SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Vaiyāsika Nyāyamālā · Adhyāya 2, Pāda 1

अविरोधः

साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः

13adhikaraṇas
37sūtras
2.1.1 स्मृत्यधिकरणम्
प्रथमे सांख्यस्मृतेर्बाध्यत्वाधिकरणे सूत्रे
स्मृत्यनवकाशदोषप्रसङ्ग इति चेत् न, अन्यस्मृत्यनवकाशदोषप्रसङ्गात्॥2.1.1॥
इतरेषां चानुपलब्धेः॥2.1.2॥
प्रथमाधिकरणमारचयति –

1विषयः

धर्मे वेदस्सावकाश-स्सङ्कोचोऽनवकाशया॥ 1॥
अस्मिन् पादे सर्वेष्वधिकरणेषु पूर्वाध्यायोक्तः समन्वयो विषयः।

2संशयः

तत्रास्मिन्नधिकरणे वैदिकस्य समन्वयस्य सांख्यस्मृत्या सङ्कोचोऽस्ति, न वा इति सन्देहः।

3पूर्वपक्षः

सङ्कोचोऽस्ति, इति तावत्प्राप्तम्। कुतः- साङ्ख्यस्मृतेरनवकाशत्वेन प्रबलत्वात्। साङ्ख्यस्मृतिर्हि वस्तुतत्त्वनिरूपणायैव प्रवृत्ता, न त्वनुष्ठेयं धर्मं क्वचिदपि प्रतिपादयति। यदि तस्मिन्नपि वस्तुन्यसौ बाध्येत, तदा निरवकाशा स्यात्। वेदस्तु धर्मब्रह्मणी प्रतिपादयन्ब्रह्मण्येकस्मिन्बाध्यमानोऽपि धर्मे सावकाशः स्यात्। तस्मात्- अनवकाशया स्मृत्या सावकाशस्य वेदस्य सङ्कोचो युक्तः। इति प्राप्ते,

4सिद्धान्तः

अमूला कापिली बाध्या न सङ्कोचोऽनया ततः॥ 2॥
ब्रूमः- साङ्ख्यस्मृत्या वेदस्य सङ्कोचो न युक्तः। कुतः? मन्वादिस्मृतिभिः ब्रह्मकारणत्ववादिनीभिः बाधितत्वात्। प्रबला हि मन्वादिस्मृतयः प्रत्यक्षवेदमूलकत्वात्। न तथा कपिलस्मृतेः प्रधानकारणवादिन्याः मूलभूतं कञ्चन वेदमुपलभामहे, दृश्यमानवेदवाक्यानां ब्रह्मपरत्वस्य पूर्वमेव निर्णीतत्वात्। तस्मात्- न साङ्ख्यस्मृत्या वेदस्य सङ्कोचो युक्तः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्वव्याख्यानाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “॥समाप्तश्च प्रथमोऽध्यायः॥1॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.2 योगप्रत्युक्त्यधिकरणम्
द्वितीये योगस्मृतेर्बाध्यत्वाधिकरणे सूत्रम्
एतेन योगः प्रत्युक्तः॥2.1.3॥
द्वितीयाधिकरणमारचयति –

1विषयः

योगस्मृत्याऽस्ति सङ्कोचो न वा योगो हि वैदिकः।

3पूर्वपक्षः

तत्त्वज्ञानोपयुक्तश्च ततस्सङ्कुच्यते तया॥ 3॥
योगस्मृतिः पातञ्जलं शास्त्रम्। तत्रोक्तः अष्टाङ्गयोगः प्रत्यक्षवेदेऽप्युपलभ्यते। श्वेताश्वतरादिशाखासु योगस्य प्रपञ्चितत्वात्। किञ्च अयं योगस्तत्त्वज्ञानोपयोगी, “दृश्यते त्वग्र्यया बुद्ध्या“ इति योगसाध्यस्य चित्तैकाग्र्यस्य ब्रह्मसाक्षात्कारहेतुत्वश्रवणात्। ततः प्रमाभूतं योगशास्त्रम्। तच्च प्रधानस्य जगत्कारणतां वक्ति। तस्मात्- योगस्मृत्या वेदस्य सङ्कोचः। इति प्राप्ते,

4सिद्धान्तः

प्रमाऽपि योगे तात्पर्या-दतात्पर्यान्न सा प्रमा।
अवैदिके प्रधानादा-वसङ्कोचस्तयाऽप्यतः॥ 4॥
ब्रूमः- अष्टाङ्गयोगे तात्पर्यवत्वात्प्रमाणभूताऽपि सती योगस्मृतिः, अवैदिके प्रधानादौ न प्रमाणम्, तत्र तात्पर्याभावात्। तथा हि- “अथ योगानुशासनम्” [पा.यो.सू 1-1-1]इति प्रतिज्ञाय “योगश्चित्तवृत्तिनिरोधः“[पा.यो.सू 1-1-2] इति योगस्यैव लक्षणमुक्त्वा, तमेव कृत्स्नशास्त्रे प्रपञ्चयामासेति तत्र योगे तात्पर्यम्। न प्रधानादीनि प्रतिपाद्यतया प्रतिजज्ञे।
किं तर्हि द्वितीयपादे यमादिसाधनप्रतिपादके हेयं, हेयहेतुं, हानं, हानहेतुं विवेचयन्, प्रसङ्गात्साङ्ख्यस्मृतिप्रसिद्धानि प्रधानादीनि व्याजहार। ततो न तत्र तात्पर्यम्। तस्मात्- न योगस्मृत्या वेदस्य सङ्कोचः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “स्मृत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अमूला कापिली बाध्या न सङ्कोचोऽनया ततः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.3 विलक्षणत्वाधिकरणम्
न विलक्षणत्वादस्य तथात्वं च शब्दात्॥2.1.4॥
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्॥2.1.5॥
दृश्यते तु॥2.1.6॥
असदिति चेन्न प्रतिषेधमात्रत्वात्॥2.1.7॥
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्॥2.1.8॥
न तु दृष्टान्तभावात्॥2.1.9॥
स्वपक्षदोषाच्च॥2.1.10॥
तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः॥2.1.11॥
तृतीयाधिकरणमारचयति-

1विषयः

वैलक्षण्याख्यतर्केण बाध्यतेऽथ न बाध्यते।

3पूर्वपक्षः

बाध्यते साम्यनियमा-त्कार्यकारणवस्तुनोः॥ 5॥
तृतीये वैलक्षण्याभासस्य जगत्कारणत्वाबाधकत्वाधिकरणे सूत्राणि
अचेतनं जगच्चेतनाद्ब्रह्मणो न जायते विलक्षणत्वात्। यद्यस्माद्विलक्षणं, तत्तस्मान्न जायते। यथा गोर्महिषः' इत्यनेन तर्केण समन्वयो बाध्यते। इति प्राप्ते,

4सिद्धान्तः

मृद्धटादौ समत्वेऽपि दृष्टं वृश्चिककेशयोः ॥ स्वकारणेन वैषम्यं तर्काभासो न बाधकः ॥ 6 ॥
ब्रूमः-“ये ये कार्यकारणे ते ते सलक्षणे” इत्यस्या व्याप्तेर्वृश्चिकादौ व्यभिचारो दृश्यते। अचेतनाद्गोमयात् चेतनस्य वृश्चिकस्य उत्पत्तेः। चेतनात्पुरुषादचेतनानां केशनखादीनामुत्पद्यमानत्वात्। अतो वेदनिरपेक्षः शुष्कतर्को न क्वापि प्रतितिष्ठति। तदुक्तमाचार्यैः-
“यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः। अभियुक्ततरैरन्यै-रन्यथैवोपपाद्यते ” इति ।
तस्मात्- आभासत्वात् वैलक्षण्यहेतुर्न बाधकः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “योगप्रत्युक्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्रमाऽपि योगे तात्पर्या-दतात्पर्यान्न सा प्रमा। अवैदिके प्रधानादा-वसङ्कोचस्तयाऽप्यतः॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.4 शिष्टापरिग्रहाधिकरणम्
चतुर्थे काणादादिमतैः बाध्यत्वाभावाधिकरणे सूत्रम्
एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥2.1.12॥
चतुर्थाधिकरणमारचयति –

1विषयः

न्यूनतन्तुभिरारब्धो दृष्टोऽतो बाध्यते मतैः॥ 7॥

3पूर्वपक्षः

बाधोऽस्ति परमाण्वादि-मतैर्नो वा यतः पटः॥
शिष्टेष्टाऽपि स्मृतिस्त्यक्ता शिष्टत्यक्तमतं किमु॥
सांख्ययोगस्मृतिभ्यां तदीयतर्केण बाधो मा भून्नाम, कणादबुद्धादिस्मृतिभिस्तदीयतर्केण च समन्वयोऽपि बाध्यताम्। कणादो हि महर्षिः परमाणूनां जगत्कारणत्वं स्मरति स्म, तर्कं च तस्मिन्नर्थे प्रोवाच- “विमतं द्व्यणुकादिकं स्वस्मान्न्यूनपरिमाणेनारब्धं, कार्यद्रव्यत्वात्, यथा तन्तुभिः पटः” इति। बुद्धश्च भगवतो विष्णोरवतारोऽभावं जगद्धेतुं स्मरति स्म। तर्कं च तदनुकूलमाह- विमतं भावरूपं जगदभावपुरस्सरं भावरूपत्वात्, यथा- “सुषुप्तिपुरस्सरः स्वप्नप्रपञ्चः” इति। तस्मात्- तैः प्रबलैः कणादादिमतैर्बाधितः वेदान्तवाक्यसमन्वयः। इति प्राप्ते,

4सिद्धान्तः

नातो बाधो विवर्ते तु न्यूनत्वनियमो न हि॥ 8॥
ब्रूमः- यदा वैदिकशिरोमणिभिः पुराणकर्तृभिस्तत्र तत्र प्रसङ्गादुदाहृता प्रकृतिपुरुषादिप्रतिपादिका सांख्ययोगस्मृतिर्जगत्कारणविषये दौर्बल्येन परित्यक्ता, तदा निखिलैः शिष्टैरुपेक्षितानां कणादादिमतानां दौर्बल्यम्- इति किमु वक्तव्यम्? न खलु- ब्रह्मपद्मादिपुराणेषु क्वचिदपि प्रसङ्गाद्द्व्यणुकादिप्रक्रियोदाहृता। प्रत्युत –
“हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्”
इति बहुशो निन्दोपलभ्यते। यस्तु- न्यूनारभ्यत्वनियम उक्तः, नासौ विवर्तवादेऽस्ति। दूरस्थस्य पर्वताग्रस्थितैः महद्भिर्वृक्षैः अत्यल्पदूर्वाग्रभ्रमस्य जन्यमानत्वात्। यदपि- अभावपुरस्सरत्वानुमानम्, तत्रापि साध्यविकलो दृष्टान्तः। सुषुप्तेरवस्थास्वेव अवस्थानात्, आत्मनः सद्रूपस्याङ्गीकरणीयत्वे सति, स्वप्नस्याप्यभावपुरस्सरत्वाभावात्। तस्मात्- एतैर्मतैर्नास्ति बाधः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “विलक्षणत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मृद्धटादौ समत्वेऽपि दृष्टं वृश्चिककेशयोः ॥ स्वकारणेन वैषम्यं तर्काभासो न बाधकः ॥ 6 ॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.5 भोक्त्रापत्त्याधिकरणम्
पञ्चमे द्वैतस्य भोक्तृभोग्याकारभासमानत्वाधिकरणे सूत्रम्
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्॥2.1.13॥
पञ्चमाधिकरणमारचयति –

1विषयः

प्रत्यक्षादिप्रमासिद्धो भेदोऽसावन्यबाधकः॥ 9॥

3पूर्वपक्षः

अद्वैतं बाध्यते नो वा भोक्तृभोग्यविभेदतः॥
तरङ्गफेनभेदेऽपि समुद्रेऽभेद इष्यते॥
समन्वयेनावगम्यमान.मद्वैतं प्रत्यक्षादिसिद्धेन भोक्तृभोग्यभेदेन बाध्यते- इति चेत्। न। तरङ्गादिरूपेण भेदस्य, समुद्ररूपेणाभेदस्य च दृष्टत्वेन भेदाभेदयोर्विरोधाभावात्। भेदाभेदविरोधव्यवहारस्याकारभेदेनापि रहिते अत्यन्तमेकस्मिन्नपि वस्तुनि सावकाशत्वात्।
तस्मात्- ब्रह्माकारेणाद्वैतम्, भोक्तृभोग्याकारेण द्वैतम्- इत्याकारभेदात् व्यवस्थासिद्धौ न कोऽपि बाधः॥

4सिद्धान्तः

भोक्तृभोग्यविभेदेऽपि ब्रह्माद्वैतं तथाऽस्तु तत्॥ 10॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “शिष्टापरिग्रहाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नातो बाधो विवर्ते तु न्यूनत्वनियमो न हि॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.6 आरम्भणधिकरणम्
तदनन्यत्वमारम्भणशब्दादिभ्यः॥2.1.14॥
भावे चोपलब्धेः॥2.1.15॥
सत्त्वाच्चावरस्य॥2.1.16॥
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात्॥2.1.17॥
युक्तेः शब्दान्तराच्च॥2.1.18॥
पटवच्च॥2.1.19॥
यथा च प्राणादि॥2.1.20॥
षष्ठाधिकरणमारचयति-

1विषयः

समुद्रादाविव तयो-र्बाधाभावेन तात्त्विकौ॥ 11॥

3पूर्वपक्षः

षष्ठे ब्रह्मण्यद्वैतस्यैव तात्त्विकत्वाधिकरणे सूत्राणि
भेदाभेदौ तात्त्विकौ स्तो यदि वा व्यावहारिकौ॥
बाधितौ श्रुतियुक्तिभ्यां तावतो व्यावहारिकौ॥
स्पष्टौ सन्देहपूर्वपक्षौ।
“नेह नानाऽस्ति किञ्चन” इति श्रुतिर्भेदं बाधते। युक्तिश्च- परस्परोपमर्दात्मकयोर्भेदाभेदयोरेकत्रासम्भवः। एकस्मिंश्चन्द्रमसि द्वित्वासम्भवात्।
यदुक्तं पूर्वाधिकरणे–
आकारभेदाद्भेदः- इति। तदप्यसत्, अद्वैतवस्तुन्याकारभेदस्यैवाप्रतिपत्तेः।
समुद्रादौ तु दृष्टत्वादभ्युपगम्यते। “न हि दृष्टेऽनुपपन्नं नाम” इति न्यायात्। अत्रापि ब्रह्माकारजगदाकारौ दृष्टौ- इति चेत्। न। ब्रह्मणः शास्त्रैकसमधिगम्यत्वात्। तस्मात्- श्रुतियुक्तिबाधितत्वाद्व्यावहारिकौ भेदाभेदौ।
किं तर्हि तत्त्वम्? इति चेत्- अद्वैतमेव तत्त्वम्- इति

4सिद्धान्तः

कार्यस्य कारणाभेदा-दद्वैतं ब्रह्म तात्त्विकम्॥ 12॥
ब्रूमः।
कार्यस्य कारणानतिरेकेण कारणमात्रस्य वस्तुत्वात्। तथा च- श्रुतिर्मृत्तिकादिदृष्टान्तैः कारणस्यैव सत्यत्वं प्रतिपादयति- “यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्। वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्। एवं सोम्य स आदेशः” इति।
अस्यायमर्थः- प्रौढो मृत्पिण्डः कारणम्, तद्विकारो घटशरावादयः। तत्र “मृद्वस्त्वन्यत्, घटादीनि चान्यानि वस्तूनि” इति तार्किका मन्यन्ते। तत्र घटादीनां पृथग्वस्तुत्वनिरासाय विकारशब्देन श्रुतिस्तान्युदाहरति। मृद्वस्तुनो विकाराः संस्थानविशेषा घटादयो न पृथग्वस्तुभूताः। यथा देवदत्तस्य बाल्य-यौवन-स्थाविरादयः, तद्वत्।
एवं सति घटाद्याकारप्रतिभासदशायामपि मृन्मात्रं स्वतन्त्रं वस्तु। ततो मृद्यवगतायां, घटादीनां यत्तात्विकं स्वरूपं तत्सर्वमवगतम्- आकारविशेषो न ज्ञायते- इति चेत्। मा ज्ञायतां नाम। तेषा.मवस्तुभूताना.मजिज्ञासार्हत्वात्। चक्षुषा प्रतिभासमाना अपि विकारा निरूपिताः सन्तो, मृद्व्यतिरेकेण न स्वरूपं किंचिल्लभन्ते। “घटोऽयं, शरावोऽयम्” इति वाङ्निष्पाद्य.नामधेयमात्रं लभन्ते। अतो निर्वस्तुकत्वे सत्युपलभ्यमानत्वरूपेण मिथ्यात्वलक्षणेनोपेतत्वा.दसत्या विकाराः। मृत्तिका तु विकारव्यतिरेकेणापि स्वरूपं लभते इति, सत्या।
तथा ब्रह्मोपदेशोऽवगन्तव्यः, ब्रह्मणि मृत्तिकान्यायस्य, जगति घटादिन्यायस्य योजयितुं शक्यत्वात्। तस्मात्- जगतो ब्रह्माभेदा.दद्वैतं ब्रह्म तात्त्विकम्।
एवंविधविचारशून्यानां पुरुषाणाम् आपातदृष्ट्या वेदेन अभ्युपेताद्वितीयब्रह्मप्रतिपत्तेः- प्रत्यक्षादिभिर्भेदप्रतिपत्तेश्च सद्भावात् समुद्रतरङ्गन्यायेन भेदाभेदाववभासेते। तस्मात्- व्यावहारिकाविति स्थितिः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “भोक्त्रापत्त्याधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “भोक्तृभोग्यविभेदेऽपि ब्रह्माद्वैतं तथाऽस्तु तत्॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.7 इतरव्यपदेशाधिकरणम्
इतरव्यपदेशा.द्धिताकरणादिदोषप्रसक्तिः॥2.1.21॥
अधिकं तु भेदनिर्देशात्॥2.1.22॥
अश्मादिवच्च तदनुपपत्तिः॥2.1.23॥
सप्तमाधिकरणमारचयति –

1विषयः

जीवाहितक्रिया स्वार्था स्यादेषा नहि युज्यते॥ 13॥

3पूर्वपक्षः

सप्तमे परमेश्वरस्य हिताहितभागित्वाभावाधिकरणे सूत्राणि
हिताक्रियादि स्यान्नो वा जीवाभेदं प्रपश्यतः॥
अवस्तु जीवसंसार-स्तेन नास्ति मम क्षतिः॥
<w:tab w:val=“left” w:pos=“6300”/></w:tabs><w:ind w:firstLine=“720”/><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>परमेश्वरो हि केषांचिज्जीवानां संसारसक्तानां वैराग्यादिकं हितं न निर्मिमीते, अहितं च नरकहेतुमधर्मं निर्मिमीते। निर्मिमाणश्च स्वस्य जीवैरभेदं सर्वज्ञतया पश्यति। तस्मात्- स्वस्यैव हिताकरणम्, अहितकरणं च प्रसज्येयाताम्। एतच्च न युक्तम्। नहि प्रेक्षावान्कश्चित् स्वस्य हितं न करोति, अहितं वा करोति। तस्मात्- हिताकरणादिदोषः। इति प्राप्ते,
<w:tab w:val=“left” w:pos=“6300”/></w:tabs><w:ind w:firstLine=“720”/><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>

4सिद्धान्तः

इति पश्यत ईशस्य न हिताहितभागिता॥ 14॥
ब्रूमः- सर्वज्ञत्वादीश्वरो जीवसंसारस्य मिथ्यात्वं स्वस्य निर्लेपत्वं च पश्यति। अतो- न हिताहितभाक्त्वदोषः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “आरम्भणधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कार्यस्य कारणाभेदा-दद्वैतं ब्रह्म तात्त्विकम्॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.8 उपसंहारदर्शनाधिकरणम्
अष्टमे अद्वितीयब्रह्मण एव नानाविधसृष्टिकर्तृत्वाधिकरणे सूत्रे
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि॥2.1.24॥
देवादिव.दपि लोके॥2.1.25॥
अष्टमाधिकरणमारचयति –

1विषयः

न सम्भवेत्सम्भवेद्वा सृष्टिरेकाद्वितीयतः।

3पूर्वपक्षः

नानाजातीयकार्याणां क्रमाज्जन्म न सम्भवि॥ 15॥
“एकमेवाद्वितीयम्” इति ब्रह्मणः स्वगत-सजातीय-विजातीयैर्भेदैः शून्यत्वमवगम्यते। स्रष्टव्यानि चाकाशवाय्वग्न्यादीनि विचित्राणि। नह्यविचित्रे कारणे कार्यवैचित्र्यं युक्तम्। अन्यथैकस्मादेव क्षीरात् दधितैलाद्यनेकविचित्रकार्यप्रसङ्गात्। क्रमश्चाकाशादीनां श्रुत्याऽवगम्यते। नच तस्य व्यवस्थापकं किञ्चिदस्ति। तस्मात्- अनेककार्याणां क्रमेण जन्म, अद्वितीयब्रह्मणो न सम्भवति। इति प्राप्ते,

4सिद्धान्तः

अद्वैतं तत्त्वतो ब्रह्म तच्चाविद्यासहायवत्।
नानाकार्यकरं कार्य-क्रमोऽविद्यास्थशक्तिभिः॥ 16॥
ब्रूमः- यद्यपि तत्त्वतो ब्रह्माद्वैतम्, तथाऽपि- अविद्यासहायोपेतम्- इति श्रुतियुक्त्यनुभवैरवगम्यते,
“मायां तु प्रकृतिं विद्या-न्मायिनं तु महेश्वरम्।
इति श्रुतेः। मायैवाविद्या, उभयोरप्यनिर्वचनीयत्वलक्षणस्यैकत्वात्।
न च- मायाङ्गीकारे द्वैतापत्तिः, वास्तवस्य द्वितीयस्याभावात्। अत एकमपि ब्रह्म-अविद्यासहायवशात् नानाकार्यकरं भविष्यति। न च कार्यक्रमस्य व्यवस्थापकाभावः, अविद्यागतानां शक्तिविशेषाणां व्यवस्थापकत्वात्। तस्मात्- अद्वितीयब्रह्मणो नानाकार्याणां क्रमेण सृष्टिः सम्भवति॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “इतरव्यपदेशाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति पश्यत ईशस्य न हिताहितभागिता॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.9 कृत्स्नप्रसक्त्यधिकरणम्
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा॥2.1.26॥
श्रुतेस्तु शब्दमूलत्वात्॥2.1.27॥
आत्मनि चैवं विचित्राश्च हि॥2.1.28॥
स्वपक्षदोषाच्च॥2.1.29॥
नवमाधिकरणमारचयति –

1विषयः

न युक्तो युज्यते वाऽस्य परिणामो न युज्यते।

3पूर्वपक्षः

कार्त्स्न्याद्ब्रह्मानित्यताप्ते-रंशात्सावयवं भवेत्॥ 17॥
नवमे ब्रह्मणः परिणामित्वाधिकरणे सूत्राणि
आरम्भणाधिकरणे (2।1।6) कार्यकारणयोरभेदः प्रतिपादितः। अतो न वैशेषिकवत् आरम्भवादो ब्रह्मवादिनोऽभिमतः। तस्मात्- क्षीरदधिन्यायेन परिणामोऽभ्युपगन्तव्यः। तत्र किं ब्रह्म कार्त्स्न्येन परिणमते, उत- एकदेशेन। नाद्यः- अशेषपरिणामे ब्रह्मणः क्षीरवदनित्यत्वप्रसङ्गात्। द्वितीये- सावयवत्वप्रसङ्गः। तस्मात्- न परिणामः। इति प्राप्ते,

4सिद्धान्तः

मायाभिर्बहुरूपत्वं न कार्त्स्न्या.न्नापि भागतः।
युक्तोऽनवयवस्यापि परिणामोऽत्र मायिकः॥ 18॥
ब्रूमः -“इन्द्रो मायाभिः पुरुरूप ईयते” इति श्रुतेः ब्रह्मणो मायाशक्तिभिर्जगद्रूपपरिणामः। न त्वसौ वास्तवः। तेन कृत्स्नैकदेशविकल्पयोः नात्रावकाशः। तस्मात्- युज्यते परिणामः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “उपसंहारदर्शनाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अद्वैतं तत्त्वतो ब्रह्म तच्चाविद्यासहायवत्। नानाकार्यकरं कार्य-क्रमोऽविद्यास्थशक्तिभिः॥ 16॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.10 सर्वोपेताधिकरणम्
दशमे ब्रह्मणोऽशरीरस्यैव मायासद्भावाधिकरणे सूत्रे
सर्वोपेता च तद्दर्शनात्॥2.1.30॥
विकरणत्वान्नेति चेत्तदुक्तम्॥2.1.31॥
दशमाधिकरणमारचयति –

1विषयः

नाशरीरस्य मायाऽस्ति यदि वाऽस्ति, न विद्यते।

3पूर्वपक्षः

ये हि मायाविनो लोके ते सर्वेऽपि शरीरिणः॥ 19॥
लोके मायाविनामैन्द्रजालिकानां शरीरित्वदर्शनात्, अशरीरस्य ब्रह्मणो माया न सम्भवति। इति प्राप्ते,

4सिद्धान्तः

बाह्यहेतुमृते यद्व-न्मायया कार्यकारिता।
ऋतेऽपि देहं मायैवं ब्रह्मण्यस्तु प्रमाणतः॥ 20॥
ब्रूमः- गृहादिनिर्मातॄणां स्वव्यतिरिक्त-मृद्दारु-तृणादि-बाह्यसाधन-सापेक्षत्वदर्शनेऽपि, ऐन्द्रजालिकस्य बाह्यसाधनानैरपेक्ष्येण यथा गृहादिनिर्मातृत्वम्, तथा लौकिकमायाविनः शरीरसापेक्षत्वदर्शनेऽपि, ब्रह्मणो मायासिद्ध्यर्थं तदपेक्षा मा भूत्। अथोच्येत- ऐन्द्रजालिकस्य बाह्यहेतुनैरपेक्ष्येण निर्मातृत्वे प्रत्यक्षं प्रमाणमस्ति, तर्हि ब्रह्मणोऽपि शरीरनैरपेक्ष्येण मायासद्भावे “मायिनं तु महेश्वरम्” इति श्रुतिः प्रमाणमस्तु॥ तस्मात्- अशरीरस्य ब्रह्मणः माया सम्भवति।।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “कृत्स्नप्रसक्त्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मायाभिर्बहुरूपत्वं न कार्त्स्न्या.न्नापि भागतः। युक्तोऽनवयवस्यापि परिणामोऽत्र मायिकः॥ 18॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.11 प्रयोजनत्वाधिकरणम्
एकादशे तृप्तस्यापि ब्रह्मण एव जगत्स्रष्टृत्वाधिकरणे सूत्रे
न प्रयोजनवत्त्वात्॥2.1.32॥
लोकवत्तु लीलाकैवल्यम्॥2.1.33॥
एकादशाधिकरणमारचयति –

1विषयः

तृप्तोऽस्रष्टाऽथवा स्रष्टा, न स्रष्टा फलवाञ्छते ।

3पूर्वपक्षः

अतृप्तिस्स्या.दवाञ्छाया-मुन्मत्तनरतुल्यता॥ 21॥
“आनन्दो ब्रह्मेति व्यजानात्” इति श्रुतेर्नित्यतृप्तः परमेश्वरः। तादृशस्य सृष्टिविषयाया.मिच्छाया.मभयुपगम्यमानायां नित्यतृप्तिर्व्याहन्येत। अनभ्युपगम्यमानायां तु- अबुद्धिपूर्विकां सृष्टिं विरचयत उन्मत्तनरतुल्यता प्रसज्येत। इति प्राप्ते,

4सिद्धान्तः

लीलाश्वासवृथाचेष्टा अनुद्दिश्य फलं यतः।
अनुन्मत्तै.र्विरच्यन्ते तस्मात्तृप्तस्तथा सृजेत्॥ 22॥
ब्रूमः-
बुद्धिमद्भिरेव राजादिभिः, अन्तरेण प्रयोजनं- लीलया मृगयादिप्रवृत्तिः क्रियते।
श्वासोच्छ्वासव्यवहारस्तु सार्वजनीनः।
व्यर्थचेष्टाश्च बालकैः क्रियमाणा बहुशो दृश्यन्ते।
तद्वन्नित्यतृप्तोऽपीश्वरः प्रयोजनमन्तरेणापि अनुन्मत्तः सन्नशेषं जगत्सृजते॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्वोपेताधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “बाह्यहेतुमृते यद्व-न्मायया कार्यकारिता। ऋतेऽपि देहं मायैवं ब्रह्मण्यस्तु प्रमाणतः॥ 20॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.12 वैषम्यनैर्घृण्याधिकरणम्
वैषम्यनैर्घृण्ये न सापेक्षत्वात् , तथा हि दर्शयति॥2.1.34॥
न कर्माविभागादिति चेन्नानादित्वात्॥2.1.35॥
उपपद्यते चाप्युपलभ्यते च॥2.1.36॥
द्वादशाधिकरणमारचयति –

1विषयः

वैषम्याद्यापतेन्नो वा सुखदुःखे नृभेदतः।

3पूर्वपक्षः

सृजन्विषम ईशः स्या-न्निर्घृणश्चोपसंहरन्॥ 23॥
द्वादशे ब्रह्मणो वैषम्यनैर्घृण्याभावाधिकरणे सूत्राणि
ईश्वरो देवादीनत्यन्तसुखिनः सृजति, पश्वादीनत्यन्तदुःखिनः, मनुष्यान्मध्यमान्। एवं तारतम्येन पुरुषविशेषेषु सुखदुःखे सृजन्नीश्वरः, कथं विषमो न स्यात्? कथं नीचैरप्यत्यन्तजुगुप्सितं देवतिर्यङ्मनुष्याद्यशेषं जगदुपसंहरन्, निर्घृणो न भवेत्? तस्मात्- वैषम्यनैर्घृण्ये प्रसज्येयाताम्। इति प्राप्ते,

4सिद्धान्तः

प्राण्यनुष्ठितधर्मादि-मपेक्ष्येशः प्रवर्तते।
नातो वैषम्यनैर्घृण्ये संसारस्तु न चादिमान्॥ 24॥
ब्रूमः- न तावदीश्वरस्य वैषम्यप्रसङ्गोऽस्ति। प्राणिनाम्, उत्तम-मध्यमा-धमलक्षणवैषम्ये (निमित्ते), तत्तत्कर्मणामेव प्रयोजनकत्वात्। न च एतावता, ईश्वरस्य स्वातन्त्र्यहानिः, अन्तर्यामितया कर्माध्यक्षत्वात्।
नन्वेवं सति घट्टकुटीप्रभातन्या आपपद्यते। ईश्वरे वैषम्यं परिहर्तुं कर्मणां वैषम्यहेतुत्वमुक्त्वा, पुनरीश्वरस्य स्वातन्त्र्यसिद्धये, तत्कर्मनियामकत्वेऽभ्युपगम्यमाने सति, अन्ततो गत्वा- ईश्वरस्यैव वैषम्यप्रसङ्गात्।
नायं दोषः। नियामकत्वं नाम- तत्तद्वस्तुशक्तीनाम् अव्यवस्थापरिहारमात्रम्। शक्तयस्तु मायाशरीरभूताः। न तासामुत्पादक ईश्वरः।
ततश्च स्वस्वशाक्तवशात्कर्मणां वैषम्यहेतुत्वेऽपि, न व्यवस्थापकस्येश्वरस्य वैषम्यप्रसङ्गः।
संहारस्य सुषुप्तिवत् दुःखाजनकत्वात्।
प्रत्युत सर्वक्लेशनिवर्तकत्वात्सघृणत्वमेव।
ननु- अवान्तरसृष्टिषु पूर्वपूर्वकर्मापेक्षया सृजतः ईश्वरस्य वैषम्याभावेऽपि, प्रथमसृष्टौ पूर्वकर्मासम्भवात् वैषम्यदोषस्तदवस्थः- इति चेत्। न। सृष्टिपरम्पराया अनादित्वात् “नान्तो न चादिः”- इत्यादिशास्त्रात्।
तस्मात्- न कोऽपि दोषः, ईश्वरस्य वैषम्यनैर्घृण्ये न भवतः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रयोजनत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “लीलाश्वासवृथाचेष्टा अनुद्दिश्य फलं यतः। अनुन्मत्तै.र्विरच्यन्ते तस्मात्तृप्तस्तथा सृजेत्॥ 22॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
2.1.13 सर्वधर्मोपपत्त्यधिकरणम्
त्रयोदशे निर्गुणस्यापि प्रकृतित्वाधिकरणे सूत्रम्
सर्वधर्मोपपत्तेश्च॥2.1.37॥
त्रयोदशाधिकरणमारचयति –

1विषयः

नास्ति प्रकृतिता यद्वा निर्गुणस्यास्ति, नास्ति सा।
मृदादेस्सगुणस्यैव प्रकृतित्वोपलम्भनात्॥ 25॥

3पूर्वपक्षः

भ्रमाधिष्ठानताऽस्माभिः प्रकृतित्वमुपेयते।
निर्गुणेऽप्यस्ति जात्यादौ सा ब्रह्म प्रकृतिस्ततः॥ 26॥
प्रकृतित्वं नाम कार्याकारेण विक्रियमाणत्वम्। तच्च लोके सगुण एव मृदादावुपलब्धम्। ततो न निर्गुणस्य ब्रह्मणः प्रकृतिता। इति प्राप्ते,

4सिद्धान्तः

इति वैयासिकन्यायमालायां द्वितीयाध्यायस्य प्रथमः पादः॥ 1॥
ब्रूमः- यद्यपि “प्रक्रियते विक्रियतेऽनया- इति प्रकृतिः” इति व्युत्पत्त्या विक्रियमाणत्वं प्रतीयते। तथाऽपि तद्विक्रियमाणत्वं द्वेधा सम्भवति- क्षीरादिवत् परिणामित्वेन वा, रज्ज्वादिवत् भ्रमाधिष्ठानत्वेन वा। तत्र निर्गुणस्य परिणामित्वासम्भवेऽपि भ्रमाधिष्ठानत्वमस्तु। दृश्यते तु निर्गुणे जात्यादौ भ्रमाधिष्ठानता। मलिनब्राह्मणं दृष्ट्वा “शूद्रोऽयम्” इति भ्रान्त.व्यवहारदर्शनात्। तस्मात्- निर्गुणमपि ब्रह्म प्रकृतिः- इति सिद्धम्॥
द्वितीयाध्यायस्य द्वितीयः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “अविरोधः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “वैषम्यनैर्घृण्याधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “प्राण्यनुष्ठितधर्मादि-मपेक्ष्येशः प्रवर्तते। नातो वैषम्यनैर्घृण्ये संसारस्तु न चादिमान्॥ 24॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 1, Pāda 4 Contents Adhyāya 2, Pāda 2 →