SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Vaiyāsika Nyāyamālā · Adhyāya 3, Pāda 4

साधनम्

निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि

17adhikaraṇas
52sūtras
3.4.1 पुरुषार्थाधिकरणम्
पुरुषार्थोऽतः, शब्दादिति बादरायणः॥3.4.1॥
शेषत्वा.त्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः॥3.4.2॥
आचारदर्शनात्॥3.4.3॥
तच्छ्रुतेः॥3.4.4॥
समन्वारम्भणात्॥3.4.5॥
तद्वतो विधानात्॥3.4.6॥
नियमाच्च॥3.4.7॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्॥3.4.8॥
तुल्यं तु दर्शनम्॥3.4.9॥
असार्वत्रिकी॥3.4.10॥
विभागः शतवत्॥3.4.11॥
अध्ययनमात्रवतः॥3.4.12॥
नाविशेषात्॥3.4.13॥
स्तुतयेऽनुमतिर्वा॥3.4.14॥
कामकारेण चैके॥3.4.15॥
उपमर्दं च॥3.4.16॥
ऊर्ध्वरेतस्सु च शब्दे हि॥3.4.17॥
तृतीयाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति –

1विषयः

क्रत्वर्थ.मात्मविज्ञानं स्वतन्त्रं वात्मनो यतः।

3पूर्वपक्षः

देहातिरेक.मज्ञात्वा न कुर्यात्क्रतुगं ततः॥ 1॥
प्रथमे पुरुषार्थाधिकरणे- आत्मज्ञानस्य स्वतन्त्रताधिकरणे सूत्राणि
आत्मनो देहादिव्यतिरेकज्ञान.मन्तरेण परलोकगामित्वानिश्चयात्, ज्योतिष्टोमादिप्रवृत्तिरेव न स्यादिति, क्रतुषु प्रवर्तकत्वेन, औपनिषदम् आत्मतत्त्वज्ञानं कर्माङ्गम्। इति प्राप्ते,

4सिद्धान्तः

नाद्वैतधीः कर्महेतु-र्हन्ति प्रत्युत कर्म सा।
आचारो लोकसङ्ग्राही स्वतन्त्रा ब्रह्मधी.स्ततः॥ 2॥
ब्रूमः- द्विविधं देहव्यतिरिक्तात्मज्ञानम्- परलोकगामि.कर्त्रात्मविज्ञान.मेकम्, द्वितीयं ब्रह्मात्मतत्त्वज्ञानं चेति।
तत्र- कर्त्रात्मज्ञानस्य प्रवर्तकत्वेऽपि नाद्वैतब्रह्मतत्त्वज्ञानं प्रवर्तकम्। प्रत्युत- क्रियाकारक.फलनिषेधेन निवर्तकमेव।
ननु तत्त्वविदामपि जनकादीनां कर्मप्रवृत्तिलक्षणः आचारो दृश्यते। बाढम्। लोकसंग्रहार्थ.मय.माचारः स्यात्। यदि तत्त्वविदामपि मुक्तये कर्माण्यनुष्ठेयानि स्युः, कथं तर्हि प्रजादिवैयर्थ्यश्रुति.रुपपद्यते?
“किं प्रजया करिष्यामो, येषां नोऽय.मात्माऽयं लोकः” इति, आत्मतत्त्वस्वरूपस्य लोकस्यापरोक्षत्वे सति, अनात्मलोकसाधनभूतायाः प्रजायाः वैयर्थ्यं श्रूयते।
एवं “किमर्था वयमध्येष्यामहे, किमर्था वयं यक्ष्यामहे” इत्याद्युदाहरणीयम्। तस्मात्- आत्मतत्त्वज्ञानं स्वतन्त्रं पुरुषार्थसाधनम्, न तु कर्माङ्गम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “यथाश्रयभावाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति वैयासिकन्यायमालायां तृतीयाध्यायस्य तृतीयः पादः॥ 3॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.2 परामर्शाधिकरणम्
परामर्शं जैमिनि.रचोदना चापवदति हि॥3.4.18॥
अनुष्ठेयं बादरायण.स्साम्यश्रुतेः॥3.4.19॥
विधिर्वा धारणवत्॥3.4.20॥
द्वितीयाधिकरणस्य प्रथमवर्णकमारचयति –

1विषयः

नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसा.वविधानतः।

3पूर्वपक्षः

वीरघातो विधेः क्लृप्ता-वन्ध.पङ्ग्वादिगा स्मृतिः॥ 3॥
द्वितीये परामर्शाधिकरणे- संन्यासिन एव ब्रह्मनिष्ठताधिकरणे सूत्राणि
पूर्वाधिकरणे- स्वतन्त्र.मात्मविज्ञानम्- इत्युक्तम्। तस्य चात्मविज्ञानस्य ऊर्ध्वरेतस्स्वाश्रमेषु सुलभत्वा.दाश्रमसद्भाव.श्चिन्त्यते।
तत्र- नास्त्यूर्ध्वरेताः- इति प्राप्तम्। कुतः? विध्यभावात्। छान्दोग्ये- “त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयः” इत्यत्र यज्ञाद्युपलक्षित.गार्हस्थ्यस्य, तपश्शब्दलक्षित.वानप्रस्थत्वस्य, नैष्ठिकब्रह्मचर्यस्य परामर्शमात्रं गम्यते, न तु विधि.रुपलभ्यते।
न च- अपूर्वार्थत्वेन विधिः कल्पयितुं शक्यः, “वीरहा वा एष देवानां योऽग्नि.मुद्वासयते” इत्यग्न्युद्वासनलक्षितस्य गार्हस्थ्यपरित्यागस्य, निन्दितत्वात्। “चत्वार आश्रमाः”- इति स्मृतिस्तु, गार्हस्थ्यधर्मानधिकृतान्धपङ्ग्वादिविषया भविष्यति। न ह्यन्धस्याज्यावेक्षणोपेते कर्मण्यधिकारोऽस्ति। नापि पङ्गो.र्विष्णुक्रमाद्युपेते कर्मण्यधिकारः। तस्मात्- चक्षुरादिपाटवयुक्तस्य, आत्मज्ञानोपयुक्त ऊर्ध्वरेता आश्रमो नास्ति। इति प्राप्ते,

4सिद्धान्तः

अस्त्यपूर्वविधेः क्लृप्ते-र्वीरहाऽनग्निको गृही।
अन्धादेः पृथगुक्तत्वा-त्स्वस्थानां श्रूयते विधिः॥ 4॥
ब्रूमः- अस्त्यूर्ध्वरेता आश्रमः। विध्यश्रवणेऽपि, अपूर्वार्थत्वेन विधेः कल्पयितुं शक्यत्वात्। न च- वीरघातदोषः, उत्सन्नाग्नि.गृहस्थविषयत्वा.द्वीरहत्यायाः। यत्तु- अन्धादिविषयत्वं स्मृते.रुक्तम्। तदसत्, “अथ पुनरव्रती व्रती वा, स्नातकोऽस्नातको वा, उत्सन्नाग्नि.रनग्निको वा, यदहरेव विरजेत्, तदहरेव प्रव्रजेत्” इति गार्हस्थ्यानधिकृतानां पृथक्संन्यासविधानात्।
न च- चक्षुरादिपाटववता.माश्रमान्तरविधिः कल्पनीयः, जाबालश्रुतौ प्रत्यक्षविध्युपलम्भात्। “ब्रह्मचर्यं समाप्य गृही भवेत्, गृहा.द्वनी भूत्वा, प्रव्रजेत्” इति। तस्मात्- अस्त्याश्रमान्तरम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पुरुषार्थाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नाद्वैतधीः कर्महेतु-र्हन्ति प्रत्युत कर्म सा। आचारो लोकसङ्ग्राही स्वतन्त्रा ब्रह्मधी.स्ततः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयवर्णकमारचयति –

1विषयः

लोककाम्याश्रमी ब्रह्म-निष्ठा.मर्हति वा न वा।

3पूर्वपक्षः

यथावकाशं ब्रह्मैव ज्ञातु.मर्हत्यवारणात्॥ 5॥
“त्रयो धर्मस्कन्धाः” इत्यत्राश्रमानधिकृत्य, “सर्व एते पुण्यलोका भवन्ति” इत्याश्रमानुष्ठायिनां पुण्यलोक.मभिधाय, “ब्रह्मसंस्थोऽमृतत्वमेति” इति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते। सेयं ब्रह्मनिष्ठा पुण्यलोककामिनः आश्रमिणोऽपि सम्भाव्यते। आश्रमकर्माण्यनुष्ठाय, यथावकाशं ब्रह्मनिष्ठायाः सुकरत्वात्। नहि “लोककामी ब्रह्म न जानीयात्” इति निषेधोऽस्ति। तस्मात्- अस्ति सर्वस्याश्रमिणो ब्रह्मनिष्ठा। इति प्राप्ते,

4सिद्धान्तः

अनन्यचित्तता ब्रह्म-निष्ठाऽसौ कर्मठे कथम्।
कर्मत्यागी ततो ब्रह्म-निष्ठा.मर्हति नेतरः॥ 6॥
ब्रूमः- ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनान्यचित्ततया ब्रह्मणि समाप्तिः। न चासौ कर्मशूरे सम्भवति, कर्मानुष्ठान-त्यागयोः परस्परं विरोधात्। तस्मात्- कर्मत्यागिन एव ब्रह्मनिष्ठा॥
3.4.3 स्तुतिमात्राधिकरणम्
तृतीये रसतमत्वादीनां ध्येयत्वाधिकरणे सूत्रे
स्तुतिमात्र.मुपादाना.दिति चे.न्नापूर्वत्वात्॥3.4.21॥
भावशब्दा.च्च॥3.4.22॥
तृतीयाधिकरणमारचयति –

1विषयः

स्तोत्रं रसतमत्वादि ध्येयं वा गुणवर्णनात्।

3पूर्वपक्षः

जुहू.रादित्य इत्यादा-विव कर्माङ्गसंस्तुतिः॥ 7॥
उद्गीथावयवस्य ओङ्कारस्य रसतमत्वादयो गुणाः श्रूयन्ते- “स एष रसानां रसतमः परमः” इत्यादिना। तद्रसतमत्वादिकम् ओङ्काकारस्य स्तुतिः, न तु ध्यातव्यम्। यथा इयमेव जुहू.रादित्यः, कूर्मः स्वर्लोकः- इत्यादौ कर्माङ्गभूतानां जुह्वादीना.मादित्यादिरूपेण स्तुतिः, तथा रसतमत्वादिगुणै.रोंकारस्य स्तुतिः। इति प्राप्ते,

4सिद्धान्तः

भिन्नप्रकरणस्थत्वा-न्नाङ्गविध्येकवाक्यता।
उपासीतेति विध्युक्ते-र्ध्येयं रसतमादिकम्॥ 8॥
ब्रूमः- विषमो दृष्टान्तः। “जुहू.रादित्यः” इत्यादिकं जुहूविधिप्रकरणे पठितत्वात् स्तोत्र.मस्तु। रसतमत्वादिकं तु, उपनिषदि पठितत्वेन कर्मप्रकरणपठित-उद्गीथविधिवाक्येन एकवाक्यत्वाभावात्, न स्तावकम्।
किन्तु “ओमित्येतदक्षर.मुद्गीथ.मुपासीत” इति सन्निहितेन विधिना एकवाक्यत्वा.द्रसतमत्वादिकं ध्यातव्यम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “परामर्शाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अस्त्यपूर्वविधेः क्लृप्ते-र्वीरहाऽनग्निको गृही। अन्धादेः पृथगुक्तत्वा-त्स्वस्थानां श्रूयते विधिः॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.4 परिप्लवाधिकरणम्
चतुर्थे आख्यानस्य विद्यास्तुत्यर्थताधिकरणे सूत्रे
पारिप्लवार्था इति चे.न्न विशेषितत्वात्॥3.4.23॥
तथा चैकवाक्यतोपबन्धात्॥3.4.24॥
चतुर्थाधिकरणमारचयति –

1विषयः

पारिप्लवार्थ.माख्यानं किंवा विद्यास्तुति.स्स्तुतेः।

3पूर्वपक्षः

ज्यायोऽनुष्ठानशेषत्वं तेन पारिप्लवार्थता॥ 9॥
“अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः”- “जनको ह वैदेह आसांचक्रे” इत्यादिक.मुपनिषदि श्रूयमाण.माख्यानं पारिप्लवार्थं भवितुमर्हति। अश्वमेधयागे रात्रिषु राजानं सकुटुम्ब.मुपवेश्य, तस्याग्रे वैदिका.न्युपाख्यानानि अध्वर्युणा वक्तव्यानि। तदिदं पारिप्लवाख्यं कर्म “पारिप्लव.माचक्षति” इति वाक्येन विहितम्। तदर्थत्वे सति, औपनिष.दाख्याना.न्यनुष्ठानायोपयुज्येरन्। ज्यायोऽनुष्ठानं विद्यास्तुतेः। तस्मात्पारिप्लवार्थम्। इति प्राप्ते,

4सिद्धान्तः

मनु.र्वैवस्वतो राजे-त्येवं तत्र विशेषणात्।
अत्र विद्यैकवाक्यत्व-भावा.द्विद्यास्तुति.र्भवेत्॥ 10॥
ब्रूमः- प्रथमेऽहनि- “मनु.र्वैवस्वतो राजा,” द्वितीयेऽहनि- “यमो वैवस्वतो राजा,” इत्याद्याख्यानानां पारिप्लवार्थानां विशेषितत्वा.दौपनिषदाना.माख्यानानां तच्छेषत्वं न सम्भवति। सन्निहित.विद्यास्तावकत्वे तु, विद्यावाक्यै.रेकवाक्यता लक्ष्यते। तस्मात्- विद्यास्तावक.माख्यानम्॥ (न तु पारिप्लवकर्माङ्गम्)

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “स्तुतिमात्राधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “भिन्नप्रकरणस्थत्वा-न्नाङ्गविध्येकवाक्यता। उपासीतेति विध्युक्ते-र्ध्येयं रसतमादिकम्॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.5 अग्नीन्धनाद्यधिकरणम्
पञ्चमे आत्मज्ञानस्य कर्मानपेक्षत्वाधिकरणे सूत्रम्
अत एव चाग्नीन्धना.द्यनपेक्षा॥3.4.25॥

1विषयः

आत्मबोधः फले कर्मा-पेक्षो नो वा, ह्यपेक्षते।

3पूर्वपक्षः

अङ्गिनोऽङ्गेष्वपेक्षायाः प्रयाजादिषु दर्शनात्॥ 11॥
पञ्चमाधिकरणमारचययति –
विमतो ब्रह्मतत्त्वावबोधः स्वफलप्रदाने स्वाङ्गभूतकर्मापेक्षः, अङ्गित्वात्, प्रयाजापेक्ष.दर्शपूर्णमासवत्। यद्यपि प्रथमाधिकरणे विद्यायाः स्वतन्त्रपुरुषार्थत्वप्रतिपादनेन कर्माङ्गत्वं निवारितम्, तथाऽप्यङ्गित्वं न निवारितम्। अतो नासिद्धो हेतुः। अतः कर्माङ्गापेक्षो बोधः। इति प्राप्ते,

4सिद्धान्तः

अविद्यातमसोर्ध्वस्तौ दृष्टं हि ज्ञानदीपयोः।
नैरपेक्ष्यं ततोऽत्रापि विद्या कर्मानपेक्षिणी॥ 12॥
ब्रूमः- विमतं ब्रह्मज्ञानं स्वविरोधि.निवर्त्यनिवर्तनेऽन्यापेक्षं न भवति, प्रकाशत्वात्, दीपवत्, घटज्ञानवच्च।
यत्तु- अङ्गित्व.मुक्तम्, तत्र कर्मणः कीदृश.मङ्गत्व.मभिप्रेतम्? किं प्रयाजादिव.त्फलोपकार्यङ्गत्वम्? उत- अवघातादिव.त्स्वरूपोपकार्यङ्गत्वम्?
नाद्यः, मुक्तेः कर्मजन्यत्वेनानित्यत्वप्रसक्तेः।
द्वितीये- साध्यविकलो दृष्टान्तः, अवघातादौ प्रयाजादीनाम् इव, स्वरूपोपकार्यङ्गत्वाभावात्। तस्मात्- उत्पन्ना विद्या, स्वफलदाने कर्माणि नापेक्षते॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “परिप्लवाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मनु.र्वैवस्वतो राजे-त्येवं तत्र विशेषणात्। अत्र विद्यैकवाक्यत्व-भावा.द्विद्यास्तुति.र्भवेत्॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.6 सर्वापेक्षाधिकरणम्
षष्ठे ज्ञानोत्पत्तौ यज्ञशमदमाद्यपेक्षाधिकरणे सूत्रे
सर्वापेक्षा च यज्ञादिश्रुते.रश्ववत्॥3.4.26॥
शमदमाद्युपेतः स्यात्, तथाऽपि तु तद्विधे.स्तदङ्गतया तेषा.मवश्यानुष्ठेयत्वात्॥3.4.27॥
षष्ठाधिकरणमारचयति –

1विषयः

उत्पत्ता.वनपेक्षेय-मुत कर्माण्यपेक्षते।

3पूर्वपक्षः

फले यथाऽनपेक्षैव-मुत्पत्ता.वनपेक्षता॥ 13॥
ब्रह्मविद्या स्वफले यथा कर्माणि नापेक्षते, तथा स्वोत्पत्तावपि। अन्यथा- क्वचि.दपेक्षते, क्वचि.न्नापेक्षते- इत्यर्धजरतीयन्यायः प्रसज्येत। इति प्राप्ते,

4सिद्धान्तः

यज्ञशान्त्यादि.सापेक्षं विद्याजन्म श्रुतिद्वयात्।
हलेऽनपेक्षितोऽप्यश्वो रथे यद्व.दपेक्ष्यते॥ 14॥
ब्रूमः- नार्धजरतीयत्वदोषोऽत्रास्ति, योग्यतावशेन एकस्यैव कार्यविशेषेषु, अपेक्षानपेक्षयोरुपपत्तेः। यथा लाङ्गल.वहनेऽनपेक्षितोऽप्यश्वः, रथवहनेऽपेक्ष्यते, तद्वत्।
न च विद्यायाः स्वोत्पत्तौ कर्मापेक्षायां प्रमाणाभावः, “तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति प्रवृत्तिरूपाणां वेदानुवचनादीनां, विविदिषोत्पादनद्वारा बहिरङ्गसाधनत्वावगमात्।
“शान्तो दान्त उपरत.स्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति” इति निवृत्तिरूपाणां शमदमादीनां विद्योत्पत्तिकालेऽपि, अनुवर्तमानतयाऽन्तरङ्गसाधनत्वावगमात्। तस्मात्- यज्ञादीनि शमादीनि च, विद्या स्वोत्पत्ता.वपेक्षते॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अग्नीन्धनाद्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अविद्यातमसोर्ध्वस्तौ दृष्टं हि ज्ञानदीपयोः। नैरपेक्ष्यं ततोऽत्रापि विद्या कर्मानपेक्षिणी॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.7 सर्वान्नानुमत्यधिकरणम्
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्॥3.4.28॥
अबाधाच्च॥3.4.29॥
अपि च स्मर्यते॥3.4.30॥
शब्दश्चातोऽकामकारे॥3.4.31॥
सप्तमाधिकरणमारचयति –

1विषयः

सर्वाशनविधिः प्राण-विदोऽनुज्ञाऽथवापदि।

3पूर्वपक्षः

अपूर्वत्वेन सर्वान्न-भुक्ति.र्ध्यातु.र्विधीयते॥ 15॥
सप्तमे, आपदि सर्वान्नभोजनानुज्ञाधिकरणे सूत्राणि
प्राणविद्यायां श्रूयते- “न ह वा एवंविदि किञ्चनानन्नं भवति” इति। “प्राणोपासकेन भोक्तु.मयोग्यं न किञ्चिदस्ति” इत्यर्थः। तत्र सर्वान्नभोजनस्य मानान्तरेणाप्राप्तत्वात्, प्राणोपासकस्य तद्विधीयते। इति प्राप्ते,

4सिद्धान्तः

श्वाद्यन्नभोजनाशक्तेः शास्त्राच्चाभोज्यवारणात्।
आपदि प्राणरक्षार्थ-मेवानुज्ञायतेऽखिलम्॥ 16॥
ब्रूमः- “यदिदं किंचाश्वभ्य आकृमिभ्य आकीटपतङ्गेभ्यः, तत्तेऽन्नम्” इति श्वादि भोज्य.मन्न.मुपासकस्य भोज्यतया विधेयम्, न च तद्विधातुं शक्यम्, यतो भक्ष्याभक्ष्यविभागशास्त्रं सर्वान्नाशनविधौ बाध्येत।
तस्मात्- आपदि यावता प्राणरक्षा भवति, तावन्मात्रं निषिद्धान्न.मप्यनुज्ञायते। अत एव चाक्रायणो मुनिः प्राणात्यये प्राप्ते पर्युषितान् गज-तत्पालकोच्छिष्टा.न्कुल्माषान् भक्षयित्वा शूद्रभाण्डस्थ.मुदकं न पपौ। तत्रोभयत्र कारणं चावोचत्- “न वा अजीविष्य.मिमा.नखादन्” इति, “कामो म उदपानम्” इति च। तस्मात्- आपदि सर्वान्नभक्षण.मभ्यनुज्ञातम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्वापेक्षाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यज्ञशान्त्यादि.सापेक्षं विद्याजन्म श्रुतिद्वयात्। हलेऽनपेक्षितोऽप्यश्वो रथे यद्व.दपेक्ष्यते॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.8 आश्रमकर्माधिकरणम्
विहितत्वाच्चाश्रमकर्मापि॥3.4.32॥
सहकारित्वेन च॥3.4.33॥
सर्वथाऽपि त एवोभयलिङ्गात्॥3.4.34॥
अनभिभवं च दर्शयति॥3.4.35॥
अष्टमाधिकरणमारचयति –

1विषयः

विद्यार्थ.माश्रमार्थं च द्विः प्रयोगोऽथवा सकृत्।

3पूर्वपक्षः

प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते॥ 17॥
अष्टमे यज्ञादीना.माश्रमविद्योभयहेतुत्वाधिकरणे सूत्राणि
यानि यज्ञादीनि विद्याहेतुत्वेन विविदिषावाक्ये विहितानि, तान्येवाश्रमधर्मत्वेन पूर्वकाण्डे विहितानि। तेषां प्रयोजनद्वैविध्यात्, द्विरनुष्ठानम्। इति प्राप्ते,

4सिद्धान्तः

श्राद्धार्थभुक्त्या तृप्ति.स्स्या-द्विद्यार्थेनाश्रम.स्तथा।
अनित्यनित्यसंयोग उक्तिभ्यां खादिरे मतः॥ 18॥
ब्रूमः- यथा श्रद्धार्थभोजनेन तृप्तिः, नान्तरीयकतया सिध्यति, तथा विद्यार्थ.मनुष्ठितैः कर्मभि.राश्रमधर्मः सिध्यतु। न च- विद्याहेतूनां काम्यत्वात्, आश्रमधर्माणां च नित्यत्वात्, सकृत्प्रयोगे नित्यानित्यसंयोगविरोधः- इति वाच्यम्। वचनद्वयबलेन, एकस्य कर्मणः आकारद्वयोपपत्तेः। यथा- “खादिरो यूपो भवति, खादिरं वीर्यकामस्य यूपं कुर्वीत” इत्यत्र वचनद्वयबलेन, एकस्य नित्यत्वं काम्यत्वं च तद्वत्। तस्मात्- उभयविधानां यज्ञादीनां सकृदेव प्रयोगः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्वान्नानुमत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्वाद्यन्नभोजनाशक्तेः शास्त्राच्चाभोज्यवारणात्। आपदि प्राणरक्षार्थ-मेवानुज्ञायतेऽखिलम्॥ 16॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.9 विधुराधिकरणम्
अन्तरा चापि तु तद्दृष्टेः॥3.4.36॥
अपि च स्मर्यते॥3.4.37॥
विशेषानुग्रहश्च॥3.4.38॥
अत.स्त्वितर.ज्ज्यायो लिङ्गाच्च॥3.4.39॥
नवमाधिकरणमारचयति –

1विषयः

नास्त्यनाश्रमिणो ज्ञान-मस्ति वा नैव विद्यते।

3पूर्वपक्षः

धीशुद्ध्यर्थाश्रमित्वस्य ज्ञानहेतो.रभावतः॥ 19॥
नवमे, अनाश्रमिणोऽपि ब्रह्मज्ञानाधिकरणे सूत्राणि
पूर्वाश्रमं परिसमाप्य, केनापि कारणेन उत्तर.माश्रम.मप्रतिपन्नोऽनाश्रमी। स्नातक.विधुरादिः। तस्य तत्त्वज्ञानं न सम्भाव्यते, बुद्धिशुद्धिहेतोः, आश्रमित्वस्याभावात्। इति प्राप्ते,

4सिद्धान्तः

अस्त्येव सर्वसम्बन्धि-जपादे.श्चित्तशुद्धितः।
श्रुता हि विद्या रैक्वादे-राश्रमे त्वतिशुद्धता॥ 20॥
ब्रूमः- सम्भवत्यनाश्रमिणोऽपि ज्ञानम्। आश्रमनिरपेक्षस्य जपादे.र्बुद्धिशुद्धिहेतुत्वात्। “जप्येनैव तु संसिध्ये.द्ब्राह्मणो नात्र संशयः” इति स्मृतेः। श्रुतश्च संवर्गविद्याया.मधिकारोऽनाश्रमिणो विवाहार्थिनो रैक्वस्य। एव.माश्रमरहिता गार्ग्यादय उदाहार्याः। न च- एवं सत्याश्रम.वैयर्थ्यम्, शुद्ध्यतिशयहेतुत्वात्। तस्मात्- अनाश्रमिणोऽपि सम्भवत्येव ज्ञानम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आश्रमकर्माधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्राद्धार्थभुक्त्या तृप्ति.स्स्या-द्विद्यार्थेनाश्रम.स्तथा। अनित्यनित्यसंयोग उक्तिभ्यां खादिरे मतः॥ 18॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.10 तद्भूताधिकरणम्
दशमे, आश्रमाणामवरोहनिराकरणाधिकरणे सूत्रम्
तद्भूतस्य नातद्भावो जैमिने.रपि नियमातद्रूपाभावेभ्यः॥3.4.40॥
दशमाधिकरणमारचयति –

1विषयः

अवरोहोऽस्त्याश्रमाणां न वा, रागा.त्स विद्यते।

3पूर्वपक्षः

पूर्वधर्मश्रद्धया वा यथारोह.स्तथैच्छिकः॥ 21॥
“ब्रह्मचर्यं समाप्य गृही भवेत्, गृहा.द्वनी भूत्वा प्रव्रजेत्” इत्याश्रमाणा.मारोहो यथा इच्छाधीनो भवति, तथा “पारिव्राज्या.द्वनस्थः” इत्याद्यवरोहोऽपि क्वचि.द्रागवशात्, क्वचित्पूर्वाश्रम.धर्मश्रद्धावशाच्च युक्तः। इति प्राप्ते,

4सिद्धान्तः

रागस्यातिनिषिद्धत्वा-द्विहितस्यैव धर्मतः।
आरोहनियमोक्त्यादे-र्नावरोहोऽस्त्यशास्त्रतः॥ 22॥
ब्रूमः- रागस्तावत्, मिथ्याज्ञानमूलत्वा.दतिनिषिद्धः। न च पूर्वाश्रमधर्मे श्रद्धा युज्यते, उत्तराश्रमिणं प्रति अविहितत्वेन धर्मत्वाभावात्।
न हि- यो येनानुष्ठातुं शक्यते श्रद्धीयते च, स तस्य धर्मो भवति।
किं तर्हि? यो यं प्रति विहितः, स तस्य धर्मः।
किञ्च “ततो न पुन.रेयात्” इत्यवरोहनिषेधेनारोहो नियम्यते। न चारोहव.दवरोहेऽपि शिष्टाचारो विद्यते। तस्मात्- नास्त्यवरोहः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विधुराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अस्त्येव सर्वसम्बन्धि-जपादे.श्चित्तशुद्धितः। श्रुता हि विद्या रैक्वादे-राश्रमे त्वतिशुद्धता॥ 20॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.11 अधिकाराधिकरणम्
एकादशे, ऊर्ध्वरेतसः पातित्ये प्रायश्चित्ताधिकरणे सूत्रे
न चाधिकारिक.मपि पतनानुमाना.त्तदयोगात्॥3.4.41॥
उपपूर्वमपि त्वेके भाव.मशनव.त्तदुक्तम्॥3.4.42॥
एकादशाधिकरणमारचयति –

1विषयः

भ्रष्टोर्ध्वरेतसो नास्ति प्रायश्चित्त.मथास्ति वा।

3पूर्वपक्षः

अदर्शनोक्ते.र्नास्त्येव व्रतिनो गर्दभः पशुः॥ 23॥
नैष्ठिकब्रह्मचर्या.दुर्ध्वरेतस्त्वं प्राप्तस्य, पुनः स्त्रीसङ्गेन भ्रष्टस्य प्रायश्चितं नास्ति।
आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः।
प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा।।
इति प्रायश्चित्तादर्शनवचनात्। “अथ यो ब्रह्मचारी स्त्रीमुपेयात्, गर्दभं पशु.मालभेत” इत्यस्ति प्रायश्चितम्- तन्न, तस्य व्रतिविषयत्वात्। उपकुर्वाणकाख्यो यो वेदाध्ययनाङ्गत्वेन ब्रह्मचर्यव्रत.मनुतिष्ठति, तद्विषय.मिदं प्रायश्चित्तवचनम्। तस्मात्- ऊर्ध्वरेतस्त्वा.द्भ्रष्टस्य नास्ति प्रायश्चितम्। इति प्राप्ते,

4सिद्धान्तः

उपपातक.मेवैत.द्व्रतिनो मधुमांसवत्।
प्रायश्चित्ताच्च संस्कारा-च्छुद्धि.र्यत्नपरं वचः॥ 24॥
ब्रूमः- यथा उपकुर्वाणकस्य मधुमांसभक्षण.मुपपातकमिति प्रायश्चित्तं पुनःसंस्कारो विद्यते, तद्व.दूर्ध्वरेतसोऽपि गुरुदारादिभ्योऽन्यत्र प्रवृत्ति.रुपपातकमेव, न तु महापातकम्। ततः प्रायश्चित्तात्, पुनस्संस्काराच्च शुद्धिर्भवति।
यदि महापातकेष्वपरिगणितत्वेन उपपातकत्व.माश्रित्य प्रायश्चित्त.मुच्येत, तर्ह्यदर्शनवाक्यस्य का गतिः- इति चेत्। “यत्नपरं तद्वाक्यम्” इति ब्रूमः। अत एव “प्रायश्चित्तं न पश्यामि” इत्याह , न तु “नास्ति” इति। प्रायश्चित्तं तु गर्दभपशुरेव, ब्रह्मचारित्वस्य समानत्वात्।
तथा- वनस्थपरिव्राजकयो.रपि भ्रंशे प्रायश्चित्तं स्मर्यते- “वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्।” “भिक्षु.र्वनस्थव.त्सोमवृद्धिवर्जम्”- इति कक्षवृद्धि.र्वनवासः। सोमवृद्धिरपि स एव॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तद्भूताधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “रागस्यातिनिषिद्धत्वा-द्विहितस्यैव धर्मतः। आरोहनियमोक्त्यादे-र्नावरोहोऽस्त्यशास्त्रतः॥ 22॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.12 बहिरधिकरणम्
द्वादशे भ्रष्टस्य कृतप्रायश्चित्तस्याप्यव्यवहार्यताधिकरणे सूत्रम्
बहि.स्तूभयथाऽपि स्मृते.राचाराच्च॥3.4.43॥
द्वादशाधिकरणमारचयति –

1विषयः

शुद्धं शिष्टै.रुपादेय-स्त्याज्यो वा दोषहानितः।

3पूर्वपक्षः

उपादेयोऽन्यथा शुद्धिः प्रायश्चितकृता वृथा॥ 25॥
पूर्वोक्तप्रायश्चित्तापादितशुद्ध्यन्यथानुपपत्त्या, कृतप्रायश्चित्तस्य शिष्टैस्सह व्यवहारोऽस्ति। इति प्राप्ते,

4सिद्धान्तः

आमुष्मिक्येव शुद्धि.स्स्या-त्तत.श्शिष्टा.स्त्यजन्ति तम्।
प्रायश्चित्तादृष्टिवाक्या-दशुद्धि.स्त्वैहिकीष्यते॥ 26॥
ब्रूमः- आमुष्मिकशुद्धिसद्भावेऽपि, प्रायश्चित्तादर्शनवचनात् ऐहिकशुद्ध्यभावा.च्छिष्टै.रेष न व्यवहार्यः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अधिकाराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उपपातक.मेवैत.द्व्रतिनो मधुमांसवत्। प्रायश्चित्ताच्च संस्कारा-च्छुद्धि.र्यत्नपरं वचः॥ 24॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.13 स्वाम्यधिकरणम्
स्वामिनः फलश्रुते.रित्यात्रेयः॥3.4.44॥
आर्त्विज्यमि.त्यौडुलोमिः, तस्मै हि परिक्रीयते॥3.4.45॥
श्रुतेश्च॥3.4.46॥
त्रयोदशाधिकरणमारचयति –

1विषयः

अङ्गध्यानं याजमान-मार्त्विजं वा यतः फलम्।

3पूर्वपक्षः

ध्यातुरेव श्रुतं तस्मा-द्याजमान.मुपासनम्॥ 27॥
त्रयोदशे, ऋत्विक्कृताङ्गध्यानस्य स्वामिगामित्वाधिकरणे सूत्राणि
अङ्गावबद्धेषूपासनेषु यजमान एवानुष्ठाता, नर्त्विजः, ध्यातुः फलश्रवणात्। फलं तु यजमानस्यैवोचितं, स्वामित्वात्। तस्मात्- फलिनो यजमानस्यैव ध्यातृत्वम्। इति प्राप्ते,

4सिद्धान्तः

ब्रूया.देवंवि.दुद्गाते-त्यार्त्विज्यत्वं स्फुटं श्रुतम्।
क्रीतत्वा.दृत्विज.स्तेन कृतं स्वामिकृतं भवेत्॥ 28॥
ब्रूमः- “एवंवि.दुद्गाता ब्रूयात्” इति वाक्यशेषे उद्गातु.रुपासकत्वं स्पष्टं श्रूयते। युक्तं चैतत्- ऋत्विजामशेषकर्मानुष्ठानाय यजमानेन क्रीतत्वात्। तस्मात्- ऋत्विग्भिः कृतं, यजमानेनैव कृतमिति, फलित्वोपपत्ते.रुपासन.मृत्विजां कर्म॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “बहिरधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आमुष्मिक्येव शुद्धि.स्स्या-त्तत.श्शिष्टा.स्त्यजन्ति तम्। प्रायश्चित्तादृष्टिवाक्या-दशुद्धि.स्त्वैहिकीष्यते॥ 26॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.14 सहकार्यन्तरविध्यधिकरणम्
सहकार्यन्तरविधिः पक्षेण तृतीयं तत्त्वतो विध्यादिवत्॥3.4.47॥
कृत्स्नभावात्तु गृहिणोपसंहारः॥3.4.48॥
मौनव.दितरेषा.मप्युपदेशात्॥3.4.49॥
चतुर्दशाधिकरणमारचयति –

1विषयः

प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युभयं यतः॥ 29॥

3पूर्वपक्षः

चतुर्दशे मौनस्य विधेयत्वाधिकरणे सूत्राणि
अविधेयं विधेयं वा मौनं तन्न विधीयते॥
निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः पृथक्॥
कहोलब्राह्मणे श्रूयते- “तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य, बाल्येन तिष्ठासेत्, बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः” इति। अस्यायमर्थः- यस्माद्ब्रह्मभावः परमपुरुषार्थः, तस्माद्ब्रह्म बुभूषु.रुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं (निर्विद्य) निश्शेषेण संपाद्य, बालव.न्नीरागद्वेषत्वेन युक्तः, असंभावनानिराकरणाय युक्ती.रनुचिन्तयन्, अवस्थातुमिच्छेत्। ततः पाण्डित्यबाल्ये (निर्विद्य) निश्शेषेण संपाद्य, अथ मुनिः- इति।
तत्र- “भवेत्” इति विध्यश्रवणात्, मुनित्वं न विधेयम्। नच- विधिः कल्पयितुं शक्यः, पाण्डित्यशब्देन प्राप्तस्य मौनस्यापूर्वार्थत्वाभावात्। पण्डितस्य विदुषो भावः पाण्डित्यम्- इति ज्ञानवाचकोऽयं शब्दः। तथा मुनिशब्दोऽपि, “मन ज्ञाने” इत्यस्माद्धातो.स्तन्निष्पत्तेः। तस्मात्- प्राप्तस्य मोनस्य नैव विधिकल्पनम्। इति प्राप्ते,

4सिद्धान्तः

विधेयं तद्भेददृष्टि-प्राबल्ये तन्निवृत्तये॥ 30॥
ब्रूमः- पूर्वोक्तस्य पाण्डित्यस्य पुन.र्मुनिशब्देनाभिधाने प्रयोजनाभावात्, निरन्तरज्ञाननिष्ठाऽपूर्वार्थो मुनिशब्देन विवक्षितः। ततः “तिष्ठासेत्” इति पदानुवृत्त्या विधिर्लभ्यते।
अस्ति च ज्ञाननैरन्तर्येण प्रयोजनम्, प्रबलभेदवासना.वासितस्य तन्निवृत्त्यर्थत्वात्। तस्मात्- निदिध्यासनात्मकं मौनं विधेयम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “स्वाम्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रूया.देवंवि.दुद्गाते-त्यार्त्विज्यत्वं स्फुटं श्रुतम्। क्रीतत्वा.दृत्विज.स्तेन कृतं स्वामिकृतं भवेत्॥ 28॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.15 अनाविष्काराधिकरणम्
पञ्चदशे भावशुद्धेरेव बाल्यशब्दाभिधेयताधिकरणे सूत्रम्
अनाविष्कुर्व.न्नन्वयात्॥3.4.50॥
पञ्चदशाधिकरणमारचयति –

1विषयः

बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः।

3पूर्वपक्षः

वय.स्तस्याविधेयत्वे कामचारोऽस्तु नेतरा॥ 31॥
“बाल्येन तिष्ठासेत्” इत्यत्र- बालस्य भावो बाल्यम्- इति प्रसिद्ध्या वयो भवेत्। अथ- तस्य विध्यनर्हत्वम्? तर्हि- बालस्य कर्म- इति व्युत्पत्त्या कामचारादिक.मस्तु। सर्वथा धीशुद्धि.र्न बाल्यम्। इति प्राप्ते,

4सिद्धान्तः

मननस्योपयुक्तत्वा-द्भावशुद्धि.र्विवक्षिता।
अत्यन्तानुपयोगित्वा-द्विरुद्धत्वाच्च न द्वयम्॥ 32॥
ब्रूमः- पाण्डित्यमौनाख्ययोः श्रवणनिदिध्यासनयो.र्मध्ये, मननं विधेयत्वेन श्रुत्या विवक्षितम्। तस्य च भावशुद्धि.रुपयुक्ता, राग-द्वेष-माना-पमानादि.दोषग्रस्तत्वेन बहिःप्रवृत्ति.मपरित्यज्य मन्तु.मशक्यत्वात्।
बालस्य कर्म- इति व्युत्पत्तिस्तु यथेच्छाचारे, भावशुद्धौ च समाना। वयः-कामचारौ तु मननस्यात्यन्त.मनुपयुक्तौ। प्रत्युत विरोधिनौ, मूढस्य बहिःप्रवृत्तस्य वा मनसो मननविनाशकत्वात्। तस्मात्- भावशुद्धिरेव बाल्यम्, नेतर.दुभयम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सहकार्यन्तरविध्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विधेयं तद्भेददृष्टि-प्राबल्ये तन्निवृत्तये॥ 30॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.16 ऐहिकाधिकरणम्
षोडशे आत्मज्ञानस्यैहिकामुष्मिकत्व.व्यवस्थाधिकरणे सूत्रम्
ऐहिक.मप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्॥3.4.51॥
षोडशाधिकरणमारचयति –

1विषयः

इहैव नियतं ज्ञानं पाक्षिकं वा, नियम्यते।

3पूर्वपक्षः

तथाऽभिसन्धे.र्यज्ञादिः क्षीणो विविदिषाजनौ॥ 33॥
श्रवण-मनन-निदिध्यासने.ष्वनुष्ठीयमानेषु- अस्मिन्नेव जन्मनि ज्ञानं जायते- इति नियम्यते। न तु- इह वा, जन्मान्तरे वा- इति कालविकल्पः। कुतः? श्रवणादिषु प्रवर्तमानस्य पुरुषस्य, ज्ञानेच्छाया ऐहिकज्ञानोत्पत्तिविषयत्वात्। “इहैव मे विद्या जायताम्” इत्यभिसन्धाय पुरुषः प्रवर्तते। न च- अदृष्टफलानां यज्ञादीनां तत्साधकत्वेन स्वर्गवत्, जन्मान्तरे ज्ञानोत्पत्तिः शङ्कनीया, श्रवणादिप्रवृत्तेः प्रागेव विविदिषा.मुत्पाद्य यज्ञादीनां चरितार्थत्वात्।
तस्मात्- ऐहिकत्वेन ज्ञानोत्पत्ति.र्नियम्यते। इति प्राप्ते,

4सिद्धान्तः

असति प्रतिबन्धेऽत्र ज्ञानं जन्मान्तरोऽन्यथा।
श्रवणायेत्यादिशास्त्रा-द्वामदेवोद्भवा.दपि॥ 34॥
ब्रूमः- असति प्रतिबन्धे, ज्ञान.मिहैव सम्भवति, सति तु प्रतिबन्धेऽत्रानुष्ठितैः श्रवणादिभि.र्जन्मान्तरे ज्ञान.मुत्पद्यते। प्रतिबन्धश्च बहुविधः श्रूयते –
“श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यन्न विद्युः।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः” इति।
न च- पूर्वजन्मानुष्ठितैः श्रवणादिभि.र्जन्मान्तरे ज्ञानोत्पत्तिर्न दृष्टचरी, वामदेवस्य गर्भे एवावस्थितस्य ज्ञानोत्पत्तिश्रवणात्। “गर्भ एवैतच्छयानो वामदेव एव.मुवाच” इति श्रुतेः। तस्मात्- इह वा, जन्मान्तरे वा ज्ञानोत्पत्तिः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अनाविष्काराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मननस्योपयुक्तत्वा-द्भावशुद्धि.र्विवक्षिता। अत्यन्तानुपयोगित्वा-द्विरुद्धत्वाच्च न द्वयम्॥ 32॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.4.17 मुक्तिफलाधिकरणम्
सप्तदशे मुक्तेरेकविधत्वाधिकरणे सूत्रम्
एवं मुक्तिफलानियम.स्तदवस्थावधृते.स्तदवस्थाधृतेः ॥3.4.52॥
सप्तदशाधिकरणमारचयति –

3पूर्वपक्षः

मुक्ति.स्सातिशया नो वा फलत्वा.द्ब्रह्मलोकवत्॥
ब्रह्मैव मुक्तिर्न ब्रह्म क्वचि.त्सातिशयं श्रुतम्॥
यथा ब्रह्मलोकाख्यं फलं सालोक्य-सारूप्य-सामीप्य-सार्ष्टिभेदेन चतुर्विधम्, तथा मुक्तिरपि फलत्वाविशेषा.त्सातिशया। तत्र सार्ष्टि.र्नाम चतुर्मुखेन समानैश्वर्यत्वम्। यथा वा- “कर्मभूयस्त्वा.त्फलभूयस्त्वम्” इति न्यायेन स्वर्गो बहुविधः। तथैव मुक्तिरपि फलत्वाविशेषा.त्सातिशया। इति प्राप्ते,

4सिद्धान्तः

ब्रूमः- मुक्ति.र्नाम निजसिद्ध.ब्रह्मस्वरूपमेव, न तु स्वर्गव.दागन्तुकं किञ्चिद्रूपम्- इति वक्ष्यते। ब्रह्म च एकविधित्वेन श्रुतं निर्णीतं च। तस्मात्- चतुर्मुखस्य मनुजस्य वा मुक्ति.रेकविधैव। सालोक्यादिविशेषस्तु जन्यरूपत्वा.दुपासनातारतम्येन सातिशयो भविष्यति। मुक्तिस्तु न तादृशी , इति सिद्धम्॥
अथ चतुर्थोध्यायः
चतुर्थाध्यायस्य प्रथमः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूत-शमदमनिदिध्यासनादीनि च निरूपितानि” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ऐहिकाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “असति प्रतिबन्धेऽत्र ज्ञानं जन्मान्तरोऽन्यथा। श्रवणायेत्यादिशास्त्रा-द्वामदेवोद्भवा.दपि॥ 34॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 3, Pāda 3 Contents Adhyāya 4, Pāda 1 →