SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Vaiyāsika Nyāyamālā · Adhyāya 3, Pāda 3

साधनम्

सगुणविद्यासु गुणोपसंहारो निरूपितः

36adhikaraṇas
66sūtras
3.3.1 सर्ववेदान्तप्रत्ययाधिकरणम्
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्॥3.3.1॥
भेदान्नेति चे.न्नैकस्या.मपि॥3.3.2॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः॥3.3.3॥
दर्शयति च॥3.3.4॥
तृतीयपादस्य प्रथमाधिकरणमारचयति –

1विषयः

सर्ववेदेष्वनेकत्व-मुपास्ते.रथवैकता।

3पूर्वपक्षः

अनेकत्वं कौथुमादि-नामधर्म.विभेदतः॥ 1॥
प्रथमे सर्ववेदान्तप्रत्ययोपासनाया एकत्वाधिकरणे सूत्राणि
छान्दोग्यबृहदारण्यकयोः- पञ्चम्युपासन.माम्नायते। तदेकं न भवति नामभेदात्। “कौथुमम्” इति च्छान्दोग्यगतस्य नाम, “वाजसनेयकम्” इति बृहदारण्यकगतस्य नाम। तथोपासनान्तरेषु योजितव्यम्।
धर्मभेदोऽप्युपासनाभेदगमकः शिरोव्रतलक्षणे मुण्डकव्रतशाखायां श्रूयते- “तेषामेवैतां ब्रह्मविद्यां वदेत, शिरोव्रतं विधिव.द्यैस्तु चीर्णम्” इति। शिरोव्रतं नाम वेदव्रतविशेष आथर्वणिकान्प्रति विहितो, नेतरान्प्रति। तस्मात्- शाखाभेदा.दुपासनाभेदः। इति प्राप्ते,

4सिद्धान्तः

विधिरूपफलैकत्वा-देकत्वं नाम न श्रुतम्।
शिरोव्रताख्यधर्मस्तु स्वाध्याये स्या.न्न वेदने॥ 2॥
ब्रूमः- शाखाभेदेऽपि विद्याद्यभेदात् उपासनं न भिद्यते। तथाच च्छान्दोग्ये- “यो ह वै ज्येष्ठं च श्रेष्ठं च वेद” इति यादृशः प्राणविद्याविधिः, तादृश एव बृहदारण्यकेऽप्याम्नायते। तथा- द्यु-पर्जन्य-पृथिवी-पुरुष-योषिदाख्य.मग्निपञ्चकं वेद्यतया। पञ्चाग्निविद्यायां यत्स्वरूपम्, तदुभयोरपि शाखयोः समानम्।
फलं च “ज्येष्ठश्च ह वै श्रेष्ठश्च भवति” इत्येवंरूपं प्राणोपास्तिजन्यं शाखाद्वयेऽप्येकविधम्। यस्तु कौथुमादि.नामभेद उदाहृतः, नासौ श्रुत्याऽभिहितः। किं तर्हि? अध्येतार एव केवलं तत्तच्छाखाप्रवर्तकमुनि.नाम्ना तं तं वेदं व्याहरन्ति। योऽपि शिरोव्रताख्यधर्मभेद उक्तः- सोऽप्यध्ययनविषय एव, नतूपास्तिविषयः- “नैतदचीर्णव्रतोऽधीते” इत्यध्ययनधर्मत्वावगमात्। तस्मात्- ऐक्यहेतुसद्भावात्, भेदहेत्वभावाच्च, न शाखाभेदा.दुपासनं भिद्यते॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “फलाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति वैयासिकन्यायमालायां तृतीयाध्यायस्य द्वितीयः पादः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.2 उपसंहाराधिकरणम्
द्वितीये शाखान्तरोक्तस्याप्युपसंहाराधिकरणे सूत्रम्
उपसंहारोऽर्थाभेदा.द्विधिशेषव.त्समाने च॥3.3.5॥
द्वितीयाधिकरणमारचयति –

1विषयः

एकोपास्ता.वनाहार्या- आहार्या वा गुणा.श्श्रुतौ।

3पूर्वपक्षः

अनुक्तत्वा.दनाहार्या- उपकार.श्श्रुतै.र्गुणैः॥ 3॥
वाजसनेयके- प्राणविद्याया.मधिको गुणो रेतआख्यः श्रुतः- “रेतो होच्चक्राम” इति। नासौ छान्दोग्ये- प्राणविद्याया.मुपसंहर्तव्यः, अत्रानुक्तत्वात्। विद्योपकार.स्त्वत्र श्रुतैरेव प्राण-वागादि-र्गुणै.र्भविष्यति। इति प्राप्ते,

4सिद्धान्तः

श्रुतत्वा.दन्यशाखाया-माहार्या अग्निहोत्रवत्।
विशिष्टविद्योपकार-स्स्वशाखोक्तगुणै.स्समः॥ 4॥
ब्रूमः- एतच्छाखाया.मश्रवणेऽपि शाखान्तरे श्रुतत्वा.दुपसंहार्य एव। अग्निहोत्राद्यनुष्ठानेषु शाखान्तरोक्तगुणयुक्ततयैवानुष्ठानदर्शनात्।
न च- स्वशाखोक्तगुणैरेव विद्योपकारसिद्धौ, गुणोपसंहारो निरर्थकः- इति वाच्यम्, “कर्मभूयस्त्वात् फलभूयस्त्वम्” इति न्यायेन स्वशाखोक्तगुणवत् परशाखोक्तगुणानामप्युपकारकत्वात्। तस्मात्- गुणोपसंहारः कर्तव्यः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्ववेदान्तप्रत्ययाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विधिरूपफलैकत्वा-देकत्वं नाम न श्रुतम्। शिरोव्रताख्यधर्मस्तु स्वाध्याये स्या.न्न वेदने॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.3 अन्यथात्वाधिकरणम्
अन्यथात्वं शब्दा.दिति चे.न्नाविशेषात्॥3.3.6॥
न वा प्रकरणभेदा.त्परोवरीयस्त्वादिवत्॥3.3.7॥
संज्ञातश्चे.त्तदुक्तमस्ति तु तदपि॥3.3.8॥
तृतीयाधिकरणमारचयति –

1विषयः

एका भिन्नाऽथवोद्गीथ-विद्या छान्दोग्यकाण्वयोः।

3पूर्वपक्षः

एका स्या.न्नामसामान्या-त्संग्रामादिसमत्वतः॥ 5॥
तृतीये उद्गीथविद्याया भिन्नताधिकरणे सूत्राणि
“उद्गीथविद्या” इति समाख्याया एकत्वात्, छान्दोग्यकाण्वशाखयोः विद्यैक्यमुचितम्। अथ समाख्या न श्रौती, तथाऽपि- श्रौताः संग्रामादय उभयत्र समानाः। तथाहि- छान्दोग्ये देवासुरभावं क्रमेण सात्त्विकेन्द्रियवृत्तीनां तामसेन्द्रियवृत्तीनां चाङ्गीकृत्य, तत्संग्रामं निरूप्य, वागादिदेवाना.मसुरविद्धत्वमुक्त्वा, प्राणस्यैव तदविद्धत्व.मुक्तम्। एतत्सर्वं काण्ववेदेऽपि समानम्। तस्मात्- उभयत्र विद्यैक्यम्। इति प्राप्ते,

4सिद्धान्तः

उद्गीथावयवोंकार उद्गातेत्युभयो.र्भिदा।
वेद्यभेदेऽर्थवादादि-साम्य.मत्राप्रयोजकम्॥ 6॥
ब्रूमः- भिन्नेय.मुद्गीथविद्या वेद्यस्वरूपभिन्नत्वात्।
छान्दोग्ये तावत्, सामभागविशेषस्योद्गीथस्यावयव ओंकारः। स एव प्राणदृष्ट्योपासनीयः।
काण्ववेदे तु कृत्स्नोद्गीथभक्ते.र्य उद्गाता वागिन्द्रियप्रेरकः प्राणः- स उद्गातृत्वेनोपास्य इति वेद्यभेदः।
यत्तु- सङ्ग्रामादिसाम्यमुक्तम्। तदप्रयोजकम्, अर्थवादत्वात्।
यदपि प्राणस्यासुरविद्धत्वाभावेन श्रेष्ठत्वम्, तत् यद्यप्युपास्यम्, तथाऽप्युक्तस्य वेद्यभेदस्यानिराकरणात्- भिन्नैवोद्गीथविद्या॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “उपसंहाराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्रुतत्वा.दन्यशाखाया-माहार्या अग्निहोत्रवत्। विशिष्टविद्योपकार-स्स्वशाखोक्तगुणै.स्समः॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.4 व्याप्त्यधिकरणम्
चतुर्थे उद्गीथस्योंकारविशेषणत्वाधिकरणे सूत्रम्
व्याप्तेश्च समञ्जसम्॥3.3.9॥
चतुर्थाधिकरणमारचयति –

1विषयः

किमध्यासोऽथवा बाध- ऐक्यं वाऽथ विशेष्यता।

2संशयः

तत्र चतुर्धा संशयः।

3पूर्वपक्षः

अक्षरस्यात्र नास्त्यैक्यं नियतं हेत्वभावतः॥ 7॥
तथाहि-
“नाम ब्रह्मेत्युपासीत” इत्यत्र, नाम्नि ब्रह्मदृष्ट्यध्यासाय सामानाधिकरण्यं श्रुतम्।
तथा- बाधादिष्वप्युदाह्रियते- “यश्चौरः- स स्थाणुः” इति चौरत्वस्य बाधः।
“यो जीव-स्तद्ब्रह्म” इत्येकत्वम्।
“यन्नीलं- तदुत्पलम्” इति विशेष्यता।
अतोऽक्षरस्य चतुर्धा सन्देहे सति, “इदमेव” इत्यत्र नास्त्यध्यवसायः, नियामकस्य हेतो.रभावात्। इति प्राप्ते,

4सिद्धान्तः

वेदेषु व्याप्त ओंकार- उद्गीथेन विशेष्यते।
अध्यासादौ फलं कल्प्यं संनिकृष्टांशलक्षणा॥ 8॥
ब्रूमः- अक्षरस्योद्गीथेन विशेष्यता नियन्तुं शक्यते। ओंकारो हि ऋग्यजुस्सामसु त्रिषु पठ्यते। तत्र “कस्योपास्यत्वम्” इत्यपेक्षायाम्, “उद्गीथभागस्थितस्य, न त्वितरस्य” इति सामवेदगतस्य विशेषणीयत्वात्।
अध्यासबाधैक्यपक्षेषु फलमपि कल्पनीयं प्रसज्येत, स्वतन्त्रोपासनत्वेन फलस्याकाङ्क्षितत्वात्। विशेषणपक्षे तु वक्ष्यमाण.रसतमत्वादिगुणोपासनाय प्रतीकत्वेन ओंकार उद्गीथेन विशेष्यते, न तु स्वतन्त्रमुपासनम्। ततो न पृथक्फलं कल्पनीयम्।
ननु- उद्गीथशब्दः कृत्स्नभक्तिवाचकः। ओंकारस्तु तदवयवः। एवं चोंकारं विशेष्टुमुद्गीथशब्देन तदंशलक्षणा स्वीकरणीया स्यात्। बाढम्। तथाऽप्यध्यासपक्षात्समीचीनो विशेषणपक्षः। अध्यासपक्षे तु यथा विष्णुशब्दः स्वार्थं सर्वं परित्यज्य, अर्थान्तरभूतां शिलाप्रतिमां लक्षयति, तथोद्गीथशब्दोऽपीति विप्रकर्षः। अंशलक्षणायां तु स्वार्थैकदेश्यैव परित्याग इति सन्निकर्षः। ओंकारात् इतर.दक्षरजातं यदस्ति- सोऽयं परित्यक्तव्यः तदेकदेशः। तस्मात्- वेदान्तरगत-ओंकारव्यावृत्त्यर्थ.मुद्गीथावयवत्वेनैतदक्षरं विशिष्यते॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अन्यथात्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उद्गीथावयवोंकार उद्गातेत्युभयो.र्भिदा। वेद्यभेदेऽर्थवादादि-साम्य.मत्राप्रयोजकम्॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.5 सर्वाभेदाधिकरणम्
पञ्चमे वसिष्ठत्वादीनामाहार्यताधिकरणे सूत्रम्
सर्वाभेदादन्यत्रेमे॥3.3.10॥
पञ्चमाधिकरणमारचयति –

1विषयः

वसिष्ठत्वा.द्यनाहार्य-माहार्यं वैव.मित्यतः।

3पूर्वपक्षः

उक्तस्यैव परामर्शा-दनाहार्य.मनुक्तितः॥ 9॥
प्राणविद्यायां छन्दोगाः काण्वाश्च वसिष्ठत्वप्रतिष्ठादिकान् गुणा.नामनन्ति, न तु ऐतरेयक-कौषीतक्यादयः। तत्र वसिष्ठत्वादिकं नोपसंहर्तव्यम्। कुतः- “य एवं वेद” इत्येवंशब्देन तत्त.च्छाखोक्त.गुणानामेव परामर्शात्। इति प्राप्ते,

4सिद्धान्तः

प्राणद्वारेण बुद्धिस्थं वसिष्ठत्वादि तेन तत्।
एवं शब्दपरामर्श-योग्य.माहार्य.मिष्यते॥ 10॥
ब्रूमः- उक्तगुणवत् अनुक्ता अपि गुणा, एवं शब्दपरामर्शयोग्याः। कुतः? गुणिनः प्राणस्य एकत्वेन, तद्द्वारा गुणानां बुद्धिस्थत्वात्। यथा- देवदत्तो मथुराया.मध्यापय.न्दृष्टः, पुन.र्माहिष्मत्या.मनध्यापय.न्नपि, अध्यापकत्वेनैव प्रत्यभिज्ञायते। तथा छान्दोग्यादौ वसिष्ठत्वादिगुणयुक्ततया उपलब्धः, पुन.रैतरेयादौ केवल उपलभ्यमानोऽपि तद्गुणविशिष्टतयैव बुद्धिस्थो भवेत्। तस्मात्- “एवं” शब्दपरामर्शयोग्यत्वा.द्वसिष्ठत्वादिक.मुपसंहर्तव्यम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “व्याप्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वेदेषु व्याप्त ओंकार- उद्गीथेन विशेष्यते। अध्यासादौ फलं कल्प्यं संनिकृष्टांशलक्षणा॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.6 आनन्दाधिकरणम्
आनन्दादयः प्रधानस्य॥3.3.11॥
प्रियशिरस्त्वाद्यप्राप्ति.रुपचयापचयौ हि भेदे॥3.3.12॥
इतरे त्वर्थसामान्यात्॥3.3.13॥
षष्ठाधिकरणमारचयति –

1विषयः

नाहार्या उत वाहार्या- आनन्दाद्या अनाहृतिः।

3पूर्वपक्षः

वामनी.सत्यकामादे-रिवैतेषां व्यवस्थितेः॥ 11॥
षष्ठे आनन्दादीना.मुपसंहाराधिकरणे सूत्राणि
“आनन्दो ब्रह्म”, “सत्यं ज्ञानमनन्तं ब्रह्म” इति आनन्दसत्यत्वादयः, तैत्तिरीयके परब्रह्मविद्यायां पठ्यन्ते। ते “प्रज्ञानं ब्रह्म” इत्यादि, ऐतरेयकादिप्रोक्तासु परब्रह्मविद्यासु नोपसंहर्तव्याः। वामनीत्वादिव.द्व्यवस्थोपपत्तेः। “एष उ एव वामनीः, एष उ एव भामनीः” इति कामनेतृत्व,भासकत्वादयो गुणा उपकोसलविद्याया.माम्नाताः। “सत्यकामः सत्यसंकल्पः” इति सत्यकामादयो गुणा दहरविद्यायां समाम्नाताः।
तत्र यथा परस्परं गुणानुपसंहारः, एवमानन्दादीनां व्यवस्थाऽस्तु। इति प्राप्ते,

4सिद्धान्तः

विधीयमान.धर्माणां व्यवस्था स्या.द्यथाविधि।
प्रतिपत्तिफलानां तु सर्वशाखासु संहृतिः॥ 12॥
ब्रूमः- विषमो दृष्टान्तः। वामनीत्वादिना ध्येयत्वेन विधीयमानत्वात्, यथाविधि व्यवस्था युक्ता। आनन्दादयस्तु प्रतिपत्तिफला इति न विधीयन्ते। अतो व्यवस्थापकविध्यभावा.त्प्रतिपत्तिफलस्य सर्वत्र समानत्वाच्च, आनन्दादय उपसंहर्तव्याः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्वाभेदाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्राणद्वारेण बुद्धिस्थं वसिष्ठत्वादि तेन तत्। एवं शब्दपरामर्श-योग्य.माहार्य.मिष्यते॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.7 आध्यानाधिकरणम्
सप्तमे पुरुषस्यैव ज्ञेयताधिकरणे सूत्रे
आध्यानाय प्रयोजनाभावात्॥3.3.14॥
आत्मशब्दाच्च॥3.3.15॥
सप्तमाधिकरणमारचयति –

1विषयः

सर्वा परम्पराऽक्षादे-र्ज्ञेया पुरुष एव वा।

3पूर्वपक्षः

ज्ञेया सर्वा श्रुतत्वेन वाक्यानि स्यु.र्बहूनि हि॥ 13॥
कठवल्लीषु पठ्यते –
“इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धि.र्बुद्धेरात्मा महान्परः॥
महतः पर.मव्यक्त.मव्यक्तात्पुरुषः परः।
पुरुषान्न परं किञ्चि-त्सा काष्ठा सा परा गतिः” इति।
अस्यायमर्थः- मनसा विषयानभिलष्य, पश्चा.दिन्द्रियै.र्बाह्यान्विषया.नाप्नोति। तत्र बाह्यविषयेभ्य इन्द्रियाणा.मान्तरत्वात् परत्वं प्रसिद्धम्।
इन्द्रियेभ्यश्चाभिलष्यमाणत्व.दशापन्ना अर्था आन्तराः।
तेभ्योऽप्यभिलाषात्मिका मनोवृत्ति.रान्तरा।
वृत्तेरपि वृत्तिमती बुद्धि.राभ्यन्तरा।
बुद्धेरपि बुद्ध्युपादानभूतो महच्छब्दवाच्यो हैरण्यगर्भरूपात्माभ्यन्तरः।
महतोऽपि तदुपादानभूत.मव्यक्ताख्यं मूलज्ञान.माभ्यन्तरम्।
अव्यक्तादपि तदधिष्ठानभूत.श्चिद्रूपः पुरुष आभ्यन्तरः।
पुरुषादाभ्यन्तरं न किञ्चिदस्ति। पुरुष एवाभ्यन्तरतारम्यस्य विश्रान्तिभूमिः, “पुरुषार्थकामैः परमो गन्तव्यश्च” इति।
तत्र यथा पुरुषः श्रुत्या तात्पर्येण प्रतिपाद्यः, एवमिन्द्रियादिपरम्पराऽपि प्रतिपाद्यैव। अन्यथा- तदुपन्यास.वैयर्थ्यात्। बहूनां प्रतिपादने वाक्यभेदः स्यात्- इति चेत्। बाढम्। सन्त्येव तानि बहूनि वाक्यानि, एकवाक्यत्वासम्भवात्। इति प्राप्ते,

4सिद्धान्तः

पुमर्थः पुरुषज्ञानं तत्र यत्न.श्श्रुतो महान् ।
तद्बोधाय श्रुतोऽक्षादि-र्वेद्य एकः पुमां.स्ततः॥ 14॥
ब्रूमः- पुरुषज्ञानस्याशेषसंसार.निदानभूताज्ञाननिवर्तकत्वात्, पुरुष एव ज्ञेयतया प्रतिपाद्यः। अत एव वाक्यशेषे पुरुषज्ञानायैव महता प्रयत्नेन योग उपदिष्टः –
“एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” इति।
अस्यायमर्थः- “सर्वाभ्यन्तरमेव गूढोऽय.मात्मा बहिर्मुखानां न प्रकाशते। अन्तर्मुखा ये सूक्ष्मतत्त्वदर्शनशीलाः- तैर्योगाभ्यासेन ऐकाग्र्य.मापन्नया बुद्ध्या, सूक्ष्मवस्तु विषयतया द्रष्टुं शक्यते” इति। न च- पुरुषस्यैव प्रतिपाद्यत्वे परम्परोपदेश.वैयर्थ्यम्, बहिर्मुखस्य चित्तस्य पुरुषप्रवेशं प्रति, परम्परायाः साधनत्वात्। तस्मात्- पुरुष एव ज्ञातव्यः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आनन्दाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विधीयमान.धर्माणां व्यवस्था स्या.द्यथाविधि। प्रतिपत्तिफलानां तु सर्वशाखासु संहृतिः॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.8 आत्मागृहीत्यधिकरणम्
अष्टमे ईश्वरस्यैवात्मशब्दवाच्यताधिकरणे सूत्रे
आत्मगृहीति.रितरव.दुत्तरात्॥3.3.16॥
अन्वयादिति चे.त्स्या.दवधारणात्॥3.3.17॥
अष्टमाधिकरणमारचयति –

1विषयः

आत्मा वा इदमित्यत्र विराट्स्या.दथवेश्वरः।

3पूर्वपक्षः

भूतासृष्टे.र्नेश्वर.स्स्या-द्गवाद्यानयना.द्विराट्॥ 15॥
“आत्मा वा इदमेक एवाग्र आसीत्” इत्यत्र विराडेवात्मशब्दवाच्यः, नेश्वरः। कुतः- “स ऐक्षत- लोकान्नु सृजै”- इति पञ्चभूतसृष्टि.मनुक्त्वा लोकमात्रसृष्टे.रभिधानात्। ईश्वरप्रकरणे तैत्तिरीयच्छान्दोग्यादिषु भूतसृष्ट्यभिधानदर्शनात्। “ताभ्यो गा.मानयत्” इति प्रोक्तं गवाद्यानयनं शरीरिणो विराजो घटते, न त्वशरीरस्य परमेश्वरस्य। इति प्राप्ते,

4सिद्धान्तः

भूतोपसंहृते.रीश.-स्स्या.दद्वैतावधारणात्।
अर्थवादो गवाद्युक्ति-र्ब्रह्मात्मत्वं विवक्षितम्॥ 16॥
ब्रूमः- “एक एवाग्र आसीत्” इत्यद्वैतावधारणा.दीश्वरोऽत्रात्मशब्दार्थः। तथा च सति शाखान्तरोक्त.भूतसृष्टि.रत्रोपसंहर्तुं शक्यते। यत्तु- गवाद्यानयनम्, तदर्थवादरूपम्। तद्वेदनस्य स्वातन्त्र्येण पुरुषार्थत्वाभावात्।
अथ- श्रूयमाणस्य गवानयनप्रपञ्चस्यार्थवादत्वे, श्रुते.र्विवक्षितार्थः कोऽपि न सिध्येत्- इति चेत्। न, जीवब्रह्मैक्यस्य विवक्षितत्वात्।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आध्यानाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पुमर्थः पुरुषज्ञानं तत्र यत्न.श्श्रुतो महान् । तद्बोधाय श्रुतोऽक्षादि-र्वेद्य एकः पुमां.स्ततः॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयवर्णकमाह –

1विषयः

“आत्मा वै”- इत्युपक्रम्य “स एतमेव पुरुषं ब्रह्म ततम.मपश्यत्। प्रज्ञानं ब्रह्म” इत्युपसंहारात्। तस्मात्- ईश्वर एवात्मशब्दवाच्यः।
द्वयो.र्वस्त्वन्यदेकं वा काण्व.च्छान्दोग्यषष्ठयोः।
उभयत्र पृथग्वस्तु सदात्मभ्या.मुपक्रमात्॥ 17॥

3पूर्वपक्षः

काण्वषष्ठाध्याये “कतम आत्मा” इत्यारभ्यत्मा प्रपञ्चितः। स च वाक्यशेषे “सदेव सोम्येदमग्र आसीत्” इत्युपक्रम्य सद्वस्तु प्रपञ्चितम्। न हि लोके सच्छब्दात्मशब्दौ पर्यायौ। तस्मात्- वस्तुभेदः। इति प्राप्ते,

4सिद्धान्तः

साधारणोऽयं सच्छब्दः स आत्मा तत्त्व.मित्यतः।
वाक्यशेषा.दात्मवाची तस्मा.द्वस्त्वेक.मेतयोः॥ 18॥
ब्रूमः- सच्छब्दोऽय.मात्मानात्मसाधारणत्वा.त्संदिग्धः। स च वाक्यशेषे “स आत्मा, तत्त्वमसि” इति श्रवणादा.त्मवाची भविष्यति। तस्मात्- एकमेवोभयत्र वस्तु॥
3.3.9 कार्याख्यानाधिकरणम्
नवमे प्राणविद्याया.मनग्नताबुद्धेरेव विधेयत्वाधिकरणे सूत्रम्
कार्याख्याना.दपूर्वम्॥3.3.18॥
नवमाधिकरणमारचयति –

1विषयः

अनग्नबुद्ध्याचमने विधेये बुद्धिरेव वा।

3पूर्वपक्षः

उभे अपि विधीयेते द्वयो.रत्र श्रुतत्वतः॥ 19॥
प्राणविद्यायां वाक्यशेषे श्रूयते- “अशिष्य.न्नाचामेत्, अशित्वा चाचामेत्। एतमेव तदन.मनग्नं कुरुते” इति। तत्र प्राणस्यानग्नताबुद्धिः, आचमनं च- इत्युभयं विधेयम्, द्वयोः श्रुतत्वात्। इति प्राप्ते,

4सिद्धान्तः

स्मृते.राचमनं प्राप्तं प्रायत्यर्थ.मनूद्य तत्।
अनग्नतामतिः प्राण-विदोऽपूर्वां विधीयते॥ 20॥
ब्रूमः- “अप्राप्ते शास्त्र.मर्थवत्” इति न्यायेन, मानान्तराप्राप्त.मनग्नताचिन्तनमेव विधेयम्। “भोजनात्प्रागूर्ध्वं चाचमनीयास्वप्सु वासोबुद्धिं कृत्वा, तेन वाससा प्राणस्यानग्नत्वं ध्यायेत्” इत्यर्थः।
आचमनं तु शुद्ध्यर्थतया स्मृतिबलादेव प्राप्तम्- इति न विधीयते। न च- तस्याः स्मृते.रियं श्रुति.र्मूलम्- इति शङ्कनीयम्, वर्णाश्रमधर्मप्रकरणत्वाभावेन भिन्नविषयत्वात्। मूलभूतं तु श्रुत्यन्तर.मनुमेयम्। तस्मात्- आचमनस्य प्राप्तत्वा.दनग्नताबुद्धिरेव प्राणोपासकं प्रति विधेया॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आत्मागृहीत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “भूतोपसंहृते.रीश.-स्स्या.दद्वैतावधारणात्। अर्थवादो गवाद्युक्ति-र्ब्रह्मात्मत्वं विवक्षितम्॥ 16॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.10 समानाधिकरणम्
दशमे शाण्डिल्यविद्यायाः समानताधिकरणे सूत्रम्
समान एवं चाभेदात्॥3.3.19॥
दशमाधिकरणमारचयति –

1विषयः

शाण्डिल्यविद्या काण्वानां द्विविधैकविधाऽथवा।

3पूर्वपक्षः

द्विरुक्ते.रेकशाखायां द्वे विद्ये इति गम्यते॥ 21॥
काण्वाना.मग्निरहस्यब्राह्मणे शाण्डिल्यविद्या पठ्यते- “स आत्मान.मुपासीत मनोमयं प्राणशरीरम्” इति। तथा- तेषामेव बृहदारण्यके सैव विद्या पठिता- “मनोमयोऽयंपुरुषे भास्सत्यः” इति। तत्र पौनरुक्त्यभया.द्विद्याभेदः। इति प्राप्ते,

4सिद्धान्तः

एका मनोमयत्वादि-प्रत्यभिज्ञानतो भवेत्।
विद्याया विधि.रेकत्र स्या.दन्यत्र गुणे विधिः॥ 22॥
ब्रूमः- मनोमयत्वादिकस्य वेद्यस्वरूपस्य प्रत्यभिज्ञाना.देकैव विद्या। न च- पुनरुक्तिः, एकत्र विद्यां विधाय, अपरत्र तदनुवादेन सत्यत्व-सर्वेशानत्वादिगुणानां विधातुं शक्यत्वात्। “अग्निहोत्रं जुहोति, दध्ना जुहोति” इत्यादिवत्। तस्मात्- एकविधैव शाण्डिल्यविद्या॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “कार्याख्यानाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्मृते.राचमनं प्राप्तं प्रायत्यर्थ.मनूद्य तत्। अनग्नतामतिः प्राण-विदोऽपूर्वां विधीयते॥ 20॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.11 सम्बन्धाधिकरणम्
सम्बन्धा.देव.मन्यत्रापि॥3.3.20॥
न वा विशेषात्॥3.3.21॥
दर्शयति च॥3.3.22॥
एकादशाधिकरणमारचयति –

1विषयः

संहारस्स्या.द्व्यवस्था वा नाम्नो.रह.रहं त्विति।

3पूर्वपक्षः

विद्यैकत्वेन संहार.स्स्या-दध्यात्माधिदैवयोः॥ 23॥
एकादशे नाम्नोर्व्यवस्थाधिकरणे सूत्राणि
बृहदारण्यके सत्यविद्याया.माधिदैविकस्य पुरुषस्यादित्यस्य “अहः” इत्येत.न्नाम ध्यानायोपदिश्यते। आध्यात्मिकस्य त्वक्षिपुरुषस्य “अहम्” इत्येत.न्नाम। तत्र- विद्यैकत्वेन द्वयो.र्नाम्नोः पुरुषद्वये उपसंहारः। इति प्राप्ते,

4सिद्धान्तः

तस्योपनिष.दित्येवं भिन्नस्थानत्व.दर्शनात्।
स्थितासीनगुरूपास्त्यो-रिव नाम्नो.र्व्यवस्थितिः॥ 24॥
ब्रूमः- “यः एष एतस्मिन्मण्डले पुरुषः” इत्युपक्रम्य, “तस्योपनिष.दहः” इति तच्छब्देन मण्डलस्थमेव परामृश्य, तस्यैव नामविशेष उपदिष्टः। तथा- “योऽयं दक्षिणेऽक्ष.न्पुरुषः” इत्युपक्रम्य, “तस्योपनि.षदहम्” इति तच्छब्देनाक्षिनिष्ठमेव परामृश्य, नामविशेष उपदिष्टः। अतो विद्यैकत्वेन वेद्यस्य सत्याख्यस्य ब्रह्मण एकत्वेऽपि, स्थानविशेषे कटाक्षेण नामविधानात्, आध्यात्मिकाधिदैविकयोः व्यवस्थिते नामनी।
न तु तयो.रुपसंहारोऽस्ति। यथा लोके गुरोरुपास्यस्य एकत्वेऽपि, तिष्ठतो गुरोर्य उपचारः नासा.वासीनस्य युज्यते। आसीनस्य य उपचारः पादाभ्यङ्गादिः, नासौ तिष्ठतो भवति, तद्वत्। तस्मात्- नाम्नो.र्व्यवस्था द्रष्टव्या॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “समानाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एका मनोमयत्वादि-प्रत्यभिज्ञानतो भवेत्। विद्याया विधि.रेकत्र स्या.दन्यत्र गुणे विधिः॥ 22॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.12 सम्भृत्यधिकरणम्
द्वादशे सम्भृत्यादीना.मनुपसंहाराधिकरणे सूत्रम्
सम्भृतिद्युव्याप्त्यपि चातः॥3.3.23॥
द्वादशाधिकरणमारचयति –

1विषयः

आहार्या वा न वाऽन्यत्र सम्भृत्यादिविभूतयः।

3पूर्वपक्षः

आहार्या ब्रह्मधर्मत्वा-च्छाण्डिल्यादा.ववारणात्॥ 25॥
राणायनीयानां खिलेषु पठ्यते- “ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माऽग्रे ज्येष्ठं दिव.माततान” इति।
अस्यायमर्थः- यानि लोके वीर्याणि हरिहरकमलासनादिदेहेषु प्रसिद्धानि , तानि सर्वाणि ब्रह्मपुरस्सराण्येव सम्भृतानि सम्भवन्ति। नहि सशक्तिकं ब्रह्मानपेक्ष्य वीर्याणि सम्भवन्ति। तच्च ब्रह्म ज्येष्ठं ब्रह्म पूर्वं दिवं व्याप्यावस्थितम् इति।
अत्र- आधिदैविकस्य ब्रह्मणः सम्भृति-द्युव्याप्त्यादयो गुणा उपास्यत्वेनावगम्यन्ते। शाण्डिल्यादि.दहरादिविद्यासु, आध्यात्मिकं हृदयान्तर्वर्ति ब्रह्म उपास्यतया श्रुतम्। तत्र- ब्रह्मण एकत्वात्, सम्भृत्यादयो गुणाः शाण्डिल्यदहरादिविद्यासूपसंहर्तव्याः। इति प्राप्ते,

4सिद्धान्तः

असाधारणधर्माणां प्रत्यभिज्ञाऽत्र नास्त्यतः।
अनाहार्या धर्ममात्र-सम्बन्धोऽतिप्रसञ्जकः॥ 26॥
ब्रूमः- न तावत्सम्भृत्यादिगुणाना.मन्यतमोऽपि शाण्डिल्यादिविद्यासु उपलभ्यते। अतो विद्यैकत्वप्रत्यभिज्ञानाभावाद्गुणा नोपसंहर्तव्याः। ब्रह्मैकत्वमात्रेणोपसंहृतौ, न क्वा.प्यनुपसंहार इति प्रसङ्गः। तस्मात्- सम्भृत्यादेर्नोपसंहारः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सम्बन्धाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तस्योपनिष.दित्येवं भिन्नस्थानत्व.दर्शनात्। स्थितासीनगुरूपास्त्यो-रिव नाम्नो.र्व्यवस्थितिः॥ 24॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.13 पुरुषविधिकरणम्
त्रयोदशे पुरुषविद्याया विभिन्नताधिकरणे सूत्रम्
पुरुषविद्यायामिव चेतरेषा.मनाम्नानात्॥3.3.24॥
त्रयोदशाधिकरणमारचयति –

1विषयः

पुंविद्यैका विभिन्ना वा तैत्तिरीयक.ताण्डिनोः।

3पूर्वपक्षः

मरणावभृथत्वादि-साम्या.देकेति गम्यते॥ 27॥
अस्ति तैत्तिरीये पुरुषविद्या- “तस्यैवं विदुषो यज्ञस्यात्मा यजमानः” इति। तथा- ताण्डिशाखायामपि श्रूयते- “पुरुषो वाव यज्ञः” इति। सेयमेकैव पुरुषविद्या, “यन्मरणं तदवभृथः,” “मरणमेवावभृथः” इत्युभयत्र समानधर्मश्रवणात्। प्रातस्सवनादीनां च समानत्वात्। इति प्राप्ते,

4सिद्धान्तः

बहुना रूपभेदेन किञ्चित्साम्यस्य बाधनात्।
न विद्यैक्यं तैत्तिरीये ब्रह्मविद्याप्रशंसनात्॥ 28॥
ब्रूमः- वेद्यस्य रूपस्य भूया.नत्र भेदः श्रूयते। तथाहि- “विदुषो यो यज्ञः, तस्य यज्ञस्यात्मा” इति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ। अन्यथा “आत्मा यजमानः” इति व्याघातात्, “विद्वानेव यज्ञः, स एव यजमानः” इति कथं न व्याहन्येत? ताण्डिनां तु पुरुषयज्ञयोः सामानाधिकरण्यं श्रुतमित्येको रूपभेदः।
आत्मयजमानादिकं च तैत्तिरीयके श्रुतम्, ताण्डिनां नोपलभ्यते। यत्तु ताण्डिनामुपलभ्यते त्रेधाविभक्तस्यायुषः सवनत्रयत्वमित्यादि, तन्न किञ्चिदपि तैत्तिरीयके पश्यामः। अतो मरणावभृथत्वाद्यल्पसाम्यबाधात्, विद्ययोर्भेद एवोचितः। अपि च न तैत्तिरीयाणा.मुपासनमिदम्।
किं तर्हि? ब्रह्मविद्याप्रशंसा “तस्यैवं विदुषः” इति ब्रह्मविद उत्कर्षणात्। तस्मात्- न विद्यैक्यशङ्काया अप्यवकाशोऽस्ति॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सम्भृत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “असाधारणधर्माणां प्रत्यभिज्ञाऽत्र नास्त्यतः। अनाहार्या धर्ममात्र-सम्बन्धोऽतिप्रसञ्जकः॥ 26॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.14 वेधाद्यधिकरणम्
चतुर्दशे वेधाद्यधिकरणे सूत्रम्
वेधाद्यर्थभेदात्॥3.3.25॥
चतुर्दशाधिकरणमारचयति –

1विषयः

वेधमन्त्रप्रवर्ग्यादि विद्याङ्गमथवा न तु।

3पूर्वपक्षः

विद्यासन्निधिपाठेन विद्याङ्गे मन्त्रकर्मणी॥ 29॥
आथर्वणिकाना.मुपनिषदारम्भे- “सर्वं प्रविध्य हृदयं प्रविध्य” इत्यादय आभिचारिकमन्त्राः पठिताः। काण्वाना.मुपनिषदादौ प्रवर्ग्यब्राह्मणं पठितम्। एवमन्यत्राप्युदाहर्तव्यम्। तत्र विद्यासन्निधिवशा.न्मन्त्रकर्मणो.र्विद्याङ्गत्वम्। इति प्राप्ते,

4सिद्धान्तः

लिङ्गेनान्यत्र मन्त्राणां वाक्येनापि च कर्मणाम्।
विनियोगात्सन्निधिस्तु बाध्योऽतो नाङ्गता तयोः॥ 30॥
ब्रूमः- हृदयवेधादिमन्त्राणां लिङ्गा.दभिचारकर्मणि विनियोगः।
प्रवर्ग्यस्य “पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्ति” इत्यग्निष्टोमे विनियोगो दृश्यते। “लिङ्गवाक्ये च सन्निधे.र्बलीयसी” इति पूर्वकाण्डे श्रुतिलिङ्गाधिकरणे व्यवस्थापितम्। तस्मात्- न विद्याङ्गत्वं मन्त्रकर्मणोः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पुरुषविधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “बहुना रूपभेदेन किञ्चित्साम्यस्य बाधनात्। न विद्यैक्यं तैत्तिरीये ब्रह्मविद्याप्रशंसनात्॥ 28॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.15 हान्यधिकरणम्
पञ्चदशे ज्ञानिनः कर्मणां हान्युपायनाधिकरणे सूत्रम्
हानौ तूपायनशब्दशेषत्वात्, कुशाच्छन्दस्तुत्युपगानवत् तदुक्तम्॥3.3.26॥
पञ्चदशाधिकरणमारचयति –

1विषयः

उपायन.मनाहार्यं हानायाह्रियतेऽथ वा।

3पूर्वपक्षः

अश्रुतत्वा.दनाक्षेपा-द्विद्याभेदाच्च नाहृतिः॥ 31॥
शाट्यायनिनः पठन्ति- “तस्य पुत्रा दाय.मुपयन्ति, सुहृदः साधुकृत्याम्, द्विषन्तः पापकृत्याम्” इति।
अस्यायमर्थः- “ज्ञानिनः पुत्रस्थानीयाः सर्वे प्राणिनः, तदीयं वित्तस्थानीयं कर्म यथायोग्यं गृह्णन्ति”।
ताण्डिनस्तु पठन्ति –
“अश्व इव रोमाणि विधूय पापं, चन्द्र इव राहोर्मुखात्प्रमुच्य, धूत्वा शरीरम्” इति। तथाथर्वणिकाः पठन्ति- “तदा विद्वा.न्पुण्यपापे विधूय, निरञ्जनः परं साम्यमुपैति” इति। निरञ्जनो भाविजन्मकारणरहितः, साम्यं ब्रह्मस्वरूपम्, इत्यर्थः।
तत्र तत्त्वज्ञानिनः पापपुण्यपरित्याग.प्रतिपादिकासु श्रुतिषु, परित्यक्तयोः पुण्यपापयोः इतरपुरुषस्वीकारो नोपसंहर्तव्यः, त्यागश्रुतिषु क्वापि अन्यस्वीकारस्याश्रुतत्वात्।
अश्रुतमप्याक्षिप्यते- इति चेत्, न। अनुपपत्ते.रभावात्। इतरस्वीकार.मन्तरेणापि, ज्ञानिनां परित्याग उपपद्यत एव। किञ्च- इतरस्वीकारवाक्यं सगुणविद्यायां पठितम्। त्यागवाक्यं तु निर्गुणविद्यायाम्। तस्मात्- केवलायां हानौ श्रूयमाणाया.मुपायनं नोपसंहर्तव्यम्। इति प्राप्ते,

4सिद्धान्तः

विद्याभेदेऽप्यर्थवाद आहार्य.स्स्तुतिसाम्यतः।
हानस्य प्रत्यभिज्ञाना-देकविंशादि.वादवत्॥ 32॥
ब्रूमः- सत्यं, विद्याभेदोऽस्ति। अत एव न वयम् उपायनम् अनुष्ठेयधर्मतयोपसंहरामः, किं त्वर्थवादत्वेन। यथा श्रूयमाणेन पुण्यपापपरित्यागेन ब्रह्मविद्या स्तूयते, तथेतरस्वीकारेणापि स्तोतुं शक्यत एव।
न च- अर्थवादत्वमात्रेण हानोपायनश्रुत्योः स्वार्थे तात्पर्याभावः, मानान्तरप्रसिद्धिविरोधयो.रभावेन भूतार्थवादत्वात्। यत्तु- हानश्रुतिषु न क्वाप्युपायनं श्रुतम्- इत्युक्तम्, तदसत्- कौषितकीश्रुतौ हानोपायनयो.रुभयो.रवगमात्। “तत्सुकृतदुष्कृते विधूनुते। तस्य प्रिया ज्ञातयः सुकृत.मुपयन्ति, अप्रिया दुष्कृतम्” इति। तत्तत्र ब्रह्मलोकप्राप्तिवेलायामित्यर्थः।
एवं च सति कौषितकीश्रुतस्य हानस्याथर्वणिकताण्डिशाखयोः प्रत्यभिज्ञानात्, कौषीतकीप्रोक्तस्योपायनस्योपसंहारो युक्तः।
ननु- अर्थवादान्तरापेक्षोऽर्थवादो न क्वचित् दृष्टचरः- इति चेत्। न, सामोपास्ति.स्तावकत्वेन श्रुतस्य “एकविंशो वा इतोऽसा.वादित्यः” इत्यर्थवादस्यैकविंशत्वनिर्णयस्य, तैत्तिरीयकगतस्तोत्रप्रकरणस्य अर्थवादापेक्षत्वात्। “द्वादश मासाः पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविशः” इति हि तत्र सङ्ख्यानिर्वाह उक्तः। तस्मात्- अर्थवादत्वेऽप्युपायन.मुपसंहर्तव्यम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “वेधाद्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “लिङ्गेनान्यत्र मन्त्राणां वाक्येनापि च कर्मणाम्। विनियोगात्सन्निधिस्तु बाध्योऽतो नाङ्गता तयोः॥ 30॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
वर्णकान्तरम्
द्वितीयवर्णकमाह –

1विषयः

विधूननं चालनं स्या-द्धानं वा चालनं भवेत्।

3पूर्वपक्षः

दोधूयन्ते ध्वजाग्राणी-त्यादौ चालनदर्शनात्॥ 33॥
“सुकृतदुष्कृते विधूनुते” इत्यत्र, विधूननशब्दस्य “दोधूयन्ते” इत्यादाविव चालनमर्थः। नतु परित्यागः। इति प्राप्ते,

4सिद्धान्तः

हानमेव भवेद्वाक्य-शेषेऽन्योपायनश्रवात्।
कर्त्रा न ह्यपरित्यक्त-मन्य.स्स्वीकर्तु.मर्हति॥ 34॥
ब्रूमः- वाक्यशेषे श्रूयमाणस्येतरस्वीकारस्य, विना परित्याग.मनुपपत्तेः, चालनवाचिना विधूननशब्देन परित्याग उपलक्ष्यते॥
3.3.16 साम्परायाधिकरणम्
षोडशे उपासकानां कर्मत्यागव्यवस्थाधिकरणे सूत्रे
साम्पराये तर्तव्याभावा.त्तथा ह्यन्ये॥3.3.27॥
छन्दत उभयाविरोधात्॥3.3.28॥
षोडशाधिकरणमारचयति –

1विषयः

कर्मत्यागो मार्गमध्ये यदि वा मरणात्पुरा।

3पूर्वपक्षः

उत्तीर्य विरजां त्याग-स्तथा कौषीतकीश्रुतेः॥ 35॥
पूर्वाधिकरणोक्तः सुकृतदृष्कृतपरित्यागो ब्रह्मलोकमार्गस्य मध्ये भवितुमर्हति, तल्लोकसमीपवर्ति.नद्युत्तरणानन्तरं तच्छ्रवणात्। “स आगच्छति विरजां नदीं, तां मनसैवात्येति, तत्सुकृतदुष्कृते विधूनुते” इति। तस्मात्- मार्गमध्ये परित्यागः। इति प्राप्ते,

4सिद्धान्तः

कर्मप्राप्यफलाभावा-न्मध्ये साधनवर्जनात्।
ताण्डिश्रुतेः पुरा त्यागो बाध्यः कौषीतकीक्रमः॥ 36॥
ब्रूमः- ब्रह्मलोकमार्गमध्ये, ब्रह्मप्राप्तिव्यतिरिक्तस्य सुकृतदुष्कृतानाभ्यां प्राप्तव्यफलस्याभावात्, तयोर्नदीपर्यन्तनयनं निरर्थकम्। किञ्च- मरणात्प्राक् परित्यक्तयोः सुकृतदुष्कृतयो.र्मार्गमध्ये परित्यागस्य साधनं न सम्भवति, देहराहित्ये साधनस्यानुष्ठातु.मशक्यत्वात्।
न च- मरणात्पुरा तत्त्यागे प्रमाणभावः, “अश्व इव रोमाणि”- इति ताण्डिश्रुतौ तदवगमात्। तथा च श्रुत्या “नदी.मुत्तीर्य परित्यागः” इत्ययं कौषीतकीप्रोक्तः क्रमो बाधनीयः। तस्मात्- मरणात्प्रागेव उपास्ये (ब्रह्मणि) साक्षात्कृते (सति), तयोः (सुकृतदुष्कृतयोः) परित्यागः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “हान्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विद्याभेदेऽप्यर्थवाद आहार्य.स्स्तुतिसाम्यतः। हानस्य प्रत्यभिज्ञाना-देकविंशादि.वादवत्॥ 32॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.17 गतेरर्थवत्वाधिकरणम्
सप्तदशे उपासनया ब्रह्मलोकगन्तॄणामेव मार्गव्यवस्थाधिकरणे सूत्रे
गते.रर्थवत्त्व.मुभयथाऽन्यथा हि विरोधः॥3.3.29॥
उपपन्न.स्तल्लक्षणार्थोपलब्धे.र्लोकवत्॥3.3.30॥
सप्तदशाधिकरणमारचयति –

1विषयः

उपास्तिबोधयो.र्मार्ग-स्समो यद्वा व्यवस्थितः।

3पूर्वपक्षः

सम एवोत्तरो मार्ग एतयोः कर्महानवत्॥ 37॥
चतुर्थाध्यायस्य तृतीयपादे वक्ष्यमाणोऽर्चिरादिमार्गः, सगुणब्रह्मोपासकस्य निर्गुणब्रह्मतत्त्वविदश्च समान एव, सुकृतदुष्कृतकर्महानव.त्समानत्वसम्भवात्। इति प्राप्ते,

4सिद्धान्तः

देशान्तरफलप्राप्त्यै युक्तो मार्ग उपास्तिषु।
आरोग्यव.द्बोधफलं तेन मार्गो व्यवस्थितः॥ 38॥
ब्रूमः- उपास्तिप्राप्यस्य ब्रह्मलोकफलस्य देशान्तरवर्तित्वात्, युक्तस्तत्र मार्गः। ब्रह्मज्ञानफलं तु रोगनिवृत्तिवत्, अविद्यानिवृत्तिमात्रमिति, किं तत्र मार्गेण करणीयं स्यात्? तस्मात्- उपासकस्यैव, न तु ज्ञानिनः- इति व्यवस्थितो मार्गः।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “साम्परायाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कर्मप्राप्यफलाभावा-न्मध्ये साधनवर्जनात्। ताण्डिश्रुतेः पुरा त्यागो बाध्यः कौषीतकीक्रमः॥ 36॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.18 अनियमाधिकरणम्
अष्टादशे सर्वास्वेवोपासनासु मार्गकल्पनाधिकरणे सूत्रम्
अनियमः सर्वासा.मविरोधः, शब्दानुमानाभ्याम्॥3.3.31॥
अष्टादशाधिकरणमारचयति –

1विषयः

मार्गः श्रुतस्थलेष्वेव सर्वोपास्तिषु वा भवेत्।

3पूर्वपक्षः

श्रुतेष्वेव प्रकरणा-द्द्विःपाठोऽस्य वृथाऽन्यथा॥ 39॥
छान्दोग्ये पञ्चाग्निविद्याया.मुपकोशलविद्यायां चोत्तरमार्गः पठितः। शाण्डिल्यवैश्वानरादिविद्यासु न पठितः। उपसंहारे च सकृत्पठितस्यैव सर्वत्रोपसंहर्तुं शक्यतया, विद्याद्वये पाठो निरर्थकः स्यात्। तस्मात्- श्रुतस्थलेष्वेव मार्गः। इति प्राप्ते,

4सिद्धान्तः

प्रोक्तो विद्यान्तरे मार्गो ये चेम इति वाक्यतः।
तेन बाध्यं प्रकरणं द्विःपाठश्चिन्तनाय हि॥ 40॥
ब्रूमः- पञ्चाग्निविद्यावाक्यशेषे पञ्चाग्न्युपासकाना.मुत्तरमार्गं ब्रुवती श्रुतिः, विद्यान्तरशालिनां च मुखत एवार्चिरादिमार्ग.मुदाजहार- “तद्य इत्थं विदुः, ये चेमेऽरण्ये श्रद्धातप इत्युपासते, तेऽर्चिष.मभिसम्भवन्ति” इति।
अस्यायमर्थः “ये उपासकाः इत्थं पञ्चाग्नी.नुपासते, ये चेमेरण्ये श्रद्धातप इत्युपासते, ते सर्वेऽप्यर्चिरादिमार्गं प्राप्नुवन्ति” इति। ततश्च मार्गप्रतिपादकवाक्येन प्रकरणं बाधितव्यम्।
न च- द्विःपाठवैयर्थ्यम्, उपास्यगुणचिन्तनार्थत्वोपपत्तेः। तस्मात्- सर्वोपास्तिषु उत्तरो मार्गोऽवगन्तव्यः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “गतेरर्थवत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “देशान्तरफलप्राप्त्यै युक्तो मार्ग उपास्तिषु। आरोग्यव.द्बोधफलं तेन मार्गो व्यवस्थितः॥ 38॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.19 यावदधिकाराधिकरणम्
एकोनविंशे तत्त्वज्ञानिनां मुक्तिनैयत्याधिकरणे सूत्रम्
यावदधिकार.मवस्थिति.राधिकारिकाणाम्॥3.3.32॥
एकोनविंशाधिकरणमारचयति –

1विषयः

ब्रह्मतत्त्वविदां मुक्तिः पाक्षिकी नियताऽथवा।

3पूर्वपक्षः

पाक्षिक्यपान्तरतमः-प्रभृते.र्जन्मकीर्तनात्॥ 41॥
पुराणेषु- अपान्तरतमा नाम वेदप्रवर्तक आचार्यो, विष्णोराज्ञया द्वापरान्ते कृष्णद्वैपायनरूपेण शरीरान्तरं जग्राह- इति स्मर्यते। तथा- सनत्कुमारः स्कन्दरूपेण पार्वतीपरमेश्वराभ्या.मजायत। एवमन्येऽपि वसिष्ठादय.स्तत्त्वज्ञानिन एव सन्तः, तत्र तत्र शापद्वारा स्वेच्छया वा शरीरान्तराणि जगृहुः- इति स्मरणात्-
मुक्तिस्तत्त्वविदां पाक्षिकी। इति प्राप्ते,

4सिद्धान्तः

नानादेहोपभोक्तव्य-मीशोपास्तिफलं बुधाः।
भुक्त्वाऽधिकारिपुरुषा मुच्यन्ते नियता ततः॥ 42॥
ब्रूमः- य एते त्वयोदाहृताः पुरुषाः, ते सर्वे जगन्निर्वाहकारिणः। ते च पूर्वस्मिन्कल्पे महता तपसा परमेश्वरमुपास्य, अस्मिन्कल्पे नानादेहोपभोग्य.मधिकारिपदं भेजिरे। क्षीणे प्रारब्धे कर्मणि मोक्ष्यन्ते। तथा- अनारब्धकर्मणां तत्त्वज्ञानेन दाहस्य निवारयितुमशक्यत्त्वात्, तत्त्वविदां मुक्तिर्नियतैव॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अनियमाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रोक्तो विद्यान्तरे मार्गो ये चेम इति वाक्यतः। तेन बाध्यं प्रकरणं द्विःपाठश्चिन्तनाय हि॥ 40॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.20 अक्षरध्यधिकरणम् (अक्षरधी-अधिकरणम्)
विंशे निषेधोपसंहाराधिकरणे सूत्रम्
अक्षरधियां त्वविरोधः, सामान्यतद्भावाभ्या.मौपसदवत्, तदुक्तम्॥3.3.33॥
विंशाधिकरणमारचयति –

1विषयः

निषेधाना.मसंहारः संहारो वा न संहृतिः।

3पूर्वपक्षः

आनन्दादिव.दात्मत्वं नैषां सम्भाव्यते यतः॥ 43॥
“अस्थूलमनण्वह्रस्वम्” इत्यादिना ब्रह्मावबोधनाय गार्गीब्राह्मणे केचिन्निषेधाः श्रुताः। तथा च कठवल्लीषु- “अशब्द.मस्पर्श.मरूप.मव्ययम्” इति। एवमन्यत्राप्युदाहर्तव्यम्।
तत्र निषेधानां परस्पर.मुपसंहारो नास्ति, आनन्दसत्यत्वादिधर्मवत्, आत्मस्वरूपत्वाभावेनोपसंहारे प्रयोजनाभावात्। इति प्राप्ते,

4सिद्धान्तः

श्रुताना.माहृतानां च निषेधानां समा यतः।
आत्मलक्षणता तस्मा-द्दार्ढ्याया.स्तूपसंहृतिः॥ 44॥
ब्रूमः- यथा स्वशाखायां श्रूयमाणानां निषेधाना.मात्मस्वरूपत्वाभावेऽपि आत्मोपलक्षकत्वम्, तथा- शाखान्तरेभ्य उपसंहृतानां निषेधानामपि तत्समानम्।
न च- स्वशाखोक्त.निषेधैरेवोपलक्षणसिद्धा.वितरोपसंहारवैयर्थ्यम्, इतरोपसंहारस्य दार्ढ्यार्थत्वात्। अन्यथा स्वशाखायामपि द्वित्रप्रतिषेधमात्रेण तत्सिद्धा.वितरवैयर्थ्यं प्रसज्येत। तस्मात्- निषेधा उपसंहर्तव्याः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “यावदधिकाराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नानादेहोपभोक्तव्य-मीशोपास्तिफलं बुधाः। भुक्त्वाऽधिकारिपुरुषा मुच्यन्ते नियता ततः॥ 42॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.21 इयदधिकरणम्
एकविंशे मन्त्रद्वयस्य विद्यैक्यताधिकरणे सूत्रम्
इय.दामननात्॥3.3.34॥
एकविंशाधिकरणमारचयति –

1विषयः

पिबन्तौ द्वा सुपर्णेति द्वे विद्ये अथवैकता।

3पूर्वपक्षः

भोक्तारौ भोक्त्रभोक्तारा-विति विद्ये उभे इमे॥ 45॥
“ऋतं पिबन्तौ सुकृतस्य लोके”- इत्यस्मिन्मन्त्रे द्विवचनेन द्वयो.र्भोक्तृत्वं प्रतीयते। “द्वा सुपर्णा”- इत्यस्मिन्मन्त्रे “तयोरन्यः पिप्पलं स्वा.द्वात्ति” इत्येकस्यैव कर्मफलभोक्तृत्वम्, इतरस्य तु “अनश्न.न्नन्योऽभिचाकशीति” इति, अभोक्तृत्वम्। ततो वेद्यस्वरूपभेदात् विद्याभेदः। इति प्राप्ते,

4सिद्धान्तः

पिबन्तौ भोक्त्रभोक्तारा-वित्युक्तं हि समन्वये।
इयत्ताप्रत्यभिज्ञाना-द्विद्यैका मन्त्रयोर्द्वयोः॥ 46॥
ब्रूमः- प्रथमाध्यायस्य द्वितीयपादे तृतीयाधिकरणे- “पिबन्तौ” इति शब्दस्य जीवब्रह्मपरत्वेन भोक्तृ-अभोक्तारा.वर्थः- इत्युक्तम्। अतो न वेद्यभेदः। द्वित्वसङ्ख्या चोभयत्र प्रत्यभिज्ञायते। तस्मात्- एका विद्या॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अक्षरध्यधिकरणम् (अक्षरधी-अधिकरणम्)”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्रुताना.माहृतानां च निषेधानां समा यतः। आत्मलक्षणता तस्मा-द्दार्ढ्याया.स्तूपसंहृतिः॥ 44॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.22 अन्तरत्वाधिकरणम्
द्वाविंशे उषस्त- कहोलयोर्विर्द्यैक्याधिकरणे सूत्रे
अन्तरा भूतग्रामवत्स्वात्मनः॥3.3.35॥
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत्॥3.3.36॥

1विषयः

विद्याभेदोऽथ विद्यैक्यं स्या.दुषस्त-कहोलयोः।

3पूर्वपक्षः

समानस्य द्विराम्नाना-द्विद्याभेदः प्रतीयते॥ 47॥
द्वाविंशाधिकरणमारचययति –
“यत्साक्षा.दपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः” इति एकस्यां शाखायामेव, उषस्तब्राह्मणे कहोलब्राह्मणे च पठितम्। “अपरोक्षात्” इत्यत्र विभक्तिव्यत्ययेन “अपरोक्षम्” इत्यर्थः। तयो.रुभयो.र्ब्राह्मणयो.रन्यूनानतिरिक्ततया पठितस्य वाक्यस्य पौनरुक्त्यपरिहाराय विद्याभेदः। इति प्राप्ते,

4सिद्धान्तः

सर्वान्तरत्व.मुभयो-रस्ति विद्यैकता ततः।
शङ्काविशेषनुत्यै द्विः-पाठ.स्तत्त्वमसीतिवत्॥ 48॥
ब्रूमः- द्वयोरपि ब्राह्मणयोः सर्वान्तरत्वं प्रतिपाद्यते। तच्चैकस्मिन्नेव वस्तुनि सम्भवति। द्वयोस्तु वस्तुनो.रेकतरस्य बहिर्भावोऽवश्यम्भावी। तस्मात्- सर्वान्तरस्य वेद्यस्यैकत्वा.न्न विद्याभेदः।
न च- पुनरुक्तिः, यथा शाखान्तरे तद्विशेषशङ्कापनुत्त्यर्थम् “तत्त्वमसि” इति नवकृत्व उपन्यस्तम्, तथाऽत्राप्युपपत्तेः। उषस्तब्राह्मणेन देहाद्यात्मत्वशङ्काऽपोद्यते, कहोलब्राह्मणेन देहादिव्यतिरिक्तस्य ब्रह्मत्व.मापाद्यते। वाक्यशेषयो.स्तथादर्शनात्। तस्मात्- एका विद्या॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “इयदधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पिबन्तौ भोक्त्रभोक्तारा-वित्युक्तं हि समन्वये। इयत्ताप्रत्यभिज्ञाना-द्विद्यैका मन्त्रयोर्द्वयोः॥ 46॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.23 व्यतिहाराधिकरणम्
त्रयोविंशे देहादित्यमण्डलवर्त्युपासनाया विद्याभेदाधिकरणे सूत्रम्
व्यतिहारो विशिषन्ति हीतरवत्॥3.3.37॥
त्रयोविंशाधिकरणमारचयति –

1विषयः

व्यतिहारे स्वात्मरव्यो-रेकधा धू.रुत द्विधा।

3पूर्वपक्षः

वस्त्वैक्यादेकधैक्यस्य दार्ढ्याय व्यतिहारगीः॥ 49॥
ऐतरेयके पठ्यते- “तद्योऽहं सोऽसौ, सोऽहम्” इति। अस्यायमर्थः- “य यष देहेन्द्रियसाक्षी जीवात्मा, स एवादित्यमण्डलवर्ती परमात्मा, यो मण्डलवर्ती, स एवात्मद्देहादिवर्ती” इति। तत्र- स्वदेह-रविमण्डलयो.रन्योन्यव्यतिहारे श्रूयमाणोऽपि, जीवब्रह्मैक्यलक्षणस्य वस्तुन एकत्वात्, एकधैव बुद्धिः कर्तव्या। न च व्यतिहारपाठ.वैयर्थ्यम्, एकस्यापि वस्तुनो दार्ढ्याय तदुपपत्तेः। इति प्राप्ते,

4सिद्धान्तः

ऐक्येऽपि व्यतिहारोक्त्या धी.र्द्वेधेशस्य जीवता।
युक्तोपास्त्यै वाचनिकी मूर्तिव.द्दार्ढ्य.मार्थिकम्॥ 50॥
ब्रूमः- न खल्विदं तत्त्वावबोधप्रकरणम्, येनैकत्वप्रतिपत्तिर्दार्ढ्य.मपेक्षते। किं तर्हि? सगुणोपास्तिप्रकरणम्। उपास्तिश्च यथावचन.मनुष्ठेया। ततो व्यतिहारेण द्वेधाबुद्धिः कर्तव्या।
नन्वेवं सति जीवस्य ब्रह्मैक्य.मुत्कर्षाय कल्पते, ब्रह्मणस्तु जीवैक्यमपकर्षाय स्यात्- इति चेत्। नायं दोषः, यथा देहादिरहितस्यापि, उपासकचित्तस्थैर्यार्थं चतुर्भुजाष्टभुजादिमूर्त्युपदेशेऽपि नापकर्षः, तथा वचनबला.दीशस्य जीवत्वोपासनेन तव का हानिः।
यदि उपासनाय व्यतिहारेऽनुष्ठीयमाने, अर्था.ज्जीवब्रह्मणोरेकत्वप्रतिपत्ति.र्दृढा भवेत्, तर्हि चरितार्थाः सम्पद्यामहे। तस्मात्- व्यतिहारेण द्विधाबुद्धिः कर्तव्या॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अन्तरत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सर्वान्तरत्व.मुभयो-रस्ति विद्यैकता ततः। शङ्काविशेषनुत्यै द्विः-पाठ.स्तत्त्वमसीतिवत्॥ 48॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.24 सत्याद्यधिकरणम्
चतुर्विंशे सत्यविद्याधिकरणे सूत्रम्
सैव हि सत्यादयः॥3.3.38॥
चतुर्विंशाधिकरणमारचयति –

1विषयः

द्वे सत्यविद्ये एका वा यक्ष.सत्यादिवाक्ययोः।

3पूर्वपक्षः

फलभेदा.दुभे लोक-जयात्पापहतेः पृथक्॥ 51॥
बृहदारण्यके श्रूयते- “स यो हैत.न्महद्यक्षं प्रथमजं वेद- सत्यं ब्रह्म- इति, जयतीमान्ल्लोकान्” इति। यक्षं पूज्यम्, प्रथमजं हिरण्यगर्भरूपेण प्रथम.मुत्पन्नम्- इत्यर्थः। अनेन वाक्येन सत्यविद्यां प्रतिपाद्य, पश्चादिदं प्रतिपाद्यते- “तद्यत्-तत् सत्यम्, असौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्ष.न्पुरुषः” इति। तत्तत्रेत्यर्थः। एवं वाक्यद्वयोक्ते सत्यविद्ये द्वे भवतः। कुतः? फलभेदात्। यक्षवाक्ये- लोकजयः फलमुक्तम्। रविवाक्ये च “हन्ति पाप्मानं जहाति च” इति पापघातलक्षणं पृथक्फलं श्रूयते। तस्मात्- विद्याभेदः। इति प्राप्ते,

4सिद्धान्तः

प्रकृताकर्षणा.देका पापघातोऽङ्गधीफलम्।
अर्थवादोऽथवा मुख्यो युक्तोऽधिकृतकल्पकः॥ 52॥
ब्रूमः- एकैवेयं सत्यविद्या। “तद्यत्-तत् सत्यम्” इति प्रकृतं सत्यं ब्रह्मानूद्य, “असौ स आदित्यः” इति रविरूपत्ववर्णनात्। न च- अत्र फलभेदोऽस्ति, पापघातस्योपास्तिफलत्वेनार्थवादत्वात्। “अङ्गेषु फलश्रुति.रर्थवादः” इति न्यायेनाविवक्षितत्वात्।
अथवा- अत्रोपासनाया.मधिकार्यश्रवणात्, श्रूयमाणफलस्यैव कामोपबन्ध.मध्याहृत्य, अधिकारिणि कल्पयितव्ये सति, पापघात.लोकजय.कामः उपासीत- इति वक्तुं शक्यत्वात्, विशिष्टफलस्य विवक्षितत्वम्। तस्मात्- एकैवेयं सत्यविद्या॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “व्यतिहाराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ऐक्येऽपि व्यतिहारोक्त्या धी.र्द्वेधेशस्य जीवता। युक्तोपास्त्यै वाचनिकी मूर्तिव.द्दार्ढ्य.मार्थिकम्॥ 50॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.25 कामाद्यधिकरणम्
पञ्चविंशे दहर.हार्दाकाशयो.रुपसंहाराधिकरणे सूत्रम्
कामादीतरत्र तत्र चायतनादिभ्यः॥3.3.39॥
पञ्चविंशाधिकरणमारचयति –

1विषयः

असंहृति.स्संहृतिर्वा व्योम्नो.र्दहर-हार्दयोः।

3पूर्वपक्षः

उपास्य.ज्ञेयभेदेन तद्गुणाना.मसंहृतिः॥ 53॥
छान्दोग्ये- “दहरोऽस्मि.न्नन्तराकाशः” इति हृदयान्तर्गतत्वेन श्रुतस्य दहराकाशस्य, सत्यकामत्वादयो गुणा उक्ताः। बृहदारण्यके तु “य एषोऽन्तर्हृदय आकाशः” इत्युक्तस्य हार्दाकाशस्य वशित्वादयो गुणा उक्ताः। तत्र न परस्परगुणोपसंहारः, दहराकाशस्योपास्यत्वेन, हार्दाकाशस्य ज्ञेयत्वेन विद्याभेदात्। इति प्राप्ते,

4सिद्धान्तः

उपास्त्यै क्वचि.दन्यत्र स्तुतये चास्तु संहृतिः।
दहराकाश आत्मैव हृदाकाशोऽपि नेतरः॥ 54॥
ब्रूमः- तत्र वशित्वादीनां दहराकाशे उपसंहार उपास्त्यै भविष्यति। सत्यकामत्वादीनां तु हार्दाकाशे उपसंहारः स्तुत्यर्थः।
न च- प्रयोजनवत्वेऽपि विद्याभेदो दुष्परिहरः- इति वाच्यम्, विद्याभेदेऽप्युभयत्राकाश.शब्दवाच्यस्यात्मन एकत्वात्। दहराकाशस्य ताव.दात्मत्वं “दहराधिकरणे” (ब्र.सू. 1।3।5) वर्णितम्। हार्दाकाशस्यापि “महा.नज आत्मा” इत्युपक्रमात्, आत्मत्व.मवगन्तव्यम्। तस्मात्- उभयत्रोपसंहारः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सत्याद्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रकृताकर्षणा.देका पापघातोऽङ्गधीफलम्। अर्थवादोऽथवा मुख्यो युक्तोऽधिकृतकल्पकः॥ 52॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.26 आदराधिकरणम्
षड्विंशे उपवासे प्राणाहुतिलोपाधिकरणे सूत्रे
आदरा.दलोपः॥3.3.40॥
उपस्थितेऽत.स्तद्वचनात्॥3.3.41॥
षड्विंशाधिकरणमारचयति –

1विषयः

न लुप्यते लुप्यते वा प्राणाहुति.रभोजने।

3पूर्वपक्षः

न लुप्यतेऽतिथेः पूर्वं भुञ्जीते.त्यादरोक्तितः॥ 55॥
छान्दोग्ये वैश्वानरविद्यावाक्यशेषे- “यां प्रथमा.माहुतिं जुहुयात्, तां जुहुयात्- प्राणाय स्वाहेति” इति प्राणाहुतयः पठ्यन्ते। तत्र केनचि.न्निमित्तेन भोजनलोपेऽप्युपासकस्य प्राणाहुतिर्न लुप्यते, “पूर्वोऽतिथिभ्योऽश्नीयात्” इत्यतिथिभोजना.त्पूर्व.मुपासकस्य यजमानस्य भोजनं प्रतिपादयन्त्याः श्रुतेः, प्राणाहुता.वादरदर्शनात्। तमादरं प्रख्यापयितुमेवातिथिभोजनस्य प्राथम्यं निन्दति- “यथा ह वै स्वय.महुत्वाऽग्निहोत्रं परस्य जुहुयात्, तादृक्तत्स्यात्” इति। तस्मात्- प्राणाहुते.रलोपः॥
इति प्राप्ते,

4सिद्धान्तः

भुज्यर्थान्नोपजीवित्वा-त्तल्लोपे लोप इष्यते।
भुक्तिपक्षे पूर्वभुक्ता-वादरोऽप्युपपद्यते॥ 56॥
ब्रूमः- “तद्यद्भक्तं प्रथम.मागच्छे.त्तद्धोमीयम्” इति भोजनार्थान्नस्य होमद्रव्यत्वश्रवणात्, भोजनलोपे द्रव्याभावा.दाहुतिर्लुप्यते। आदरस्तु भोजनपक्षे प्राथम्यविधानाय भविष्यति। तस्मात्- भोजनलोपे प्राणाहुति.र्लुप्यते॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “कामाद्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उपास्त्यै क्वचि.दन्यत्र स्तुतये चास्तु संहृतिः। दहराकाश आत्मैव हृदाकाशोऽपि नेतरः॥ 54॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.27 तन्निर्धारणाधिकरणम्
सप्तविंशे अङ्गावबद्धोपास्त्यनैयत्याधिकरणे सूत्रम्
तन्निर्धारणानियम.स्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम्॥3.3.42॥
सप्तविंशाधिकरणमारचयति –

1विषयः

नित्या अङ्गावबद्धास्स्युः कर्मस्वनियता उत।

3पूर्वपक्षः

पर्णवत्क्रतुसम्बन्धो वाक्या.न्नित्या.स्ततो मताः॥ 57॥
उद्गीथादिषु कर्माङ्गेषु, प्रतिमादिवत् प्रतीकभूतेषु, विधीयमाना देवतोपास्तयोऽङ्गावबद्धाः। ताश्च कर्मस्वनुष्ठीयमानेषु, कर्माङ्गवन्नियमेनानुष्ठातव्याः। कर्मप्रकरण.मारभ्याध्ययनाभावेऽपि, वाक्यात् क्रतुसंबन्धोपपत्तेः। यथा- “यस्य पर्णमयी जुहूर्भवति” इत्यनारभ्याधीतस्यापि, अव्यभिचारिजुहूद्वारा वाक्या.त्क्रतुसंबन्धः, तथा “य एवं विद्वा.नुद्गायति, य एवं विद्वा.न्साम गायति” इत्यादिषु, अव्यभिचारित.क्रतुसंबन्धि.सामोद्गीथादिद्वारा, तदुपासनानां क्रतुसंबन्धः प्रतीयते। तस्मात्- कर्मसु नियता उपास्तयः। इति प्राप्ते,

4सिद्धान्तः

पृथक्फलश्रुते.र्नैता नित्या गोदोहनादिवत्।
उभौ कुरुत इत्युक्तं कर्मोपास्यनुपासिनोः॥ 58॥
ब्रूमः- गोदोहनादिव.दनियता उपास्तयः। यथा- “चमसेनापः प्रणयेत्, गोदोहनेन पशुकामस्य”(गोदोहनपात्रेण पशुकामस्य) इत्यत्र, अप्प्रणयन.माश्रित्य विधीयमानमपि गोदोहन(पात्र)म्, अक्रत्वर्थत्वा.दैच्छिकम्, न तु प्रणयनादिव.न्नियतम्। तथा- कर्मफलात्, पृथक्फलश्रवणात्।
“वर्षति हास्मै” इति पञ्चविधे सामनि वृष्टिदेवता.मुपासीनस्य कामवृष्टिः क्रतुफलात्पृथक्फलत्वेन श्रूयते। किञ्च “तेनोभौ कुरुतो यस्त्वेतदेव वेद, यश्च न वेद” इत्यस्मिन्नङ्गावबद्धोपास्तिवाक्यशेषे, उपासका-नुपासकयो.रुपास्याधारभूतेन तेनाङ्गेन कर्मानुष्ठानं विस्पष्ट.माम्नायते। तस्मात्कर्मस्वनियता उपास्तयः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आदराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “भुज्यर्थान्नोपजीवित्वा-त्तल्लोपे लोप इष्यते। भुक्तिपक्षे पूर्वभुक्ता-वादरोऽप्युपपद्यते॥ 56॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.28 प्रदानाधिकरणम्
अष्टाविंशे वायुप्राणोपासनयोः प्रयोगभेदाधिकरणे सूत्रम्
प्रदानवदेव तदुक्तम्॥3.3.43॥
अष्टाविंशाधिकरण.मारचयति –

1विषयः

एकीकृत्य पृथग्वा स्या-द्वायु.प्राणानुचिन्तनम्।

3पूर्वपक्षः

तत्त्वाभेदा.त्तयो.रेकी-करणेनानुचिन्तनम्॥ 59॥
संवर्गविद्यायाम्- अधिदैवं वायुरुपास्यत्वेन श्रुतः, अध्यात्मं च प्राणः। तत्र- प्राणस्य वायुकार्यत्वेन तत्त्वभेदाभावा.दुभयोरेकीकरणेन चिन्तनम्। इति प्राप्ते,

4सिद्धान्तः

अवस्थाभेदतोऽध्यात्म-मधिदैवं पृथक्श्रुतेः।
प्रयोगभेदो राजादि-गुणकेन्द्रप्रदानवत्॥ 60॥
ब्रूमः- तत्त्वभेदाभावेऽपि कार्यत्वेन कारणत्वेन चावस्थाभेदस्य सद्भावात्, “इत्यधिदैवम्। अथाध्यात्मम्” इति विविच्य, पृथगनुचिन्तनाय श्रुति.र्विविनक्ति। तस्मात्- इन्द्रप्रदानव.त्प्रयोगभेदो द्रष्टव्यः। यथा- “इन्द्राय राज्ञे पुरोडाश.मेकादशकपालम्, इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञे” इतीन्द्रस्यैकत्वेऽपि, राजादिगुणभेदा.त्पृथक्पुरोडाशप्रदानं कृतम्, तथा- एकस्यापि वायुतत्त्वस्य स्थानभेदात्, पृथक्चिन्तनं भविष्यति॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तन्निर्धारणाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पृथक्फलश्रुते.र्नैता नित्या गोदोहनादिवत्। उभौ कुरुत इत्युक्तं कर्मोपास्यनुपासिनोः॥ 58॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.29 लिङ्गभूयस्त्वाधिकरणम्
लिङ्गभूयस्त्वा.त्तद्धि बलीय.स्तदपि॥3.3.44॥
पूर्वविकल्पः प्रकरणात्स्यात्, क्रिया.मानसवत्॥3.3.45॥
अतिदेशाच्च॥3.3.46॥
विद्यैव तु निर्धारणात्॥3.3.47॥
दर्शनाच्च॥3.3.48॥
श्रुत्यादिबलीयस्त्वाच्च न बाधः॥3.3.49॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्वव.द्दृष्टश्च तदुक्तम्॥3.3.50॥
न सामान्यादप्युपलब्धे.र्मृत्युवन्नहि लोकापत्तिः॥3.3.51॥
परेण च शब्दस्य ताद्विध्यं, भूयस्त्वा.त्त्वनुबन्धः॥3.3.52॥
एकोनत्रिंशाधिकरणमारचयति-

1विषयः

कर्मशेषा.स्स्वतन्त्रा वा मनश्चि.त्प्रमुखाग्नयः।

3पूर्वपक्षः

कर्मशेषाः प्रकरणा-ल्लिङ्गं त्वन्यार्थदर्शनम्॥ 61॥
एकोनत्रिंशे मनश्चिदादीनां स्वतन्त्राधिकरणे सूत्राणि
अग्निरहस्ये कस्मिंश्चि.द्ब्राह्मणे श्रूयते- “षट्त्रिंशतं सहस्राण्यपश्य.दात्मनो ऽग्नी.नर्कान् मनोमया.न्मनश्चितः” इति। अस्यायमर्थः- “पुरुषस्य शतसंवत्सरपरिमिते आयुषि, षट्त्रिंशत्सहस्राणि दिनानि भवन्ति। तत्रैकैकस्मि.न्दिवसे या मनोवृत्तिः, तस्या एकैकाग्नित्वेन ध्याने सति, ध्यातव्या अग्नयः षट्त्रिंशत्सहस्राणि संपद्यन्ते। ते च प्रत्यगात्म.स्वरूपत्वेन ध्येयाः। एते एवार्चनीयाः। मनसा चीयन्ते संपद्यन्त इति मनश्चितः। एवं- वाक्चितः, प्राणचितः, चक्षुश्चितः”- इति ते चाग्नयोऽग्निचयनप्रकरणपठितत्वा.त्कर्मशेषाः, न तु स्वतन्त्रविद्यात्मकाः।
ननु- लिङ्गबला.त्स्वतन्त्रविद्यात्मका भविष्यन्ति, तथाहि- “तान्हैता.नेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते” इति वाक्यशेषः पठ्यते। तस्यायमर्थः- “उपासकस्य स्वपतोऽप्यग्नयो न च्छिन्नाः। स्वकीयमनोवागादिवृत्त्युपरमेऽपि प्रबुद्धपुरुष.मनोवागादिवृत्तीनां सर्वदा प्रवर्तमानत्वात्, अविशेषेण पुरुषमनआदिवृत्तीनाम् अग्नित्वेन वर्णनात्। तस्मात्- एवंविदे स्वपतेऽपि तानेतानग्नी.न्सर्वदा सर्वाणि भूतानि चिन्वन्ति,- इति। अत्र यावज्जीवमग्नीना.मविच्छेदेन नैरन्तर्यं प्रतीयते। तच्च विद्यास्वातन्त्र्ये लिङ्गम्। कर्मशेषत्वे हि- कर्मणो यावज्जीवं नैरन्तर्याभावात्, तच्छेषाणां मनश्चिदादीनां कथं नैरन्तर्यं स्यात्? तच्च लिङ्गं प्रकरणा.द्बलीयः। तस्मात्- स्वतन्त्राः(मनश्चिदादि-अग्न्युपासनाः) इति चेत्। नायं दोषः, अन्यार्थदर्शनरूपत्वेन लिङ्गस्यैतस्य दुर्बलत्वात्। तथाहि- द्विविधं लिङ्गम्- सामर्थ्यम्, अन्यार्थदर्शनं च, इति। तत्र-
विध्युद्देशगतं लिङ्गं सामर्थ्यम्। तच्च स्वातन्त्र्येण प्रमाणम्।
अर्थवादगतन्तु, अन्यशेषवाक्ये दृश्यमानत्वा.दन्यार्थदर्शनम्। तच्च तात्पर्यरहितत्वात्, न स्वातन्त्र्येण प्रमाणम्। किंतु प्रमेयस्तावक.प्रमाणान्तरे केवलमुपोद्बलकं भवति।
एवं च सति, अत्रोदाहृतलिङ्गस्य दुर्बलत्वा.त्प्रकरणा.त्कर्मशेषा मनश्चिदादयः। इति प्राप्ते,

4सिद्धान्तः

उन्नेयविधिगा.ल्लिङ्गा-देव श्रुत्या च वाक्यतः।
बाध्यं प्रकरणं तस्मा-त्स्वतन्त्रं वह्निचिन्तनम्॥ 62॥
ब्रूमः- न तावदत्र शब्दो विधि.रुपलभ्यते, लिङ्गादे.रश्रवणात्। किं तर्हि? अर्थवादसामर्थ्या.दुन्नेयो विधिः। तथा च- फलप्रतिपादकस्तावकवाक्यानां रात्रिसत्रन्यायेनाधिकारिसमर्पणपर्यवसानात्, अशेष.मप्येतद्ब्राह्मणं विधिरूपं भविष्यति। ततो विध्युद्देशगतत्वेन लिङ्गस्य प्राबल्यम्।
किञ्च “ते हैते विद्याचित एव” इत्येव श्रुत्या कर्माङ्गत्वं व्यावर्तते। तथा “विद्यया हैवैत एवंविद.श्चिता भवन्ति” इति वाक्यमपि स्वातन्त्र्यगमकम्। तस्मात्- श्रुतिलिङ्गवाक्यैः प्रकरणं बाधित्वा, स्वतन्त्रविद्यात्मकत्वं मनश्चिदादीना.मभ्युपगन्तव्यम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रदानाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अवस्थाभेदतोऽध्यात्म-मधिदैवं पृथक्श्रुतेः। प्रयोगभेदो राजादि-गुणकेन्द्रप्रदानवत्॥ 60॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.30 ऐकात्म्याधिकरणम्
त्रिंशे आत्मनो देहातिरिक्तत्वाधिकरणे सूत्रे
एक आत्मनः शरीरे भावात्॥3.3.53॥
व्यतिरेक.स्तद्भावाभावित्वा.न्न तूपलब्धिवत्॥3.3.54॥
त्रिंशाधिकरणमारचयति –

1विषयः

आत्मा देह.स्तदन्यो वा चैतन्यं मदशक्तिवत्।

3पूर्वपक्षः

भूतमेलजनं देहे नान्यत्रात्मा वपु.स्ततः॥ 63॥
“मनश्चिदादीनां क्रत्वर्थता नास्ति, किन्तु पुरुषार्थत्वम्” इत्युक्ते सति, “कोऽसौ पुरुषः” इति प्रसङ्गा.द्विचार्यते। तदेतदधिकरणं पूर्वोत्तरयो.रुभयो.र्मीमांसयोः शेषभूतम्, स्वर्गमोक्षभागिन आत्मनः प्रतिपाद्यत्वात्। तत्र बौद्धा लौकायतिकाः- देहः एवात्मा- इति मन्यन्ते। अन्वय.व्यतिरेकाभ्यां चैतन्यस्य देहे एवोपलम्भात्। सति हि देहे, चैतन्य.मुपलभ्यते, न त्वसति।
न च- चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्ते आत्मत्वं शङ्कनीयम्, क्रमुकनागवल्लीचूर्णानां संयोगा.न्मदशक्तिरिव, देहाकारपरिणतेभ्यो भूतेभ्यो जायमनं चैतन्यं, कथं नाम जात्यन्तरं स्यात्? तस्मात्- चेतनो देहः आत्मा। इति प्राप्ते,

4सिद्धान्तः

भूतोपलब्धि.र्भूतेभ्यो विभिन्ना विषयित्वतः।
सैवात्मा भौतिका.द्देहा-दन्योऽसौ परलोकभाक्॥ 64॥
ब्रूमः- पृथिव्यादीनां भूताना.मुपलब्धिः, भूतेभ्यो व्यतिरिक्ता भवितुमर्हति, विषयित्वात्। “यद्यद्विषयि, तत्तद्विषयाद्व्यतिरिक्तं, यथा रूपा.च्चक्षुः।
तथा सति, तादृशचैतन्य.मात्मतत्त्वं वदन्तं प्रति, कथं भौतिकदेहरूपत्व.मापद्येत? सत्येव देहे, चैतन्यमुपलभ्यते, नासति” इति यौ अवन्वयव्यतिरेका.वुक्तौ, तत्र व्यतिरेकोऽसिद्धः, असत्यपि देहे परलोकगामिन.श्चिदात्मनः शास्त्रेणोपलम्भात्। शास्त्रस्य च प्रामाण्यं समर्थनीयम्। सत्यपि मृते देहे, चैतन्यानुपलब्धेश्चान्वयासिद्धिः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “लिङ्गभूयस्त्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उन्नेयविधिगा.ल्लिङ्गा-देव श्रुत्या च वाक्यतः। बाध्यं प्रकरणं तस्मा-त्स्वतन्त्रं वह्निचिन्तनम्॥ 62॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.31 अङ्गावबद्धाधिकरणम्
एकत्रिंशे, उक्थादिधियोः शाखान्तरेऽनुवृत्त्यधिकरणे सूत्रे
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्॥3.3.55॥
मन्त्रादिव.द्वाऽविरोधः॥3.3.56॥
एकत्रिंशाधिकरणमारचयति –

1विषयः

सान्निध्या.त्स्वस्वशाखाङ्गे-ष्वेवासौ व्यवतिष्ठते॥ 65॥

3पूर्वपक्षः

उक्थादिधी.स्स्वशाखाङ्गे-ष्वेवान्यत्रापि वा भवेत्॥
उक्थोद्गीथादिसामान्यं तत्तच्छब्दैः प्रतीयते॥
अङ्गावबद्धोपासनेषु- उक्थशास्त्राख्ये कर्माङ्गपृथिव्यादिदृष्टिः, ऐतरेयोपनिषदि श्रूयते। उक्थं तु कौषीतक्यादिशाखान्तरेष्वपि विहितम्। तत्र- “पृथिव्यादिदृष्टि.रैतरेयगता उक्थे एव व्यवतिष्ठते, उत- कौषीतक्यादिष्वनुवर्तते” इति सन्देहे सति, सन्निहितत्वा.त्स्वशाखायामेव व्यवतिष्ठते। इति प्राप्ते,

4सिद्धान्तः

श्रुत्या च सन्निधे.र्बाध-स्ततोऽन्यत्रापि यात्यसौ॥ 66॥
ब्रूमः- उक्थशब्दस्तावत्, मुख्यया वृत्त्या सर्वशाखागत.मुक्थसामान्य.माचष्टे। तत उक्थश्रुतिवशात्, सर्वशाखागतोक्थशास्त्रेष्वनुवृत्तिः प्राप्ता। श्रुतिश्च सन्निधे.र्बलीयसी। तस्मात्- क्वचिद्विहिता धीः शाखान्तरेष्वनुगच्छति॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ऐकात्म्याधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “भूतोपलब्धि.र्भूतेभ्यो विभिन्ना विषयित्वतः। सैवात्मा भौतिका.द्देहा-दन्योऽसौ परलोकभाक्॥ 64॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.32 भूमज्यायस्त्वाधिकरणम्
द्वात्रिंशे वैश्वानरविद्यायां समस्तोपासनाधिकरणे सूत्रम्
भूम्नः क्रतुव.ज्ज्यायस्त्वम्, तथा हि दर्शयति॥3.3.57॥
द्वात्रिंशाधिकरणमारचयति –

1विषयः

ध्येयो वैश्वानरांशोऽपि ध्यातव्यः कृत्स्न एव वा।

3पूर्वपक्षः

अंशेषूपास्तिफलयो-रुक्ते.रस्त्यंशधीरपि॥ 67॥
वैश्वानरविद्यायां द्युलोक.सूर्य.वाय्वाकाशोदक.पृथिव्याः, विराड्रूप.वैश्वानरस्य मूर्ध-चक्षुः-प्राण-मध्यशरीर-मूत्रस्थान-पादरूपेण ध्यातव्यांशाः निरूपिताः। तेषा.मंशानामपि प्रत्येकं स्वातन्त्र्येणोपासनं विद्यते, उपास्तिशब्दस्य फलकथनस्य च प्रत्येक.मुपलभ्यमानत्वात्।
तथाहि- “औपमन्यव कं त्व.मात्मान.मुपास्से” इति, “दिवमेव भगवो राज.न्निति होवाच” इति प्रश्नोत्तराभ्यां द्युलोकमात्रोपास्ति.रवगम्यते।
तस्मात्- “तव सुतं प्रसुत.मासुतं कुले दृश्यते” इति सुतादिशब्दवाच्यानां सोमयागविशेषाणां सम्पत्तिः फलत्वेनावगम्यते। एव.मंशान्तरेषूदाहर्तव्यम्। सर्वावयव.समष्ट्युपासनं तु “तस्य ह वा एतस्यात्मनो वैश्वानरस्य” इति वाक्यशेषे विस्पष्टं प्रतीयते। तस्मात्- व्यस्तोपासनं समस्तोपासनं चोभयं विवक्षितम्। इति प्राप्ते,

4सिद्धान्तः

उपक्रमावसानाभ्यां समस्तस्यैव चिन्तनम्।
अंशोपास्तिफले स्तुत्यै प्रत्येकोपास्ति.निन्दनात्॥ 68॥
ब्रूमः- समस्तोपासनमेव विवक्षितम्, न तु व्यस्तोपासनम्। कुतः? उपक्रमोपसंहाराभ्या.मेकवाक्यत्वावगमात्।
उपक्रमे तावत् “को न आत्मा? किं ब्रह्म?” इति कृत्स्नमेव ब्रह्म उपास्यत्वेन विचारयितुं प्रक्रान्तम्।
उपसंहारेऽपि “तस्य ह वै”- इत्यादिना समस्तोपासनं विस्पष्ट.मभिधीयते।
तथा च सति- अंशोपास्तिषु पृथगभ्युपगम्यमानासु वाक्यभेदः प्रसज्यते। पृथगुपास्ति.फलकथनं तु कैमुतिकन्यायेन स्तुत्यै भविष्यति।
अथ- बहूपास्तिलाभाय वाक्यभेदोऽप्यभ्युपगम्यते, तदा प्रत्येकोपास्तिनिन्दावचनानि कथं समर्थयेथाः।
निन्द्यन्ते हि प्रत्येकोपास्तयः। “मूर्धा ते व्यपतिष्यत्” इति शिरोमात्रोपासनं निन्द्यते। तस्मात्- समस्तोपासनमेव विवक्षितम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अङ्गावबद्धाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्रुत्या च सन्निधे.र्बाध-स्ततोऽन्यत्रापि यात्यसौ॥ 66॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.33 शब्दादिभेदाधिकरणम्
त्रयस्त्रिंशे शाण्डिल्यादिविद्यानां भिन्नताधिकरणे सूत्रम्
नाना शब्दादिभेदात्॥3.3.58॥
त्रयस्त्रिंशाधिकरणमारचयति –

1विषयः

न भिन्ना उत भिद्यन्ते शाण्डिल्य.दहरादयः।

3पूर्वपक्षः

समस्तोपासनश्रैष्ठ्या-द्ब्रह्मैक्या.दप्यभिन्नता॥ 69॥
छान्दोग्ये शाण्डिल्यविद्यायां मधुविद्येत्यादयः पठिताः। तथा- शाखान्तरेष्वपि। तत्र पूर्वाधिकरणन्यायेन समस्तोपासनस्य श्रेष्ठत्वात्, वेद्यस्य ब्रह्मण एकत्वाच्च, सर्वासा.मेकविद्यात्वम्। इति प्राप्ते,

4सिद्धान्तः

कृत्स्नोपास्ते.रशक्यत्वा-द्गुणै.र्ब्रह्म पृथक्कृतम्।
दहरादीनि भिद्यन्ते पृथक्पृथ.गुपक्रमात्॥ 70॥
ब्रूमः- अनन्तासु विद्यास्वेकीकरणेनानुष्ठानं ताव.दशक्यमिति विद्याभेदोऽभ्युपगन्तव्यः।
न च- वेद्यस्य ब्रह्मण एकत्वं शङ्कनीयम्, गुणभेदेन भेदोपपत्तेः।
नच- एकैकस्या विद्याया इयत्ता निश्चेतु.मशक्या। प्रत्येकमुपक्रमोपसंहारयोः तन्निश्चायकत्वात्। तस्मात्- विद्यानां नानात्वमिति॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “भूमज्यायस्त्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उपक्रमावसानाभ्यां समस्तस्यैव चिन्तनम्। अंशोपास्तिफले स्तुत्यै प्रत्येकोपास्ति.निन्दनात्॥ 68॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.34 विकल्पाधिकरणम्
चतुस्त्रिंशे अहंग्रहविद्यायां विकल्पनियमाधिकरणे सूत्रम्
विकल्पोऽविशिष्टफलत्वात्॥3.3.59॥
चतुस्त्रिंशाधिकरणमारचयति –

1विषयः

अहंग्रहेष्वनियमो विकल्पनियमोऽथवा।

3पूर्वपक्षः

नियामकस्याभावेन याथाकाम्यं प्रतीयताम्॥ 71॥
द्विविधा.न्युपासनानि- अहङ्ग्रहाणि, प्रतीकानि चेति।
आत्मनः सगुणत्वोपासनेष्वहङ्ग्रहस्य चतुर्थाध्याये वक्ष्यमाणत्वात्, तान्यहङ्ग्रहाणि।
अनात्मवस्तुनि देवतादृष्ट्या संस्कृत्योपास्यमानानि प्रतीकानि।
तत्र- अहङ्ग्रहेषु शाण्डिल्यविद्याद्युपासनेषु, एकं द्वे बहूनि चोपासनानि याथाकाम्येनानुष्ठेयानि, विकल्पस्य नियामकाभावात्। न हि “शाण्डिल्योपासनं दहरोपासन.मन्यद्वा, एक.मेवानुष्ठेयं- नेतरम्” इति विकल्पनियमे किञ्चि.त्कारणमस्ति। तस्मात्- याथाकाम्यम्। इति प्राप्ते,

4सिद्धान्तः

ईशसाक्षात्कृते.स्त्वेक-विद्ययैव प्रसिद्धितः।
अन्यानर्थक्यविक्षेपौ विकल्पस्य नियामकौ॥ 72॥
ब्रूमः- अन्यानर्थक्यं ताव.देकं नियामकम्। तथा हि- ईश्वरसाक्षात्कारः उपासनस्य प्रयोजनम्। तच्चैकेनैवोपासनेन सिध्यति, तत्रान्योपासनवैयर्थ्यम्।
किञ्च- उपासनेषु न प्रमाणजन्यः साक्षात्कारः। किं तर्हि? निरन्तरभावनया ध्येय.तादात्म्याभिमानः। स चाभिमानः, एकमुपासन.मनुष्ठाय तत्परित्यज्य, अन्यत्र प्रवर्तमानस्य पुरुषस्य चित्तविक्षेपात्, कथं नाम दृढीभवेत्? तस्मात्- आनर्थक्य.विक्षेपयो.र्नियामकत्वा.द्विकल्पो नियम्यते॥(सर्वेषामनुष्ठेयत्वमुपपन्नम्)

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “शब्दादिभेदाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कृत्स्नोपास्ते.रशक्यत्वा-द्गुणै.र्ब्रह्म पृथक्कृतम्। दहरादीनि भिद्यन्ते पृथक्पृथ.गुपक्रमात्॥ 70॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.35 काम्याधिकरणम्
पञ्चत्रिंशे लौकिकप्रतीकेषु याथाकाम्याधिकरणे सूत्रम्
काम्यास्तु यथाकामं समुच्चीयेरन्, न वा पूर्वहेत्वभावात्॥3.3.60॥
पञ्चत्रिंशाधिकरणमारचयति –

1विषयः

प्रतीकेषु विकल्प.स्स्या-द्याथाकाम्येन वा मतिः।

3पूर्वपक्षः

अहङ्ग्रहेष्विवैतेषु साक्षात्कृत्यै विकल्पनम्॥ 73॥
प्रतीकोपासनेषु पूर्वाधिकरणन्यायः। इति प्राप्ते,

4सिद्धान्तः

देवो भूत्वेतिव.न्नात्र काचित्साक्षात्कृतौ मितिः।
याथाकाम्यमतोऽमीषां समुच्चयविकल्पयोः॥ 74॥
ब्रूमः- अस्त्यत्र महद्वैषम्यम्। “देवो भूत्वा देवा.नप्येति” इति, “जीव.न्नेव भावनाप्रकर्षवशात्, देवसाक्षात्कारं प्राप्य, मृतो देवत्व.मुपैति” इति यथाऽहङ्ग्रहेष्ववगम्यते, न तथा प्रतीकेषु साक्षात्कारफलत्वे किञ्चिन्मान.मस्ति। साक्षात्कारफलत्वाभावे च, तत्र तत्र प्रोक्ता भोग्यवस्तुप्राप्तयः फलत्वेनाभ्युपगन्तव्याः। तथा च सति, भिन्नफलत्वा.न्नान्यानर्थक्यम्।
विक्षेपशङ्का तु दूरापेता। एकं प्रतीकं केषुचित्क्षणेषूपास्य, क्षणान्तरे प्रतीकान्तरोपासने, पूर्वोपास्तिजन्यस्यापूर्वस्याविनाशात्। तस्मात्- विकल्पेनैकमेव वा, बहूनि समुच्चित्य वा, याथाकाम्येन प्रतीक.मुपासितव्यम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विकल्पाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ईशसाक्षात्कृते.स्त्वेक-विद्ययैव प्रसिद्धितः। अन्यानर्थक्यविक्षेपौ विकल्पस्य नियामकौ॥ 72॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.3.36 यथाश्रयभावाधिकरणम्
अङ्गेषु यथाश्रयभावः॥3.3.61॥
शिष्टेश्च॥3.3.62॥
समाहारात्॥3.3.63॥
गुणसाधारण्यश्रुतेश्च॥3.3.64॥
न वा तत्सहभावाश्रुतेः॥3.3.65॥
दर्शनाच्च॥3.3.66॥
षट्त्रिंशाधिकरणमारचयति –

1विषयः

समुच्चितत्वा.दङ्गानां तद्बद्धेषु समुच्चयः॥ 75॥

3पूर्वपक्षः

श्रूयते सहभावोऽत्र याथाकाम्यं ततो भवेत्॥ 76॥
षट्त्रिंशे कर्माङ्गप्रतीकेषु याथाकाम्याधिकरणे सूत्राणि
समुच्चयोऽङ्गबद्धेषु याथाकाम्येन वा मतिः॥
ग्रहं गृहीत्वा स्तोत्रस्या-रम्भ इत्यादिव.न्नहि॥
द्विविधानि प्रतीकानि- लौकिकानि, कर्माङ्गानि च। तत्र लौकिकेषु प्रतीकेषु निर्णयः पूर्वत्रोक्तः।
अत्र कर्माङ्गेषु समुच्चय-याथाकाम्ये विचार्येते। तत्र कर्माणि कर्माङ्गानि समुच्चित्यैवानुष्ठेयतया प्रयोगविधिप्रापितानि। तथा च अङ्गतन्त्रत्वात्, अङ्गावबद्धोपासनानामपि समुच्चयनियमः। इति प्राप्ते,

4सिद्धान्तः

इति वैयासिकन्यायमालायां तृतीयाध्यायस्य तृतीयः पादः॥ 3॥
ब्रूमः- “ग्रहं वा गृहीत्वा, चमसं वोन्नीय, स्तोत्रमुपाकुर्या.त्स्तुत.मनुशंसति” इत्यादौ, यथा ग्रहस्तोत्रशंसनादीनां नियतः पौर्वापर्येण सहभावः श्रुतः, न तथोपासनेषु श्रूयते। तस्मात्- विकल्प.समुच्चययो.र्याथाकाम्यम्॥
तृतीयाध्यायस्य चतुर्थः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “सगुणविद्यासु गुणोपसंहारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “काम्याधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “देवो भूत्वेतिव.न्नात्र काचित्साक्षात्कृतौ मितिः। याथाकाम्यमतोऽमीषां समुच्चयविकल्पयोः॥ 74॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 3, Pāda 2 Contents Adhyāya 3, Pāda 4 →