SŪ सन्ध्ये सृष्टि.राह हि॥3.2.1॥
SŪ निर्मातारं चैके पुत्रादयश्च॥3.2.2॥
SŪ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्॥3.2.3॥
SŪ सूचकश्च हि श्रुतेः, आचक्षते च तद्विदः॥3.2.4॥
SŪ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ॥3.2.5॥
SŪ देहयोगाद्वा सोऽपि॥3.2.6॥
द्वितीयपादे प्रथमाधिकरणमारचयति-
1 विषयः सत्या मिथ्याऽथवा स्वप्न-सृष्टि.स्सत्या श्रुतीरणात्।
3 पूर्वपक्षः जाग्रद्देशाविशिष्टत्वा-दीश्वरेणैव निर्मिता॥ 1॥
प्रथमे स्वप्नसृष्टेर्मिथ्यात्वाधिकरणे सूत्राणि “अथ रथान्, रथयोगान्, पथः सृजते” इति श्रुत्या स्वप्ने रथादीनां सृष्टि.रीरिता। अतो वियदादिसृष्टिव.द्व्यवहारदशायां सत्या भवितुमर्हति। न च- जाग्रद्देशस्य स्वप्नदेशस्य च कंचिद्विशेषं पश्यामः। तत्काले भोजनादीनां तृप्त्याद्यर्थ.क्रियाकारित्वात्। अतो- विमता सृष्टिः सत्या, ईश्वरकर्तृत्वात्, वियदादिसृष्टिवत्। इति प्राप्ते,
4 सिद्धान्तः देशकालाद्यनौचित्या-द्बाधितत्वाच्च सा मृषा। अभावोक्ते.र्द्वैतमात्रा-साम्याज्जीवानुवादतः॥ 2॥
ब्रूमः- स्वप्नसृष्टिर्मृषा। कुतः? तदुचितदेशकालाद्यसंभवात्। न हि केशसहस्रांशपरिमित.नाडीमध्ये गिरिनदीसमुद्रादीना.मुचितो देशोऽस्ति, महानिशीथे शयानस्य सूर्यग्रहणोचितः कालोऽस्ति। नापि- अनुपनीतस्य बालस्य पुत्रोत्सवादिहर्षनिमित्ता.न्युचितानि। किंच- स्वप्नोपलब्धानां पदार्थानां स्वप्न एव बाधो दृश्यते- कदाचित्तरुत्वेनावसीयमानः पदार्थ.स्तदैव गिरित्वेनावसितो भवति। यदुक्तम्- “स्वप्नसृष्टिं श्रुतिर्बूते” इति। तत्र साऽपि श्रुति.रभावपूर्विकामेव सृष्टिमाह- “न तत्र रथाः, न रथयोगाः, न पन्थानो भवन्ति। अथ रथान्, रथयोगान्, पथः सृजन्ते” इति। अतो “वस्तुतोऽसन्तो रथाद्याः शुक्तिका.रजतव.दवभासन्ते” इति श्रुतेरभिप्रायः। यदपि- जाग्रत्साम्यमुक्तम्, तदप्यप्रोजकम्, अनुचितदेशकालादेर्भूयसो वैषम्यस्योक्तत्वात्। यदपि- ईश्वरनिर्मितत्वमुक्तम्, तदप्यसत्- “य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः” इति, जीवस्यैव स्वप्ननिर्मातृत्वेन श्रुत्याऽनूद्यमानत्वात्। तस्मात्- स्वप्नसृष्टि.र्मृषा॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन त्वंपदार्थः शोधितः, उत्तरभागेन तत्पदार्थः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अन्याधिष्ठिताधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति वैयासिकन्यायमालायां तृतीयाध्यायस्य प्रथमः पादः॥ 1॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
द्वितीये सुषुप्तौ जीवस्य हृत्स्थब्रह्मणैक्याधिकरणे सूत्रे
SŪ तदभावो नाडीषु तच्छ्रुते.रात्मनि च॥3.2.7॥
SŪ अतः प्रबोधोऽस्मात्॥3.2.8॥
द्वितीयाधिकरणमारचयति –
1 विषयः समुच्चितानि वैकार्थ्या-द्विकल्प्यन्ते यवादिवत्॥ 3॥
3 पूर्वपक्षः नाडी-पुरीत-द्ब्रह्माणि विकल्प्यन्ते सुषुप्तये॥ समुच्चितानि नाडीभि-रुपसृत्य पुरीतति॥ “आसु तदा नाडीषु सुप्तो भवति” इति श्रुतौ, सुषुप्तिकाले नाडीप्रवेशो गम्यते। “ताभिः प्रत्यवसृप्य पुरीतति शेते” इति श्रुतौ पुरीतति तदाश्रितत्वं प्रतीयते। “य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते” इति श्रुत्यन्तरात् आकाशशब्दवाच्य.ब्रह्माश्रितत्वं प्रतीयते। तान्येतानि नाड्यादिस्थानानि विकल्पितानि भवितुमर्हन्ति, एकप्रयोजनत्वात्। यथा “व्रीहिभिरर्यजते, यवैर्यजेत” इत्यत्र पुरोडाशनिष्पादकत्वस्य प्रयोजनस्यैकत्वेन विकल्प आश्रितः। तथा- अत्रापि सुषुप्त्याख्यं प्रयोजनमेकम्। तस्मात्- “जीवः कदाचित्पुरीतति स्वपिति, कदाचिन्नाडीषु स्वपिति, कदाचिद्ब्रह्मणि” इति नाड्यादीनां विकल्पः। इति प्राप्ते,
4 सिद्धान्तः हृत्स्थे ब्रह्मणि यात्यैक्यं विकल्पे त्वष्टदोषता॥ 4॥
ब्रूमः- एकप्रयोजनत्व.मसिद्धम्, पृथगुपयेगस्य सुवचत्वात्। तथा हि- नाड्यस्तावत् चक्षुरादिषु संचरतो जीवस्य, हृदयनिष्ठं ब्रह्म गन्तुं मार्गभूता भविष्यन्ति। अत एव श्रुत्यन्तरे “ताभिः प्रत्यवसृप्य” इति तृतीयया साधनत्वं नाडीनां श्रुतम्। हदयवेष्टनरूपं तु पुरीतत् प्रासादवत् आवरकं भविष्यति। ब्रह्म तु मञ्चकवत् आधारः। अतो यथा द्वारेण प्रविश्य प्रासादे पर्यङ्के शेते, तथा नाडीभिः प्रत्यवसृप्य पुरीतति ब्रह्मणि जीवः शयिष्यते, इत्युपकारभेदान्नाड्यादीनां समुच्चयः। सुषुप्तौ ब्रह्मणि जीवावस्थाने कुत आधाराधेयभावो न प्रतिभाति? इति चेत्। “एकीभावात्” इति ब्रूमः। यथा- सोदककुम्भस्तडागजले प्रक्षिप्तो मग्नो न पृथग्भाति, तथा अन्तःकरणोपाधिको जीव आवरकाज्ञानसहिते ब्रह्मणि मग्नत्वात्, न पृथगवभासते। अत एव श्रुत्यन्तरे सुषुप्तौ जीवस्य ब्रह्मणा सह तादात्म्यप्रतिपत्तिमाह- “सता सोम्य तदा सम्पन्नो भवति” इति। यस्तु विकल्पः त्वयोक्तः, सोऽष्टदोषग्रस्तत्वा.दनुपपन्नः। तथाहि- यदा जीवो नाडीषु सुप्तो भवति, तदा पुरीतद्ब्रह्मवाक्ययोः प्राप्तं प्रामाण्यं परित्यक्तव्यं स्यात्, अप्राप्तं चाप्रामाण्यं स्वीक्रियेत। यदा- पुनः पुरीतद्ब्रह्मणोः शेते, तदा पुरीतद्ब्रह्मवाक्ययोः पूर्वत्यक्तं प्रामाण्यं स्वीक्रियेत, पूर्वं स्वीकृतं चाप्रामाण्यं परित्यज्येत, इति प्राप्तपरित्यागः, अप्राप्तस्वीकारः, त्यक्तस्वीकारः, स्वीकृतपरित्यागश्च, इति दोषचतुष्टयं पुरीतद्ब्रह्मवाक्यकोटौ। तता नाडीवाक्यकोट्यामपि दोषचतुष्टये योजिते सति अष्टौ दोषाः संपद्यन्ते। तस्मात्- समुच्चय एव ग्राह्यः, नतु विकल्पः॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन त्वंपदार्थः शोधितः, उत्तरभागेन तत्पदार्थः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सन्ध्याधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “देशकालाद्यनौचित्या-द्बाधितत्वाच्च सा मृषा। अभावोक्ते.र्द्वैतमात्रा-साम्याज्जीवानुवादतः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.3
कर्मानुस्मृतिशब्दविध्यधिकरणम्
तृतीये सुप्तस्यैव जागरणाधिकरणे सूत्रम्
SŪ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः॥3.2.9॥
तृतीयाधिकरणमारचयति –
1 विषयः यः कोऽप्यनियमेनात्र बुध्यते सुप्त एव वा।
3 पूर्वपक्षः उदबिन्दुरिवाशक्ते-र्नियन्तुं कोऽपि बुध्यते॥ 5॥
यथा समुद्रे प्रक्षिप्तो यो जलबिन्दुः, स एव नियमेन पुनरुद्धर्तुमशक्यः- तथा सुषुप्तौ ब्रह्म प्राप्तो यो जीवः, स एव बुध्यत इति नियन्तुमशक्यत्वात्- यः कोऽपि बुध्यते। इति प्राप्ते,
4 सिद्धान्तः कर्माविद्यापरिच्छेदा-दुदबिन्दुविलक्षणः। स एव बुध्यते शास्त्रा-त्तदुपाधेः पुनर्भवात्॥ 6॥
ब्रूमः- विषम उपन्यासः। “चिद्रूपो जीवः कर्माविद्यावेष्टितो ब्रह्मणि निमज्जति। उदबिन्दुस्तु आवेष्टितः” इति वैषम्यम्। यथा गङ्गोदकपरिपूर्णः पिहितद्वारः काञ्चनकुम्भः समुद्रे निक्षिप्तः पुनरुद्ध्रियते, तत्रत्यं गङ्गाजलं तदेव पुनर्विवेक्तुं शक्यते, तथा स एव जीवः प्रतिबुध्यताम्। अत एव श्रुतिराह- “त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तदा भवन्ति” इति। “व्याघ्रादयो ये जीवाः सुषुप्तेः पूर्वं- यच्छरीरं प्राप्य वर्तन्ते, त एव जीवाः सुषुप्तेरुपरि प्रबुध्यमानाः तदेव शरीरं प्राप्नुवन्ति” इत्यर्थः। न च- सुषुप्तौ ब्रह्म प्राप्तस्य जीवस्य मुक्तवत् पुनरुद्भवानुपपत्तिः, अवच्छेदकस्योपाधेः सत्त्वेन, तदुद्भवे जीवोद्भवसंभवात्। तस्मात्- यः सुप्तः, स एव प्रतिबुध्यते॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन त्वंपदार्थः शोधितः, उत्तरभागेन तत्पदार्थः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तदभावाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “हृत्स्थे ब्रह्मणि यात्यैक्यं विकल्पे त्वष्टदोषता॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.4
मुग्धेर्धसम्पत्त्यधिकरणम्
चतुर्थे मूर्छाया अवस्थान्तरताधिकरणे सूत्रम्
SŪ मुग्धेऽर्धसंपत्तिः परिशेषात्॥3.2.10॥
चतुर्थाधिकरणमारचयति –
1 विषयः किं मूर्छैका जाग्रदादौ किंवाऽवस्थान्तरं भवेत्।
3 पूर्वपक्षः अन्याऽवस्था न प्रसिद्धा तेनैका जाग्रदादिषु॥ 7॥
जाग्रत्स्वप्नसुषुप्तिभ्योऽन्यस्या अवस्थाया अप्रसिद्धत्वात् मूर्छाया जाग्रदादावन्तर्भावः। इति प्राप्ते,
4 सिद्धान्तः न जाग्रत्स्वप्नयो-रेका द्वैताभाना.न्न सुप्तता। मुखादिविकृते.स्तेना-वस्थाऽन्या लोकसंमता॥ 8॥
ब्रूमः- परिशेषा.दवस्थान्तर.मभ्युपेयम्। न तावज्जाग्रत्स्वप्नयो.रन्तर्भावः, द्वैतप्रतीत्यभावात्। नापि सुषुप्तौ, विलक्षणत्वात्। सुप्तः पुमान्प्रसन्नवदनः समश्वासो निष्कम्पशरीरो भवति, मूर्छितस्तु विकृतमुखो विषमश्वासः शरीरकम्पादियुक्तः। यद्यपि जाग्रदादिवत् दैनंदिनत्वाभावात्, न मूर्छाया बालकादिषु प्रसिद्धिरस्ति, तथाऽपि कादाचित्कीं मूर्छावस्थां विज्ञाय वृद्धाश्चिकित्सन्ते। तस्मात्- अन्येयमवस्था॥ तदेवमधिकरणचतुष्टयेन त्वंपदार्थः शोधितः। तत्र स्वप्नसृष्टे.र्मिथ्यात्वेन सुखदुःखकर्तृत्वाद्यवभासेऽपि जीवोऽसङ्ग एवेति शोधितम्। सुषुप्तौ ब्रह्मैक्येन तदेवासङ्गत्वमनुभावितम्। तस्यैव पुनः प्रतिबोधेनानित्यत्वाशङ्का निराकृता। मूर्छाविचारेण श्वासादिसर्वव्यवहारलोपेऽपि मरणे जीवनाशो नाशङ्कनीयः इति दर्शितम्॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन त्वंपदार्थः शोधितः, उत्तरभागेन तत्पदार्थः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “कर्मानुस्मृतिशब्दविध्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कर्माविद्यापरिच्छेदा-दुदबिन्दुविलक्षणः। स एव बुध्यते शास्त्रा-त्तदुपाधेः पुनर्भवात्॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि॥3.2.11॥
SŪ न भेदादिति चे.न्न प्रत्येक.मत.द्वचनात्॥3.2.12॥
SŪ अपि चैवमेके॥3.2.13॥
SŪ अरूपव.देव हि तत्प्रधानत्वात्॥3.2.14॥
SŪ प्रकाशवच्चावैयर्थ्यम्॥3.2.15॥
SŪ आह च तन्मात्रम्॥3.2.16॥
SŪ दर्शयति चाथो अपि स्मर्यते॥3.2.17॥
SŪ एत एव चोपमा सूर्यकादिवत्॥3.2.18॥
SŪ अम्बुव.दग्रहणात्तु न तथात्वम्॥3.2.19॥
SŪ वृद्धिह्रासभाक्त्व.मन्तर्भावा.दुभयसामञ्जस्या.देवम्॥3.2.20॥
SŪ दर्शनाच्च॥3.2.21॥
पञ्चमाधिकरणमारचयति –
1 विषयः ब्रह्म किं रूपि चारूपं भवे-न्नीरूपमेव वा।
3 पूर्वपक्षः द्विविधश्रुतिसद्भावा-द्ब्रह्म स्या.दुभयात्मकम्॥ 9॥
पञ्चमे ब्रह्मणो नीरूपत्वाधिकरणे सूत्राणि “तदेतच्चतुष्पाद्ब्रह्म” इत्यादिश्रुतयो रूपवद्ब्रह्म प्रतिपादयन्ति। “अस्थूलमनणु”- इत्यादिश्रुतयो नीरूपम्। तस्मात्- वस्तुत उभयात्मकं ब्रह्म। इति प्राप्ते,
4 सिद्धान्तः नीरूपमेव वेदान्तैः प्रतिपाद्य.मपूर्वतः। रूपं त्वनूद्यते भ्रान्त-मुभयत्वं विरुध्यते॥ 10॥
ब्रूमः- नीरूपमेव शास्त्रप्रतिपाद्यम्, मानान्तरासिद्धत्वात्। जगत्कर्तृत्वादिरूपयुक्तं तु ब्रह्म “क्षित्यादिकं सकर्तृकं, कार्यत्वात्” इत्यनुमानेनाप्यवगन्तुं शक्यते। अत एव उपासनायानूद्यते, न तु तात्पर्येण प्रतिपाद्यते। न च- अनुमानशास्त्रसिद्धयो.रुभयोः वास्तवत्वम्, एकस्मिन्वस्तुनि सरूपत्व-नीरूपत्वयोः विरुद्धत्वात्। तस्मात्- अतात्पर्यविषयस्य सरूपत्वस्य भ्रान्तत्वात् नीरूपमेव वस्तुतो ब्रह्म॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन त्वंपदार्थः शोधितः, उत्तरभागेन तत्पदार्थः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “मुग्धेर्धसम्पत्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न जाग्रत्स्वप्नयो-रेका द्वैताभाना.न्न सुप्तता। मुखादिविकृते.स्तेना-वस्थाऽन्या लोकसंमता॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.2.6
प्रकृतैतावत्वाधिकरणम्
SŪ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः॥3.2.22॥
SŪ तदव्यक्तमाह हि॥3.2.23॥
SŪ अपि संराधने प्रत्यक्षानुमानाभ्याम्॥3.2.24॥
SŪ प्रकाशादिव.च्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात्॥3.2.25॥
SŪ अतोऽनन्तेन तथा हि लिङ्गम्॥3.2.26॥
SŪ उभयव्यपदेशा.त्त्वहिकुण्डलवत्॥3.2.27॥
SŪ प्रकाशाश्रयवद्वा तेजस्त्वात्॥3.2.28॥
SŪ पूर्ववद्वा॥3.2.29॥
SŪ प्रतिषेधाच्च॥3.2.30॥
षष्ठाधिकरणमारचयति –
1 विषयः ब्रह्मापि नेति नेतीति निषिद्ध.मथवा न हि।
3 पूर्वपक्षः द्विरुक्त्या ब्रह्मजगती निषिध्येते उभे अपि॥ 11॥
षष्ठे ब्रह्मणो निराकरणाविषयत्वाधिकरणे सूत्राणि “द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च” इत्येतस्मिन्ब्रह्मणो महता प्रबन्धेन पृथिव्यप्तेजोलक्षणं मूर्तरूपं, वाय्वाकाशलक्षण.ममूर्तरूपं प्रपञ्च्य, तदन्ते ब्रह्म उपदेष्टु.मिदमुक्तम्- “अथात आदेशो नेति नेति” इति। अस्यायमर्थः- अथ रूपद्वयकथनानन्तर.मरूपिणो ब्रह्मणो वक्तव्यत्वात्, “नेति, नेति” इत्ययं ब्रह्मोपदेशः इति। तत्र पूर्वपक्षी मन्यते- प्रथमनेतिशब्देन जगत एकस्यैव निषेध्यत्वे, द्वितीयो “नेति” शब्दो निरर्थकः स्यात्। अतो द्वितीयेन ब्रह्मापि निषिध्यते।इति प्राप्ते,
4 सिद्धान्तः वीप्सेय.मितिशब्दोक्ता सर्वदृश्यनिषिद्धये। अनिदं सत्यसत्यं च ब्रह्मैकं शिष्यतेऽवधिः॥ 12॥
ब्रूमः- न ताव.द्द्वितीयस्य निषेधस्य वैयर्थ्यम्, वीप्सार्थत्वात्। सत्यां च वीप्सायां यद्य.द्दृश्यते, इतिशब्दनिर्देशार्हं च, तत्सर्वं ब्रह्म न भवति- इति निषिद्धं भविष्यति। विना तु वीप्सा.मेकेन नकारेण मूर्तामूर्तयोः प्रकृतत्वेन इतिशब्दनिर्देशार्हयोर्निषेधे सति, मूर्ताद्यभावस्य मूलाज्ञानस्य चानिषिद्धत्वात्, तयोर्ब्रह्मत्वं प्रसज्येत। ननु- सत्यामपि वीप्साया.मस्त्येव दोषः, वीप्साया निरङ्कुशत्वात् ब्रह्मापि निषिध्यते- इति। तन्न, ब्रह्मणो दृश्यत्वाभावेन निषेध्यसमर्पकेतिशब्दा.नर्हत्वात्। किंच- “अथात आदेशः” इति महता संरम्भेण ब्रह्मोपदेष्टुं प्रतिज्ञाय, तदेव ब्रह्म निषेधन्ती श्रुतिः कथं न व्याहन्येत? वाक्यशेषश्च न ब्रह्मनिषेधे सङ्गच्छते। वाक्यशेषे च “अथ नामधेयं सत्यस्य सत्यम्” इत्यादिना विवक्षितस्य ब्रह्मणो लौकिकसत्या-द्रि-गिरि-नदी-समुद्रादे.रधिकमात्यन्तिकं सत्यत्वं सूचयितुं नाम निर्दिष्टम्। सर्वनिषेधपक्षे सर्वमप्येतत्कदर्थितं स्यात्। तस्मात्- न ब्रह्म निषिध्यते॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन त्वंपदार्थः शोधितः, उत्तरभागेन तत्पदार्थः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “उभयलिङ्गाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नीरूपमेव वेदान्तैः प्रतिपाद्य.मपूर्वतः। रूपं त्वनूद्यते भ्रान्त-मुभयत्वं विरुध्यते॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः॥3.2.31॥
SŪ सामान्यात्तु॥3.2.32॥
SŪ बुद्ध्यर्थः पादवत्॥3.2.33॥
SŪ स्थानविशेषात्प्रकाशादिवत्॥3.2.34॥
SŪ उपपत्तेश्च॥3.2.35॥
SŪ तथाऽन्यप्रतिषेधात्॥3.2.36॥
SŪ अनेन सर्वगतत्व.मायामशब्दादिभ्यः॥3.2.37॥
सप्तमाधिकरणमारचयति –
1 विषयः वस्त्वन्यद्ब्रह्मणो नो वा विद्यते ब्रह्मणोऽधिकम्।
3 पूर्वपक्षः सेतुत्वोन्मानवत्त्वाच्च सम्बन्धाद्भेदवत्त्वतः॥ 13॥
सप्तमे ब्रह्मातिरिक्तवस्तुनिराकरणाधिकरणे सूत्राणि यदेतद्ब्रह्म “नेति नेति” इति दृश्यप्रतिषेधेन व्यवस्थापितम्, तस्मादपि ब्रह्मणोऽन्यद्वस्त्वस्ति- इत्यभ्युपगन्तव्यम्। कुतः? सेतुत्वादिव्यपदेशेभ्यः। “अथ य आत्मा स सेतु.र्विधृतिः” इति सेतुत्वं व्यपदिश्यते। तत्र यथा लोके पारावारवान्, जलस्य विधारकः सेतुः, तं च सेतुं तीर्त्वा, द्वितीयं जगज्जालं प्रतिपद्यते। तथा- ब्रह्मणोऽपि सेतुत्वेन जगद्विधारकत्वात्, ब्रह्म तीर्त्वा गन्तव्येनान्येन केनचिद्भवितव्यम्। तथा- उन्मानव्यपदेशोऽपि ब्रह्मणः श्रूयते- “चतुष्पाद्ब्रह्म, षोडशकलं ब्रह्म” इति। तच्चोन्मानं सद्वितीये गवादौ दृष्टचरम्, न त्वद्वितीये कुत्रचित्। तथा सम्बन्धव्यपदेशोऽपि ब्रह्मणः श्रूयते- “सता सोम्य तदा सम्पन्नो भवति” इति। स च सम्बन्धः सद्रूपाद्ब्रह्मणोऽन्यस्य विद्यमानताया.मवकल्प्यते। तथा- “आत्मा वा अरे द्रष्टव्यः” इति द्रष्टृ-द्रष्टव्य-भेदव्यपदेशोऽपि। तस्मात्- नाद्वितीयं ब्रह्म। इति प्राप्ते,
4 सिद्धान्तः धारणात्सेतुतोन्मान-मुपास्त्यै भेदसंगती। उपाध्युद्भवनाशाभ्यां नान्यदन्यनिषेधतः॥ 14॥
ब्रूमः- न ताव.द्ब्रह्मणः सेतुत्वं मुख्यं सम्भवति, मृद्दारुमयत्वप्रसङ्गात्। केनचित्सेतुसामान्येन सेतुत्वविवक्षायां विधारकत्वमात्रं विवक्षितम्। न तु- सद्वितीयत्वम्, “सेतुर्विधृतिः” इति श्रवणात्। उन्मानं तु, उपास्त्यै व्यपदिश्यते, तत्प्रकरणत्वात्। न तु तत्त्वावबोधार्थम्। भेदव्यपदेशश्च उपाध्युद्भवमपेक्ष्य, घटाकाश-महाकाशव.दुपपद्यते। सम्बन्धव्यपदेशश्च उपाधिनाश.मपेक्ष्य घटभङ्गे घटाकाश-महाकाश.वदुपचर्यते। तस्मात्- ब्रह्मव्यतिरिक्तवस्तुसाधकहेतूनाम् अन्यथासिद्धत्वात् “एकमेवाद्वितीयं ब्रह्म” इत्यन्यवस्तुनिषेधाच्च, अद्वितीयमेव ब्रह्म॥
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन त्वंपदार्थः शोधितः, उत्तरभागेन तत्पदार्थः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रकृतैतावत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वीप्सेय.मितिशब्दोक्ता सर्वदृश्यनिषिद्धये। अनिदं सत्यसत्यं च ब्रह्मैकं शिष्यतेऽवधिः॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪ फल.मत उपपत्तेः॥3.2.38॥
SŪ श्रुतत्वाच्च॥3.2.39॥
SŪ धर्मं जैमिनि.रत एव॥3.2.40॥
SŪ पूर्वं तु बादरायणो हेतुव्यपदेशात्॥3.2.41॥
अष्टमाधिकरणमारचयति –
1 विषयः कर्मैव फलदं यद्वा कर्माराधित ईश्वरः। अपूर्वावान्तरद्वारा कर्मणः फलदातृता॥ 15॥
3 पूर्वपक्षः अचेतना.त्फलासूतेः शास्त्रीया.त्पूजितेश्वरात्। कालान्तरे फलोत्पत्ते-र्नापूर्वपरिकल्पना॥ 16॥
अष्टमे कर्माराधितेश्वरस्यैव फलदातृत्वाधिकरणे सूत्राणि अनुक्षणविनाशिनोऽपि कर्मणः अपूर्वव्यवधानेनापि कालान्तरभावि.फलदातृत्वसम्भवात् ईश्वरकल्पने गौरवम्। इति प्राप्ते,
4 सिद्धान्तः इति वैयासिकन्यायमालायां तृतीयाध्यायस्य द्वितीयः पादः॥ 2॥
ब्रूमः- अचेतनस्य कर्मणोऽपूर्वस्य वा तारतम्येन प्रतिनियतं फलं दातुं न सामर्थ्य.मस्ति, लोके सेवादिक्रियाया.मचेतनायां त.ददर्शनात्। ततः सेवितराजवत् पूजितेश्वरा.त्फलसिद्धि.रभ्युपेया। नच- कल्पनागौरवम्, शास्त्रसिद्धत्वेन ईश्वरस्याकल्पनीयत्वात्। “एष ह्येव साधु कर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषति। एष उ एवासाधु कर्म कारयति तम्, यमधो निनीषते” इति श्रुतिः ईश्वरस्यैव धर्माधर्मयोः फलदातृत्वम्, तत्कारयितृत्वं चाभिदधाति। सति चेश्वरस्य प्रामाणिकत्वे, प्रत्युत तवैव अश्रुतस्यापूर्वस्य कल्पने गौरवं भवेत्। तस्मात्- कर्मभि.राराधित ईश्वरः फलदाता॥ तदेवमधिकरणचतुष्टयेन तत्पदार्थः शोधितः। तत्र प्रथमेन ब्रह्मणो नीरूपत्वम्, द्वितीयेन निषेधाविषयत्वम्, तृतीयेनाद्वितीयत्वम्, चतुर्थेन व्यवहारदशायां कर्मफलदातृत्वम्, शाखाग्रचन्द्रन्यायेन उपलक्षणत्वाय प्रतिपादितम्। इत्येवं तत्- त्वंपदार्थौ शोधितौ इति स्थितम्॥ तृतीयाध्यायस्य तृतीयः पादः
5 सङ्गतिः ऊहिता शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन त्वंपदार्थः शोधितः, उत्तरभागेन तत्पदार्थः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “धारणात्सेतुतोन्मान-मुपास्त्यै भेदसंगती। उपाध्युद्भवनाशाभ्यां नान्यदन्यनिषेधतः॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
Set from the transmitted text; four limbs are the source, the fifth is inferred and marked.
Sanātana Guru Sampradāya Pratiṣṭhānam, Mysore · sarvaveda.info