उपादाने एव कार्यस्य स्वरूपलयः” इति मृद्घटादौ व्याप्तिदर्शनात्, न वागादीनां स्वरूपेण लयः। वृत्तिस्त्वनुपादानेऽपि लय.मर्हति।
जलमध्ये अङ्गारेषु प्रक्षिप्तेषु, दाहप्रकाशात्मिकायाः वह्निवृत्तेः अनुपादाने जले लयदर्शनात्। श्रुतौ तु वाक्शब्देन वृत्तिर्लक्ष्यते। वृत्तिवृत्तिमतो.रभेदोपचारात्- वागादीनां मनसि वृत्तिलयः॥
← Adhyāya 3, Pāda 4 Contents Adhyāya 4, Pāda 2 →