SŪ पुरुषार्थोऽतः, शब्दादिति बादरायणः॥3.4.1॥
SŪ शेषत्वा.त्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः॥3.4.2॥
SŪ आचारदर्शनात्॥3.4.3॥
SŪ तच्छ्रुतेः॥3.4.4॥
SŪ समन्वारम्भणात्॥3.4.5॥
SŪ तद्वतो विधानात्॥3.4.6॥
SŪ नियमाच्च॥3.4.7॥
SŪ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्॥3.4.8॥
SŪ तुल्यं तु दर्शनम्॥3.4.9॥
SŪ असार्वत्रिकी॥3.4.10॥
SŪ विभागः शतवत्॥3.4.11॥
SŪ अध्ययनमात्रवतः॥3.4.12॥
SŪ नाविशेषात्॥3.4.13॥
SŪ स्तुतयेऽनुमतिर्वा॥3.4.14॥
SŪ कामकारेण चैके॥3.4.15॥
SŪ उपमर्दं च॥3.4.16॥
SŪ ऊर्ध्वरेतस्सु च शब्दे हि॥3.4.17॥
तृतीयाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति –
1 विषयः क्रत्वर्थ.मात्मविज्ञानं स्वतन्त्रं वात्मनो यतः।
3 पूर्वपक्षः देहातिरेक.मज्ञात्वा न कुर्यात्क्रतुगं ततः॥ 1॥
प्रथमे पुरुषार्थाधिकरणे- आत्मज्ञानस्य स्वतन्त्रताधिकरणे सूत्राणि आत्मनो देहादिव्यतिरेकज्ञान.मन्तरेण परलोकगामित्वानिश्चयात्, ज्योतिष्टोमादिप्रवृत्तिरेव न स्यादिति, क्रतुषु प्रवर्तकत्वेन, औपनिषदम् आत्मतत्त्वज्ञानं कर्माङ्गम्। इति प्राप्ते,
4 सिद्धान्तः नाद्वैतधीः कर्महेतु-र्हन्ति प्रत्युत कर्म सा। आचारो लोकसङ्ग्राही स्वतन्त्रा ब्रह्मधी.स्ततः॥ 2॥
ब्रूमः- द्विविधं देहव्यतिरिक्तात्मज्ञानम्- परलोकगामि.कर्त्रात्मविज्ञान.मेकम्, द्वितीयं ब्रह्मात्मतत्त्वज्ञानं चेति। तत्र- कर्त्रात्मज्ञानस्य प्रवर्तकत्वेऽपि नाद्वैतब्रह्मतत्त्वज्ञानं प्रवर्तकम्। प्रत्युत- क्रियाकारक.फलनिषेधेन निवर्तकमेव। ननु तत्त्वविदामपि जनकादीनां कर्मप्रवृत्तिलक्षणः आचारो दृश्यते। बाढम्। लोकसंग्रहार्थ.मय.माचारः स्यात्। यदि तत्त्वविदामपि मुक्तये कर्माण्यनुष्ठेयानि स्युः, कथं तर्हि प्रजादिवैयर्थ्यश्रुति.रुपपद्यते? “किं प्रजया करिष्यामो, येषां नोऽय.मात्माऽयं लोकः” इति, आत्मतत्त्वस्वरूपस्य लोकस्यापरोक्षत्वे सति, अनात्मलोकसाधनभूतायाः प्रजायाः वैयर्थ्यं श्रूयते। एवं “किमर्था वयमध्येष्यामहे, किमर्था वयं यक्ष्यामहे” इत्याद्युदाहरणीयम्। तस्मात्- आत्मतत्त्वज्ञानं स्वतन्त्रं पुरुषार्थसाधनम्, न तु कर्माङ्गम्॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “यथाश्रयभावाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति वैयासिकन्यायमालायां तृतीयाध्यायस्य तृतीयः पादः॥ 3॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪ परामर्शं जैमिनि.रचोदना चापवदति हि॥3.4.18॥
SŪ अनुष्ठेयं बादरायण.स्साम्यश्रुतेः॥3.4.19॥
SŪ विधिर्वा धारणवत्॥3.4.20॥
द्वितीयाधिकरणस्य प्रथमवर्णकमारचयति –
1 विषयः नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसा.वविधानतः।
3 पूर्वपक्षः वीरघातो विधेः क्लृप्ता-वन्ध.पङ्ग्वादिगा स्मृतिः॥ 3॥
द्वितीये परामर्शाधिकरणे- संन्यासिन एव ब्रह्मनिष्ठताधिकरणे सूत्राणि पूर्वाधिकरणे- स्वतन्त्र.मात्मविज्ञानम्- इत्युक्तम्। तस्य चात्मविज्ञानस्य ऊर्ध्वरेतस्स्वाश्रमेषु सुलभत्वा.दाश्रमसद्भाव.श्चिन्त्यते। तत्र- नास्त्यूर्ध्वरेताः- इति प्राप्तम्। कुतः? विध्यभावात्। छान्दोग्ये- “त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयः” इत्यत्र यज्ञाद्युपलक्षित.गार्हस्थ्यस्य, तपश्शब्दलक्षित.वानप्रस्थत्वस्य, नैष्ठिकब्रह्मचर्यस्य परामर्शमात्रं गम्यते, न तु विधि.रुपलभ्यते। न च- अपूर्वार्थत्वेन विधिः कल्पयितुं शक्यः, “वीरहा वा एष देवानां योऽग्नि.मुद्वासयते” इत्यग्न्युद्वासनलक्षितस्य गार्हस्थ्यपरित्यागस्य, निन्दितत्वात्। “चत्वार आश्रमाः”- इति स्मृतिस्तु, गार्हस्थ्यधर्मानधिकृतान्धपङ्ग्वादिविषया भविष्यति। न ह्यन्धस्याज्यावेक्षणोपेते कर्मण्यधिकारोऽस्ति। नापि पङ्गो.र्विष्णुक्रमाद्युपेते कर्मण्यधिकारः। तस्मात्- चक्षुरादिपाटवयुक्तस्य, आत्मज्ञानोपयुक्त ऊर्ध्वरेता आश्रमो नास्ति। इति प्राप्ते,
4 सिद्धान्तः अस्त्यपूर्वविधेः क्लृप्ते-र्वीरहाऽनग्निको गृही। अन्धादेः पृथगुक्तत्वा-त्स्वस्थानां श्रूयते विधिः॥ 4॥
ब्रूमः- अस्त्यूर्ध्वरेता आश्रमः। विध्यश्रवणेऽपि, अपूर्वार्थत्वेन विधेः कल्पयितुं शक्यत्वात्। न च- वीरघातदोषः, उत्सन्नाग्नि.गृहस्थविषयत्वा.द्वीरहत्यायाः। यत्तु- अन्धादिविषयत्वं स्मृते.रुक्तम्। तदसत्, “अथ पुनरव्रती व्रती वा, स्नातकोऽस्नातको वा, उत्सन्नाग्नि.रनग्निको वा, यदहरेव विरजेत्, तदहरेव प्रव्रजेत्” इति गार्हस्थ्यानधिकृतानां पृथक्संन्यासविधानात्। न च- चक्षुरादिपाटववता.माश्रमान्तरविधिः कल्पनीयः, जाबालश्रुतौ प्रत्यक्षविध्युपलम्भात्। “ब्रह्मचर्यं समाप्य गृही भवेत्, गृहा.द्वनी भूत्वा, प्रव्रजेत्” इति। तस्मात्- अस्त्याश्रमान्तरम्॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पुरुषार्थाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नाद्वैतधीः कर्महेतु-र्हन्ति प्रत्युत कर्म सा। आचारो लोकसङ्ग्राही स्वतन्त्रा ब्रह्मधी.स्ततः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयवर्णकमारचयति –
1 विषयः लोककाम्याश्रमी ब्रह्म-निष्ठा.मर्हति वा न वा।
3 पूर्वपक्षः यथावकाशं ब्रह्मैव ज्ञातु.मर्हत्यवारणात्॥ 5॥
“त्रयो धर्मस्कन्धाः” इत्यत्राश्रमानधिकृत्य, “सर्व एते पुण्यलोका भवन्ति” इत्याश्रमानुष्ठायिनां पुण्यलोक.मभिधाय, “ब्रह्मसंस्थोऽमृतत्वमेति” इति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते। सेयं ब्रह्मनिष्ठा पुण्यलोककामिनः आश्रमिणोऽपि सम्भाव्यते। आश्रमकर्माण्यनुष्ठाय, यथावकाशं ब्रह्मनिष्ठायाः सुकरत्वात्। नहि “लोककामी ब्रह्म न जानीयात्” इति निषेधोऽस्ति। तस्मात्- अस्ति सर्वस्याश्रमिणो ब्रह्मनिष्ठा। इति प्राप्ते,
4 सिद्धान्तः अनन्यचित्तता ब्रह्म-निष्ठाऽसौ कर्मठे कथम्। कर्मत्यागी ततो ब्रह्म-निष्ठा.मर्हति नेतरः॥ 6॥
ब्रूमः- ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनान्यचित्ततया ब्रह्मणि समाप्तिः। न चासौ कर्मशूरे सम्भवति, कर्मानुष्ठान-त्यागयोः परस्परं विरोधात्। तस्मात्- कर्मत्यागिन एव ब्रह्मनिष्ठा॥
3.4.3
स्तुतिमात्राधिकरणम्
तृतीये रसतमत्वादीनां ध्येयत्वाधिकरणे सूत्रे
SŪ स्तुतिमात्र.मुपादाना.दिति चे.न्नापूर्वत्वात्॥3.4.21॥
SŪ भावशब्दा.च्च॥3.4.22॥
तृतीयाधिकरणमारचयति –
1 विषयः स्तोत्रं रसतमत्वादि ध्येयं वा गुणवर्णनात्।
3 पूर्वपक्षः जुहू.रादित्य इत्यादा-विव कर्माङ्गसंस्तुतिः॥ 7॥
उद्गीथावयवस्य ओङ्कारस्य रसतमत्वादयो गुणाः श्रूयन्ते- “स एष रसानां रसतमः परमः” इत्यादिना। तद्रसतमत्वादिकम् ओङ्काकारस्य स्तुतिः, न तु ध्यातव्यम्। यथा इयमेव जुहू.रादित्यः, कूर्मः स्वर्लोकः- इत्यादौ कर्माङ्गभूतानां जुह्वादीना.मादित्यादिरूपेण स्तुतिः, तथा रसतमत्वादिगुणै.रोंकारस्य स्तुतिः। इति प्राप्ते,
4 सिद्धान्तः भिन्नप्रकरणस्थत्वा-न्नाङ्गविध्येकवाक्यता। उपासीतेति विध्युक्ते-र्ध्येयं रसतमादिकम्॥ 8॥
ब्रूमः- विषमो दृष्टान्तः। “जुहू.रादित्यः” इत्यादिकं जुहूविधिप्रकरणे पठितत्वात् स्तोत्र.मस्तु। रसतमत्वादिकं तु, उपनिषदि पठितत्वेन कर्मप्रकरणपठित-उद्गीथविधिवाक्येन एकवाक्यत्वाभावात्, न स्तावकम्। किन्तु “ओमित्येतदक्षर.मुद्गीथ.मुपासीत” इति सन्निहितेन विधिना एकवाक्यत्वा.द्रसतमत्वादिकं ध्यातव्यम्॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “परामर्शाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अस्त्यपूर्वविधेः क्लृप्ते-र्वीरहाऽनग्निको गृही। अन्धादेः पृथगुक्तत्वा-त्स्वस्थानां श्रूयते विधिः॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
चतुर्थे आख्यानस्य विद्यास्तुत्यर्थताधिकरणे सूत्रे
SŪ पारिप्लवार्था इति चे.न्न विशेषितत्वात्॥3.4.23॥
SŪ तथा चैकवाक्यतोपबन्धात्॥3.4.24॥
चतुर्थाधिकरणमारचयति –
1 विषयः पारिप्लवार्थ.माख्यानं किंवा विद्यास्तुति.स्स्तुतेः।
3 पूर्वपक्षः ज्यायोऽनुष्ठानशेषत्वं तेन पारिप्लवार्थता॥ 9॥
“अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः”- “जनको ह वैदेह आसांचक्रे” इत्यादिक.मुपनिषदि श्रूयमाण.माख्यानं पारिप्लवार्थं भवितुमर्हति। अश्वमेधयागे रात्रिषु राजानं सकुटुम्ब.मुपवेश्य, तस्याग्रे वैदिका.न्युपाख्यानानि अध्वर्युणा वक्तव्यानि। तदिदं पारिप्लवाख्यं कर्म “पारिप्लव.माचक्षति” इति वाक्येन विहितम्। तदर्थत्वे सति, औपनिष.दाख्याना.न्यनुष्ठानायोपयुज्येरन्। ज्यायोऽनुष्ठानं विद्यास्तुतेः। तस्मात्पारिप्लवार्थम्। इति प्राप्ते,
4 सिद्धान्तः मनु.र्वैवस्वतो राजे-त्येवं तत्र विशेषणात्। अत्र विद्यैकवाक्यत्व-भावा.द्विद्यास्तुति.र्भवेत्॥ 10॥
ब्रूमः- प्रथमेऽहनि- “मनु.र्वैवस्वतो राजा,” द्वितीयेऽहनि- “यमो वैवस्वतो राजा,” इत्याद्याख्यानानां पारिप्लवार्थानां विशेषितत्वा.दौपनिषदाना.माख्यानानां तच्छेषत्वं न सम्भवति। सन्निहित.विद्यास्तावकत्वे तु, विद्यावाक्यै.रेकवाक्यता लक्ष्यते। तस्मात्- विद्यास्तावक.माख्यानम्॥ (न तु पारिप्लवकर्माङ्गम्)
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “स्तुतिमात्राधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “भिन्नप्रकरणस्थत्वा-न्नाङ्गविध्येकवाक्यता। उपासीतेति विध्युक्ते-र्ध्येयं रसतमादिकम्॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.5
अग्नीन्धनाद्यधिकरणम्
पञ्चमे आत्मज्ञानस्य कर्मानपेक्षत्वाधिकरणे सूत्रम्
SŪ अत एव चाग्नीन्धना.द्यनपेक्षा॥3.4.25॥
1 विषयः आत्मबोधः फले कर्मा-पेक्षो नो वा, ह्यपेक्षते।
3 पूर्वपक्षः अङ्गिनोऽङ्गेष्वपेक्षायाः प्रयाजादिषु दर्शनात्॥ 11॥
पञ्चमाधिकरणमारचययति – विमतो ब्रह्मतत्त्वावबोधः स्वफलप्रदाने स्वाङ्गभूतकर्मापेक्षः, अङ्गित्वात्, प्रयाजापेक्ष.दर्शपूर्णमासवत्। यद्यपि प्रथमाधिकरणे विद्यायाः स्वतन्त्रपुरुषार्थत्वप्रतिपादनेन कर्माङ्गत्वं निवारितम्, तथाऽप्यङ्गित्वं न निवारितम्। अतो नासिद्धो हेतुः। अतः कर्माङ्गापेक्षो बोधः। इति प्राप्ते,
4 सिद्धान्तः अविद्यातमसोर्ध्वस्तौ दृष्टं हि ज्ञानदीपयोः। नैरपेक्ष्यं ततोऽत्रापि विद्या कर्मानपेक्षिणी॥ 12॥
ब्रूमः- विमतं ब्रह्मज्ञानं स्वविरोधि.निवर्त्यनिवर्तनेऽन्यापेक्षं न भवति, प्रकाशत्वात्, दीपवत्, घटज्ञानवच्च। यत्तु- अङ्गित्व.मुक्तम्, तत्र कर्मणः कीदृश.मङ्गत्व.मभिप्रेतम्? किं प्रयाजादिव.त्फलोपकार्यङ्गत्वम्? उत- अवघातादिव.त्स्वरूपोपकार्यङ्गत्वम्? नाद्यः, मुक्तेः कर्मजन्यत्वेनानित्यत्वप्रसक्तेः। द्वितीये- साध्यविकलो दृष्टान्तः, अवघातादौ प्रयाजादीनाम् इव, स्वरूपोपकार्यङ्गत्वाभावात्। तस्मात्- उत्पन्ना विद्या, स्वफलदाने कर्माणि नापेक्षते॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “परिप्लवाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मनु.र्वैवस्वतो राजे-त्येवं तत्र विशेषणात्। अत्र विद्यैकवाक्यत्व-भावा.द्विद्यास्तुति.र्भवेत्॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.6
सर्वापेक्षाधिकरणम्
षष्ठे ज्ञानोत्पत्तौ यज्ञशमदमाद्यपेक्षाधिकरणे सूत्रे
SŪ सर्वापेक्षा च यज्ञादिश्रुते.रश्ववत्॥3.4.26॥
SŪ शमदमाद्युपेतः स्यात्, तथाऽपि तु तद्विधे.स्तदङ्गतया तेषा.मवश्यानुष्ठेयत्वात्॥3.4.27॥
षष्ठाधिकरणमारचयति –
1 विषयः उत्पत्ता.वनपेक्षेय-मुत कर्माण्यपेक्षते।
3 पूर्वपक्षः फले यथाऽनपेक्षैव-मुत्पत्ता.वनपेक्षता॥ 13॥
ब्रह्मविद्या स्वफले यथा कर्माणि नापेक्षते, तथा स्वोत्पत्तावपि। अन्यथा- क्वचि.दपेक्षते, क्वचि.न्नापेक्षते- इत्यर्धजरतीयन्यायः प्रसज्येत। इति प्राप्ते,
4 सिद्धान्तः यज्ञशान्त्यादि.सापेक्षं विद्याजन्म श्रुतिद्वयात्। हलेऽनपेक्षितोऽप्यश्वो रथे यद्व.दपेक्ष्यते॥ 14॥
ब्रूमः- नार्धजरतीयत्वदोषोऽत्रास्ति, योग्यतावशेन एकस्यैव कार्यविशेषेषु, अपेक्षानपेक्षयोरुपपत्तेः। यथा लाङ्गल.वहनेऽनपेक्षितोऽप्यश्वः, रथवहनेऽपेक्ष्यते, तद्वत्। न च विद्यायाः स्वोत्पत्तौ कर्मापेक्षायां प्रमाणाभावः, “तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति प्रवृत्तिरूपाणां वेदानुवचनादीनां, विविदिषोत्पादनद्वारा बहिरङ्गसाधनत्वावगमात्। “शान्तो दान्त उपरत.स्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति” इति निवृत्तिरूपाणां शमदमादीनां विद्योत्पत्तिकालेऽपि, अनुवर्तमानतयाऽन्तरङ्गसाधनत्वावगमात्। तस्मात्- यज्ञादीनि शमादीनि च, विद्या स्वोत्पत्ता.वपेक्षते॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अग्नीन्धनाद्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अविद्यातमसोर्ध्वस्तौ दृष्टं हि ज्ञानदीपयोः। नैरपेक्ष्यं ततोऽत्रापि विद्या कर्मानपेक्षिणी॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.7
सर्वान्नानुमत्यधिकरणम्
SŪ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्॥3.4.28॥
SŪ अबाधाच्च॥3.4.29॥
SŪ अपि च स्मर्यते॥3.4.30॥
SŪ शब्दश्चातोऽकामकारे॥3.4.31॥
सप्तमाधिकरणमारचयति –
1 विषयः सर्वाशनविधिः प्राण-विदोऽनुज्ञाऽथवापदि।
3 पूर्वपक्षः अपूर्वत्वेन सर्वान्न-भुक्ति.र्ध्यातु.र्विधीयते॥ 15॥
सप्तमे, आपदि सर्वान्नभोजनानुज्ञाधिकरणे सूत्राणि प्राणविद्यायां श्रूयते- “न ह वा एवंविदि किञ्चनानन्नं भवति” इति। “प्राणोपासकेन भोक्तु.मयोग्यं न किञ्चिदस्ति” इत्यर्थः। तत्र सर्वान्नभोजनस्य मानान्तरेणाप्राप्तत्वात्, प्राणोपासकस्य तद्विधीयते। इति प्राप्ते,
4 सिद्धान्तः श्वाद्यन्नभोजनाशक्तेः शास्त्राच्चाभोज्यवारणात्। आपदि प्राणरक्षार्थ-मेवानुज्ञायतेऽखिलम्॥ 16॥
ब्रूमः- “यदिदं किंचाश्वभ्य आकृमिभ्य आकीटपतङ्गेभ्यः, तत्तेऽन्नम्” इति श्वादि भोज्य.मन्न.मुपासकस्य भोज्यतया विधेयम्, न च तद्विधातुं शक्यम्, यतो भक्ष्याभक्ष्यविभागशास्त्रं सर्वान्नाशनविधौ बाध्येत। तस्मात्- आपदि यावता प्राणरक्षा भवति, तावन्मात्रं निषिद्धान्न.मप्यनुज्ञायते। अत एव चाक्रायणो मुनिः प्राणात्यये प्राप्ते पर्युषितान् गज-तत्पालकोच्छिष्टा.न्कुल्माषान् भक्षयित्वा शूद्रभाण्डस्थ.मुदकं न पपौ। तत्रोभयत्र कारणं चावोचत्- “न वा अजीविष्य.मिमा.नखादन्” इति, “कामो म उदपानम्” इति च। तस्मात्- आपदि सर्वान्नभक्षण.मभ्यनुज्ञातम्॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्वापेक्षाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यज्ञशान्त्यादि.सापेक्षं विद्याजन्म श्रुतिद्वयात्। हलेऽनपेक्षितोऽप्यश्वो रथे यद्व.दपेक्ष्यते॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪ विहितत्वाच्चाश्रमकर्मापि॥3.4.32॥
SŪ सहकारित्वेन च॥3.4.33॥
SŪ सर्वथाऽपि त एवोभयलिङ्गात्॥3.4.34॥
SŪ अनभिभवं च दर्शयति॥3.4.35॥
अष्टमाधिकरणमारचयति –
1 विषयः विद्यार्थ.माश्रमार्थं च द्विः प्रयोगोऽथवा सकृत्।
3 पूर्वपक्षः प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते॥ 17॥
अष्टमे यज्ञादीना.माश्रमविद्योभयहेतुत्वाधिकरणे सूत्राणि यानि यज्ञादीनि विद्याहेतुत्वेन विविदिषावाक्ये विहितानि, तान्येवाश्रमधर्मत्वेन पूर्वकाण्डे विहितानि। तेषां प्रयोजनद्वैविध्यात्, द्विरनुष्ठानम्। इति प्राप्ते,
4 सिद्धान्तः श्राद्धार्थभुक्त्या तृप्ति.स्स्या-द्विद्यार्थेनाश्रम.स्तथा। अनित्यनित्यसंयोग उक्तिभ्यां खादिरे मतः॥ 18॥
ब्रूमः- यथा श्रद्धार्थभोजनेन तृप्तिः, नान्तरीयकतया सिध्यति, तथा विद्यार्थ.मनुष्ठितैः कर्मभि.राश्रमधर्मः सिध्यतु। न च- विद्याहेतूनां काम्यत्वात्, आश्रमधर्माणां च नित्यत्वात्, सकृत्प्रयोगे नित्यानित्यसंयोगविरोधः- इति वाच्यम्। वचनद्वयबलेन, एकस्य कर्मणः आकारद्वयोपपत्तेः। यथा- “खादिरो यूपो भवति, खादिरं वीर्यकामस्य यूपं कुर्वीत” इत्यत्र वचनद्वयबलेन, एकस्य नित्यत्वं काम्यत्वं च तद्वत्। तस्मात्- उभयविधानां यज्ञादीनां सकृदेव प्रयोगः॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्वान्नानुमत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्वाद्यन्नभोजनाशक्तेः शास्त्राच्चाभोज्यवारणात्। आपदि प्राणरक्षार्थ-मेवानुज्ञायतेऽखिलम्॥ 16॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪ अन्तरा चापि तु तद्दृष्टेः॥3.4.36॥
SŪ अपि च स्मर्यते॥3.4.37॥
SŪ विशेषानुग्रहश्च॥3.4.38॥
SŪ अत.स्त्वितर.ज्ज्यायो लिङ्गाच्च॥3.4.39॥
नवमाधिकरणमारचयति –
1 विषयः नास्त्यनाश्रमिणो ज्ञान-मस्ति वा नैव विद्यते।
3 पूर्वपक्षः धीशुद्ध्यर्थाश्रमित्वस्य ज्ञानहेतो.रभावतः॥ 19॥
नवमे, अनाश्रमिणोऽपि ब्रह्मज्ञानाधिकरणे सूत्राणि पूर्वाश्रमं परिसमाप्य, केनापि कारणेन उत्तर.माश्रम.मप्रतिपन्नोऽनाश्रमी। स्नातक.विधुरादिः। तस्य तत्त्वज्ञानं न सम्भाव्यते, बुद्धिशुद्धिहेतोः, आश्रमित्वस्याभावात्। इति प्राप्ते,
4 सिद्धान्तः अस्त्येव सर्वसम्बन्धि-जपादे.श्चित्तशुद्धितः। श्रुता हि विद्या रैक्वादे-राश्रमे त्वतिशुद्धता॥ 20॥
ब्रूमः- सम्भवत्यनाश्रमिणोऽपि ज्ञानम्। आश्रमनिरपेक्षस्य जपादे.र्बुद्धिशुद्धिहेतुत्वात्। “जप्येनैव तु संसिध्ये.द्ब्राह्मणो नात्र संशयः” इति स्मृतेः। श्रुतश्च संवर्गविद्याया.मधिकारोऽनाश्रमिणो विवाहार्थिनो रैक्वस्य। एव.माश्रमरहिता गार्ग्यादय उदाहार्याः। न च- एवं सत्याश्रम.वैयर्थ्यम्, शुद्ध्यतिशयहेतुत्वात्। तस्मात्- अनाश्रमिणोऽपि सम्भवत्येव ज्ञानम्॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आश्रमकर्माधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्राद्धार्थभुक्त्या तृप्ति.स्स्या-द्विद्यार्थेनाश्रम.स्तथा। अनित्यनित्यसंयोग उक्तिभ्यां खादिरे मतः॥ 18॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
दशमे, आश्रमाणामवरोहनिराकरणाधिकरणे सूत्रम्
SŪ तद्भूतस्य नातद्भावो जैमिने.रपि नियमातद्रूपाभावेभ्यः॥3.4.40॥
दशमाधिकरणमारचयति –
1 विषयः अवरोहोऽस्त्याश्रमाणां न वा, रागा.त्स विद्यते।
3 पूर्वपक्षः पूर्वधर्मश्रद्धया वा यथारोह.स्तथैच्छिकः॥ 21॥
“ब्रह्मचर्यं समाप्य गृही भवेत्, गृहा.द्वनी भूत्वा प्रव्रजेत्” इत्याश्रमाणा.मारोहो यथा इच्छाधीनो भवति, तथा “पारिव्राज्या.द्वनस्थः” इत्याद्यवरोहोऽपि क्वचि.द्रागवशात्, क्वचित्पूर्वाश्रम.धर्मश्रद्धावशाच्च युक्तः। इति प्राप्ते,
4 सिद्धान्तः रागस्यातिनिषिद्धत्वा-द्विहितस्यैव धर्मतः। आरोहनियमोक्त्यादे-र्नावरोहोऽस्त्यशास्त्रतः॥ 22॥
ब्रूमः- रागस्तावत्, मिथ्याज्ञानमूलत्वा.दतिनिषिद्धः। न च पूर्वाश्रमधर्मे श्रद्धा युज्यते, उत्तराश्रमिणं प्रति अविहितत्वेन धर्मत्वाभावात्। न हि- यो येनानुष्ठातुं शक्यते श्रद्धीयते च, स तस्य धर्मो भवति। किं तर्हि? यो यं प्रति विहितः, स तस्य धर्मः। किञ्च “ततो न पुन.रेयात्” इत्यवरोहनिषेधेनारोहो नियम्यते। न चारोहव.दवरोहेऽपि शिष्टाचारो विद्यते। तस्मात्- नास्त्यवरोहः॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विधुराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अस्त्येव सर्वसम्बन्धि-जपादे.श्चित्तशुद्धितः। श्रुता हि विद्या रैक्वादे-राश्रमे त्वतिशुद्धता॥ 20॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
एकादशे, ऊर्ध्वरेतसः पातित्ये प्रायश्चित्ताधिकरणे सूत्रे
SŪ न चाधिकारिक.मपि पतनानुमाना.त्तदयोगात्॥3.4.41॥
SŪ उपपूर्वमपि त्वेके भाव.मशनव.त्तदुक्तम्॥3.4.42॥
एकादशाधिकरणमारचयति –
1 विषयः भ्रष्टोर्ध्वरेतसो नास्ति प्रायश्चित्त.मथास्ति वा।
3 पूर्वपक्षः अदर्शनोक्ते.र्नास्त्येव व्रतिनो गर्दभः पशुः॥ 23॥
नैष्ठिकब्रह्मचर्या.दुर्ध्वरेतस्त्वं प्राप्तस्य, पुनः स्त्रीसङ्गेन भ्रष्टस्य प्रायश्चितं नास्ति। आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः। प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा।। इति प्रायश्चित्तादर्शनवचनात्। “अथ यो ब्रह्मचारी स्त्रीमुपेयात्, गर्दभं पशु.मालभेत” इत्यस्ति प्रायश्चितम्- तन्न, तस्य व्रतिविषयत्वात्। उपकुर्वाणकाख्यो यो वेदाध्ययनाङ्गत्वेन ब्रह्मचर्यव्रत.मनुतिष्ठति, तद्विषय.मिदं प्रायश्चित्तवचनम्। तस्मात्- ऊर्ध्वरेतस्त्वा.द्भ्रष्टस्य नास्ति प्रायश्चितम्। इति प्राप्ते,
4 सिद्धान्तः उपपातक.मेवैत.द्व्रतिनो मधुमांसवत्। प्रायश्चित्ताच्च संस्कारा-च्छुद्धि.र्यत्नपरं वचः॥ 24॥
ब्रूमः- यथा उपकुर्वाणकस्य मधुमांसभक्षण.मुपपातकमिति प्रायश्चित्तं पुनःसंस्कारो विद्यते, तद्व.दूर्ध्वरेतसोऽपि गुरुदारादिभ्योऽन्यत्र प्रवृत्ति.रुपपातकमेव, न तु महापातकम्। ततः प्रायश्चित्तात्, पुनस्संस्काराच्च शुद्धिर्भवति। यदि महापातकेष्वपरिगणितत्वेन उपपातकत्व.माश्रित्य प्रायश्चित्त.मुच्येत, तर्ह्यदर्शनवाक्यस्य का गतिः- इति चेत्। “यत्नपरं तद्वाक्यम्” इति ब्रूमः। अत एव “प्रायश्चित्तं न पश्यामि” इत्याह , न तु “नास्ति” इति। प्रायश्चित्तं तु गर्दभपशुरेव, ब्रह्मचारित्वस्य समानत्वात्। तथा- वनस्थपरिव्राजकयो.रपि भ्रंशे प्रायश्चित्तं स्मर्यते- “वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्।” “भिक्षु.र्वनस्थव.त्सोमवृद्धिवर्जम्”- इति कक्षवृद्धि.र्वनवासः। सोमवृद्धिरपि स एव॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तद्भूताधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “रागस्यातिनिषिद्धत्वा-द्विहितस्यैव धर्मतः। आरोहनियमोक्त्यादे-र्नावरोहोऽस्त्यशास्त्रतः॥ 22॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
द्वादशे भ्रष्टस्य कृतप्रायश्चित्तस्याप्यव्यवहार्यताधिकरणे सूत्रम्
SŪ बहि.स्तूभयथाऽपि स्मृते.राचाराच्च॥3.4.43॥
द्वादशाधिकरणमारचयति –
1 विषयः शुद्धं शिष्टै.रुपादेय-स्त्याज्यो वा दोषहानितः।
3 पूर्वपक्षः उपादेयोऽन्यथा शुद्धिः प्रायश्चितकृता वृथा॥ 25॥
पूर्वोक्तप्रायश्चित्तापादितशुद्ध्यन्यथानुपपत्त्या, कृतप्रायश्चित्तस्य शिष्टैस्सह व्यवहारोऽस्ति। इति प्राप्ते,
4 सिद्धान्तः आमुष्मिक्येव शुद्धि.स्स्या-त्तत.श्शिष्टा.स्त्यजन्ति तम्। प्रायश्चित्तादृष्टिवाक्या-दशुद्धि.स्त्वैहिकीष्यते॥ 26॥
ब्रूमः- आमुष्मिकशुद्धिसद्भावेऽपि, प्रायश्चित्तादर्शनवचनात् ऐहिकशुद्ध्यभावा.च्छिष्टै.रेष न व्यवहार्यः॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अधिकाराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उपपातक.मेवैत.द्व्रतिनो मधुमांसवत्। प्रायश्चित्ताच्च संस्कारा-च्छुद्धि.र्यत्नपरं वचः॥ 24॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪ स्वामिनः फलश्रुते.रित्यात्रेयः॥3.4.44॥
SŪ आर्त्विज्यमि.त्यौडुलोमिः, तस्मै हि परिक्रीयते॥3.4.45॥
SŪ श्रुतेश्च॥3.4.46॥
त्रयोदशाधिकरणमारचयति –
1 विषयः अङ्गध्यानं याजमान-मार्त्विजं वा यतः फलम्।
3 पूर्वपक्षः ध्यातुरेव श्रुतं तस्मा-द्याजमान.मुपासनम्॥ 27॥
त्रयोदशे, ऋत्विक्कृताङ्गध्यानस्य स्वामिगामित्वाधिकरणे सूत्राणि अङ्गावबद्धेषूपासनेषु यजमान एवानुष्ठाता, नर्त्विजः, ध्यातुः फलश्रवणात्। फलं तु यजमानस्यैवोचितं, स्वामित्वात्। तस्मात्- फलिनो यजमानस्यैव ध्यातृत्वम्। इति प्राप्ते,
4 सिद्धान्तः ब्रूया.देवंवि.दुद्गाते-त्यार्त्विज्यत्वं स्फुटं श्रुतम्। क्रीतत्वा.दृत्विज.स्तेन कृतं स्वामिकृतं भवेत्॥ 28॥
ब्रूमः- “एवंवि.दुद्गाता ब्रूयात्” इति वाक्यशेषे उद्गातु.रुपासकत्वं स्पष्टं श्रूयते। युक्तं चैतत्- ऋत्विजामशेषकर्मानुष्ठानाय यजमानेन क्रीतत्वात्। तस्मात्- ऋत्विग्भिः कृतं, यजमानेनैव कृतमिति, फलित्वोपपत्ते.रुपासन.मृत्विजां कर्म॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “बहिरधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आमुष्मिक्येव शुद्धि.स्स्या-त्तत.श्शिष्टा.स्त्यजन्ति तम्। प्रायश्चित्तादृष्टिवाक्या-दशुद्धि.स्त्वैहिकीष्यते॥ 26॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.14
सहकार्यन्तरविध्यधिकरणम्
SŪ सहकार्यन्तरविधिः पक्षेण तृतीयं तत्त्वतो विध्यादिवत्॥3.4.47॥
SŪ कृत्स्नभावात्तु गृहिणोपसंहारः॥3.4.48॥
SŪ मौनव.दितरेषा.मप्युपदेशात्॥3.4.49॥
चतुर्दशाधिकरणमारचयति –
1 विषयः प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युभयं यतः॥ 29॥
3 पूर्वपक्षः चतुर्दशे मौनस्य विधेयत्वाधिकरणे सूत्राणि अविधेयं विधेयं वा मौनं तन्न विधीयते॥ निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः पृथक्॥ कहोलब्राह्मणे श्रूयते- “तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य, बाल्येन तिष्ठासेत्, बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः” इति। अस्यायमर्थः- यस्माद्ब्रह्मभावः परमपुरुषार्थः, तस्माद्ब्रह्म बुभूषु.रुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं (निर्विद्य) निश्शेषेण संपाद्य, बालव.न्नीरागद्वेषत्वेन युक्तः, असंभावनानिराकरणाय युक्ती.रनुचिन्तयन्, अवस्थातुमिच्छेत्। ततः पाण्डित्यबाल्ये (निर्विद्य) निश्शेषेण संपाद्य, अथ मुनिः- इति। तत्र- “भवेत्” इति विध्यश्रवणात्, मुनित्वं न विधेयम्। नच- विधिः कल्पयितुं शक्यः, पाण्डित्यशब्देन प्राप्तस्य मौनस्यापूर्वार्थत्वाभावात्। पण्डितस्य विदुषो भावः पाण्डित्यम्- इति ज्ञानवाचकोऽयं शब्दः। तथा मुनिशब्दोऽपि, “मन ज्ञाने” इत्यस्माद्धातो.स्तन्निष्पत्तेः। तस्मात्- प्राप्तस्य मोनस्य नैव विधिकल्पनम्। इति प्राप्ते,
4 सिद्धान्तः विधेयं तद्भेददृष्टि-प्राबल्ये तन्निवृत्तये॥ 30॥
ब्रूमः- पूर्वोक्तस्य पाण्डित्यस्य पुन.र्मुनिशब्देनाभिधाने प्रयोजनाभावात्, निरन्तरज्ञाननिष्ठाऽपूर्वार्थो मुनिशब्देन विवक्षितः। ततः “तिष्ठासेत्” इति पदानुवृत्त्या विधिर्लभ्यते। अस्ति च ज्ञाननैरन्तर्येण प्रयोजनम्, प्रबलभेदवासना.वासितस्य तन्निवृत्त्यर्थत्वात्। तस्मात्- निदिध्यासनात्मकं मौनं विधेयम्॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “स्वाम्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूया.देवंवि.दुद्गाते-त्यार्त्विज्यत्वं स्फुटं श्रुतम्। क्रीतत्वा.दृत्विज.स्तेन कृतं स्वामिकृतं भवेत्॥ 28॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
पञ्चदशे भावशुद्धेरेव बाल्यशब्दाभिधेयताधिकरणे सूत्रम्
SŪ अनाविष्कुर्व.न्नन्वयात्॥3.4.50॥
पञ्चदशाधिकरणमारचयति –
1 विषयः बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः।
3 पूर्वपक्षः वय.स्तस्याविधेयत्वे कामचारोऽस्तु नेतरा॥ 31॥
“बाल्येन तिष्ठासेत्” इत्यत्र- बालस्य भावो बाल्यम्- इति प्रसिद्ध्या वयो भवेत्। अथ- तस्य विध्यनर्हत्वम्? तर्हि- बालस्य कर्म- इति व्युत्पत्त्या कामचारादिक.मस्तु। सर्वथा धीशुद्धि.र्न बाल्यम्। इति प्राप्ते,
4 सिद्धान्तः मननस्योपयुक्तत्वा-द्भावशुद्धि.र्विवक्षिता। अत्यन्तानुपयोगित्वा-द्विरुद्धत्वाच्च न द्वयम्॥ 32॥
ब्रूमः- पाण्डित्यमौनाख्ययोः श्रवणनिदिध्यासनयो.र्मध्ये, मननं विधेयत्वेन श्रुत्या विवक्षितम्। तस्य च भावशुद्धि.रुपयुक्ता, राग-द्वेष-माना-पमानादि.दोषग्रस्तत्वेन बहिःप्रवृत्ति.मपरित्यज्य मन्तु.मशक्यत्वात्। बालस्य कर्म- इति व्युत्पत्तिस्तु यथेच्छाचारे, भावशुद्धौ च समाना। वयः-कामचारौ तु मननस्यात्यन्त.मनुपयुक्तौ। प्रत्युत विरोधिनौ, मूढस्य बहिःप्रवृत्तस्य वा मनसो मननविनाशकत्वात्। तस्मात्- भावशुद्धिरेव बाल्यम्, नेतर.दुभयम्॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सहकार्यन्तरविध्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विधेयं तद्भेददृष्टि-प्राबल्ये तन्निवृत्तये॥ 30॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
षोडशे आत्मज्ञानस्यैहिकामुष्मिकत्व.व्यवस्थाधिकरणे सूत्रम्
SŪ ऐहिक.मप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्॥3.4.51॥
षोडशाधिकरणमारचयति –
1 विषयः इहैव नियतं ज्ञानं पाक्षिकं वा, नियम्यते।
3 पूर्वपक्षः तथाऽभिसन्धे.र्यज्ञादिः क्षीणो विविदिषाजनौ॥ 33॥
श्रवण-मनन-निदिध्यासने.ष्वनुष्ठीयमानेषु- अस्मिन्नेव जन्मनि ज्ञानं जायते- इति नियम्यते। न तु- इह वा, जन्मान्तरे वा- इति कालविकल्पः। कुतः? श्रवणादिषु प्रवर्तमानस्य पुरुषस्य, ज्ञानेच्छाया ऐहिकज्ञानोत्पत्तिविषयत्वात्। “इहैव मे विद्या जायताम्” इत्यभिसन्धाय पुरुषः प्रवर्तते। न च- अदृष्टफलानां यज्ञादीनां तत्साधकत्वेन स्वर्गवत्, जन्मान्तरे ज्ञानोत्पत्तिः शङ्कनीया, श्रवणादिप्रवृत्तेः प्रागेव विविदिषा.मुत्पाद्य यज्ञादीनां चरितार्थत्वात्। तस्मात्- ऐहिकत्वेन ज्ञानोत्पत्ति.र्नियम्यते। इति प्राप्ते,
4 सिद्धान्तः असति प्रतिबन्धेऽत्र ज्ञानं जन्मान्तरोऽन्यथा। श्रवणायेत्यादिशास्त्रा-द्वामदेवोद्भवा.दपि॥ 34॥
ब्रूमः- असति प्रतिबन्धे, ज्ञान.मिहैव सम्भवति, सति तु प्रतिबन्धेऽत्रानुष्ठितैः श्रवणादिभि.र्जन्मान्तरे ज्ञान.मुत्पद्यते। प्रतिबन्धश्च बहुविधः श्रूयते – “श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यन्न विद्युः। आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः” इति। न च- पूर्वजन्मानुष्ठितैः श्रवणादिभि.र्जन्मान्तरे ज्ञानोत्पत्तिर्न दृष्टचरी, वामदेवस्य गर्भे एवावस्थितस्य ज्ञानोत्पत्तिश्रवणात्। “गर्भ एवैतच्छयानो वामदेव एव.मुवाच” इति श्रुतेः। तस्मात्- इह वा, जन्मान्तरे वा ज्ञानोत्पत्तिः॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अनाविष्काराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मननस्योपयुक्तत्वा-द्भावशुद्धि.र्विवक्षिता। अत्यन्तानुपयोगित्वा-द्विरुद्धत्वाच्च न द्वयम्॥ 32॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
सप्तदशे मुक्तेरेकविधत्वाधिकरणे सूत्रम्
SŪ एवं मुक्तिफलानियम.स्तदवस्थावधृते.स्तदवस्थाधृतेः ॥3.4.52॥
सप्तदशाधिकरणमारचयति –
3 पूर्वपक्षः मुक्ति.स्सातिशया नो वा फलत्वा.द्ब्रह्मलोकवत्॥ ब्रह्मैव मुक्तिर्न ब्रह्म क्वचि.त्सातिशयं श्रुतम्॥ यथा ब्रह्मलोकाख्यं फलं सालोक्य-सारूप्य-सामीप्य-सार्ष्टिभेदेन चतुर्विधम्, तथा मुक्तिरपि फलत्वाविशेषा.त्सातिशया। तत्र सार्ष्टि.र्नाम चतुर्मुखेन समानैश्वर्यत्वम्। यथा वा- “कर्मभूयस्त्वा.त्फलभूयस्त्वम्” इति न्यायेन स्वर्गो बहुविधः। तथैव मुक्तिरपि फलत्वाविशेषा.त्सातिशया। इति प्राप्ते,
4 सिद्धान्तः ब्रूमः- मुक्ति.र्नाम निजसिद्ध.ब्रह्मस्वरूपमेव, न तु स्वर्गव.दागन्तुकं किञ्चिद्रूपम्- इति वक्ष्यते। ब्रह्म च एकविधित्वेन श्रुतं निर्णीतं च। तस्मात्- चतुर्मुखस्य मनुजस्य वा मुक्ति.रेकविधैव। सालोक्यादिविशेषस्तु जन्यरूपत्वा.दुपासनातारतम्येन सातिशयो भविष्यति। मुक्तिस्तु न तादृशी , इति सिद्धम्॥ अथ चतुर्थोध्यायः चतुर्थाध्यायस्य प्रथमः पादः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ऐहिकाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “असति प्रतिबन्धेऽत्र ज्ञानं जन्मान्तरोऽन्यथा। श्रवणायेत्यादिशास्त्रा-द्वामदेवोद्भवा.दपि॥ 34॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
Set from the transmitted text; four limbs are the source, the fifth is inferred and marked.
Sanātana Guru Sampradāya Pratiṣṭhānam, Mysore · sarvaveda.info