3.1.1
तदन्तरप्रतिपत्त्यधिकरणम्
SŪतदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम्॥3.1.1॥
SŪत्र्यात्मकत्वात्तु भूयस्त्वात्॥3.1.2॥
SŪप्राणगतेश्च॥3.1.3॥
SŪअग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्॥3.1.4॥
SŪप्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः॥3.1.5॥
SŪअश्रुतत्त्वादिति चेन्नेष्टादिकारिणां प्रतीतेः॥3.1.6॥
SŪभाक्तं वाऽनात्मभावित्वात्, तथा हि दर्शयति॥3.1.7॥
तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति –
1विषयः
अवेष्टितो वेष्टितो वा भूतसूक्ष्मैः पुमान्व्रजेत्।
3पूर्वपक्षः
भूतानां सुलभत्वेन निराधारेन्द्रियागतेः॥ 1॥
प्रथमे जीवस्य भूतसूक्ष्मवेष्टितस्यैव परलोकगमनागमनाधिकरणे सूत्राणि
पूर्वपादप्रतिपादितप्राणोपाधिको जीवः, शरीरान्तरप्राप्तिवेलायाम् इतो निर्गच्छन् भाविशरीरबीजैः सूक्ष्मभूतैरवेष्टितो गच्छति, पञ्चभूतानां सर्वत्र सुलभत्वेन इतो नयनस्य निरर्थकत्वात्। इति प्राप्ते,
4सिद्धान्तः
बीजानां दुर्लभत्वेन निराधारेन्द्रियागतेः।
पञ्चमाहुतितोक्तेश्च जीव.स्तैर्याति वेष्टितः॥ 2॥
ब्रूमः- भूतमात्रस्य सुलभत्वेऽपि, देहबीजानि न सर्वत्र सुलभानि। तस्मात्- इतो नेतव्यानि। किञ्च जीवोपाधिभूतेन्द्रियाणां भूताधारमन्तरेण परलोकगमनं न सम्भवति, जीवदशायामदर्शनात्।
श्रुतिश्चैवमाह- “पञ्चम्या.माहुतावापः पुरुषवचसो भवन्ति” इति। अस्या अयमर्थः- द्युलोक-पर्जन्य-पृथिवी-पुरुष-योषितः पञ्च पदार्था उपासनाया.मग्नित्वेन परिकल्पिताः। तेष्वग्निषु स्वर्गाय गच्छन्पुनरागच्छंश्च जीवः, आहुतित्वेन परिकल्पितः। इष्टापूर्तकारी जीवः, स्वर्गमारुह्य- उपभोगेन कर्मणि क्षीणे, पर्जन्ये पतित्वा, वृष्टिरूपेण भूमिं प्राप्य, अन्नद्वारेण पुरुषं प्राप्य, रेतोद्वारेण योषितं प्रविश्य शरीरं गृह्णाति। ततोऽप्शब्दोपलक्षितानि देहबीजानि पञ्चभूतानि, जीवेन सह द्युलोकादिपञ्चस्थानेषु गत्वा पञ्चमस्थाने शरीरभावं प्राप्य, पुरुषशब्दवाच्यानि भवन्ति- इति। तस्मात्- बीजैर्वेष्टित एव परलोकं गच्छति॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जीवस्य परलोकगमनागमने विचार्य, वैराग्यं निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “संज्ञामूर्तिक्लृप्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪकृतात्ययेऽनुशयवा.न्दृष्टस्मृतिभ्यां यथेतमनेवं च॥3.1.8॥
SŪचरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः॥3.1.9॥
SŪआनर्थक्यमिति चेन्न तदपेक्षत्वात्॥3.1.10॥
SŪसुकृतदुष्कृते एवेति तु बादरिः॥3.1.11॥
1विषयः
स्वर्गावरोही क्षीणानु-शय.स्सानुशयोऽथवा।
3पूर्वपक्षः
यावत्संपातवचना-त्क्षीणानुशय इष्यते॥ 3॥
द्वितीये स्वर्गा.दवरोहतो जीवस्य सानुशयत्वाधिकरणे सूत्राणि
द्वितीयाधिरणमारचयति –
स्वर्गमुपभुज्य ततोऽवरोहन्पुरुषो, निरनुशय इहागच्छति। अनुशयो नाम कर्मशेषः, “जीवमनुशेते” इति व्युत्पत्तेः। न च- स्वर्गादवरोहतोऽनुशयः संभवति, अनुशयफलस्य सर्वस्य तत्रैवोपभुक्तत्वात्। अत एवावरोहविषया श्रुतिः “यावत्सम्पात.मुषित्वाऽथैत.मेवाध्वानं पुनर्निवर्तते” इत्याह।
“सम्पतत्यनेन कर्मणा स्वर्गम्” इति सम्पातः कर्मसमूहः। सम्पात.मनतिक्रम्य यावत्सम्पातं निश्शेषं कर्मफलं भोक्तुं तत्रोषित्वा- इत्यर्थः। तस्मात्- कर्मशेषरहितोऽवरोहति। इति प्राप्ते,
4सिद्धान्तः
जातमात्रस्य भोगित्वा-दैकभव्ये विरोधतः।
चरणश्रुतितस्सानु-शयः कर्मान्तरै.रयम्॥ 4॥
ब्रूमः- स्वर्गार्थ.मनुष्ठितस्य कर्मणः साकल्येनोपभोगेऽपि अनुपभुक्तानि संचितानि पुण्यपापानि बहून्यस्य विद्यन्ते। अन्यथा- सद्यस्समुत्पन्नस्य बालस्येह जन्मन्यनुष्ठितयोर्धर्माधर्मयोरभावात् सुखदुःखोपभोगो न स्यात्।
यत्त्वत्र कैश्चिदुच्यते- एकस्मिञ्जन्मन्यनुष्ठितः कर्मसमूहः, उत्तरस्मिन्नेव जन्मन्युपभोगेन क्षीयते- इति। तदसत्, इन्द्रादिपदप्रापकाणामश्वमेधादीनाम्, विड्वराहादिदेहप्रापकाणां पापानां च युगपदुपभोगासंभवेन “ऐकभविकः कर्मानुशयः” इति मतस्य विरुद्धत्वात्।
ततश्चैकस्मिन् जन्मन्यनुष्ठितानां मध्ये, कंस्मिश्चिज्ज्योतिष्टोमादिकर्मणि भुक्तेऽपि, कुतो न कर्मान्तराण्यवशिष्येरन्। यावत्संपातशब्दश्च स्वर्गप्रदकर्मविषयः, नत्वितरकर्मविषयः। श्रुतिश्च स्वर्गा.दवरुह्य पञ्चम्यामाहुतौ शरीरं गृह्णतां पुरुषाणां तद्धेत्वोः पुण्यपापयोः सद्भावं दर्शयति- “य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येर.न्ब्राह्मणयोनिं वा, क्षत्रिययोनिं वा वैश्ययोनिं वा, अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येर.ञ्श्वयोनिं वा, शूकरयोनिं वा चाण्डालयोनिं वा” इति। रमणीयचरणाः सुकृतकर्माणः, कपूयचरणाः पापकर्माणः, “अभ्याशो ह यत्” इत्यव्ययसमुदायस्य क्षिप्रत्वमर्थः। तदेवं- सानुशया अवरोहन्ति- इति स्थितम्॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जीवस्य परलोकगमनागमने विचार्य, वैराग्यं निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तदन्तरप्रतिपत्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “बीजानां दुर्लभत्वेन निराधारेन्द्रियागतेः। पञ्चमाहुतितोक्तेश्च जीव.स्तैर्याति वेष्टितः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.3
अनिष्टादिकार्यधिकरणम्
SŪअनिष्टादिकारिणामपि च श्रुतम्॥3.1.12॥
SŪसंयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात्॥3.1.13॥
SŪस्मरन्ति च॥3.1.14॥
SŪअपि च सप्त॥3.1.15॥
SŪतत्रापि च तद्व्यापारा.दविरोधः॥3.1.16॥
SŪविद्याकर्मणोरिति तु प्रकृतत्वात्॥3.1.17॥
SŪन तृतीये तथोपलब्धेः॥3.1.18॥
SŪस्मर्यतेऽपि च लोके॥3.1.19॥
SŪदर्शनाच्च॥3.1.20॥
SŪतृतीयशब्दावरोधः संशोकजस्य॥3.1.21॥
तृतीयाधिकरणमारचयति –
1विषयः
पञ्चमाहुतिलाभार्थं भोगाभावेऽपि यात्यसौ॥ 5॥
3पूर्वपक्षः
तृतीये पापिनां स्वर्गे गत्यभावाधिकरणे सूत्राणि
चन्द्रं याति न वा पापी ते सर्व इति वाक्यतः॥
भोगार्थमेव गमन-माहुति.र्व्यभिचारिणी॥
“ये वै के चास्माल्लोका.त्प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति” इति श्रवणात्, चन्द्रलोकाख्ये स्वर्गे पापिनोऽपि गतिरस्ति। यद्यपि- पापिनस्तत्र भोगो न सम्भवति, तथाऽपि पुनरागत्य शरीरग्रहणे पञ्चमाहुतिलाभाय स्वर्गगतिरभ्युपेया। इति प्राप्ते,
4सिद्धान्तः
सर्वश्रुति.स्सुकृतीनां, याम्ये पापिगति.श्श्रुता॥ 6॥
ब्रूमः- भोगार्थमेव हि स्वर्गगमनम्। न पञ्चमाहुतिलाभार्थम्, पञ्चमाहुते.र्व्यभिचारित्वात्। द्रोणादीनां योषिदाहुते.रभावात्, सीतादीनां पुरुषाहुते.रप्यभावात्। “ते सर्वे” इति सर्वश्रुतिस्तु सुकृतिविषया। पापिनां तु यमलोके गतिः श्रुता- “वैवस्वतं संगमनं जनानां, यमं राजानं हविषा दुवस्यत” इति। पापजनैर्गन्तव्यं यमं प्रीणयत- इत्यर्थः। तस्मात्- न पापिनां स्वर्गे गतिः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जीवस्य परलोकगमनागमने विचार्य, वैराग्यं निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “कृतात्ययाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “जातमात्रस्य भोगित्वा-दैकभव्ये विरोधतः। चरणश्रुतितस्सानु-शयः कर्मान्तरै.रयम्॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.4
साभाव्यापत्त्यधिकरणम्
चतुर्थे स्वर्गावरोहे जीवस्याकाशादितुल्यत्वाधिकरणे सूत्रम्
SŪसाभाव्यापत्ति.रुपपत्तेः॥3.1.22॥
चतुर्थाधिकरणमारचयति –
1विषयः
वियदादिस्वरूपत्वं तत्साम्यं वाऽवरोहिणः।
3पूर्वपक्षः
वायुर्भूत्वेत्यादिवाक्या-त्तत्तद्भावं प्रपद्यते॥ 7॥
स्वर्गा.दवरोहप्रकार एवं श्रूयते- “अथैतमेवाध्वानं पुनर्निवर्तते यथेत.माकाशम्, आकाशा.द्वायुम्, वायुर्भूत्वा धूमो भवति, धूमो भूत्वाऽभ्रं भवति, अब्भ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति” इति। यथे.तं यथागतं तथेत्यर्थः। अत्र स्वर्गादवरोहतो जीवस्याकाशादिस्वरूपत्वं भवति, “वायुर्भूत्वा” इति तत्तद्भावप्रतिपत्तेः- श्रुतित्वात्। इति प्राप्ते,
4सिद्धान्तः
स्ववत्सूक्ष्मो वायुवशो युक्तो धूमादिभि.र्भवेत्।
अन्यस्यान्यस्वरूपत्वं न मुख्य.मुपपद्यते॥ 8॥
ब्रूमः- अन्यस्यान्यस्वरूपत्वासम्भवात् आकाशप्रतिपत्तिर्नाम आकाशवत्सौक्ष्म्यं रूपं विवक्षितम्। वायुभावो वायुवशता। धूमादिभावो धूमादिभिः सम्पर्कः- इति निर्णयः॥(साक्षात् आकाशरूपं न प्राप्नोति, आकाशस्य सौक्ष्म्यं प्राप्नोति इत्यर्थः)
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जीवस्य परलोकगमनागमने विचार्य, वैराग्यं निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अनिष्टादिकार्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सर्वश्रुति.स्सुकृतीनां, याम्ये पापिगति.श्श्रुता॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
पञ्चमे स्वर्गादवरोहतां त्वराविलम्बाधिकरणे सूत्रम्
SŪनातिचिरेण विशेषात्॥3.1.23॥
पञ्चमाधिकरणमारचयति –
1विषयः
व्रीह्यादेः प्राग्विलम्बेन त्वरया वाऽवरोहति।
3पूर्वपक्षः
तत्रानियम एव स्या-न्नियामकविवर्जनात्॥ 9॥
प्रवर्षणानन्तरं व्रीह्यादिभाव आम्नायते- “त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते” इति। प्रागेतस्मा.द्व्रीह्यादिभावात् आकाशादौ विलम्बत्वरयोर्नियामकाभावा.दनियतिः। इति प्राप्ते,
4सिद्धान्तः
दुःखं व्रीह्यादिनिर्याण-मिति तत्र विशेषतः।
विलम्बस्तेन पूर्वत्र त्वराऽर्था.दवसीयते॥ 10॥
ब्रूमः- व्रीह्यादिभावमभिधाय, अनन्तरम् “अतो वै खलु दुर्निष्प्रपतरम्” इति “ व्रीह्यादिभावा.न्निर्गमनं दुश्शकम्” इति ब्रूवती श्रुतिर्व्रीह्यादौ विलम्बनं विशेषयति। ततोऽर्थात्- “पूर्वं परा” इत्यवसीयते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जीवस्य परलोकगमनागमने विचार्य, वैराग्यं निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “साभाव्यापत्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “स्ववत्सूक्ष्मो वायुवशो युक्तो धूमादिभि.र्भवेत्। अन्यस्यान्यस्वरूपत्वं न मुख्य.मुपपद्यते॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
3.1.6
अन्याधिष्ठिताधिकरणम्
SŪअन्याधिष्ठिते पूर्वव.दभिलापात्॥3.1.24॥
SŪअशुद्धमिति चेन्न शब्दात्॥3.1.25॥
SŪरेतस्सिग्योगोऽथ॥3.1.26॥
SŪयोनेश्शरीरम्॥3.1.27॥
षष्ठाधिकरणमारचयति –
1विषयः
व्रीह्यादौ जन्म तेषां स्या-त्संश्लेषो वा जनिर्भवेत्।
जायन्त इति मुख्यत्वा-त्पशुहिंसादिपापतः॥ 11॥
3पूर्वपक्षः
वैधान्न पापसंश्लेषः कर्मव्यापृ.त्यनुक्तितः।
श्वविप्रादौ मुख्यजनौ चरणव्यापृतिश्श्रुता॥ 12॥
षष्ठे स्वर्गादवरोहतां व्रीह्यादौ संश्लेषाधिकरणे सूत्राणि
आकाशादाविव व्रीह्यादौ न संश्लेषमात्रम्। किन्तु- व्रीह्यादिरूपेण मुख्यं जन्म विवक्षितम्, “जायन्ते” इति श्रवणात्। न च- स्वर्गे सुकृतफलमनुभूय अवरोहतः, पापफलरूपस्य स्थावरजन्मनोऽसम्भवः, तद्धेतोः पशुहिंसादेर्विद्यमानत्वात्। तस्मात्- मुख्यं जन्म। इति प्राप्ते,
4सिद्धान्तः
इति वैयासिकन्यायमालायां तृतीयाध्यायस्य प्रथमः पादः॥ 1॥
ब्रूमः- वैधत्वान्न पशुहिंसादितः पापम्। अतः “जायन्ते” इति श्रुत्या संश्लेषमात्रं विवक्षितम्, न तु मुख्यं जन्म, कर्मव्यापारानभिधानात्। यत्र तु मुख्यं जन्म व्यवस्थितम्, तत्र कर्मव्यापार.मभिधत्ते- “रमणीयचरणाः, कपूयचरणाः” इति। तस्मात्- स्वर्गा.दवरोहतां व्रीह्यादौ संश्लेषमात्रम्- इति स्थितम्॥
तृतीयाध्यायस्य द्वितीयः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “साधनम्” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “जीवस्य परलोकगमनागमने विचार्य, वैराग्यं निरूपितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नातिचिराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “दुःखं व्रीह्यादिनिर्याण-मिति तत्र विशेषतः। विलम्बस्तेन पूर्वत्र त्वराऽर्था.दवसीयते॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]