द्वितीये मनसः प्राणे लयाधिकरणे सूत्रम्
SŪतन्मतः प्राम उत्तरात्॥4.2.3॥
द्वितीयाधिकरणमारचयति –
1विषयः
मनः प्राणे स्वयं वृत्त्या वा लीयेत, स्वयं यतः।
3पूर्वपक्षः
कारणान्नोदकद्वारा प्राणो हेतु.र्मनः प्रति॥ 3॥
वागादिषु मनसि वृत्त्या प्रलीनेषु, तन्मनः प्राणे स्वरूपेण लय.मर्हति, मनः प्रति प्राणस्योपादानत्वसंभवात्। तथा हि- “अन्नमयं हि सोम्य मनः” इति श्रुतेः- मनसोऽन्नं कारणम्, “आपोमयः प्राणः” इति श्रुतेश्च- प्राणस्यापः कारणम्। तथा सति मनःप्राणशब्दाभ्यां तत्कारणे अन्नोदके उपलक्ष्य, “मनः प्राणे लीयते” इतिवाक्यस्य “अन्नमप्सु लीयते” इत्यर्थो व्याख्यातव्यः। तथा च कार्यस्य स्वोपादाने लयो भविष्यति। तस्मात्- मनसः स्वरूपेण लयः। इति प्राप्ते,
4सिद्धान्तः
साक्षात्स्वहेतौ लीयेत कार्यं प्राणालिके न तु।
गौणः प्राणालिको हेतु-स्ततो वृत्तिलयो धियः॥ 4॥
ब्रूमः- द्विविध.मुपादानम्- मुख्यं, प्राणालिकं च। तत्र प्राणमनसो.र्मृद्घटयोरिव न मुख्य उपादानोपादेयभावोऽस्ति। किं तर्हि? त्वदुक्तप्रकारेण संबन्धपरम्परया प्रणाल्या। नहि प्राणालिके उपादाने कार्यस्य लयं क्वचि.त्पश्यामः। तस्मात्- मनसः प्राणे साक्षा.दनुपादाने, वृत्त्या प्रविलयो द्रष्टव्यः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “इतरक्षपणाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति वैयासिकन्यायमालायां चतुर्थ्याध्यायस्य प्रथमः पादः॥ 1॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪसोऽध्यक्षे तदुपगमादिभ्यः॥4.2.4॥
SŪभूतेष्वतः श्रुतेः॥4.2.5॥
SŪनैकस्मि.न्दर्शयतो हि॥4.2.6॥
तृतीयाधिकरणमारचयति –
1विषयः
असो.र्भूतेषु जीवे वा लयो, भूतेषु तच्छ्रुतेः।
3पूर्वपक्षः
स प्राण.स्तेजसीत्याह न तु जीव इति क्वचित्॥ 5॥
तृतीये प्राणानां जीवे लयाधिकरणे सूत्राणि
अन्तर्लीनैकादशेन्द्रिययुक्तस्य प्राणस्य तेजोबन्नेषु भूतेषु वृत्त्या प्रविलयः। न तु जीवे, “प्राण.स्तेजसि” इति श्रुतेः। इति प्राप्ते,
4सिद्धान्तः
एव .मेवेम.मात्मानं प्राणा यन्तीति च श्रुतेः।
जीवे लीत्वा सहैतेन पुनर्भूतेषु लीयते॥ 6॥
ब्रूमः- “एवमेव इम.मात्मान.मन्तकाले सर्वे प्राणा अभिसमायन्ति” इति श्रुतिः, जीवे प्राणलय.माह। “यथा राजानं प्रयियासन्तं सर्वे भृत्याः समायन्ति, तद्वत्” इति श्रुते.रर्थः। न च “प्राण.स्तेजसि” इति श्रुत्या विरोधः, “जीवेन सहितः प्राणः, पश्चा.त्तेजआदिभूतेषु लीयते” इति व्याख्यातुं, शक्यत्वात्। तस्मात्- प्राणो जीवे प्रथमतो लयं प्राप्य, पश्चा.त्तद्द्वारा भूतेषु लीयते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “मनोधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “साक्षात्स्वहेतौ लीयेत कार्यं प्राणालिके न तु। गौणः प्राणालिको हेतु-स्ततो वृत्तिलयो धियः॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.3
आसृत्युपक्रमाधिकरणम्
SŪसमाना चासृत्युपक्रमा.दमृतत्वं चानुपोष्य॥4.2.7॥
1विषयः
ज्ञान्यज्ञोत्क्रान्ति.रसमा समा वा, न हि सा समा।
3पूर्वपक्षः
मोक्षसंसाररूपस्य फलस्य विषमत्वतः॥ 7॥
चतुर्थे ज्ञान्यज्ञानिनो.रुत्क्रान्तिसामान्याधिकरणे सूत्रम् -)
चतुर्थाधिकरणमारचति –
“निर्गुणब्रह्मज्ञानिनस्ताव.दुत्क्रान्तिरेव नास्ति”- इति वक्ष्यति। या तु सगुणब्रह्मज्ञानिनः उत्क्रान्तिः, नासा.वज्ञान्युत्क्रान्त्या समाना, ब्रह्मलोकरूपस्य मोक्षस्य, तद्विपरीतसंसारस्वरूपस्य च फलस्य विषमत्वेन, तत्प्राप्तिद्वारभूतायाः उत्क्रान्ते.र्वैषम्यस्योचितत्वात्। इति प्राप्ते,
4सिद्धान्तः
आसृत्युपक्रमं जन्म वर्तमान.मत.स्समा।
पश्चात्तु फलवैषम्या-दसमोत्क्रान्ति.रेतयोः॥ 8॥
ब्रूमः- सगुणज्ञानिनो मूर्धन्य.नाडीप्रवेशः, उत्तरमार्गोपक्रमः, ज्ञानरहितस्य नाड्यन्तरप्रवेशो मार्गान्तरोपक्रमः। मार्गपर्यन्त.मिदमेव वर्तमानं जन्म। अतः ऐहिकसुखदुःखव.दुत्क्रान्ति.रपि समाना। उपक्रान्ते तु मार्गे, त्वदुक्तफलभेदा.द्वैषम्यमस्तु॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अध्यक्षाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एव .मेवेम.मात्मानं प्राणा यन्तीति च श्रुतेः। जीवे लीत्वा सहैतेन पुनर्भूतेषु लीयते॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
4.2.4
संसारव्यपदेशाधिकरणम्
SŪतदाऽपीतेः संसारव्यपदेशात्॥4.2.8॥
SŪसूक्ष्मप्रमाणतश्च तथोपलब्धेः॥4.2.9॥
SŪनोपमर्देनातः॥4.2.10॥
SŪअस्यैव चोपपत्तेरेष ऊष्मा॥4.2.11॥
पञ्चमाधिकरणमारचयति –
1विषयः
स्वरूपेण लयो युक्त-स्स्वोपादाने परात्मनि॥ 9॥
3पूर्वपक्षः
पञ्चमे, उपासकस्य ब्रह्मणि स्वरूपेण लयनिराकरणाधिकरणे सूत्राणि
स्वरूपेणाथ वृत्त्या वा भूतानां विलयः परे॥
आत्मज्ञस्य तथात्वेऽपि वृत्त्यैवान्यस्य तल्लयः॥
“तेजः परस्यां देवतायाम्” इत्यत्र, तेजःप्रभृतीनां भूतानां परमात्मनि स्वरूपेण लयो युज्यते, परमात्मनो भूतोपादानत्वात्। इति प्राप्ते,
4सिद्धान्तः
न चेत्कस्यापि जीवस्य न स्या.ज्जन्मान्तरं क्वचित्॥ 10॥
ब्रूमः- आत्मतत्त्वज्ञानिन.स्त्वदुक्तप्रकारेण भूतानां स्वरूपेण लयोऽस्तु, तस्य निर्णेष्यमाणत्वात्। उपासकस्य कर्मिणश्च जन्मान्तरसिद्धये, वृत्तिलयः एवाभ्युपगन्तव्यः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आसृत्युपक्रमाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आसृत्युपक्रमं जन्म वर्तमान.मत.स्समा। पश्चात्तु फलवैषम्या-दसमोत्क्रान्ति.रेतयोः॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪप्रतिषेधादिति चेन्न शारीरात्॥4.2.12॥
SŪस्पष्टो ह्येकेषाम्॥4.2.13॥
SŪस्मर्यते च॥4.2.14॥
षष्ठाधिकरणमारचयति –
1विषयः
किं जीवा.दथवा देहा-त्प्राणोत्क्रान्ति.र्निवार्यते।
3पूर्वपक्षः
जीवा.न्निवारणं युक्तं जीवे.द्देहोऽन्यथा सदा॥ 11॥
षष्ठे ज्ञानिनः प्राणानां देहा.दनुत्क्रान्त्यधिकरणे सूत्राणि
“न तस्य प्राणा उत्क्रामन्ति” इति तत्त्वविदः प्राणाना.मुत्क्रान्ति.र्निषिध्यते। तस्य निषेधस्यापादानं जीवः, न तु देहः। अन्यथा देहा.दनुत्क्रान्तौ मरणाभावः प्रसज्येत। इति प्राप्ते,
4सिद्धान्तः
तप्ताश्मजलव.द्देहे प्राणानां विलय.स्स्मृतः।
उच्छ्वयत्येव देहोऽन्ते देहा.त्सा विनिवार्यते॥ 12॥
ब्रूमः- तप्ताश्मनि प्रक्षिप्तं जलं, न यथाऽन्यत्र गच्छति, नापि तत्र दृश्यते, किंतु स्वरूपेण लीयते। तद्वत् तत्त्वविदः प्राणाः देहा.दनुत्क्रान्ता अपि, न देहेऽवतिष्ठन्ते, किन्तु विलीयन्ते। अतो जीवनासंभवात् “मृतो देहः” इति व्यवहारः। अनुत्क्रान्तानां प्राणानां देहावस्थानाभावे, देहस्योच्छूनत्वमेव लिङ्गम्।
ननु- इयतः प्रयासा.द्वरं देहा.दुत्क्रान्तिरस्तु, प्रतिषेधस्तु जीवापादानको भविष्यति। मैवम्, देहा.दुत्क्रान्तस्य जीवेन सहावस्थितेषु प्राणेषु, देहा.न्तरग्रहणस्यावश्यकत्वात्, मुक्तिरेव न स्यात्। तस्मात्- उत्क्रान्तिप्रतिषेधस्य देहः एवापादानं, न जीवः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “संसारव्यपदेशाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न चेत्कस्यापि जीवस्य न स्या.ज्जन्मान्तरं क्वचित्॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
सप्तमे तत्त्ववि.त्प्राणानां परमात्मन्येव लयाधिकरणे सूत्रम्
SŪतानि परे तथा ह्याह॥4.2.15॥
सप्तमाधिकरणमारचयति –
1विषयः
ज्ञस्य वागादय.स्स्वस्व-हेतौ लीनाः परेऽथ वा।
3पूर्वपक्षः
गताः कला इति श्रुत्या स्वस्वहेतुषु तल्लयः॥ 13॥
तत्त्वज्ञानिनो वागादयः प्राणाः, विलीयमानाः प्रातिस्विके.ष्वग्न्याद्यधिकरणेषु विलीयन्ते, न तु परमात्मनि, “गताः कलाः पञ्चदश प्रतिष्ठाः” इति कलाशब्दवाच्यानां प्राणादीनां प्रतिष्ठाशब्दवाच्य.स्वस्वकारणप्राप्ति.प्रतिपादकत्वात्। “यत्रास्य पुरुषस्याग्निं वागप्येति, वातं प्राणः, चक्षु.रादित्यम्” इत्यादि श्रुतेः। इति प्राप्ते,
4सिद्धान्तः
नद्यब्धिलयसाम्योक्ते-र्विद्वद्दृष्ट्या लयः परे।
अन्यदृष्टिपरं शास्त्रं गता इत्या.द्युदाहृतम्॥ 14॥
ब्रूमः- तत्त्वविदो दृष्ट्या, परमात्मन्येव लयः- इति श्रुत्यन्तरा.न्निश्चीयते। “यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय, तथा विद्वा.न्नामरूपा.द्विमुक्तः परात्परं पुरुष.मुपैति दिव्यम्” इति श्रुतौ नद्यब्धिलयदृष्टान्तः उपन्यस्यते।
अथ- दार्ष्टान्तिके परमात्मनि लयः, इत्ययमर्थो न विशदः। तर्हि श्रुत्यन्तरे विशदो गम्यते- “यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे , “समुद्रः इत्येवं प्रोच्यते, एवमेवास्य परिद्रष्टु.रिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, पुरुषः इत्येवं प्रोच्यते” इति।
भिद्येते विलीयेते। सेयं श्रुति.स्तत्त्वविद्दृष्टिविषया। “गताः कलाः” इति शास्त्रं तु तटस्थपुरुषप्रतीति.विषयम्। म्रियमाणे तत्त्वविदि, समीपवर्तिनः पुरुषाः, स्वस्वदृष्टान्तेन तदीय.वागादीना.मप्यग्न्यादिषु लयं मन्यन्ते। अतः श्रुत्योर्न विरोधः। तस्मात्- परमात्मनि तत्त्वविदः प्राणानां लयः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रतिषेधाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “तप्ताश्मजलव.द्देहे प्राणानां विलय.स्स्मृतः। उच्छ्वयत्येव देहोऽन्ते देहा.त्सा विनिवार्यते॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अष्टमे तत्त्ववि.द्वागादिलयस्य निश्शेषत्वाधिकरणे सूत्रम्
SŪअविभागो लोकवत्॥4.2.16॥
अष्टमाधिकरणमारचयति –
1विषयः
तल्लय.श्शक्तिशेषेण नि.श्शेषेणाथवाऽत्मनि।
3पूर्वपक्षः
शक्तिशेषेण युक्तोऽसा-वज्ञानि.ष्वेतदीक्षणात्॥ 15॥
पूर्वाधिकरणे उक्तो लयो न निश्शेषः, किंतु सावशेषो भवितु.मर्हति, वागादिलयत्वात्, अज्ञानि.वागादिलयवत्। इति प्राप्ते,
4सिद्धान्तः
नामरूपविभेदोक्ते-र्निश्शेषेणैव तल्लयः।
अज्ञे जन्मान्तरार्थं तु शक्तिशेषत्व.मिष्यते॥ 16॥
ब्रूमः- “भिद्येते तासां नामरूपे” इत्यत्र, जीवस्य याः षोडशकलाः संसारहेतवः, तासां कलानां नामरूपविभेदः श्रूयते। कलाश्च वाक्योपक्रमेऽनुक्रान्ताः- “स प्राण.मसृजत, प्राणा.च्छ्रद्धां खं वायु.र्ज्योति.रापः पृथिवीन्द्रियं मनोऽन्नम्, अन्ना.द्वीर्यं तपो मन्त्राः कर्म लोकाः, लोकेषु च नाम च” इति।
यदि प्राणादीनां नामान्तानां नामरूपे शक्त्यवशेषेण लीयेते, तदा नामरूपविभेदश्रुति.रुपरुध्येत, शक्त्यात्मना नामरूपयोः सूक्ष्मयो.रवस्थानात्। अज्ञानिनस्तु जन्मान्तरसिद्धये शक्त्यवशेषत्व.मिष्यते। तस्मात्- तत्त्वविदो वागादीनां निश्शेषेण परमात्मनि लयः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “वागादिलयाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नद्यब्धिलयसाम्योक्ते-र्विद्वद्दृष्ट्या लयः परे। अन्यदृष्टिपरं शास्त्रं गता इत्या.द्युदाहृतम्॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
नवमे उपासकोत्क्रान्ते.र्विशेषाधिकरणे सूत्रम्
SŪतदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्, तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया॥4.2.17॥
नवमाधिकरणमारचयति –
1विषयः
हृत्प्रद्योतनसाम्योक्ते-रविशेषोऽन्यनिर्गमात्॥ 17॥
3पूर्वपक्षः
अविशेषो विशेषो वा स्या.दुत्क्रान्ते.रुपासितुः॥
मूर्धन्ययैव नाड्याऽसौ व्रजे.न्नाडीविचिन्तनात्॥
उपासकस्य येय.मुत्क्रान्तिः, सेय.मितरोत्क्रान्त्या मार्गोपक्रमपर्यन्तं समा- इत्युक्तम्। अथ मार्गोपक्रमेऽपि समैव भवितु.मर्हति, हृत्प्रद्योतनादेः समत्वश्रवणात्।
तथा हि- “तस्य हैतस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्योतेनैष आत्मा निष्क्रामति, चक्षुषो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यः” इति श्रूयते। अस्यायमर्थः- “वाङ्मनसि सम्पद्यते” इति क्रमेण, सजीवं लिङ्गशरीरं शक्त्यवशेषं परमात्मनि यदा लीयते, तदा पूर्वजन्म समाप्तं भवति। अथ जन्मान्तराय तल्लिङ्गं पुनर्हृदये प्रादुर्भवति, तस्मि.न्नवसरे हृदयाग्रेऽवस्थितस्य लिङ्गस्य गन्तव्य.भाविजन्मालोचकात्मकोऽन्त्यप्रत्ययत्वेन लोके प्रसिद्धः कश्चित्प्रद्योतो भवति। तेन युक्त.स्सन्, नाडीभ्यो निर्गच्छति इति। एतच्च सर्वेषां समानम्। तस्मात्- नोपासकस्येतरेभ्यो विशेषः। इति प्राप्ते,
4सिद्धान्तः
विद्यासामर्थ्यतश्चापि विशेषोऽस्त्यन्यनिर्गमात्॥ 18॥
ब्रूमः- मूर्धन्ययैव नाड्योपासको निर्गच्छति, इतराभ्य एव नाडीभ्य इतरे। कुतः? उपासकेन मूर्धन्यनाड्या.श्चिन्तितत्वात्। सगुणब्रह्मविद्यासामर्थ्याच्च। श्रुत्यन्तरे चायमर्थः स्पष्टमेव गम्यते –
“शतं चैका च हृदयस्य नाड्य-स्तासां मूर्धान.मभिनिस्सृतैका।
तयोर्ध्व.माय.न्नमृतत्व.मेति विष्वङ्ङन्या उत्क्रमणे भवन्ति”
इति “अन्या नाड्य उत्क्रमणायोपयुज्यन्ते, न त्वमृतत्वप्राप्तये” इत्यर्थः। तस्मात्- अस्त्युपासकस्य विशेषः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अविभागाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नामरूपविभेदोक्ते-र्निश्शेषेणैव तल्लयः। अज्ञे जन्मान्तरार्थं तु शक्तिशेषत्व.मिष्यते॥ 16॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
दशमे रात्रिमृतस्यापि रश्म्यनुसारित्वाधिकरणे सूत्रे
SŪरश्म्यनुसारी॥4.2.18॥
SŪनिशि नेति चे.न्न सम्बन्धस्य यावद्देहभावित्वात्, दर्शयति च॥4.2.19॥
दशमाधिकरणमारचयति –
1विषयः
अहन्येव मृतो रश्मी-न्याति निश्यपि वा निशि।
3पूर्वपक्षः
सूर्यरश्मे.रभावेन मृतोऽहन्येव याति तम्॥ 19॥
“अथैतै.रेव रश्मिभि.रूर्ध्व.माक्रमते” इति मूर्धन्यनाड्या निर्गतस्य रश्मिसंबन्धः श्रूयते। स चाहन्येव मृतस्य संभवति। न तु रात्रौ, रश्म्यभावात्। इति प्राप्ते,
4सिद्धान्तः
यावद्देहं रश्मिनाड्यो-र्योगो ग्रीष्मक्षपास्वपि।
देहदाहा.च्छ्रुतत्वाच्च रश्मी.न्निश्यपि यात्यसौ॥ 20॥
ब्रूमः- रश्मिनाड्योः संबन्धो यावद्देहभावी। अत एव ग्रीष्मनिशासु देहदाहः उपलभ्यते। ऋत्वन्तरेषु तु प्रतिषिद्धत्वा.दनुपलम्भः। श्रुतिश्च रश्मिनाड्यो.रवियोगं दर्शयति- “अमुष्मादादित्या.त्प्रतायन्ते वा आसु नाडीषु सृप्ताः, आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मि.न्नादित्ये सृप्ताः” इति तस्मात्- निश्यपि मृतो रश्मी.न्याति॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तदोकोधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विद्यासामर्थ्यतश्चापि विशेषोऽस्त्यन्यनिर्गमात्॥ 18॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
एकादशे अयनाधिकरणे तत्त्वविदो दक्षिणायनेऽपि विद्याफलाधिकरणे सूत्रे
SŪअतश्चायनेऽपि दक्षिणे॥4.2.20॥
SŪयोगिनः प्रति च स्मर्यते स्मार्ते चैते॥4.2.21॥
एकादशाधिकरणमारचयति –
1विषयः
अयने दक्षिणे मृत्वा धीफलं नैत्यथैति वा।
नैत्युत्तरायणा.द्युक्ते-र्भीष्मस्यापि प्रतीक्षणात्॥ 21॥
3पूर्वपक्षः
आतिवाहिकदेवोक्ते-र्वरख्यात्यै प्रतीक्षणात्।
फलैकान्त्याच्च विद्यायाः फलं प्राप्नो.त्युपासकः॥ 22॥
दक्षिणायने मृतस्योपासकस्य न विद्याफलं ब्रह्मलोकप्राप्तिः संभवति, उत्तरायणस्य ब्रह्मलोकमार्गस्य श्रुतिस्मृत्योः पाठात्। दक्षिणायने मृतस्यापि विद्याफलाङ्गीकारे, भीष्मस्योत्तरायणप्रतीक्षणं निरर्थकं स्यात्। इति प्राप्ते,
4सिद्धान्तः
इति वैयासिकन्यायमालायां चतुर्थाध्यायस्य द्वितीयः पादः॥ 2॥
ब्रूमः- “नोत्तरायणशब्देन कालो विवक्षितः किं त्वातिवाहिकदेवता” इति (ब्र.सू. 4।3।4) वक्ष्यति। भीष्मस्य प्रतीक्षणं तु पितृप्रसादलब्ध.स्वच्छन्दमरणवर.ख्यापनाय। यदि कालविशेष.मरणापराधेन फलं न प्राप्नुयात्, तर्हि पाक्षिकफला विद्या प्रसज्येत। तस्मात्- दक्षिणायने मृतोऽपि विद्याफलं प्राप्नोति॥
चतुर्थाध्यायस्य तृतीयः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “फलम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “रश्म्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “यावद्देहं रश्मिनाड्यो-र्योगो ग्रीष्मक्षपास्वपि। देहदाहा.च्छ्रुतत्वाच्च रश्मी.न्निश्यपि यात्यसौ॥ 20॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]