2.4.1
प्राणोत्पत्त्यधिकरणम्
SŪतथा प्राणाः॥2.4.1॥
SŪगौण्यसम्भवात्॥2.4.2॥
SŪतत्प्राक्श्रुतेश्च॥2.4.3॥
SŪतत्पूर्वकत्वा.द्वाचः॥2.4.4॥
चतुर्थपादस्य प्रथमाधिकरणमारचयति –
1विषयः
किमिन्द्रियाण्यनादीनि सृज्यन्ते वा परात्मना।
3पूर्वपक्षः
सृष्टेः प्रागृषिनाम्नैषां सद्भावोक्ते.रनादिता॥ 1॥
प्रथम इन्द्रियाणां परमात्मजन्यत्वाधिकरणे सूत्राणि
एकबुद्ध्या सर्वबुद्धे-र्भौतिकत्वा.ज्जनिश्रुतेः॥
“ऋषयो वाव ते,ऽग्रे सदासीत्। तदाहुः के ते ऋषयः- इति। प्राणा वा ऋषयः” इति श्रुत्या, सृष्टेः पूर्वमिन्द्रियाणां सद्भावावगमात् अनादित्वं तेषाम्। इति प्राप्ते,
4सिद्धान्तः
उत्पद्यन्तेऽथ सद्भावः प्रागवान्तरसृष्टितः॥ 2॥
ब्रूमः- एकविज्ञानेन सर्वविज्ञानं ताव.दिन्द्रियाणा.मनुत्पत्तौ न घटते। तथा- “अन्नमयं हि सौम्य मनः। आपोमयः प्राणः। तेजोमयी वाक्” इति भूतकार्यत्व.मिन्द्रियाणां श्रूयते।“एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च”- इति स्पष्टमेवेन्द्रियाणां जन्मश्रवणम्।
यत्तु- सृष्टेः प्राक्सद्भाववाक्यम्। तदवान्तरसृष्टिविषयतया व्याख्येयम्। तस्मात्- इन्द्रियाणि परमात्मन उत्पद्यन्ते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गशरीरश्रुतीनां विरोधपरिहारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अंशाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति वैयासिकन्यायमालायां द्वितीयाध्यायस्य तृतीयः पादः॥ 3॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
द्वितीये इन्द्रियाणामेकादशत्वाधिकरणे सूत्रे
SŪसप्त गते.र्विशेषितत्वाच्च॥2.4.5॥
SŪहस्तादयस्तु स्थितेऽतो नैवम्॥2.4.6॥
द्वितीयाधिकरणमारचयति –
1विषयः
सप्तैकादश वाऽक्षाणि सप्त प्राणा इति श्रुतेः।
3पूर्वपक्षः
सप्त स्यु.र्मूर्धनिष्ठेषु च्छिद्रेषु च विशेषणात्॥ 3॥
सप्तैवेन्द्रियाणि। कुतः? “सप्त प्राणाः प्रभवन्ति” इति सामान्यश्रुतेः। “सप्त वै शीर्षण्याः प्राणाः” इति शिरोगत.सप्तच्छिद्रनिष्ठत्वेन विशेषितत्वाच्च। इति प्राप्ते,
4सिद्धान्तः
अशीर्षण्यस्य हस्तादे-रपि वेदे समीरणात्।
ज्ञेया.न्येकादशाक्षणि तत्तत्कार्यानुसारतः॥ 4॥
ब्रूमः- शिरोनिष्ठेभ्य इतराणि हस्तादीन्यपि वेदे समीर्यन्ते। “हस्तौ चादातव्यं च, उपस्थश्चानन्दयितव्यं च” इत्यादिना। तथाच वेदान्निश्चये सति एकादशव्यापाराणां दर्शन-श्रवण-घ्राणा-स्वादन-स्पर्शना-ऽभिवदना-दान-गमना-नन्द-विसर्ग-ध्यानानाम् उपलम्भात्, तत्साधनत्वेन “इन्द्रियाण्येकादश” इत्यभ्युपगन्तव्यम्॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गशरीरश्रुतीनां विरोधपरिहारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्राणोत्पत्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “उत्पद्यन्तेऽथ सद्भावः प्रागवान्तरसृष्टितः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.4.3
प्राणाणुत्वाधिकरणम्
तृतीये इन्द्रियाणामणुत्वाधिकरणे सूत्रम्
SŪअणवश्च॥2.4.7॥
तृतीयाधिकरणमारचयति –
1विषयः
व्यापीन्यणूनि वाऽक्षाणि साङ्ख्या व्यापित्व.मूचिरे।
3पूर्वपक्षः
वृत्तिलाभस्तत्र तत्र देहे कर्मवशाद्भवेत्॥ 5॥
“सर्वगताना.मिन्द्रियाणां तत्तच्छरीरावच्छिन्नप्रदेशेषु तत्तज्जीवकर्मफलोपभोगाय वृत्तिलाभो भवति” इति यत्साङ्ख्यैरुक्तम्।
तदयुक्तम्। कल्पनागौरवप्रसङ्गात्। देहावच्छिन्न.वृत्तिमद्भागैरेवाशेषव्यवहारसिद्धौ, किमनया वृत्तिरहितानां सर्वगताना.मिन्द्रियाणां कल्पनया। किञ्च श्रुतिः उत्क्रान्ति-गति-आगतीः जीवस्य प्रतिपादयति।
ताश्च सर्वगतस्य जीवस्य न मुख्याः सम्भवन्ति- इति मुख्यत्वसिद्ध्यर्थमिद्रियोपाधिः स्वीकृतः।
यदि सोऽप्युपाधिः सर्वगतः स्यात्, कुतस्तर्ह्युत्क्रान्त्यादयो मुख्याः सम्भवेयुः? तस्मात्- असर्वगतान्यक्षाणि। मध्यमपरिमाणेष्वेवादृश्यत्वविवक्षया, सूत्रकारेणाणुशब्दः प्रयुक्तः॥
4सिद्धान्तः
देहस्थवृत्तिम.द्भागे-ष्वेवाक्षत्वं समाप्यताम्।
उत्क्रान्त्यादिश्रुते.स्तानि ह्यणूनि स्यु.रदर्शनात्॥ 6॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गशरीरश्रुतीनां विरोधपरिहारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तगत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अशीर्षण्यस्य हस्तादे-रपि वेदे समीरणात्। ज्ञेया.न्येकादशाक्षणि तत्तत्कार्यानुसारतः॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.4.4
प्राणश्रैष्ठ्याधिकरणम्
चतुर्थे प्राणस्य जन्यताधिकरणे सूत्रम्
SŪश्रेष्ठश्च॥2.4.8॥
चतुर्थाधिकरणमारचयति –
1विषयः
आनीदिति प्राणचेष्टा प्राक्सृष्टेश्श्रूयते यतः॥ 7॥
3पूर्वपक्षः
मुख्यः प्राणः स्यादनादि-र्जायते वा न जायते॥
आनीदिति ब्रह्मसत्त्वं प्रोक्तं वातनिषेधनात्॥
मुखबिले संचर.न्नुच्छ्वासकारी यो वायुः- स प्राणः। सोऽनादिः। कुतः? “नास.दासीत्”- इति सूक्ते- “आनी.दवातम्” इत्यत्र “आनीत्” शब्देन सृष्टेः प्राक् प्राणचेष्टाश्रवणात्। इति प्राप्ते,
4सिद्धान्तः
एतस्मा.ज्जायते प्राण इत्युक्तेरेष जायते॥ 8॥
ब्रूमः- “आनीत्” शब्दो न प्राणव्यापारं वक्ति, “अवातम्” इति तन्निषेधात्। किं तर्हि? ब्रह्मसत्त्वं ब्रूते। “सदेव सौम्येदमग्र आसीत्” इत्यादिभिः सृष्टिप्रागवस्थाप्रतिपादकश्रुत्यन्तरैः समानार्थत्वात्। “एतस्माज्जायते प्राणः” इति श्रुतिस्तु, स्पष्टमेव प्राणजन्म प्रतिपादयति। तस्मात्- इन्द्रियवत् प्राणो जायते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गशरीरश्रुतीनां विरोधपरिहारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्राणाणुत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “देहस्थवृत्तिम.द्भागे-ष्वेवाक्षत्वं समाप्यताम्। उत्क्रान्त्यादिश्रुते.स्तानि ह्यणूनि स्यु.रदर्शनात्॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪन वायुक्रिये पृथगुपदेशात्॥2.4.9॥
SŪचक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः॥2.4.10॥
SŪअकरणत्वाच्च न दोषः, तथा हि दर्शयति॥2.4.11॥
SŪपञ्चवृत्ति.र्मनोवद्व्यपदिश्यते॥2.4.12॥
पञ्चमाधिकरणमारचयति –
1विषयः
सामान्येन्द्रियवृत्तिर्वा सांख्यैरेव.मुदीरणात्॥ 9॥
3पूर्वपक्षः
पञ्चमे प्राणस्य तत्त्वान्तरताधिकरणे सूत्राणि
वायुर्वाऽक्षक्रिया वाऽन्यो वा प्राण.श्श्रुतितोऽनिलः॥
भाति प्राणो वायुनेति भेदोक्ते.रेकताश्रुतिः॥
बाह्यवायुरेव वेणुरन्ध्रवत् मुखच्छिद्रे प्रविश्यावस्थितः प्राणनाम्ना व्यपदिश्यते। न तु प्राणो नाम किंचित् तत्त्वान्तरमस्ति। कुतः- “यः प्राणः- स वायुः” इति श्रुतेः। अथवा- पञ्जरस्था यथा बहवः पक्षिणः स्वयं चलन्तः पञ्जरमपि चालयन्ति, एवमेकादशाक्षाणि स्वस्वव्यापारद्वारा देहं चेष्टयन्ते। तत्र देहचालनाख्यो योऽयं सर्वेन्द्रियसाधारणो व्यापारः, स प्राणो भविष्यति। तथाच सांख्यैरुक्तम् –
“सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च” इति।
तस्मात्- न तत्त्वान्तरं प्राणः। इति प्राप्ते,
4सिद्धान्तः
वायुजत्वेन सामान्य-वृत्ति.र्नाक्षेष्वतोऽन्यता॥ 10॥
ब्रूमः- “प्राण एव ब्रह्मणश्चतुर्थः पादः, स वायुना ज्योतिषा भाति च तपति च” इति श्रुत्यन्तरे चतुष्पाद्ब्रह्मोपासनप्रसङ्गेन, आध्यात्मिकप्राणस्य आधिदैविकवायोश्च अनुग्राह्यानुग्राहकरूपेण भेदः स्पष्टमेव निर्दिष्टः। अतः-“यः प्राणः स वायुः” इत्येकत्वश्रुतिः कार्यकरणयो.रभेदवृत्त्या नेतव्या।
यत्तु सांख्यैरुक्तम्- तदसत्, इन्द्रियाणां सामान्यवृत्त्यसंभवात्। पक्षिणां तु चालनान्येकविधानि पञ्जरचालनस्यानुकूलानि, न तु तथेन्द्रियाणां दर्शनश्रवणगमनादिव्यापारा एकविधाः। नापि देहचालनानुकूलाः। तस्मात्- तत्त्वान्तरं प्राणः- इति परिशिष्यते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गशरीरश्रुतीनां विरोधपरिहारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्राणश्रैष्ठ्याधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एतस्मा.ज्जायते प्राण इत्युक्तेरेष जायते॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.4.6
श्रेष्ठाणुत्वाधिकरणम्
षष्ठे प्राणस्याणुत्वाधिकरणे सूत्रम्
SŪअणुश्च॥2.4.13॥
षष्ठाधिकरणमारचयति –
1विषयः
हिरण्यगर्भपर्यन्ते सर्वदेहे समोक्तितः॥ 11॥
3पूर्वपक्षः
प्राणोऽयं विभुरल्पो वा विभुस्स्यात् प्लुष्युपक्रमे॥
समष्टिव्यष्टिरूपेण विभुरेवाधिदैविकः॥
प्लुषिर्नाम मशकादपि न्यूनकायः पुत्तिकाख्यो जीवः। तमारभ्य सर्वात्मकहिरण्यगर्भपर्यन्तेषु देहेषु, तैस्तैर्देहैः समत्वं प्राणस्य श्रूयते- “समः प्लुषिणा, समो मशकेन, समो नागेन, सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण” इति। तस्मात्- व्यापी प्राणः। इति प्राप्ते,
4सिद्धान्तः
आध्यात्मिकोऽल्पः प्राणस्स्या-ददृश्यश्च यथेन्द्रियम्॥ 12॥
ब्रूमः- आधिदैविकस्य हिरण्यगर्भप्राणस्य समष्टिरूपेण व्यष्टिरूपेण चावस्थाना.द्विभुत्वमस्तु- “वायुरेव व्यष्टिः, वायुरेव समष्टिः” इति श्रुतेः। तदेव विभुत्वं “समः प्लुषिणा” इत्यादिश्रुतावुपासनार्थं प्रपञ्चितम्। आध्यात्मिकस्तु प्राण इन्द्रियव.ददृश्यः परिच्छिन्नश्च॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गशरीरश्रुतीनां विरोधपरिहारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “वायुक्रियाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वायुजत्वेन सामान्य-वृत्ति.र्नाक्षेष्वतोऽन्यता॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪज्योतिराद्यधिष्ठानं तु तदामननात्॥2.4.14॥
SŪप्राणवता शब्दात्॥2.4.15॥
SŪतस्य च नित्यत्वात्॥2.4.16॥
सप्तमाधिकरणमारचयति –
1विषयः
स्वतन्त्रा देवतन्त्रा वा वागाद्या.स्स्यु.स्स्वतन्त्रता।
3पूर्वपक्षः
नो चेद्वागादिजो भोगो देवानां स्यान्न चात्मनः॥ 13॥
सप्तमे इन्द्रियाणां देवपरतन्त्रताधिकरणे सूत्राणि
वागादीन्यक्षाणि स्वस्वविषयस्वातन्त्र्येण प्रवर्तन्ते, न तु देवतापरतन्त्राणि। अन्यथा वागादिजन्यस्य भोगस्य, देवानां भोक्तृत्वात्, न जीवात्मनो भोगः स्यात्। इति प्राप्ते,
4सिद्धान्तः
श्रुत.मन्यादितन्त्रत्वं भोगोऽग्न्यादेस्तु नोचितः।
देवदेहेषु सिद्धत्वा.ज्जीवो भुङ्क्ते स्वकर्मणा॥ 14॥
ब्रूमः- “अग्निर्वाग्भूत्वा मुखं प्राविशत्” इत्यादौ वागादीना.मग्न्याद्यनुगृहीतत्वं श्रूयते। ततो देवतापरतन्त्रैवेन्द्रियवृत्तिः। न च- एतावता देवताना.मत्र भोक्तृत्वम्, महापुण्यफलं देवत्वं प्राप्तानाम्- अधमभोगस्यानुचितत्वात्, देवतादेहेषु परमभोगस्य सिद्धत्वाच्च। मनुष्यादिजीवस्तु, देवप्रेरितैरप्यक्षैः आपादितं भोगं स्वकर्मफलतया भुङ्क्ते- इत्युपपद्यते। तस्मात्- देवतापरतन्त्राणीन्द्रियाणि॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गशरीरश्रुतीनां विरोधपरिहारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “श्रेष्ठाणुत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आध्यात्मिकोऽल्पः प्राणस्स्या-ददृश्यश्च यथेन्द्रियम्॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪत इन्द्रियाणि तद्व्यपदेशा.दन्यत्र श्रेष्ठात्॥2.4.17॥
SŪभेदश्रुतेः॥2.4.18॥
SŪवैलक्षण्यात्॥2.4.19॥
अष्टमाधिकरणमारचयति –
1विषयः
प्राणस्य वृत्तयोऽक्षाणि प्राणा.त्तत्त्वान्तराणि वा।
3पूर्वपक्षः
तद्रूपत्वश्रुतेः प्राण-नाम्नोक्तत्वाच्च वृत्तयः॥ 15॥
अष्टमे इन्द्रियाणां प्राणात्तत्वान्तरत्वाधिकरणे सूत्राणि
वागादीन्यक्षाणि मुख्यप्राणवृत्तयो भवितुमर्हन्ति। कुतः? तेषां प्राणरूपत्वश्रवणात्। “हन्तास्यैव सर्वे रूप.मसामेति, त एतस्यैव सर्वे रूप.मभवन्” इति श्रुतेः। किंच- प्राणशब्देनैव तानि लोके व्यवह्रियन्ते- “म्रियमाणस्य नाद्यापि प्राणा निर्गच्छन्ति” इत्यादौ। श्रुतिश्च वागादीनां प्राणनामकतामाह- “न वै वाचः, न चक्षूंषि, न श्रोत्राणि, न मनांसि, इत्याचक्षते। प्राणा इत्येवाचक्षते” इति। तस्मात्- न प्राणादन्यानि तत्त्वानि। इति प्राप्ते,
4सिद्धान्तः
श्रमाश्रमादिभेदोक्ते-र्गौणे तद्रूपनामनी।
आलोचनकत्वेनान्यानि प्राणो नेताऽक्षदेहयोः॥ 16॥
ब्रूमः- “तानि मृत्युः श्रमो भूत्वोपयेमे। तस्मा.च्छ्राम्यत्वेन वाक्” इत्यादिना वागादीनां स्वस्वविषयेषु श्रान्ति.मभिधाय, “अथेममेव नाप्नोत्, योऽयं मध्यमः प्राणः, यः संचरंश्चासंचरंश्च न व्यथते” इति प्राणस्य स्वव्यापारे श्रान्त्यभाव.माह।
अयमेको भेदः। तथा- प्राणसंवादे वागादिनिर्गमनप्रवेशयोः देहस्य मरणोत्थानाभावमभिधाय, प्राणनिर्गमनप्रवेशयो.र्मरणोत्थाने दर्शयति। अतः, एवमादिभेदोक्ते.र्वागादीनां प्राणरूपत्वं प्राणनामत्वं च गौणम्। भृत्यन्यायेन प्राणानुवर्तित्वात्। व्यवहारभेदश्च भूयानुपलभ्यते। स्वं स्वं विषयं परिच्छिद्यालोचकानीन्द्रियाणि, प्राण.स्त्वक्षाणां देहस्य च नेता। तस्मात्- बहुवैलक्षण्यात्प्राणातत्त्वान्तराणीन्द्रियाणि॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गशरीरश्रुतीनां विरोधपरिहारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ज्योतिराद्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्रुत.मन्यादितन्त्रत्वं भोगोऽग्न्यादेस्तु नोचितः। देवदेहेषु सिद्धत्वा.ज्जीवो भुङ्क्ते स्वकर्मणा॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.4.9
संज्ञामूर्तिक्लृप्त्यधिकरणम्
SŪसंज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्॥2.4.20॥
SŪमांसादिभौमं यथाशब्दमितरयोश्च॥2.4.21॥
SŪवैशेष्यात्तु तद्वादस्तद्वादः॥2.4.22॥
नवमाधिकरणमारचयति –
3पूर्वपक्षः
नवमे ईश्वरस्यैव नामरूपव्याकर्तृत्वाधिकरणे सूत्राणि
ईश्वरेण पञ्चभूतेषु सृष्टेषु भौतिकयोर्दृश्यमानयो.र्महीधरादिनामरूपयो.र्जीव एव स्रष्टा स्यात्। कुतः? “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति जीवरूपस्यैव सृष्टा.वन्वयश्रवणात्। इति प्राप्ते,
4सिद्धान्तः
ब्रूमः- “जीवेनानुप्रविश्य” इति प्रवेशेन जीवोऽन्वेति सन्निहितत्वात्। “जीवेन व्याकरवाणि” इत्युक्तौ व्यवहितान्वयः। नहि जीवस्य गिरिनदीनिर्माणे शक्तिरस्ति। ईश्वरस्तु सर्वशक्तियुक्तः “पराऽस्य शक्तिर्विविधैव श्रूयते” इति श्रवणात्। किंच- “व्याकरवाणि” इत्युत्तमपुरुषोऽपीश्वरपक्षे समञ्जसः। तस्मात्- ईश्वर एव नामरूपयोः स्रष्टा।
कथं तर्हि- घटपटादौ कुलालादेर्निर्मातृत्वम्। “ईश्वरप्रेरणात्” इति ब्रूमः। तस्मात्- ईश्वर एव सर्वकर्ता- इति सिद्धम्॥
अथ तृतीयोध्यायः
तृतीयाध्यायस्य प्रथमः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “लिङ्गशरीरश्रुतीनां विरोधपरिहारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “इन्द्रियाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “श्रमाश्रमादिभेदोक्ते-र्गौणे तद्रूपनामनी। आलोचनकत्वेनान्यानि प्राणो नेताऽक्षदेहयोः॥ 16॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]