SŪन विय.दश्रुतेः॥2.3.1॥
SŪअस्ति तु॥2.3.2॥
SŪगौण्यसम्भवात्॥2.3.3॥
SŪशब्दाच्च॥2.3.4॥
SŪस्याच्चैकस्य ब्रह्मशब्दवत्॥2.3.5॥
SŪप्रतिज्ञाहानि.रव्यतिरेका.च्छब्देभ्यः॥2.3.6॥
SŪयावद्विकारं तु विभागो लोकवत्॥2.3.7॥
तृतीयपादस्य प्रथमाधिकरणमारचयति –
1विषयः
जनिश्रुतेश्च गौणत्वान्नित्यं व्योम न जायते॥ 1॥
3पूर्वपक्षः
प्रथम आकाशस्य ब्रह्मजन्यताधिकरणे सूत्राणि
व्योम नित्यं जायते वा हेतुत्रयविवर्जनात्॥
एकज्ञानात्सर्वबुद्धे-र्विभक्तत्वा.ज्जनिश्रुतेः॥
तैत्तिरीयके- “तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः” इति श्रूयते।
तत्र- आकाशं नित्यं, न तु जन्मवत्। कुतः? आकाशोत्पादकस्य समवायि-असमवायि-निमित्ताख्य-कारणत्रितयस्य दुस्सम्पादत्वात्। “संभूतः” इति जनिश्रुतिस्तु सम्प्रतिपन्न.ब्रह्मकार्यवत्, व्योम्नि सत्ताश्रयत्वगुणयोगात् प्रवृत्ता। तस्मात्- अनाद्यन्तं व्योम, न जायते। इति प्राप्ते। (ब्रह्मकार्यवत्- ब्रह्मकार्यमिव)
4सिद्धान्तः
विवर्ते कारणैकत्वा-द्ब्रह्मणो व्योम जायते॥ 2॥
ब्रूमः- एकविज्ञानेन सर्वविज्ञानं तावत्, अशेषेषु वेदान्तेषु डिण्डिमः। तच्च व्योम्नो ब्रह्मकार्यत्वे, मृद्घटन्यायेन ब्रह्माव्यतिरेकादुपपादयितुं सुशकं, नान्यथा। किञ्च -“आकाशं जायते, विभक्तत्वात्, घटवत्। न च- अय.मसिद्धो हेतुः, वाय्वादिवैलक्षण्यस्याकाशे प्रसिद्धत्वात्।
न च- ब्रह्मण्यनैकान्तिकत्वं, सर्वात्मकस्य ब्रह्मणः कस्माच्चिदपि विभक्तत्वस्य दुर्भणत्वात्। जनिश्रुतिश्च उत्पत्तिवादिन्यनुगृहीता भवति।
यत्तु- कारणत्रितयासम्भवः- इत्युक्तम्। तदसत्। आरम्भवादे त्रितयापेक्षायामपि, विवर्तवादे तदनपेक्षत्वात्। तस्मात्- एतेभ्यो हेतुभ्यः कारणात् ब्रह्मणः, व्योम जायते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “उत्पत्त्यसम्भवाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति वैयासिकन्यायमालायां द्वितीयाध्यायस्य द्वितीयः पादः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
द्वितीये वायोर्ब्रह्मजन्यत्वाधिकरणे सूत्रम्
SŪएतेन मातारिश्वा व्याख्यातः॥2.3.8॥
द्वितीयाधिकरणमारचयति –
1विषयः
सैषाऽनस्तमिता देव-तेत्युक्तेश्च न जायते॥ 3॥
3पूर्वपक्षः
वायुर्नित्यो जायते वा छान्दोग्येऽजन्मकीर्तनात्॥
श्रुत्यन्तरोपसंहाराद्गौ-ण्यनस्तमयश्रुतिः॥
तैत्तिरीयक एव- “आकाशाद्वायुः”इति श्रूयते। सेयमुत्पत्तिश्रुति.र्गौणी, छान्दोग्ये सृष्टिप्रकरणे- तेजोबन्नानामेवोत्पत्ते.रभिधानात्।
ननु- “क्वचिदश्रवणमन्यत्र श्रुतं न वारयितु.मुत्सहते” इति न्यायेन तैत्तिरीयश्रुतेः कुतो गौणत्वम्- इति चेत्। “श्रुत्यन्तरविरोधात्” इति
4सिद्धान्तः
वियद्व.ज्जायते वायुः स्वरूपं ब्रह्म कारणम्॥ 4॥
ब्रूमः। बृहदारण्यके- “सैषाऽनस्तमिता देवता यद्वायुः” इति वायो.र्विनाशप्रतिषेधात्। उत्पत्तिमत्त्वे च तदयोगात्। तस्मात्- न जायते वायुः। इति प्राप्ते,
ब्रूमः- छान्दोग्ये जन्माश्रवणेऽपि गुणोपसंहारन्यायेन तैत्तिरीयवाक्यस्येतरत्रोपसंहारे सति, श्रुतमेव छान्दोग्ये वायुजन्म। आकाशोत्पत्तिहेतवश्चात्रानुसन्धेयाः।
न च- वायोराकाशकार्यत्वेन ब्रह्मण्यनन्तर्भावात् ब्रह्मज्ञानेन वायुज्ञानं न सिध्येत्- इति शङ्कनीयम्, पूर्वपूर्वकार्यविशिष्टस्य ब्रह्मणः, उत्तरोत्तरकार्यहेतुत्वस्य वक्ष्यमाणतया, वियद्रूपापन्नस्य ब्रह्मण एव वायुकारणत्वात्। तस्मात्- वायुर्जायते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “वियदधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विवर्ते कारणैकत्वा-द्ब्रह्मणो व्योम जायते॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
तृतीये सद्ब्रह्मणोऽजन्यत्वाधिकरणे सूत्रम्
SŪअसम्भवस्तु सतोऽनुपपत्तेः॥2.3.9॥
तृतीयाधिकरणमारचयति –
1विषयः
सद्ब्रह्म जायते नो वा कारणत्वेन जायते।
3पूर्वपक्षः
यत्कारणं जायते त-द्वियद्वाय्वादयो यथा॥ 5॥
छान्दोग्ये- “सदेव सौम्येदमग्र आसीत्” इति श्रूयते। तत्सद्रूपं ब्रह्म जन्मवद्भवितुमर्हति, कारणत्वात्, वियद्वत्। इति प्राप्ते,
4सिद्धान्तः
असतोऽकारणत्वेन खादीनां सत उद्भवात्।
व्याप्ते.रजादिवाक्येन बाधा.त्सन्नैव जायते॥ 6॥
ब्रूमः- सद्रूपं ब्रह्म न जायते। कुतः? तज्जनकस्य कारणस्य दुर्निरूपत्वात्। तथा हि- न तावदसत्कारणम्, “कथमसतः सज्जायेत” इति निषेधात्। नापि- सदेव सतः कारणम्, आत्माश्रयापत्तेः। नापि- वियदादिकं सतः कारणम्, वियदादीनां ततः सतो जायमानत्वात्। या तु व्याप्तिः- “यद्यत्कारणं, तत्तज्जायते” – इति, सा “स वा एष महा.नज आत्मा” इति श्रुतिबाध्या। तस्मात्- सद्ब्रह्म नैव जायते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “मातरिश्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वियद्व.ज्जायते वायुः स्वरूपं ब्रह्म कारणम्॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
चतुर्थे तेजसो ब्रह्मजन्यत्वाधिकरणे सूत्रम्
SŪतेजोऽतस्तथा ह्याह॥2.3.10॥
चतुर्थाधिकरणमारचयति –
1विषयः
ब्रह्मणो जायते वह्नि-र्वायोर्वा ब्रह्मसंयुतात्।
3पूर्वपक्षः
तत्तेजोऽसृजतेत्युक्ते-र्ब्रह्मणो जायतेऽनलः॥ 7॥
छान्दोग्ये- “तत्तेजोऽसृजत” इति तेजसो ब्रह्मजत्वं श्रूयते। तैत्तिरीयके- “वायो.रग्निः” इति वायुजत्वम्। तत्र “वायोः” इति पञ्चम्या आनन्तर्यार्थस्यापि सम्भवात्केवलब्रह्मजन्यं तेजः। इति प्राप्ते,
4सिद्धान्तः
वायो.रग्निरिति श्रुत्या पूर्वश्रुत्यैकवाक्यतः।
ब्रह्मणो वायुरूपत्व-मापन्ना.दग्निसम्भवः॥ 8॥
ब्रूमः- अनुवर्तमानेन सम्भूतशब्देनान्विताया, “वायोः” इति पञ्चम्यां उपादानार्थत्वस्यैव मुख्यत्वात्। उभयोः श्रुत्योरेकवाक्यत्वे सति- वायुरूपापन्नाद्ब्रह्मणस्तेजो जायते- इति लभ्यते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “असम्भवाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “असतोऽकारणत्वेन खादीनां सत उद्भवात्। व्याप्ते.रजादिवाक्येन बाधा.त्सन्नैव जायते॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
पञ्चमे अपां ब्रह्मजन्यत्वाधिकरणे सूत्रम्
SŪआपः॥2.3.11॥
पञ्चमाधिकरणमारचयति-
1विषयः
ब्रह्मणोऽपां जन्म किंवा वह्नेर्नाग्ने.र्जलोद्भवः।
3पूर्वपक्षः
विरुद्धत्वान्नीरजन्म ब्रह्मणः सर्वकारणात्॥ 9॥
यद्यपि “तदपोऽसृजत”, “अग्नेरापः” इत्युभयोः छान्दोग्यतैत्तिरीययो.स्तेजोजन्यत्वमेवापां श्रूयते, तथाऽपि न तद्युक्तम्। निवर्त्यनिवर्तकयो.रग्निजलयो.र्विरुद्धयो.र्न हेतुमद्भावः। इति पूर्वपक्षः॥
पञ्चीकृतयो.र्दृश्यमानयोर्विरोधेऽपि, अपञ्चीकृतयोः श्रुत्येकसमधिगम्ययोः विरोधकल्पनायोगात्। सन्तापाधिक्ये स्वेदवृष्ट्युद्भवदर्शनाच्च। श्रुतिद्वयानुसारेण तेजोरूपापन्नाद्ब्रह्मणोऽपां जनिः। इति सिद्धान्तः॥
4सिद्धान्तः
अग्नेराप इति श्रुत्या ब्रह्मणो वह्न्युपाधिकात्।
अपां जनि.र्विरोधस्तु सूक्ष्मयो.र्नाग्निनीरयोः॥ 10॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तेजोधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वायो.रग्निरिति श्रुत्या पूर्वश्रुत्यैकवाक्यतः। ब्रह्मणो वायुरूपत्व-मापन्ना.दग्निसम्भवः॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.6
पृथिव्यधिकाराधिकरणम्
षष्ठे पृथिवीमात्रस्यान्नशब्दवाच्यताधिकरणे सूत्रम्
SŪपृथिव्यधिकाररूपशब्दान्तरेभ्यः॥2.3.12॥
षष्ठाधिकरणमारचयति –
1विषयः
ता अन्नमसृजन्तेति श्रुतमन्नं यवादिकम्।
3पूर्वपक्षः
पृथिवी वा यवाद्येव लोकेऽन्नत्वप्रसिद्धितः॥ 11॥
छान्दोग्ये- “ता अन्नमसृजन्त” इत्यद्भ्योऽन्नस्य जन्म श्रूयते। तत्र- अन्नशब्दस्य लोकप्रसिद्ध्या व्रीहियवादिकमर्थः। इति प्राप्ते,
4सिद्धान्तः
भूताधिकारात्कृष्णस्य रूपस्य श्रवणादपि।
तथाऽद्भ्यः पृथिवीत्युक्ते-रन्नं पृथ्व्यन्नहेतुतः॥ 12॥
ब्रूमः- पृथिव्यत्रान्नशब्दार्थः। पञ्चमहाभूतसृष्टे.रधिकृतत्वात्। किञ्च- “यदग्ने रोहितं रूपं तेजस.स्तद्रूपम्, यच्छुक्लं तदपाम्, यत्कृष्णं तदन्नस्य” इति कृष्णरूपं पृथिव्यां बहुल.मुपलभ्यते, नतु व्रीहियवादौ। तथा- “अद्भ्यः पृथिवी” इति तैत्तिरीयकश्रुत्येकवाक्यताबलादत्रान्नं पृथिवी।
न च- अन्नशब्दस्य तत्र प्रवृत्त्यनुपपत्तिः, कार्यकारणयो.रन्नपृथिव्यो.रभेदविवक्षया तदुपपत्तेः। तस्मात्- अन्नं पृथिवी॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अबधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अग्नेराप इति श्रुत्या ब्रह्मणो वह्न्युपाधिकात्। अपां जनि.र्विरोधस्तु सूक्ष्मयो.र्नाग्निनीरयोः॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
सप्तमे सोपाधिकब्रह्मण एव कार्यकारणत्वाधिकरणे सूत्रम्
SŪतदभिध्यानादेव तु तल्लिङ्गात्सः॥2.3.13॥
सप्तमाधिकरणमारचयति –
1विषयः
व्योमाद्याः कार्यकर्तारो ब्रह्म वा तदुपाधिकम्।
3पूर्वपक्षः
व्योम्नो वायु.र्वायुतोऽग्नि-रित्युक्तेः स्वादिकर्तृता॥ 13॥
पूर्वाधिकरणेषु- पूर्वपूर्वकार्योपाधिकाद्ब्रह्मण उत्तरोत्तरकार्योत्पत्तिः- इति यदेतत्सिद्धवत्कृत्य सिद्धान्तितम्, तदयुक्तम्। “आकाशाद्वायुः, वायोरग्निः” इत्यादौ ब्रह्मनिरपेक्षात्केवलाद्व्योमादे.रुत्तरकार्योत्पत्तिश्रवणात्। इति प्राप्ते,
4सिद्धान्तः
ईश्वरोऽन्तर्यमयती-त्युक्ते.र्व्योमाद्युपाधिकम्।
ब्रह्म वाय्वादिहेतुस्स्या-त्तेज आदीक्षणादपि॥ 14॥
ब्रूमः- “य आकाशमन्तरो यमयति, यो वायुमन्तरो यमयति” इत्यादिनाऽन्तर्यामिब्राह्मणे व्योमादेः स्वातन्त्र्यं निवारितम्। तथा- “तत्तेज ऐक्षत ता आप ऐक्षन्त” इति तेज आदेरीक्षणपूर्वकं स्रष्टृत्वं श्रूयते। तच्चेक्षणं चेतनब्रह्मनिरपेक्षाणा.मचेतनानां न सम्भवति। तस्मात्- व्योमाद्युपाधिकस्य ब्रह्मण एव कारणत्वम्॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पृथिव्यधिकाराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “भूताधिकारात्कृष्णस्य रूपस्य श्रवणादपि। तथाऽद्भ्यः पृथिवीत्युक्ते-रन्नं पृथ्व्यन्नहेतुतः॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अष्टमे लयक्रमनिरूपणाधिकरणे सूत्रम्
SŪविपर्ययेण तु क्रमोऽत उपपद्यते च॥2.3.14॥
अष्टमाधिकरणमारचयति –
1विषयः
सृष्टिक्रमो लये ज्ञेयो विपरीतक्रमोऽथवा।
3पूर्वपक्षः
क्लृप्तं कल्प्या.द्वरं तेन लये सृष्टिक्रमो भवेत्॥ 16॥
आकाशादिक्रमः सृष्टौ क्लृप्तः। अतः प्रलयेऽपि स एव क्रमः। इति प्राप्ते,
4सिद्धान्तः
हेता.वसति कार्यस्य न सत्त्वं युज्यते यतः।
पृथिव्य.प्स्विति चोक्तत्वा-द्विपरीतक्रमो लये॥ 17॥
ब्रूमः- प्रथमतः कारणे लीने सति, निरुपादानानां कार्याणां कञ्चित् कालमवस्थानं प्रसज्येत। किञ्च –
“जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते।
ज्योतिष्यापः प्रलीयन्ते ज्योति.र्वायौ प्रलीयते॥
वायुः प्रलीयते व्योम्नि तच्चाव्यक्ते प्रलीयते”।
इति पुराणे विपरीतक्रमस्योक्तत्वा.त्क्लृप्त एवायं क्रमः। तस्मात्- सृष्टिविपरीतेन पृथिव्यादिक्रमेण प्रलीयते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तदभिध्यानाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ईश्वरोऽन्तर्यमयती-त्युक्ते.र्व्योमाद्युपाधिकम्। ब्रह्म वाय्वादिहेतुस्स्या-त्तेज आदीक्षणादपि॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.3.9
अन्तराविज्ञानाधिकरणम्
नवमे प्राणादिसृष्टौ क्रमनिरूपणाधिकरणे सूत्रम्
SŪअन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्॥2.3.15॥
नवमाधिकरणमारचयति –
1विषयः
किमुक्तक्रमभङ्गोऽस्ति प्राणाद्यै.र्नास्ति वास्ति हि।
3पूर्वपक्षः
प्राणाक्षमनसां ब्रह्म-वियतोर्मध्य ईरणात्॥ 18॥
मुण्डकोपनिषदि श्रूयते –
“एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च।
खं वायुर्ज्योतिरपः पृथिवी विश्वस्य धारिणी” इति।
तत्र- प्राणादीनां वियदादिभ्यः पूर्वं श्रूयमाणत्वात्, आकाशादिकः पूर्वोक्तसृष्टिक्रमो भज्यते। इति प्राप्ते,
4सिद्धान्तः
प्राणाद्या भौतिका भूते-ष्वन्तर्भूताः पृथक्क्रमम्।
नेच्छ.न्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः॥ 19॥
ब्रूमः- “अन्नमयं हि सौम्य मनः, आपोमयः प्राणः, तेजोमयी वाक्” इति प्राणादीनां भौतिकत्वश्रवणात्, भूतेष्वेवान्तर्भावेन पृथक्क्रमो नापेक्षितः।
न च- मुण्डकश्रुतिः क्रमवाचिनी। “आकाशाद्वायुः। वायोरग्निः” इत्यादाविव क्रमस्याप्रतीयमानत्वात्, उत्पत्तिमात्रं केवलं ब्रूते।
तस्मात्- नानया श्रुत्या पूर्वोक्तक्रमभङ्गोऽस्ति॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विपर्ययाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “हेता.वसति कार्यस्य न सत्त्वं युज्यते यतः। पृथिव्य.प्स्विति चोक्तत्वा-द्विपरीतक्रमो लये॥ 17॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
दशमे जीवस्य जन्ममरणराहित्याधिकरणे सूत्रम्
SŪचराचरव्यपाश्रयस्तु स्या.त्तद्व्यपदेशो भाक्त.स्तद्भावभावित्वात्॥2.3.16॥
दशमाधिकरणमारचयति –
1विषयः
जीवस्य जन्ममरणे वपुषो वात्मनो हि ते।
3पूर्वपक्षः
जातो मे पुत्र इत्युक्ते-र्जातकर्मादित.स्तथा॥ 20॥
लोके- “पुत्रो मे जातः” इति व्यवहारा.च्छास्त्रे जातकर्मादिसंस्कारोक्तेश्च जन्ममरणे जीवस्य। इति प्राप्ते,
4सिद्धान्तः
मुख्ये ते वपुषो भाक्ते जीवस्यैते अपेक्ष्य हि।
जातकर्म च लोकोक्तिर्जीवापेतेतिशास्त्रतः॥ 21॥
ब्रूमः- जीवस्य मुख्यमरणाङ्गीकारे कृतनाशाकृताभ्यागमप्रसङ्गस्य दुर्निवारत्वात्, देहगते एव जन्ममरणे जीवस्योपचर्येते। औपचारिके एव ते अपेक्ष्य, लोकव्यवहार-कर्मशास्त्रयोः प्रवृत्तिः। उपनिषच्छास्त्रं तु “जीवापेतं वा किलेदं म्रियते, न जीवो म्रियते” इति जीवविमुक्तस्यैव शरीरस्य मुख्यं मरणमभिधाय, जीवस्य तन्निराचष्टे। तस्मात्- वपुषो जन्ममरणे॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अन्तराविज्ञानाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्राणाद्या भौतिका भूते-ष्वन्तर्भूताः पृथक्क्रमम्। नेच्छ.न्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः॥ 19॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
एकादशे जीवस्य नित्यत्वाधिकरणे सूत्रम्
SŪनात्माऽश्रुते.र्नित्यत्वाच्च ताभ्यः॥2.3.17॥
एकादशाधिकरणमारचयति –
1विषयः
कल्पादौ ब्रह्मणो जीवो वियद्व.ज्जायते न वा।
3पूर्वपक्षः
सृष्टेः प्रागद्वयत्वोक्ते-र्जायते विस्फुलिङ्गवत्॥ 22॥
“एकमेवाद्वितीयम्” इति सृष्टेः प्राक् अद्वयत्वं श्रूयमाणं, ब्रह्मव्यतिरिक्तस्य जीवस्यानुत्पत्तौ नोपपद्यते। श्रुतिश्च विस्फुलिङ्गदृष्टान्तेन जीवस्योत्पत्तिं प्रतिपादयति- “यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति, एवमेतस्मा.दात्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एव आत्मनो व्युच्चरन्ति” इति। तस्मात्- कल्पादौ वियदादिव.द्ब्रह्मणो जीवो जायते। इति प्राप्ते,
4सिद्धान्तः
ब्रह्माद्वयं जातबुद्धौ जीवत्वेन विशेत्स्वयम्।
औपाधिकं जीवजन्म नित्यत्वं वस्तुत.श्श्रुतम्॥ 23॥
ब्रूमः- यदद्वयं ब्रह्म- तदेव जातायां बुद्धौ, जीवरूपेण प्रविशति “तत्सृष्ट्वा तदेवानु प्राविशत्” इति श्रुतेः। अतो जीवानुत्पत्तौ, नाद्वयश्रुतिविरोधः। विस्फुलिङ्गश्रुतिस्तु औपाधिकजन्माभिप्राया प्रवृत्ता। अन्यथा कृतनाशादिदोषस्योक्तत्वात्।
वस्तुतत्त्वाभिप्रायेण तु नित्यत्वं श्रुति.र्ब्रूते- “नित्यो नित्यानां चेतन.श्चेतनानाम्” इति। तस्मात् कल्पादौ जीवो नोत्पद्यते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चराचरव्यपाश्रयाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मुख्ये ते वपुषो भाक्ते जीवस्यैते अपेक्ष्य हि। जातकर्म च लोकोक्तिर्जीवापेतेतिशास्त्रतः॥ 21॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
द्वादशे जीवस्य चिद्रूपत्वाधिकरणे सूत्रम्
SŪज्ञोऽत एव॥2.3.18॥
द्वादशाधिकरणमारचयति –
1विषयः
अचिद्रूपोऽथ चिद्रूपो जीवोऽचिद्रूप इष्यते।
3पूर्वपक्षः
चिदभावा.त्सुषुप्त्यादौ जाग्रच्चि.न्मनसा कृता॥ 24॥
तार्किका मन्यन्ते, सुषुप्ति-मूर्छा-समाधिषु चैतन्याभावा.दचिद्रूपो जीवः। जागरणे चात्ममनस्संयोगात्, चैतन्याख्यो गुणो जायते- इति।
तदसत्। चिद्रूपस्य ब्रह्मण एव जीवरूपेण प्रवेशश्रवणात्। न च- चैतन्यं सुषुप्त्यादौ लुप्यते, सुषुप्त्यादिसाक्षित्वेनावस्थानात्। अन्यथा सुषुप्त्यादिपरामर्शायोगात्। कथं तर्हि- सुषुप्त्यादौ द्वैताप्रतीतिः इति चेत्। “द्वैतलोपात्” इति
4सिद्धान्तः
ब्रह्मत्वादेव चिद्रूप-श्चित्सुषुप्तौ न लुप्यते।
द्वैतादृष्टि.र्द्वैतलोपा-न्नहि द्रष्टुरिति श्रुतेः॥ 25॥
ब्रूमः।
तथा च श्रुतिः- “यद्वै तन्न पश्यति- पश्यन्वै तन्न पश्यति, न हि द्रष्टुर्दृष्टे.र्विपरिलोपो विद्यतेऽविनाशित्वात्, न तु तद्द्वितीयमस्ति, ततोऽन्यद्विभक्तं यत्पश्येत्” इति। अस्यायमर्थः- तत्र सुषुप्तौ जीवः किमपि न पश्यति, इति यल्लौकिकैरुच्यते, तदसत्। पश्यन्नेव जीवः, तदानीं न पश्यति, इति भ्रान्त्या केवलं व्यपदिश्यते। कथं तद्दर्शनम्- इत्यत्र हेतुरुच्यते। द्रष्टुरात्मनः स्वरूपभूताया दृष्टेर्लोपो नहि विद्यते, विनाशरहितस्वभावत्वात्। अन्यथा लोपवादिनोऽपि निस्साक्षिकस्य लोपस्य वक्तुमशक्यत्वात्।
कथं तर्हि लौकिकानां “न पश्यति” इति भ्रमः- इत्यत्र हेतुरुच्यते। ब्रह्मचैतन्या.दन्यत् क्रियाकारकफलरूपेण विभक्तं जगदाख्यं यद्द्वितीयं वस्तु- तन्नास्ति, तस्य स्वकारणे लीनत्वात्। अतो जागरणवत्, द्रष्टृ-दृश्य-दर्शन-व्यवहाराणा.मभावात्, “न पश्यति” इति लौकिकानां भ्रमः- इति। तस्मात्- चिद्रूपो जीवः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आत्माधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रह्माद्वयं जातबुद्धौ जीवत्वेन विशेत्स्वयम्। औपाधिकं जीवजन्म नित्यत्वं वस्तुत.श्श्रुतम्॥ 23॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪउत्क्रान्तिगत्यागतीनाम्॥2.3.19॥
SŪस्वात्मना चोत्तरयोः॥2.3.20॥
SŪनाणु.रतच्छ्रुतेरिति चे.न्नेतराधिकारात्॥2.3.21॥
SŪस्वशब्दोन्मानाभ्यां च॥2.3.22॥
SŪअविरोध.श्चन्दनवत्॥2.3.23॥
SŪअवस्थितिवैशेष्यादिति चेन्नाभ्युपगमा.द्धृदि हि॥2.3.24॥
SŪगुणाद्वा लोकवत्॥2.3.25॥
SŪव्यतिरेको गन्धवत्॥2.3.26॥
SŪतथा च दर्शयति॥2.3.27॥
SŪपृथगुपदेशात्॥2.3.28॥
SŪतद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्॥2.3.29॥
SŪयावदात्मभावित्वाच्च न दोष.स्तद्दर्शनात्॥2.3.30॥
SŪपुंस्त्वादिव.त्तस्य सतोऽभिव्यक्तियोगात्॥2.3.31॥
SŪनित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा॥2.3.32॥
त्रयोदशाधिकरणमारचयति –
1विषयः
जीवोऽणु.स्सर्वगो वा स्या-देषोऽणुरिति वाक्यतः।
3पूर्वपक्षः
उत्क्रान्तिगत्यागमन-श्रवणाच्चाणुरेव सः॥ 26॥
त्रयोदशे जीवस्य सर्वगतत्वाधिकरणे सूत्राणि
“एषोऽणुरात्मा चेतसा वेदितव्यः” इत्यणुत्वं श्रुतम्। “अस्माच्छरीरा.दुत्क्रामति” इत्युत्क्रान्तिः। “चन्द्रमसमेव ते सर्वे गच्छन्ति” इति गतिः। “तस्माल्लोका.त्पुनरेति” इत्यागमनम्। न ह्युत्क्रान्त्यादयः सर्वगतस्योपपद्यन्ते। मध्यमपरिमाणस्य तदुपपत्तावपि अणुश्रुतिर्विरुध्यते। अनित्यत्वं च दुर्वारम्। तस्मात्- अणु.र्जीवः। इति प्राप्ते,
4सिद्धान्तः
साभासबुद्ध्याऽणुत्वेन तदुपाधित्वतोऽणुता ।
जीवस्य सर्वगत्वं तु स्वतो ब्रह्मत्वतश्श्रुतम्॥ 27॥
ब्रूमः- चैतन्यप्रतिबिम्बसहिता बुद्धि.रसर्वगता। तदुपाधिकत्वात् जीवस्याणुत्वोत्क्रान्त्यादय उपपन्नाः। स्वतस्तु जीवस्य ब्रह्मरूपत्वात् सर्वगतत्वम्। “स वा एष महानज आत्मा” “सर्वव्यापी सर्वभूतान्तरात्मा” इत्यादौ सर्वगतं श्रुतम्। तस्मात्- सर्वगतो जीवः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ज्ञाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रह्मत्वादेव चिद्रूप-श्चित्सुषुप्तौ न लुप्यते। द्वैतादृष्टि.र्द्वैतलोपा-न्नहि द्रष्टुरिति श्रुतेः॥ 25॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪकर्ता शास्त्रार्थवत्वात्॥2.3.33॥
SŪविहारोपदेशात्॥2.3.34॥
SŪउपादानात्॥2.3.35॥
SŪव्यपदेशाच्च क्रियायां न चे.न्निर्देशविपर्ययः॥2.3.36॥
SŪउपलब्धिव.दनियमः॥2.3.37॥
SŪशक्तिविपर्ययात्॥2.3.38॥
SŪसमाध्यभावाच्च॥2.3.39॥
चतुर्दशाधिकरणमारचयति –
1विषयः
जीवोऽकर्ताऽथवा कर्ता धियः कर्तृत्वसम्भवात्।
3पूर्वपक्षः
जीवकर्तृतया किं स्या-दित्याहु.स्साङ्ख्यमानिनः॥ 28॥
चतुर्दशे जीवस्य कर्तृत्वाधिकरणे सूत्राणि
“बुद्धेः परिणामित्वेन क्रियावेशात्मकं कर्तृत्वं सम्भवति, न त्वसङ्गस्यात्मनः”- इति यत्साङ्खैरुक्तम् ।
तदसङ्गतम्। करणत्वेन क्लृप्तशक्तिकाया बुद्धेः, कर्तृशक्तिर्न कल्पयितुं शक्या, कुठारादा.वदर्शनात्। बुद्धेः कर्तृत्वे, करणान्तरस्य कल्पनीयत्वाच्च। न च- मा भूत्कर्ता- इति वाच्यम्, पूर्वकाण्डोक्त-यागादिव्यापाराणाम्, उत्तरकाण्डोक्तश्रवणादिव्यापाराणां लौकिककृष्यादिव्यापाराणां च कर्तृसापेक्षत्वात्। तस्मात्- जीवः कर्ता॥
4सिद्धान्तः
करणत्वान्न धीः कर्त्री यागश्रवणलौकिकाः।
व्यापारा न विना कर्त्रा तस्मा.ज्जीवस्य कर्तृता॥ 29॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “उत्क्रान्तिगत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “साभासबुद्ध्याऽणुत्वेन तदुपाधित्वतोऽणुता । जीवस्य सर्वगत्वं तु स्वतो ब्रह्मत्वतश्श्रुतम्॥ 27॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
पञ्चदशे जीवस्याध्यस्तकर्तृत्वाधिकरणे सूत्रम्
SŪयथा च तक्षोभयथा॥2.3.40॥
पञ्चदशाधिकरणमारचयति –
1विषयः
कर्तृत्वं वास्तवं किंवा कल्पितं वास्तवं भवेत्।
3पूर्वपक्षः
यजेतेत्यादिशास्त्रेण सिद्धस्याबाधितत्वतः॥ 30॥
पूर्वाधिकरणे प्रतिपादितस्य कर्तृत्वस्य बाधाभावाद्वास्तवम्। इति प्राप्ते,
4सिद्धान्तः
असङ्गो हीति तद्बाधा-त्स्फटिके रक्ततेव तत्।
अध्यस्तं धीचक्षुरादि-करणोपाधिसन्निधेः॥ 31॥
ब्रूमः- “असङ्गो ह्ययं पुरुषः” इति श्रुत्या कर्तृत्वसङ्गो बाध्यते। अतो यथा जपाकुसुमसन्निधिवशात् स्फटिके रक्तत्वमध्यस्तम्, तथा- अन्तःकरणसन्निधिवशात् कर्तृत्वमात्मन्यध्यस्यते॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “कर्त्रधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “करणत्वान्न धीः कर्त्री यागश्रवणलौकिकाः। व्यापारा न विना कर्त्रा तस्मा.ज्जीवस्य कर्तृता॥ 29॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
षोडश ईश्वरस्य जीवप्रवर्तकत्वाधिकरणे सूत्रे
SŪपरात्तु तच्छ्रुतेः॥2.3.41॥
SŪकृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धादवैयर्थ्यादिभ्यः॥2.3.42॥
षोडशाधिकरणमारचयति –
1विषयः
प्रवर्तकोऽस्य रागादि-रीशो वा, रागतः कृषौ।
3पूर्वपक्षः
दृष्टा प्रवृत्ति.र्वैषम्य-मीशस्य प्रेरणे भवेत्॥ 32॥
लोके कृषीवलादीनां रागद्वेषावेव प्रवर्तकौ दृष्टौ। तदनुसारात् धर्माधर्मकर्तृजीवस्यापि तावेव प्रवर्तकावभ्युपेयौ। ईश्वरस्य प्रवर्तकत्वे- कांश्चिज्जीवान्धर्मे प्रवर्तयति, कांश्चिदधर्मे, इति वैषम्यं दुर्वारम्। तस्मात्- नेश्वरः प्रवर्तकः। इति प्राप्ते,
4सिद्धान्तः
सस्येषु वृष्टिव.ज्जीवे-ष्वीशस्याविषमत्वतः।
रागोऽन्तर्याम्यधीनोऽत ईश्वरोऽस्य प्रवर्तकः॥ 33॥
ब्रूमः- न तावदीश्वरस्य वैषम्यदोषप्रसङ्गः। वृष्टिव.त्साधारणानिमित्तत्वात्। यथा वृष्टेः सस्याभिवृद्धिहेतुत्वेऽपि, व्रीहियवादिवैषम्ये बीजानामेव निमित्तत्वम्, तथेश्वरस्य “यथायथं जीवाः प्रवर्तन्ताम्” इत्यनुज्ञया साधारणप्रवर्तकत्वात्।
असाधारणप्रवर्तकत्वेऽपि न वैषम्यम्, पूर्वकृतकर्मणां वासनानां च वैषम्यहेतुत्वात्।
कर्मणां फलहेतुत्वमेव, न कर्मान्तरहेतुत्वम्- इति चेत्। सत्यम्। सुखदुःखरूपस्य स्वफलस्य प्रदानाय जीवं व्यापारयत्सु कर्मसु, अर्थात्कर्मान्तरमपि निष्पद्यत इति दुर्वारं तद्धेतुत्वम्। वासनानां तु साक्षादेव कर्महेतुत्वम्।
तथा चेश्वरस्य कुतो वैषम्यप्रसङ्गः? यत्तु- रागस्य प्रवर्तकत्वनिदर्शनमुदाहृतम्। तत्तथाऽस्तु। न तावतेश्वरस्य प्रवर्तकत्वहानिः, सर्वान्तर्यामिणेश्वरेण रागस्यापि नियम्यमानत्वात्। तस्मात्- ईश्वरो जीवस्य प्रवर्तकः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तक्षाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “असङ्गो हीति तद्बाधा-त्स्फटिके रक्ततेव तत्। अध्यस्तं धीचक्षुरादि-करणोपाधिसन्निधेः॥ 31॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪअंशो नानाव्यपदेशा.दन्यथा चापि दाशकितवादित्व.मधीयत एके॥2.3.43॥
SŪमन्त्रवर्णाच्च॥2.3.44॥
SŪअपि च स्मर्यते॥2.3.45॥
SŪप्रकाशादिव.न्नैवं परः॥2.3.46॥
SŪस्मरन्ति च॥2.3.47॥
SŪअनुज्ञापरिहरौ देहसम्बन्धा.ज्ज्योतिरादिवत्॥2.3.48॥
SŪअसन्ततेश्चाव्यतिकरः॥2.3.49॥
SŪआभास एव च॥2.3.50॥
SŪअदृष्टानियमात्॥2.3.51॥
SŪअभिसन्ध्यादिष्वपि चैवम्॥2.3.52॥
SŪप्रदेशादिति चे.न्नान्तर्भावात्॥2.3.53॥
सप्तदशाधिकरणमारचयति –
1विषयः
किं जीवेश्वरसाङ्कर्यं व्यवस्था वा श्रुतिद्वयात्।
अभेदभेदविषया-त्साङ्कर्यं न निवार्यते॥ 34॥
3पूर्वपक्षः
अंशोऽवच्छिन्न आभास इत्यौपाधिककल्पनैः।
जीवेशयो.र्व्यवस्था स्या-ज्जीवानां च परस्परम्॥ 35॥
सप्तदशे जीवेश्वरव्यवस्थाधिकरणे सूत्राणि
“तत्त्वमसि” इत्यादिश्रुतिः जीवेशयो.रभेदं प्रतिपादयति। “आत्मा वा अरे द्रष्टव्यः” इत्यादिना द्रष्टृ-द्रष्टव्यरूपेण भेदः प्रतीयते। तथाच सति भेदश्रुतिबलात्, “जीवो नास्ति” इत्यपलपितु.मशक्यम्। अभेदश्रुत्या च ईश्वरात्पृथक्त्वेन व्यवस्थापयितुं न शक्यते। तस्मा.द्विद्यमानस्य जीवस्येश्वरेण साङ्कर्यं दुर्वारम्। परस्परं च जीवाना.मीश्वरादभेदद्वारा साङ्कर्य.मानुषङ्गिकम्। तस्मात्- ब्रह्मवादिनो न जगद्व्यवस्था। इति प्राप्ते,
4सिद्धान्तः
इति वैयासिकन्यायमालायां द्वितीयाध्यायस्य तृतीयः पादः॥ 3॥
ब्रूमः- यद्यपि- गोमहिषव.ज्जीवेश्वरयो.रत्यन्तभेदो वास्तवो नास्ति, तथाऽपि व्यवहारदशाया.मुपाधिकल्पितं भेदमाश्रित्य, शास्त्राणि त्रेधा जीवं निरूपयन्ति-
“ममैवांशो जीवलोके जीवभूतः सनातनः।- इत्यंशत्वमवगम्यते।
“स समानः सन्नुभौ लोका.वनुसञ्चरति” इति श्रुतौ विज्ञानमयस्य जीवस्य विज्ञानशब्दवाच्यया बुद्ध्या, समानपरिमाणनिर्देशात् घटाकाशवत्, अवच्छिन्नत्वं प्रतीयते।
“एक एव तु भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत्”।। इत्याभासत्वमवगम्यते।
तस्मात्सुलभैव ब्रह्मवादिनो जीवेश्वरव्यवस्था। जीवानां च परस्पर.मनेकजलपात्रस्थ.बहुसूर्यप्रतिबिम्बव.द्व्यवहारव्यवस्था सुतरा.मुपपद्यते। तस्मात्- न कोऽपि दोषः- इति सिद्धम्॥
द्वितीयाध्यायस्य चतुर्थः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “परायत्ताधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सस्येषु वृष्टिव.ज्जीवे-ष्वीशस्याविषमत्वतः। रागोऽन्तर्याम्यधीनोऽत ईश्वरोऽस्य प्रवर्तकः॥ 33॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]