2.2.1
रचनानुपपत्त्यधिकरणम्
SŪरचनानुपपत्तेश्च नानुमानम्॥2.2.1॥
SŪप्रवृत्तेश्च॥2.2.2॥
SŪपयोम्बुवच्चेत्तत्रापि॥2.2.3॥
SŪव्यतिरेकानवस्थितेश्चानपेक्षत्वात्॥2.2.4॥
SŪअन्यत्राभावाच्च न तृणादिवत्॥2.2.5॥
SŪअभ्युपगमेऽप्यर्थाभावात्॥2.2.6॥
SŪपुरुषाश्मवदिति चेत्तथाऽपि॥2.2.7॥
SŪअङ्गित्वानुपपत्तेश्च॥2.2.8॥
SŪअन्यथाऽनुमितौ च ज्ञशक्तिवियोगात्॥2.2.9॥
SŪविप्रतिषेधाच्चासमञ्जसम्॥2.2.10॥
द्वितीयपादस्य प्रथमाधिकरणमारचयति –
1विषयः
प्रधानं जगतो हेतु-र्न वा सर्वे घटादयः।
3पूर्वपक्षः
अन्वितास्सुखदुःखाद्यै-र्यतो हेतुरतो भवेत्॥ 1॥
प्रथमे प्रधानस्य जगद्धेतुत्वाभावाधिकरणे सूत्राणि
सुखदुःखमोहात्मकं प्रधानं जगतः प्रकृतिः, जगति सुखाद्यन्वयदर्शनात्। घटपटादय उपलभ्यमानाः सुखाय भवन्ति, उदकाहरण.प्रावरणादिकारित्वात्। त एव घटादयोऽन्यैरपह्रियमाणा.स्तस्यैव दुःखजनकः। यदोदकाहरणादिकार्यं नापेक्षितम्, तदा सुखदुःखे न जनयन्ति, केवलमुपेक्षणीयत्वेनावतिष्ठन्ते। तदिदमुपेक्षाविषयत्वं मोहः, “मुह वैचित्त्ये” इति धातोर्मोहशब्दनिष्पत्तेः उपेक्षणीयेषु चित्तवृत्त्यनुदयात्। अतः सुखदुःखमोहान्वयदर्शनात् “प्रधानं प्रकृतिः” इति साङ्ख्या मन्यन्ते। इति प्राप्ते,
4सिद्धान्तः
न हेतु.र्योग्यरचना-प्रवृत्त्यादे.रसम्भवात्।
सुखाद्या आन्तरा बाह्या घटाद्यास्तु कुतोऽन्वयः॥ 2॥
ब्रूमः- न प्रधानं जगद्धेतुः, देहेन्द्रियमहीधरादिरूपस्य विचित्रस्य प्रतिनियत.नानासन्निवेशविशेषस्य जगतो रचनायाम् अचेतनस्य प्रधानस्य योग्यत्वासम्भवात्। लोके हि प्रतिनियतकार्यस्य विचित्रनानाप्रासादादेः अतिबुद्धिमत्कर्तृकत्वोपलम्भात्।
आस्तां तावदियं रचना, तत्सिद्ध्यर्था प्रवृत्तिरपि नाचेतनस्योपपद्यते, चेतनानधिष्ठिते शकटादौ तददर्शनात्। अथ पुरुषस्य चेतनस्य प्रकृत्यधिष्ठातृत्वम् अभ्युपगम्येत, तर्हि- असङ्गत्वं पुरुषस्य हीयते- इत्यपसिद्धान्तापत्तिः।
यदुक्तम्- सुखदुःखमोहान्विता घटादयः- इति। तदसत्। सुखादीनामान्तरत्वात्, घटादीनां बाह्यत्वात्। तस्मात्- न प्रधानं जगद्धेतुः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्यादिमतानां दुष्टत्वं दर्शितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्वधर्मोपपत्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति वैयासिकन्यायमालायां द्वितीयाध्यायस्य प्रथमः पादः॥ 1॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
द्वितीये ब्रह्मणो विसदृशजगदुत्पत्तौ काणादीयदृष्टान्तसद्भावाधिकरणे सूत्रम्
SŪमहद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्॥2.2.11॥
द्वितीयाधिकरणमारचयति –
1विषयः
नास्ति काणाददृष्टान्तः किं वास्त्यसदृशोद्भवे।
3पूर्वपक्षः
नास्ति शुक्लपटश्शुक्लात् तन्तोरेव हि जायते॥ 3॥
पूर्वस्मिन्पादे चेतनाद्ब्रह्मणो विलक्षणम् अचेतनं जगज्जायते- इत्यत्र साङ्ख्यान्प्रति लोकसिद्धं गोमयवृश्चिकादिनिदर्शनमभिहितम्, तावता साङ्ख्यैः क्रियमाणस्याक्षेपस्य परिहृतत्वात्, स्वपक्षसाधनसम्पन्नं परपक्षदूषणं चास्मिन्पादे प्रक्रम्य, पूर्वाधिकारे साङ्ख्यमतं दूषितम्।
इतःपरं वैशेषिकानां मतं दूषयितव्यम्। तन्मतस्य च प्रक्रियाबहुलत्वात्, तद्वासनावासितः पुरुषः तत्प्रक्रियासिद्धविलक्षणोत्पत्तिदृष्टान्त.मन्तरेण ब्रह्मकारणवादं न बहु मन्यते। अतो “विसदृशोत्पत्तौ काणादमतसिद्धो दृष्टान्तोऽस्ति, न वा” इति विचार्यते। नास्ति इति तावत्प्राप्तम्। यतः शुक्लः पटः शुक्लेभ्य एव तन्तुभ्यो जायते, नतु रक्तेभ्यः। तस्मात्- नास्ति। इति प्राप्ते,
4सिद्धान्तः
अणु द्व्यणुक.मुत्पन्न-मनणोः परिमण्डलात्।
अदीर्घा.द्द्व्यणुका.द्दीर्घं त्र्यणुकं तन्निदर्शनम्॥ 4॥
ब्रूमः- अस्त्येव विसदृशोत्पत्तौ दृष्टान्तः। तथाहि- परमाणवः पारिमाण्डल्यपरिमाणयुक्ताः। न त्वणुपरिमाणयुक्ताः। द्वाभ्यां च परमाणुभ्या.मणुपरिमाणरहिताभ्या.मणुपरिमाणोपेतं द्व्यणुकमुत्पद्यते। इदमेकं निदर्शनम्।
तथा- ह्रस्वपरिमाणोपेतं दीर्घपरिमाणरहितं द्व्यणुकम्। तादृशो विसदृशेभ्यस्त्रिभ्यो द्व्यणुकेभ्यो दीर्घपरिमाणोपेत.मणुपरिमाणरहितं त्र्यणुक.मुत्पद्यते। इदमपरं निदर्शनम्। एवमन्यान्यपि तत्प्रक्रियासिद्धानि निदर्शना.न्युदाहर्तव्यानि॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्यादिमतानां दुष्टत्वं दर्शितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “रचनानुपपत्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न हेतु.र्योग्यरचना-प्रवृत्त्यादे.रसम्भवात्। सुखाद्या आन्तरा बाह्या घटाद्यास्तु कुतोऽन्वयः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.3
परमाणुजगदकारणत्वाधिकरणम्
SŪउभयथाऽपि न कर्मात.स्तदभावः॥2.2.12॥
SŪसमवायाभ्युपगमाच्च साम्या.दनवस्थितेः॥2.2.13॥
SŪनित्यमेव च भावात्॥2.2.14॥
SŪरूपादिमत्त्वाच्च विपर्ययो दर्शनात्॥2.2.15॥
SŪउभयथा च दोषात्॥2.2.16॥
SŪअपरिग्रहाच्चात्यन्त.मनपेक्षा॥2.2.17॥
SŪसमुदाय उभयहेतुकेऽपि तदप्राप्तिः॥2.2.18॥
SŪइतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात्॥2.2.19॥
SŪउत्तरोत्पादे च पूर्वनिरोधात्॥2.2.20॥
SŪअसति प्रतिज्ञोपरोधो यौगपद्यमन्यथा॥2.2.21॥
SŪप्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात्॥2.2.22॥
SŪउभयथा च दोषात्॥2.2.23॥
SŪआकाशे चाविशेषात्॥2.2.24॥
SŪअनुस्मृतेश्च॥2.2.25॥
SŪनासतोऽदृष्टत्वात्॥2.2.26॥
SŪउदासीनानामपि चैवं सिद्धिः॥2.2.27॥
तृतीयाधिकरणमारचयति –
1विषयः
जनयन्ति जगन्नो वा संयुक्ताः परमाणवः।
3पूर्वपक्षः
आद्यकर्मजसंयोगा-द्द्व्यणुकादिक्रमा.ज्जनिः॥ 5॥
तृतीये परमाणुकारणवादनिराकरणाधिकरणे सूत्राणि
प्रलीने पूर्वसिद्धे जगति, यदा महेश्वरस्य सिसृक्षा भवति, तदा प्राणिकर्मवशा.न्निखिलेषु परमाणुष्वाद्यं कर्मोत्पद्यते। तस्मात्कर्मणा एकः परमाणुः परमाण्वन्तरेण संयुज्यते। तस्माच्च संयोगाद्व्यणुकमारभ्यते। तेभ्यस्त्रिभ्यो द्व्यणुकेभ्यस्त्र्यणुकम्- इत्यादिक्रमेण जगदुत्पत्तौ बाधकाभावात् संयुक्ताः परमाणवो जगज्जनयन्ति। इति प्राप्ते,
4सिद्धान्तः
सनिमित्तानिमित्तादि-विकल्पेष्वाद्यकर्मणः।
असम्भवा.दसंयोगे जनयन्ति न ते जगत्॥ 6॥
ब्रूमः-
यदेतदाद्यं कर्म, तत् निर्निमित्तं सनिमित्तं वा? निर्निमित्तत्वे नियामकाभावात्, सर्वदा तदुत्पत्तौ (सत्यां) प्रलयेऽपि तत्प्रसङ्गः।
सनिमित्त्वेऽपि, तन्निमित्तं दृष्टम्, अदृष्टं वा? न तावद्दृष्टम्, प्रयत्नस्याभिघातस्य वा शरीरोत्पत्तेः प्रागसम्भवात्।
ईश्वरप्रयत्नस्य नित्यस्य कादाचित्काद्यकर्मोत्पत्तिं प्रति, अनियामकत्वात्।
नाप्यदृष्ट.माद्यकर्मनिमित्तम्, आत्मसमवेतस्यादृष्टस्य परमाणुभिरसम्बन्धात्।
अत एवमादिविकल्पप्रसरे सति, आद्यकर्मासम्भवात् न परमाणुसंयोगो जायते। ततः “संयुक्तेभ्यः परमाणुभ्यो जगज्जनिः” इति मतं दूरापास्तम्॥
समुदायाघिकरणम्
चतुर्थे वैनाशिकखण्डने समुदायासिद्ध्यधिकरणे सूत्राणि
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्यादिमतानां दुष्टत्वं दर्शितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “महद्दीर्घाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अणु द्व्यणुक.मुत्पन्न-मनणोः परिमण्डलात्। अदीर्घा.द्द्व्यणुका.द्दीर्घं त्र्यणुकं तन्निदर्शनम्॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
अपरः पक्षः
चतुर्थाधिकरणमारचयति –
1विषयः
समुदाया.वुभौ युक्ता.वयुक्तौ वाऽणुहेतुकः।
3पूर्वपक्षः
एकोऽपरः स्कन्धहेतु-रित्येवं युज्यते द्वयम्॥ 7॥
बाह्यास्तित्ववादिनो बौद्धा मन्यन्ते- द्वौ समुदायौ- बाह्यः, आभ्यन्तरश्चेति। तत्र बाह्यो भू-नदी-समुद्रादिकः। आन्तरश्चित्तचैत्त्यात्मकः।
तदेतत्समुदायद्वयमेवाशेषं जगत्। तत्र बाह्यसमुदाये परमाणवः कारणम्। ते च परमाणवश्चतुर्विधाः- केचित्कठिनाकाराः पार्थिवाख्याः, अपरे स्निग्धा आप्याः, अन्ये चोष्णा.स्तैजसाख्याः, अन्ये चलनात्मका वायवीयाः। तेभ्यश्चतुर्विधेभ्यः परमाणुभ्यो युगपत्पुञ्जीभूतेभ्यो बाह्यसमुदायो जायते।
आन्तरस्य समुदायस्य स्कन्धपञ्चकं कारणम्। रूपस्कन्धः, विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धश्चेति पञ्चस्कन्धाः।
तत्र चित्तेन निरूप्यमाणाः शब्दस्पर्शादयो रूपस्कन्धः।
तदभिव्यक्ति.र्विज्ञानस्कन्धः।
तज्जन्यं दुःखं वेदनास्कन्धः।
देवदत्तादिनामधेयं संज्ञास्कन्धः।
एतेषां वासना संस्कारस्कन्धः।
तेभ्यः पञ्चभ्यः पुञ्जीभूतेभ्य आन्तरसमुदायो जायते। तस्मात्- युज्यते समुदायद्वयम्। इति प्राप्ते,
4सिद्धान्तः
स्थिरचेतनराहित्या-त्स्वयं वाऽचेतनत्वतः।
न स्कन्धानामणूनां वा समुदायोऽत्र युज्यते॥ 8॥
ब्रूमः- किमणूनां स्कन्धानां च सङ्घातोत्पत्तौ निमित्तभूतश्चेतनः अन्योऽस्ति? किं वा स्वयमेव संहन्यते।
आद्येऽपि चेतनः स्थायी, क्षणिको वा। स्थायित्वे- अपसिद्धान्तः। क्षणिकत्वे- प्रथमं स्वयंलब्धात्मकः पश्चात्संघातोत्पत्तिं करोति- इति वक्तुमशक्यम्।
द्वितीये तु- अचेतनाः स्कन्धा अणवश्च नियामकं, चेतनमन्तरेण प्रतिनियताकारेण कथं संहन्यन्ताम्? तस्मात्- न युक्तं समुदायद्वयम् भोक्तुः संहन्तुः वा अभावात्॥
SŪनाभावः उपलब्धेः॥2.2.28॥
SŪवैधर्म्याच्च न स्वप्नादिवत्॥2.2.29॥
SŪन भावोऽनुपलब्धेः॥2.2.30॥
SŪक्षणिकत्वाच्च॥2.2.31॥
SŪसर्वथाऽनुपपत्तेश्च॥2.2.32॥
पञ्चमाधिकरणमारचयति –
1विषयः
विज्ञानस्कन्धमात्रत्वं युज्यते वा न युज्यते।
3पूर्वपक्षः
युज्यते स्वप्नदृष्टान्ता-द्बुद्ध्यैव व्यवहारतः॥ 9॥
पञ्चमे विज्ञानवादनिराकरणाधिकरणे सूत्राणि
केचिद्बौद्धा बाह्यार्थमपलपन्तो विज्ञानमात्रं तत्त्वमाहुः। न च- तत्र व्यवहारानुपपत्तिः, स्वप्ने बाह्यार्थाननपेक्ष्य, केवलया बुद्ध्या व्यवहारदर्शनात्, तथैव जाग्रद्व्यवहारस्याप्युपपत्तेः। तस्मात्- विज्ञानस्कन्धमात्रत्वं युज्यते। इति प्राप्ते,
4सिद्धान्तः
अबाधात्स्वप्नवैषम्यं बाह्यार्थस्तूपलभ्यते।
बहिर्व.दिति तेऽप्युक्ति-र्नातो धी.रर्थरूपभाक्॥ 10॥
ब्रूमः- विषमो हि स्वप्नदृष्टान्तः, प्रबोधदशायां स्वप्नस्य बाध्यमानत्वात्। जाग्रद्व्यवहारस्य च न क्वचिद्बाधं पश्यामः। न च- बाह्यार्थसद्भावे प्रमाणाभावः, उपलब्धेरेव प्रमाणत्वात्। उपलभ्यन्ते हि घटादयो बहिष्ट्वेन। अथोच्येत- बुद्धिरेव बाह्यघटादिव.दवभासते। तथा चाहुः –
“यदन्तर्ज्ञेयतत्त्वं तद्बहिर्व.दवभासते” इति
एवं तर्हि- त्वदुक्तिरेव बाह्यार्थसद्भावे प्रमाणम्- इति ब्रूमः। क्वचिदपि बाह्यार्थाभावे तद्व्युत्पत्तिराहित्यात्, “बहिर्वत्” इत्युपमानोक्तिर्न सङ्गच्छेत। तस्मात्– बाह्यार्थसद्भावात् विज्ञानमात्रत्वं न युक्तम्॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्यादिमतानां दुष्टत्वं दर्शितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “परमाणुजगदकारणत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “सनिमित्तानिमित्तादि-विकल्पेष्वाद्यकर्मणः। असम्भवा.दसंयोगे जनयन्ति न ते जगत्॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.5
एकस्मिन्नसम्भवाधिकरणम्
SŪनैकस्मिन्नसम्भवात्॥2.2.33॥
SŪएवं चात्माकार्त्स्न्यम्॥2.2.34॥
SŪन च पर्यायादप्यविरोधो विकारादिभ्यः॥2.2.35॥
SŪअन्त्यावस्थिते.श्चोभयनित्यत्वादविशेषः॥2.2.36॥
षष्ठाधिकरणमारचयति –
1विषयः
सिद्धिस्सप्तपदार्थानां सप्तभङ्गीनयान्न वा।
3पूर्वपक्षः
साधकन्यायसद्भावा-त्तेषां सिद्धौ किमद्भुतम्॥ 11॥
षष्ठ आर्हतानां सप्तभङ्गीनिराकरणाधिकरणे सूत्राणि
आर्हता मन्यन्ते- जीवोऽजीवश्चेति द्वौ पदार्थौ।
जीवश्चेतनः शरीरपरिमाणः सावयवः।
अजीवः षड्विधः। तत्र महीधरादिरेकः। आस्रव-संवर-निर्जर-बन्ध-मोक्षाख्याः पञ्च।
“आस्रवत्यनेन जीवो विषयेषु” इत्यास्रव इन्द्रियसङ्घातः।
“संवृणोति विवेकम्” इत्यविवेकादि संवरः।
“निःशेषेण जीर्यत्यनेन कामक्रोधादिः” इति केशोल्लुञ्चनतप्तशिलारोहणादिकं तपो निर्जरः।
कर्माष्टकेनापादिता जन्ममरणपरम्परा बन्धः।
चत्वारि घातिकर्माणि पापविशेषरूपाणि। चत्वारि चाघातिकर्माणि पुण्यविशेषरूपाणि। शास्त्रोक्तोपायेन तेभ्येऽष्टभ्यः कर्मभ्यो विनिर्गतस्य जीवस्य सततोर्ध्वगमनं मोक्षः।
त एते सप्तपदार्थाः सप्तभङ्गीरूपेण न्यायेन व्यवस्थाप्यन्ते।
“स्यादस्ति,
स्यान्नास्ति,
स्यादस्ति च नास्ति च,
स्यादवक्तव्यः,
स्यादस्ति चावक्तव्यश्च,
स्यान्नास्ति चावक्तव्यश्च,
स्यादस्ति च नास्ति चावक्तव्यश्च” इति सप्तभङ्गीनयः।
अयमर्थः- स्याच्छब्द ईषदर्थवाची निपातः।
प्रतिपादिनोऽपि चतुर्विधाः- 1) सद्वादिनः, 2) असद्वादिनः, 3) सदसद्वादिनः, 4) अनिर्वचनीयवादिनश्चेति।
पुनरपि- अनिर्वचनीयमतेन मिश्रितानि सदादिमतानि, इति त्रिविधा वादिनः।
5) अनिर्वचनीय सद्वादिनः, 6) अनिर्वचनीय असद्वादिनः, 7) अनिर्वचनीय सदसद्वादिनः।
तानेतान्सप्तविधान्वादिनः प्रति, सप्तविधा न्यायाः प्रयोक्तव्याः।
तद्यथा- सद्वादी समागत्यार्हतं प्रति “किं त्वन्मते मोक्षोऽस्ति” इति पृच्छति। तत्रार्हत उत्तरं ब्रूते- “ईषदस्ति” इति।
एवमन्यानपि वादिनः प्रति, “स्यान्नास्ति” इत्यादीन्युदाहर्तव्यानि। तावता वादिनः सर्वे निर्विण्णाः सन्तो, नोत्तरं प्रतिपद्यन्ते।
अतोऽस्य सप्तभङ्गीरूपस्य साधकन्यायस्य सद्भावाज्जीवादीनां सप्तपदार्थानां सिद्धौ, किमत्राश्चर्यम्? इति प्राप्ते-
4सिद्धान्तः
एकस्मिन्सदसत्त्वादि-विरुद्धप्रतिपादनात्।
अपन्यासः सप्तभङ्गी न च जीवस्य सांशता॥ 12॥
ब्रूमः-सप्तभङ्गीरूपोयमपन्यासः। एकस्य जीवपदार्थस्य सद्वादिनं प्रति सद्रूपत्वम्, असद्वादिनं प्रत्यसद्रूपत्वं च, इत्येवमादिविरुद्धधर्मप्रतिपादकत्वात्। न च- जीवस्य सावयवत्वं युज्यते, अनित्यत्वप्रसङ्गात्। तदनित्यत्वे च मोक्षः कस्य पुरुषार्थः स्यात्। तस्मात्- न्यायाभासेन सप्तभङ्याख्येन जीवादिपदार्थानां न सिद्धिः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्यादिमतानां दुष्टत्वं दर्शितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अभावाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अबाधात्स्वप्नवैषम्यं बाह्यार्थस्तूपलभ्यते। बहिर्व.दिति तेऽप्युक्ति-र्नातो धी.रर्थरूपभाक्॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪपत्युरसामञ्जस्यात्॥2.2.37॥
SŪसम्बन्धानुपपत्तेश्च॥2.2.38॥
SŪअधिष्ठानानुपपत्तेश्च॥2.2.39॥
SŪकरणवच्चेन्न भोगादिभ्यः॥2.2.40॥
SŪअन्तवत्त्व.मसर्वज्ञता वा॥2.2.41॥
सप्तमाधिकरणमारचयति –
1विषयः
तटस्थेश्वरवादोऽयं स युक्तोऽथ न युज्यते।
3पूर्वपक्षः
युक्तः कुलालदृष्टान्ता-न्नियन्तृत्वस्य सम्भवात्॥ 12॥
सप्तमे तटस्थेश्वरवादनिराकरणाधिकरणे सूत्राणि
पूर्वाध्यायस्योपान्त्याधिकरणे- “जगतो निमित्तमुपादानं चेश्वरः”- इत्यागमबलात् यदुक्तम्, तदेतत् असहमानास्तार्किकाः शैवादयः, केवलं निमित्तत्वमीश्वरस्य मन्यन्ते। युक्तिं चाहुः- यथा कुलालोऽनुपादानभूतो दण्डचक्रादीन्नियच्छन् कर्ता भवति, तथा तटस्थ ईश्वरः। इति प्राप्ते,
4सिद्धान्तः
न युक्तो विषमत्वादि-दोषा.द्वैदिक ईश्वरे।
अभ्युपेते तटस्थत्वं त्याज्यं श्रुतिविरोधतः॥ 13॥
ब्रूमः- न युक्तं केवलनिमित्तत्वम्, वैषम्यनैर्घृण्यदोषस्य दुष्परिहरत्वात्। कथं तर्हि त्वया दोषः परिहृतः- इति चेत्। “प्राणिकर्मसापेक्षत्वात्” इति ब्रूमः। तथात्वे चागमोऽस्माकं प्रमाणम्।
त्वयाऽप्यन्ततो गत्वागमश्चेदङ्गीक्रियते, तर्हि तटस्थत्वमीश्वरस्य परित्याज्यं स्यात्। “बहु स्यां प्रजायेय” इत्युपादानश्रुत्या विरोधात्। तस्मात्- न युक्तः तटस्थेश्वरवादः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्यादिमतानां दुष्टत्वं दर्शितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकस्मिन्नसम्भवाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “एकस्मिन्सदसत्त्वादि-विरुद्धप्रतिपादनात्। अपन्यासः सप्तभङ्गी न च जीवस्य सांशता॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.2.7
उत्पत्त्यसम्भवाधिकरणम्
SŪउत्पत्त्यसम्भवात्॥2.2.42॥
SŪन च कर्तुः करणम्॥2.2.43॥
SŪविज्ञानादिभावे वा तदप्रतिषेधः॥2.2.44॥
SŪविप्रतिषेधाच्च॥2.2.45॥
अष्टमाधिकरणमारचयति –
1विषयः
जीवोत्पत्त्यादिकं पञ्चरात्रोक्तं युज्यते न वा।
युक्तं नारायणव्यूह-तत्समाराधनादिवत्॥ 14॥
3पूर्वपक्षः
युज्यता.मविरुद्धांशो जीवोत्पत्तिर्न युज्यते।
उत्पन्नस्य विनाशित्वे कृतनाशादिदोषतः॥ 15॥
अष्टमे जीवोत्पत्तिवादनिराकरणाधिकरणे सूत्राणि
पाञ्चरात्रा भागवता मन्यन्ते- भगवानेको वासुदेवो जगदुपादानं निमित्तं च। तत्समाराधन-ध्यान-ज्ञानै-र्भवबन्धच्छेदः। तस्माच्च वासुदेवात्सङ्कर्षणाख्यो जीवो जायते। जीवाच्च प्रद्युम्नाख्यं मनः। मनसश्च अनिरुद्धाख्योऽहंकारः।
ते एते वासुदेवादय.श्चत्वारो व्यूहाः सर्वात्मकाः- इति जीवोत्पत्तौ प्राप्तायाम्,
उच्यते। तत्र श्रुतेरविरोधात्- वासुदेवं, सत्समाराधनादिकं च अभ्युपगच्छामः। यत्तु जीव उत्पद्यते- इत्युक्तम्। तदसत्, कृतनाशाकृताभ्यागमप्रसङ्गात्।
पूर्वसृष्टौ यो जीवः, तस्योत्पत्तिमत्त्वे प्रलयदशायां तस्मिन्विनष्टे सति, तत्कृतधर्माधर्मयोरफलप्रदत्वेन विनाशः प्रसज्येत।
अस्मिंश्च कल्पे उत्पद्यमाननूतनजीवस्य धर्माधर्मयोः पूर्वमननुष्ठितयोः सतोः, इह सुखदुःखप्राप्तिर्भवतीति अकृताभ्यागमः प्रसज्येत। तस्माज्जीवोत्पत्त्यादिकं न युक्तम्॥
द्वितीयाध्यायस्य तृतीयः पादः
4सिद्धान्तः
इति वैयासिकन्यायमालायां द्वितीयाध्यायस्य द्वितीयः पादः॥ 2॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्यादिमतानां दुष्टत्वं दर्शितम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “न युक्तो विषमत्वादि-दोषा.द्वैदिक ईश्वरे। अभ्युपेते तटस्थत्वं त्याज्यं श्रुतिविरोधतः॥ 13॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]