SŪद्युभ्वाद्यायतनं स्वशब्दात्॥1.3.1॥
SŪमुक्तोपसृप्य.व्यपदेशात्॥1.3.2॥
SŪनानुमान.मतच्छब्दात्॥1.3.3॥
SŪप्राणभृच्च॥1.3.4॥
SŪभेदव्यपदेशात्॥1.3.5॥
SŪप्रकरणात्॥1.3.6॥
SŪस्थित्यदनाभ्यां च॥1.3.7॥
प्रथमाधिकरणमारचयति –
1विषयः
प्रथमे ब्रह्मण एव द्युभ्वाद्यायतनत्वाधिकरणे सूत्राणि।
सूत्रं प्रधानं भोक्तेशो द्युभ्वाद्यायतनं भवेत्।
श्रुतिस्मृतिप्रसिद्धाभ्यां भोक्तृत्वाच्चेश्वरेतरः॥ 1॥
2संशयः
अत्र संशयः- किं द्युभ्वाद्यायतनं सूत्रात्मा स्यात्, किं वा प्रधानम्, अथवा भोक्ता, अहोस्वित् ईश्वरः इति सन्देहः।
3पूर्वपक्षः
सूत्रात्मा स्यात्, “वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति” इति श्रुतिप्रसिद्ध्या, वायोः सूत्रात्मनो द्युभ्वाद्यायतनत्वावगमात्।
प्रधानं वा स्यात्, तस्य सांख्यस्मृतिप्रसिद्ध्या सर्वाधारत्वावगमात्।
भोक्ता वा स्यात्, “तमेवैकं जानथात्मानम्” इत्यात्मशब्दात्। इति प्राप्ते –
</w:r><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“hi-IN”/></w:rPr><w:t>
4सिद्धान्तः
नाद्यौ पक्षान्नात्मशब्दात् न भोक्ता मुक्तगम्यतः।
ब्रह्मप्रकरणादीश-स्सर्वज्ञत्वादित.स्तथा॥ 2॥
ब्रूमः- न तावदाद्यौ पक्षौ सम्भवतः, उक्तस्यात्मशब्दस्य तयोरसम्भवात्। नापि भोक्ता,
</w:r><w:r w:rsidR=“00127277” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:bCs/><w:sz w:val=“28”/><w:szCs w:val=“36”/><w:lang w:val=“en-US” w:bidi=“kn-IN”/></w:rPr><w:t>“यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्।
</w:r><w:r w:rsidR=“00377F7D” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:bCs/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“hi-IN”/></w:rPr><w:t>तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति॥
इति द्युभ्वाद्यायतनस्य मुक्तपुरुषप्राप्यत्वश्रवणात् भोक्तुर्जीवस्य तत्प्राप्यत्वासम्भवात्।
“कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति” इत्येकविज्ञानेन सर्वविज्ञानमुपक्रान्तम्। “ब्रह्म वेद ब्रह्मैव भवति” इत्युपसंहृतम्। ततो ब्रह्मप्रकरणात्, भूतयोन्यधिकरणोक्तसर्वज्ञत्वादियुक्तेरपि ब्रह्मैव द्युभ्वाद्यायतनम्॥
(विषयवाक्ये द्यु-पृथिव्यन्तरिक्षादि शब्दपाठात्, द्युपृथिव्याद्यायतनाधिकरणमिति सुवचम्?)
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “वैश्वानराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “द्युमूर्धत्वादितो ब्रह्म-शब्दाच्चेश्वर इष्यते। वैश्वानरात्मशब्दौ ता-वीश्वरस्यापि वाचकौ॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪभूमा सम्प्रसादा.दध्युपदेशात्॥1.3.8॥
SŪधर्मोपपत्तेश्च॥1.3.9॥
द्वितीयाधिकरणमारचयति -
1विषयः
द्वितीये परमात्मन एव भूमत्वाधिकरणे सूत्रे।
भूमा प्राणः परेशो वा प्रश्नप्रत्युक्तिवर्जनात्।
अनुवर्त्यातिवादित्वं भूमोक्तेर्वायुरेव सः॥ 3॥
3पूर्वपक्षः
छान्दोग्ये सप्तमाध्याये नारदं प्रति सनत्कुमारो नामादीन्युत्तरोत्तरभूयांसि बहूनि तत्त्वान्युपदिश्य, अन्ते निरतिशयं भूमानमुपदिशति- “यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, स भूमा” इति।
तत्र- भूमशब्दवाच्ये द्विधा सन्दिग्धे सति, “प्राणः” इति तावत्प्राप्तम्। प्रश्नप्रत्युक्तिवर्जनात्। पूर्वेषु नामादितत्त्वेषु “अस्ति भगवो भूयः” इति नारदो पदे पदे पृच्छति, सनत्कुमारश्च “अस्ति” इति प्रतिवक्ति, एवं च प्रश्नप्रत्युक्तिभ्यां भूमानमवतारयति। अतः प्राणभूम्नोर्मध्ये विच्छेदकस्याभावात्प्राण एव भूमा।
किञ्च- प्राणतत्त्वमुपदिश्य प्राणोपासकतयाऽतिवादित्वनामकम् उत्कर्षमभिधाय, प्रकरणविच्छेदशङ्कानिवृत्तये तदेवातिवादित्वमनुवर्त्य, भूमानमुपदिशन्, प्राणभूम्नोरभेदं गमयति। तस्मात्- प्राणो भूमा। इति प्राप्ते-
4सिद्धान्तः
विच्छिद्यैष त्विति प्राणं सत्यस्योपक्रमात्तथा।
महोपक्रम आत्मोक्ते-रीशोयं द्वैतवारणात्॥ 4॥
ब्रूमः- अयं भूमा परमेश्वरः। कुतः- “एष तु वा अतिवदति- यस्सत्येनातिवदति” इत्यत्र, अतिवादित्वहेतुं प्राणोपासनं तु-शब्देन व्यावर्त्य, मुख्यातिवादित्वहेतोः, ब्रह्मणः सत्यशब्देन पृथगुपक्रमात्।
तथा- परमोपक्रमे “तरति शोकमात्मवित्” इति वेद्यतया परमात्मोच्यते। तथा- “यत्र नान्यत्पश्यति” इति द्वैतनिषेधेन भूम्नो लक्षणमभिधीयते। तस्मात्- अद्वैतः परमात्मैव भूमा॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्युभ्वाद्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “नाद्यौ पक्षान्नात्मशब्दात् न भोक्ता मुक्तगम्यतः। ब्रह्मप्रकरणादीश-स्सर्वज्ञत्वादित.स्तथा॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪअक्षर.मम्बरान्त.धृतेः॥1.3.10॥
SŪसा च प्रशासनात्॥1.3.11॥
SŪअन्यभाव.व्यावृत्तेश्च॥1.3.12॥
तृतीयाधिकरणमारचयति –
1विषयः
तृतीये ब्रह्मण एवाक्षरताधिकरणे सूत्राणि।
अक्षरं प्रणवः किं वा ब्रह्म लोकेऽक्षराभिधा।
वर्णे प्रसिद्धे तेनात्र प्रणवस्स्यादुपास्तये॥ 5॥
3पूर्वपक्षः
बृहदारण्यके पञ्चमाध्याये गार्गीं प्रति याज्ञवल्क्य आह- “एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति, अस्थूलमनण्वह्रस्वम्” इति। अत्र- “अक्षरशब्देन प्रणवो ब्रह्म वाऽभिधीयते”- इति सन्देहे, “प्रणवः” इति प्राप्तम्। कुतः- लोके “येनाक्षरसमाम्नायमधिगम्य” इत्यादौ वर्णे अक्षरशब्दप्रसिद्धेः।
प्रणवाक्षरस्यात्रोपास्यतया वक्तव्यत्वात्। इति प्राप्ते-
4सिद्धान्तः
अव्याकृताधारतोक्तेः सर्वधर्मनिषेधतः।
शासनाद्द्रष्टृतादेश्च ब्रह्मैवाक्षरमुच्यते॥ 6॥
ब्रूमः- ब्रह्मैवाक्षरशब्दवाच्यम्। कुतः- “एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च” इत्याकाशशब्दवाच्यमव्याकृतं प्रति अक्षरस्याधारतोक्तेः। प्रणवस्य तदसम्भवात्। किञ्च- “अस्थूलमनण्वह्रस्वम्” इत्यक्षरे सर्वसंसारधर्मा निषिध्यन्ते। तथा “एतस्य वाऽक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” इति तस्यैवाक्षरस्य जगच्छासितृत्वमुच्यते। तथा “तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृ, अश्रुतं श्रोतृ” इत्यादिना द्रष्टृत्वादिकं प्रमाणविषयत्वं चाम्नातम्। तदेतत्सर्वं न प्रणवपक्षेऽवकल्पते। तस्मात्- ब्रह्मैव अक्षरम्॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “भूमाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “विच्छिद्यैष त्विति प्राणं सत्यस्योपक्रमात्तथा। महोपक्रम आत्मोक्ते-रीशोयं द्वैतवारणात्॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪईक्षतिकर्मव्यपदेशात्सः॥1.3.13॥
चतुर्थाधिकरणमारचयति –
1विषयः
चतुर्थे परब्रह्मण ईक्षतिकर्मताधिकरणे (परब्रह्मणः ध्येयताधिकरणे) सूत्रम्।
त्रिमात्रप्रणवे ध्येय-मपरं ब्रह्म वा परम्।
ब्रह्मलोकफलोक्त्यादे-रपरं ब्रह्म गम्यते॥ 7॥
3पूर्वपक्षः
प्रश्नोपनिषदि श्रूयते- “यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायति” इति। तत्र “ध्येयं वस्तु हिरण्यगर्भाख्यमपरं ब्रह्म, उत परं ब्रह्म”- इति संशये सति, “अपरम्” इति तावत्प्राप्तम्। कुतः- “स सामभिरुन्नीयते ब्रह्मलोकम्” इति कमलासनलोकप्राप्तिफलश्रवणात्। परब्रह्मध्यानस्य परमपुरुषार्थस्य, तावन्मात्रफलत्वानुपपत्तेः। “परं पुरुषम्” इति परशब्दविशेषणम् अपरस्मिन्नपि ब्रह्मण्युपपद्यते। तस्यापि इतरापेक्षया परत्वात्। इति प्राप्ते,
4सिद्धान्तः
ईक्षितव्यो जीवघना-त्परस्तत्प्रत्यभिज्ञया।
भवेद्ध्येयं परं ब्रह्म क्रममुक्तिः फलिष्यति॥ 8॥
ब्रूमः- परमेव ब्रह्माभिध्येयम्। कुतः- ईक्षितव्यस्य परस्य, ध्येयत्वेन प्रत्यभिज्ञानात्। “स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते” इति वाक्यशेषे श्रूयते। तस्यायमर्थः- “य उपासनया ब्रह्मलोकं प्राप्तः, स एतस्मात् सर्वजीवसमष्टिरूपात् उत्कृष्टाद्धिरण्यगर्भादपि- उत्कृष्टं सर्वप्राणिहृदये शयानं परमात्मानं पश्यति” इति। तत्रेक्षितव्यो यः परमात्मा- स एव वाक्योपक्रमे ध्यानविषयत्वेनाभिप्रेतः- इत्यवगम्यते, परपुरुषशब्दाभ्यां तस्य प्रत्यभिज्ञानात्। न च ब्रह्मलोकप्राप्तिमात्रं फलम्, क्रममुक्तिसम्भवात्। तस्मात्- ब्रह्मैव ध्येयम्॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अक्षराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अव्याकृताधारतोक्तेः सर्वधर्मनिषेधतः। शासनाद्द्रष्टृतादेश्च ब्रह्मैवाक्षरमुच्यते॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪदहर उत्तरेभ्यः॥1.3.14॥
SŪगतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च॥1.3.15॥
SŪधृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥1.3.16॥
SŪप्रसिद्धेश्च॥1.3.17॥
SŪइतरपरामर्शात्स इति चेन्नासम्भवात्॥1.3.18॥
पञ्चमाधिकरणमारचयति –
1विषयः
दहरः को वियज्जीवो ब्रह्म वाकाशशब्दतः।
3पूर्वपक्षः
वियत्स्यादथवाऽल्पत्वश्रुतेर्जीवो भविष्यति॥ 9॥
पञ्चमे ब्रह्मण एव दहराकाशत्वाधिकरणे सूत्राणि
छान्दोग्यस्याष्टमाध्याये श्रूयते- “अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म- दहरोऽस्मिन्नन्तराकाशः, तस्मिन्यदन्तः- तदन्वेष्टव्यम्, तद्वाव विजिज्ञासितव्यम्” इति। “ब्रह्मण उपलब्धिस्थानत्वेन शरीरं ब्रह्मपुरम्, तत्राल्पं हृदयपुण्डरीकं वेश्म यदवतिष्ठते, तस्मिन्वेश्मनि- अल्प आकाशो वर्तते” इत्यर्थः।
तत्राकाशस्य त्रेधा संशये सति, ”वियत्” इति तावत्प्राप्तम्, आकाशशब्दस्य वियति रूढत्वात्। यद्वा दहरशब्देनाल्पत्वोक्तेः परिच्छिन्नो जीवो भविष्यति। न तु ब्रह्म। इति प्राप्ते-
4सिद्धान्तः
बाह्याकाशोपमानेन द्युभूम्यादिसमाहितेः।
आत्माऽपहतपाप्मत्वात् सेतुत्वाच्च परेश्वरः॥ 10॥
ब्रूमः- ब्रह्मैवाकाशशब्दवाच्यम्। “यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः” इति प्रसिद्धेन वियतोपमितत्वात्। न हि वियतो वियदुपमानं सम्भवति। नाप्यल्पपरिमाणो जीवो वियत्परिमाणेनोपमातुं शक्यः। लौकिकरूढिस्तु श्रौतरूढ्या परिहृता।
किञ्च- “उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते” इत्यादिना द्यावापृथिव्याद्यशेषजगदाधारत्वं दहराकाशस्य श्रूयते। “अथैष आत्माऽपहतपाप्मा” इत्यात्मत्वम्, अपहतपाप्मत्वं च। “य आत्मा स सेतुर्विधृतिः” इति जगन्मर्यादानामसाङ्कर्याय विधारकत्वलक्षणसेतुत्वं च। तस्मादेतेभ्यो हेतुभ्यः परमात्मा दहरः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ईक्षतिकर्माधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ईक्षितव्यो जीवघना-त्परस्तत्प्रत्यभिज्ञया। भवेद्ध्येयं परं ब्रह्म क्रममुक्तिः फलिष्यति॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪउत्तराच्चेदाविर्भूतस्वरूपस्तु॥1.3.19॥
SŪअन्यार्थश्च परामर्शः॥1.3.20॥
SŪअल्पश्रुतेरिति चेत्तदुक्तम्॥1.3.21॥
षष्ठाधिकरणमारचयति –
1विषयः
षष्ठे ईश्वरस्यैवाक्षिपुरुषत्वाधिकरणे सूत्राणि।
यः प्रजापतिविद्यायां स किं जीवोथवेश्वरः।
जाग्रत्स्वप्नसुषुप्तोक्ते-स्तद्वान् जीव इहोचितः॥ 11॥
3पूर्वपक्षः
दहरविद्याया उपरि प्रजापतिविद्यायाम् इन्द्रविरोचनप्रजापतिसम्वादे श्रूयते- “य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच” इति। तत्र- “जीवात्मा” इति प्राप्तम्। कुतः- अवस्थात्रयोपन्यासात्।
“अक्षिणि पुरुषः” इति जागरणोपन्यासः ।
“य एष स्वप्ने महीयमानश्चरति” इति स्वप्नोपन्यासः।
“सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति” इति सुषुप्तोपन्यासः।
एवमवस्थात्रय उपन्यस्ते सति, अवस्थावान् जीवो ग्रहीतुमुचितः, ईश्वरस्यावस्थाराहित्यात्। इति प्राप्ते-
4सिद्धान्तः
आत्माऽपहतपाप्मेति प्रक्रम्यान्ते स उत्तमः।
पुमानित्युक्त ईशोऽत्र जाग्रदाद्यवबुद्धये॥ 12॥
ब्रूमः- ईश्वरोत्र ग्रहीतव्यः। कुतः “यः आत्माऽपहतपाप्मा विरजो विमृत्युः” इति परमात्मानमुपक्रम्य, “स उत्तमः पुरुषः” इत्यनेन परमात्मन एवोपसंहारात्। न च- एवं सति जागरणाद्युपन्यासवैयर्थ्यम्, शाखाचन्द्रन्यायेन परमात्मबोधोपयुक्तत्वात्। तस्मात्- ईश्वरोऽक्षिपुरुषः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दहराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “बाह्याकाशोपमानेन द्युभूम्यादिसमाहितेः। आत्माऽपहतपाप्मत्वात् सेतुत्वाच्च परेश्वरः॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪअनुकृतेस्तस्य च॥1.3.22॥
SŪअपि च स्मर्यते॥1.3.23॥
1विषयः
न तत्र सूर्यो भातीति तेजोन्तरमुतात्र चित्।
3पूर्वपक्षः
तेजोभिभावकत्वेन तेजोन्तरमिदं महत्॥ 13॥
<w:tab w:val=“left” w:pos=“1265”/></w:tabs><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t xml:space=“preserve”>सप्तमे चैतन्यस्य सर्वजगद्भासकत्वाधिकरणे सूत्रे।
<w:tab w:val=“left” w:pos=“1265”/></w:tabs><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>सप्तमाधिकरणमारचयति –
<w:tab w:val=“left” w:pos=“1265”/></w:tabs><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>मुण्डकोपनिषदि श्रूयते –
<w:tab w:val=“left” w:pos=“1265”/></w:tabs><w:jc w:val=“center”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/></w:rPr><w:t>“न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युते भान्ति कुतोऽयमग्निः।
<w:tab w:val=“left” w:pos=“1265”/></w:tabs><w:jc w:val=“center”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”॥ इति
<w:tab w:val=“left” w:pos=“1265”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:lastRenderedPageBreak/><w:tab/></w:r><w:r w:rsidR=“00377F7D” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>अयमर्थः- “तत्र पूर्वप्रकृते ज्योतिषां ज्योतिषि चन्द्रसूर्यादयो न भान्ति, किं तु तमेव ज्योतिषां भासकं पुरतो भासमानं पदार्थमनु, सर्वं जगद्भाति। भासनदशायां न स्वतन्त्रेण भानेन जगद्भाति। किं तर्हि? तस्य भासकपदार्थस्य भासा सर्वमिदं विभाति” इति।
<w:tab w:val=“left” w:pos=“1265”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:tab/></w:r><w:r w:rsidR=“00377F7D” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>अस्मिन्वाक्ये श्रूयमाणं जगद्भासकं किं सूर्यादिसदृशं चाक्षुषं तेजोन्तरम्, उत चैतन्यम्? इति संशये- “तेजोन्तरम्” इति प्राप्तम्। कुतः- सूर्यादितेजोभिभावकत्वात्। महतस्तेजसः सन्निधौ स्वल्पं तेजोऽभिभूयते, यथा सूर्यसन्निधौ दीपः। तथा च सूर्यादीनां यदभिभावकं, तत्सूर्यादिभ्योऽप्यधिकं तेजोन्तरमेव। इति प्राप्ते
4सिद्धान्तः
चित् स्यात् सूर्याद्यभास्यत्वात् तादृक्तेजोप्रसिद्धितः।
सर्वस्मात्पुरतो भानात् तद्भासा चान्यभासनात्॥ 14॥
,
<w:tab w:val=“left” w:pos=“1265”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“hi-IN”/></w:rPr><w:tab/></w:r><w:r w:rsidR=“00377F7D” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>उच्यते- सूर्यादिभिः अभास्यतया श्रूयमाणं वस्तु चैतन्यम्। कुतः- सूर्याद्यभिभावकस्य महतस्तेजोन्तरस्य अप्रसिद्धत्वात्। किञ्च “तमेव भान्तमनुभाति सर्वम्” इति सर्वस्मात्पुरोभासमानत्वं चैतन्यधर्मः। तथा- “तस्य भासा सर्वमिदं विभाति” इति प्रकाशाप्रकाशरूपसर्वजगद्भासकत्वं चैतन्यधर्म एव। तस्मात् चैतन्यं वाक्यप्रतिपाद्यम्॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अक्षिपुरुषाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “आत्माऽपहतपाप्मेति प्रक्रम्यान्ते स उत्तमः। पुमानित्युक्त ईशोऽत्र जाग्रदाद्यवबुद्धये॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪशब्दादेव प्रमितः॥1.3.24॥
SŪहृद्यपेक्षया तु मनुष्याधिकारत्वात्॥1.3.25॥
1विषयः
अङ्गुष्ठमात्रो जीवः स्या-दीशो वाऽल्पप्रमाणतः।
3पूर्वपक्षः
देहमध्ये स्थितेश्चैव जीवो भवितुमर्हति॥ 15॥
<w:tab w:val=“left” w:pos=“2317”/></w:tabs><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t xml:space=“preserve”>अष्टमे परमेश्वरस्याङ्गुष्ठमात्रत्वाधिकरणे सूत्रे
<w:tab w:val=“left” w:pos=“2317”/></w:tabs><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>अष्टमाधिकरणमारचयति –
<w:tab w:val=“left” w:pos=“2317”/></w:tabs><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>कठवल्लीषु चतुर्थवल्ल्यामाम्नायते –
<w:tab w:val=“left” w:pos=“2317”/></w:tabs><w:jc w:val=“center”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/></w:rPr><w:t>“अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति।
<w:tab w:val=“left” w:pos=“2317”/></w:tabs><w:jc w:val=“center”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>ईशानो भूतभव्यस्य न ततो विजुगुप्सते” इति।
तत्र- अङ्गुष्ठमात्रो जीवः। कुतः “अङ्गुष्ठमात्रः” इत्यल्पप्रमाणत्वात्। “मध्य आत्मनि तिष्ठति” इति देहमध्यदेशावस्थानाच्च। इति प्राप्ते,
4सिद्धान्तः
भूतभव्येशता जीवे नास्त्यतोऽसाविहेश्वरः।
स्थितिप्रमाणे ईशेऽपि स्तो हृद्यस्योपलब्धितः॥ 16॥
ब्रूमः- परमात्मा अङ्गुष्ठमात्रः। कुतः “ईशानो भूतभव्यस्य” इति अतीतानागत-जगदीशितृत्वश्रवणात्। न च- ईशितृत्वं जीवेऽस्ति, जीवस्येशितव्यत्वात्। अल्पप्रमाणत्वं देहमध्येऽवस्थानं चेश्वरस्यापि सम्भवतः, हृदयपुण्डरीके ब्रह्मण उपलम्भात्, तदपेक्षया तदुभयसङ्कीर्तनात्। तस्मात्- अङ्गुष्ठमात्रः परमेश्वरः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अनुकृत्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “चित् स्यात् सूर्याद्यभास्यत्वात् तादृक्तेजोप्रसिद्धितः। सर्वस्मात्पुरतो भानात् तद्भासा चान्यभासनात्॥ 14॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪतदुपर्यपि बादरायणः, सम्भवात्॥1.3.26॥
SŪविरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्॥1.3.27॥
SŪशब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्॥1.3.28॥
SŪअत एव च नित्यत्वम्॥1.3.29॥
SŪसमान-नामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च॥1.3.30॥
SŪमध्वादिष्वसम्भवादनधिकारं जैमिनिः॥1.3.31॥
SŪज्योतिषि भावाच्च॥1.3.32॥
SŪभावं तु बादरायणोऽस्ति हि॥1.3.33॥
1विषयः
नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः।
3पूर्वपक्षः
विदेहत्वेन सामर्थ्य-हानेर्नैषामधिक्रिया॥ 17॥
नवमे देवादीनामप्यधिकारित्वाधिकरणे सूत्राणि।
<w:tab w:val=“left” w:pos=“2317”/></w:tabs><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>नवमाधिकरणमारचयति –
<w:tab w:val=“left” w:pos=“993”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:tab/><w:t>बृहदारण्यके तृतीयाध्याये श्रूयते- “तद्यो यो देवानां प्रत्यबुध्यत- स एव तदभवत्, तथर्षीणाम्” इति। “देवानां मध्ये यो ब्रह्म बुबुधे- स एव ब्रह्माभवत्” इत्यर्थः। तत्र “देवर्षयो विद्यायां नाधिक्रियन्ते” इति प्राप्तम्। कुतः- “अर्थी समर्थो विद्वान् शास्त्रेणापर्युदस्तोऽधिक्रियते” इत्युक्तानामधिकारहेतूनाम् अशरीरेषु देवेष्वसम्भवात्। न च- मन्त्रार्थवादादिभ्यो देवानां विग्रहत्वम्, विध्येकवाक्यतापन्नानां मन्त्रादीनां स्वार्थे तात्पर्याभावात्। इति प्राप्ते,
<w:tab w:val=“left” w:pos=“993”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:tab/><w:t>
4सिद्धान्तः
अविरुद्धज्ञातवादि-मन्त्रादेर्देहसत्त्वतः।
अर्थित्वादेश्च सौलभ्या-द्देवाद्या अधिकारिणः॥ 18॥
ब्रूमः- त्रिविधो ह्यर्थवादः- गुणवादः, अनुवादः, भूतार्थवादश्चेति। तथा चाह –
<w:tab w:val=“left” w:pos=“2317”/></w:tabs><w:jc w:val=“center”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/></w:rPr><w:t>“विरोधे गुणवादः स्यादनुवादोऽवधारिते।
<w:tab w:val=“left” w:pos=“2317”/></w:tabs><w:jc w:val=“center”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>भूतार्थवादस्तद्धाना-दर्थवादस्त्रिधा मतः” इति।
<w:tab w:val=“left” w:pos=“993”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/></w:rPr><w:tab/><w:t>“आदित्यो यूपः, यजमानः प्रस्तरः” इत्यादिषु प्रत्यक्षविरोधे सति, आदित्यादिवत् यागनिर्वाहकत्वगुणः आदित्यादिशब्दैरुपलक्ष्यत इति गुणवादः।
<w:tab w:val=“left” w:pos=“993”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t xml:space=“preserve”>
<w:tab w:val=“left” w:pos=“993”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/></w:rPr><w:lastRenderedPageBreak/><w:tab/></w:r><w:r w:rsidR=“00377F7D” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:b/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>अग्निर्हिमस्य भेषजम्, वायुर्वै क्षेपिष्ठा देवता इत्यादिषु मानान्तरसिद्धार्थानुवादित्वात्, अनुवादत्वम्। तयोरुभयोः स्वार्थे तात्पर्यं मा भूत्।
<w:tab w:val=“left” w:pos=“993”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:tab/></w:r><w:r w:rsidR=“00377F7D” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:bCs/><w:color w:val=“000000”/><w:sz w:val=“28”/></w:rPr><w:t>“इन्द्रो वृत्राय वज्रमुदयच्छत्” इत्यादिष्वविरुद्धेष्वननुवादेषु च भूतार्थवादेषु, स्वतः प्रामाण्यवादे स्वार्थे तात्पर्यस्य निवारयितुमशक्यत्वात् पदैकवाक्यतया स्वार्थेऽवान्तरतात्पर्यं प्रतिपाद्य, पश्चाद्वाक्यैकवाक्यतया विधिषु महातात्पर्यं भूतार्थवादाः प्रतिपद्यन्ते। मन्त्रेष्वप्ययं न्यायो योज्यः।
<w:tab w:val=“left” w:pos=“993”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:tab/></w:r><w:r w:rsidR=“00377F7D” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>तथा च- मन्त्रार्थवादादिबलाद्देवादीनां विग्रहवत्वे सति, श्रवणादिषु सामर्थ्यं सुलभम्।
<w:tab w:val=“left” w:pos=“993”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:tab/></w:r><w:r w:rsidR=“00377F7D” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>अर्थित्वं च, ऐश्वर्यस्य क्षयित्व-सातिशयत्व-दर्शनात्- मोक्षसाधनब्रह्मविद्याविषयम् उपपद्यते।
<w:tab w:val=“left” w:pos=“993”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:tab/></w:r><w:r w:rsidR=“00377F7D” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>विद्वत्ता चोपनयनाध्ययनरहितानामपि स्वयम्भात-वेदत्वात् सुलभैव। तस्मात्- देवानां विद्याधिकारो न निवारयितुं शक्यः।
<w:tab w:val=“left” w:pos=“993”/></w:tabs><w:jc w:val=“both”/><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:tab/></w:r><w:r w:rsidR=“00377F7D” w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:color w:val=“000000”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>यद्यपि- आदित्यादिदेवतानामादित्यादिध्यानमिश्रासु सगुणब्रह्मविद्यासु ध्येयानामन्येषाम् आदित्यादीनामसम्भवात्, आदित्यत्वादिप्राप्तिलक्षणस्य विद्याफलस्य सिद्धत्वाच्च माऽस्त्वधिकारः, तथाऽपि निर्गुणविद्यायामधिकारे को दोषः? तस्मादस्त्येवाधिकारः देवानां ब्रह्मविद्यायाम्॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रमिताधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “भूतभव्येशता जीवे नास्त्यतोऽसाविहेश्वरः। स्थितिप्रमाणे ईशेऽपि स्तो हृद्यस्योपलब्धितः॥ 16॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪशुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥1.3.34॥
SŪक्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात्॥1.3.35॥
SŪसंस्कारपरामर्शात्तदभावाभिलापाच्च॥1.3.36॥
SŪतदभावनिर्धारणे च प्रवृत्तेः॥1.3.37॥
SŪश्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च॥1.3.38॥
1विषयः
शूद्रोऽधिक्रियते वेद-विद्यायामथवा न हि।
3पूर्वपक्षः
अत्रैवर्णिकदेवाद्या इव शूद्रोऽधिकारवान्॥ 19॥
<w:tab w:val=“left” w:pos=“964”/></w:tabs><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>दशमे शूद्रस्य ब्रह्मविद्यायानधिकाराधिकरणे सूत्राणि।
<w:tab w:val=“left” w:pos=“964”/></w:tabs><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:lang w:bidi=“sa-IN”/></w:rPr></w:pPr><w:r w:rsidRPr=“004B47CA”><w:rPr><w:rFonts w:ascii=“VijayaDV” w:hAnsi=“VijayaDV”/><w:sz w:val=“28”/><w:cs/><w:lang w:bidi=“sa-IN”/></w:rPr><w:t>दशमाधिकरणमारचयति –
छान्दोग्यस्य चतुर्थाध्याये संवर्गविद्यायामाम्नायते- “आजहारेमाः शूद्र, अनेनैव मुखेनालापयिष्यथाः” इति। जानश्रुतिर्नाम कश्चिच्छिष्यो गोसहस्रं- दुहितरं- मुक्ताहारं- रथं- कांश्चिद्ग्रामांश्च उपायनत्वेनानीय, रैक्वनामानं गुरुमुपससार। तत्र रैक्ववचनमेतत्- “हे शूद्र जानश्रुते, इमा गोसहस्राद्या आहृतवानसि, अनेनैव दुहित्राद्युपायनमुखेन मच्चित्तं प्रसाद्योपदेशयिष्यसि” इति।
तत्र “शूद्रोऽपि वेदविद्यायामधिकारवान्” इति प्राप्तम्। अत्रैवर्णिकदेवदृष्टान्तात् शूद्रस्याप्यत्रैवर्णिकस्य तत्सम्भवात्। इति प्राप्ते
4सिद्धान्तः
देवाः स्वयम्भातवेदाः शूद्रोऽध्ययनवर्जनात्।
नाधिकारी श्रुतौ, स्मार्ते त्वधिकारो न वार्यते॥ 20॥
ब्रूमः- अस्ति देवशूद्रयोर्वैषम्यम्। उपनयनाध्ययनाभावेऽपि, स्वयं भातवेदाः देवाः, तादृशस्य सुकृतस्य पूर्वमुपार्जितत्वात्। शूद्रस्य तादृशसुकृतराहित्यात्, न स्वयम्भातवेदः। नापि तस्य वेदाध्ययनमस्ति, उपनयनाभावात्। अतो विद्वत्ताख्यस्याधिकारहेतोरभावान्न श्रौतविद्यायां शूद्रोऽधिकारी।
कथं तर्हि- उदाहृते वाक्ये, जानश्रुतिविषयः शूद्रशब्दः, “यौगिकोऽयं, न रूढः” इति ब्रूमः। “विद्याराहित्यजनितया शुचा गुरुं दुद्राव” न च- रूढ्या योगापहारः, रूढेरत्रासम्भवात्। अस्मिन्नुपाख्याने क्षत्तृप्रेरणाद्यैश्वर्योपन्यासेन जानश्रुतेः क्षत्रियत्वावगमात्। (क्षत्ता शूद्रात् क्षत्रियस्त्रगयां जातः सारधिः)
ननु- शूद्रस्य वेदविद्यायामनधिकारे सति मुमुक्षायां सत्यामपि मुक्तिर्न सिध्येत्- इति चेत्। न। स्मृतिपुराणादिमुखेन ब्रह्मविद्योदये सति मुक्तिसिद्धेः।
तस्मात्- न शूद्रो वेदविद्यायामधिक्रियते। किन्तु, ब्रह्मज्ञाने अधिक्रियते स्मृति-पुराण-ज्ञानसाहाय्यात् ॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “देवताधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अविरुद्धज्ञातवादि-मन्त्रादेर्देहसत्त्वतः। अर्थित्वादेश्च सौलभ्या-द्देवाद्या अधिकारिणः॥ 18॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
एकादशे ईश्वरस्यैव कम्पनहेतुताधिकरणे सूत्रम्
SŪकम्पनात्॥1.3.39॥
एकादशाधिकरणमारचयति –
1विषयः
जगत्कम्पनकृत्प्राणो-ऽशनिर्वायुरुतेश्वरः।
3पूर्वपक्षः
अशनिर्भयहेतुत्वा-द्वायुर्वा देहचालनात्॥ 21॥
कठवल्लीषु षष्ठवल्ल्यामाम्नायते-
“यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम्।
महद्भयं वज्रमुद्यतं, य एतद्विदु-रमृतास्ते भवन्ति” इति।
अयमर्थः- “निस्सृतमुत्पन्नं यदिदं जगत्सर्वं प्राणे निमित्तभूते सति कम्पते। तच्च प्राणशब्दवाच्यं वस्तु उद्यतं वज्रमिव महाभयहेतुः। एतत्प्राणशब्दवाच्यं ये विदुः, ते मरणरहिता भवन्ति” इति।
तत्र- जगत्कम्पनकारिणि प्राणे, अशनिः- वायुः- ईश्वरो वा इति त्रेधा सन्दिग्धे सति- “अशनिः” इति तावत्प्राप्तम्। कुतः- “महद्भयम्” इति भयहेतुत्वश्रवणात्। वायुर्वा भविष्यति “प्राण एजति” इति प्राणवाच्यस्य वायोः देहादिचालनकर्तृत्वावगमात् इति प्राप्ते,
4सिद्धान्तः
वेदनादमृतत्वोक्ते-रीशोऽन्तर्यामिरूपतः।
भयहेतुश्चालनं तु सर्वशक्तियुतत्वतः॥ 22॥
ब्रूमः- ईश्वरः प्राणशब्दवाच्यो भवितुमर्हति, “य एतद्विदुरमृतास्ते भवन्ति” तद्वेदनादमृतत्वोक्तेः। भयहेतुताऽप्यन्तर्यामिरूपेणेश्वरस्य भविष्यति “भीषाऽस्माद्वातः पवते” इति श्रुत्यन्तरात्। देहादिकम्पनत्वं च सर्वशक्तित्वादीश्वरस्योपपद्यते। तस्मात्- ईश्वरः प्राणशब्दवाच्यः॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अपशूद्राधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “देवाः स्वयम्भातवेदाः शूद्रोऽध्ययनवर्जनात्। नाधिकारी श्रुतौ, स्मार्ते त्वधिकारो न वार्यते॥ 20॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
SŪज्योतिर्दर्शनात्॥1.3.40॥
द्वादशाधिकरणमारचयति-
1विषयः
द्वादशे ब्रह्मण एव ज्योतिष्ट्वाधिकरणे सूत्रम्।
परं ज्योतिस्तु सूर्यस्य मण्डलं ब्रह्म वा भवेत्।
समुत्थायोपसम्पद्ये-त्युक्त्या स्याद्रविमण्डलम्॥ 23॥
3पूर्वपक्षः
छान्दोग्येऽष्टमाध्याये प्रजापतिविद्यायामाम्नायते- “एष सम्प्रसादोऽस्माच्छारीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः” इति।
अस्यायमर्थः- “सम्यक्प्रसीदत्यस्यामवस्थायाम्” इति सम्प्रसादः सुषुप्तिः, तस्यामवस्थायां तद्वान् जीव उपलक्ष्यते। “एष जीवोऽस्माच्छरीरात्समुत्थाय” इति। शेषं सुगमम्। तत्र ज्योतिश्शब्दवाच्ये पदार्थे रविर्वा ब्रह्म वा- इति द्वेधा सन्दिग्धे सति, “रविमण्डलम्” इति तावत्प्राप्तम्। कुतः “शरीरात्समुत्थाय ज्योतिरुपसम्पद्य” इति “देहान्निर्गत्य ज्योतिः प्राप्नोति” इत्युच्यमानत्वात्। ब्रह्मप्राप्तौ निर्गमाभावात्प्राप्तृप्राप्तव्यभेदानुपपत्तेश्च। इति प्राप्ते,
4सिद्धान्तः
समुत्थानं त्वंपदार्थ-शुद्धिर्वाक्यार्थबोधनम्।
सम्पत्तिरुत्तमत्वोक्ते-र्ब्रह्म स्यादस्य साक्ष्यतः॥ 24॥
ब्रूमः- ज्योतिश्शब्दवाच्यं ब्रह्म स्यात्। कुतः- “स उत्तमः पुरुषः” इत्युत्तमपुरुषकीर्तनात्, रविमण्डलस्य तदयोगात्। “यो वेद- इदं जिघ्राणि- इति, स आत्मा। यो वेद- इदं शृणवानि- इति, स आत्मा” इत्यादिना घ्रातृ–घ्राण-घ्रेय, श्रोतृ-श्रवण-श्रोतव्यादिसाक्षित्वमात्मनः श्रूयते। तदेकवाक्यतया ज्योतिश्शब्दवाच्यं ब्रह्म।
यदुक्तम्- “शरीरात्समुत्थाय, ज्योतिरुपसम्पद्य” इत्येतद्द्वयं ब्रह्मपक्षे न सम्भवति- इति। तदसत्। न ह्यत्र समुत्थानं निर्गमनम्, किं तर्हि? त्वंपदार्थस्य जीवस्य शरीरत्रयाद्विवेकः।
नाप्युपसम्पत्तिः प्राप्तिः। किं तर्हि? तस्य शोधितत्वंपदार्थस्य ब्रह्मत्वेनावबोधनम्। तस्मात्- ज्योतिर्ब्रह्म॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “कम्पनाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वेदनादमृतत्वोक्ते-रीशोऽन्तर्यामिरूपतः। भयहेतुश्चालनं तु सर्वशक्तियुतत्वतः॥ 22॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.3.13
अर्थान्तरत्वादिव्यपदेशाधिकरणम्
SŪआकाशोऽर्थान्तरत्वादिव्यपदेशात्॥1.3.41॥
त्रयोदशाधिकरणमारचयति-
1विषयः
त्रयोदशे ब्रह्मण एव नामरूपनिर्वाहकताधिकरणे सूत्रम्।
वियद्वा ब्रह्म वाकाशौ वै नामेति श्रुतं, वियत्।
अवकाशप्रदानेन सर्वनिर्वाहकत्वतः॥ 25॥
3पूर्वपक्षः
छान्दोग्यस्याष्टमाध्यायस्यान्ते श्रूयते- “आकाशो ह वै नामरूपयोर्निर्वहिता, ते यदन्तरा तद्ब्रह्म, तदमृतम्, स आत्मा” इति। अस्यायमर्थः- “आकाशाख्यः कश्चित्पदार्थः, स च जगद्रूपयोर्नामरूपयोर्निर्वहिता (निर्वोढा) निर्वाहकः। ते च नामरूपे यस्मादाशाद्भिन्ने, अथवा- यस्याकाशस्यान्तराले वर्तेते, तदाकाशं मरणरहितं ब्रह्म, तदेव प्रत्यगात्मा” इति।
तत्र “आकाशो ह वै नाम”- इति यच्छ्रुतं, तद्वियत् स्यात्, “नामरूपयोर्निर्वहिता” इत्युक्तस्य निर्वाहकत्वस्य अवकाशप्रदातरि वियति सम्भवात्। इति प्राप्ते,
4सिद्धान्तः
निर्वोढृत्वं नियन्तृत्वं चैतन्यस्यैव तत्त्वतः।
ब्रह्म स्याद्वाक्यशेषे च ब्रह्मात्मेत्यादिशब्दतः॥ 26॥
ब्रूमः- अत्र निर्वाहकत्वं नाम नावकाशप्रदानमात्रम्। किन्तु नियामकत्वम्। सर्वप्रकारनिर्वाहकत्वस्य नियन्तृत्वान्तर्भावात्। तच्च नियन्तृत्वं चेतनस्य ब्रह्मणो युज्यते।
श्रुत्यन्तरे च श्रूयते- “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति। न हि वियतोऽचेतनस्य नियम्य विशेषान् अजानतो नियन्तृत्वं सम्भवति। तत आकाशं ब्रह्म स्यात्। किञ्च वाक्यशेषे “तद्ब्रह्म, तदमृतं, स आत्मा” इति ब्रह्मत्वामृतत्वात्मत्वानि श्रूयन्ते। ततोऽपि ब्रह्मैवाकाशम्॥
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “ज्योतिरधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “समुत्थानं त्वंपदार्थ-शुद्धिर्वाक्यार्थबोधनम्। सम्पत्तिरुत्तमत्वोक्ते-र्ब्रह्म स्यादस्य साक्ष्यतः॥ 24॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.3.14
सुषुप्त्युत्क्रान्त्यधिकरणम्
SŪसुषुप्त्युत्क्रान्त्योर्भेदेन॥1.3.42॥
SŪपत्यादिशब्देभ्यः॥1.3.43॥
चतुर्दशाधिकरणमारचयति –
1विषयः
चतुर्दशे ब्रह्मण एव विज्ञानमयत्वाधिकरणे सूत्रे।
स्याद्विज्ञानमयो जीवो ब्रह्म वा जीव इष्यते।
आदिमध्यावसानेषु संसारप्रतिपादनात्॥ 27॥
3पूर्वपक्षः
बृहदारण्यके षष्ठाध्याये श्रूयते- “योऽयं विज्ञानमयः प्राणिषु, हृदि अन्तर्ज्योतिः पुरुषः समानः सन्, उभौ लोकावनुसञ्चरति” इति। अस्यायमर्थः- “विज्ञानमयो लिङ्गशरीरमयः। तेन स्थूलदेहव्यतिरेकः सिद्धः। प्राणेषु चक्षुरादीन्द्रियेषु, प्राणादिवायुषु च हृद्यन्तःकरणे, सप्तमीविभक्त्याधारत्वनिर्देशात् आधेयस्य पुरुषस्य इन्द्रियवायुमनोतिरिक्तत्वं सिद्धम्। अन्तश्शब्देषु धीवृत्तिभ्यः कामसङ्कल्पादिभ्यो व्यतिरेकः सिद्धः। बुद्धिपरिणामरूपाणां तासां वृत्तीनां बहिर्भावात्। एवं च सति- स्थूलदेहेन्द्रियेभ्यः प्राणवायुभ्योऽन्तःकरणात् तद्वृत्तिभ्यश्च व्यतिरिक्तः, तेषां साक्षित्वेन चिज्ज्योतिस्स्वरूपः पुरुषः- इत्युक्तं भवति। स च पुरुषो लिङ्गशरीरतादात्म्याध्यासेन लिङ्गशरीरेण समानः सन्, इहलोकपरलोकावनुसञ्चरति इति।
तत्र विज्ञानमयो जीवो भवितुमर्हति, ज्योतिर्ब्राह्मण-शारीरब्राह्मणयोः आदिमध्यावसानेषु संसारस्यैव प्रपञ्च्यमानत्वात्। आदौ तावत्- “उभौ लोकावनुसञ्चरति” इति संसारोक्तिः स्पष्टा। मध्ये च- सम्प्रसादस्वप्रान्तबुद्धान्त कण्डिकाभिः अवस्थात्रयं प्रपञ्च्यते। अन्तेऽपि “स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयः” इत्यादिना सोपाधिकस्वरूपवर्णनेन संसार एवोच्यते। तस्मात्- जीवः। इति प्राप्ते,
4सिद्धान्तः
विविच्य लोकसंसिद्धं जीवं प्राणाद्युपाधितः।
ब्रह्मत्वमन्यतोऽप्राप्तं बोध्यते ब्रह्म नेतरम्॥ 28॥
ब्रूमः- न तावज्जीवोऽत्र प्रतिपाद्यः, लौकिकात् अहंप्रत्ययादेव सिद्धत्वात्। किमर्थं तर्हि जीवाद्यभिधानम्- इति चेत्। प्राणाद्युपाधिभ्यो विवेक्तुमादौ अभिधानम्। मध्येऽप्यवस्थात्रयसङ्गराहित्यं दर्शयितुमभिधीयते। अन्ते तूक्तजीवस्वरूपमनूद्य, तस्य ब्रह्मत्वं प्रतिपाद्यते। ब्रह्मत्वस्य मानान्तरेणाप्राप्तत्वात्। तस्मात्- ब्रह्मात्र प्रतिपाद्यम्, न तु जीवः। इति सिद्धम्॥
इति वैयासिकन्यायमालायां प्रथमाध्यायस्य तृतीयः पादः॥1.3॥
प्रथमाध्यायस्य चतुर्थः पादः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “तृतीयपादे तु अस्पष्टब्रह्मलिङ्गत्वे सति, ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अर्थान्तरत्वादिव्यपदेशाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “निर्वोढृत्वं नियन्तृत्वं चैतन्यस्यैव तत्त्वतः। ब्रह्म स्याद्वाक्यशेषे च ब्रह्मात्मेत्यादिशब्दतः॥ 26॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]