SarvaVeda Jaiminīya Vaiyāsika Pada Kośa VVS
Vaiyāsika Nyāyamālā · Adhyāya 1, Pāda 2

समन्वयः

अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्

7adhikaraṇas
33sūtras
1.2.1 सर्वत्रप्रसिद्ध्यधिकरणम् ?
सर्वत्र प्रसिद्धोपदेशात्॥1.2.1॥
विवक्षितगुणोपपत्तेश्च॥1.2.2॥
अनुपपत्तेस्तु न शारीरः॥1.2.3॥
कर्मकर्तृव्यपदेशाच्च॥1.2.4॥
शब्दविशेषात्॥1.2.5॥
स्मृतेश्च॥1.2.6॥
अर्भकौकस्त्वात् तव्द्यपदेशाच्च नेति चेत्- न निचाय्यत्वादेवं व्योमवच्च॥1.2.7॥
सम्भोगप्राप्तिरिति चेत्- न वैशेष्यात्॥1.2.8॥
द्वितीयपादस्य प्रथमाधिकरणमारचयति –

1विषयः

प्रथमे ब्रह्मण एव मनोमयत्वाद्यधिकरणे सूत्राणि।
मनोमयोऽयं शारीर ईशो वा प्राणमानसे।
हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगाः॥ 1॥

2संशयः

तत्र- प्राणशरीरः “जीवः, ईशो वा” इति सन्देहः।

3पूर्वपक्षः

“जीवः” इति तावत्प्राप्तम्, मनस्सम्बन्धादीनां जीवे सुसम्पादत्वात्। “मनसो विकारो मनोमयः“ इति मनस्सम्बन्धः। “प्राणः शरीरमस्य” इति प्राणसम्बन्धः। न चेदं द्वयमीश्वरे सुसम्पादम्। “अप्राणो ह्यमनाः शुभ्रः”(मुं.उ- 2/1/2) इति निषेधात्। तथा- “एष म आत्माऽन्तर्हृदयेऽणीयान्” इति श्रूयमाणं हृदयेऽवस्थानम्-अणीयस्त्वं च, निराधारस्य सर्वगतस्य न कथञ्चिदुपपद्यते। तस्मात्- जीवः। इति प्राप्ते,-

4सिद्धान्तः

शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते।
प्राणादियोगश्चिन्तार्थ-श्चिन्त्यं ब्रह्म प्रसिद्धितः॥ 2॥
ब्रूमः- “सर्वं खल्विदं ब्रह्म तज्जलान् इति शान्त उपासीत” ”(छां.उ- 3/14/1) इत्येतस्मिन् शमविधिपरे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म, तदेव “मनोमयः, प्राणशरीरः” इत्येताभ्यां तद्धित-बहुव्रीहिभ्यां विशेष्यत्वेनापेक्ष्यते। शमवाक्यस्यायमर्थः- “यस्मात्सर्वमिदं ब्रह्म- तज्जत्वात्, तल्लत्वात्, तदंस्त्वाच्च, तस्मात्सर्वात्मके ब्रह्मणि (विषये) रागद्वेषविषयासम्भवादुपास्तिकाले शान्तो भवेत्” इति। एतद्वाक्यगते ब्रह्मणि विशेष्यत्वेनान्विते मनोमयवाक्यमपि ब्रह्मपरं भविष्यति।
न च- ब्रह्मणो मनःप्राणसम्बन्धाद्यनुपपत्तिः, निरुपाधिके तदनुपपत्तावपि, सोपाधिकस्योपास्यस्य चिन्तनार्थतायाः तदुपपत्तेः। तस्मात्- सर्वेष्वपि वेदान्तवाक्येषु यद्ब्रह्म उपास्यत्वेन प्रसिद्धं- तदेव अत्राप्युपास्यम्। न हि क्वचिदपि वेदान्ते जीवस्योपास्यत्वं प्रसिद्धम्। ततो “ब्रह्मैव” इति सिद्धान्तः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रतर्दनाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ब्रह्मणोऽनेकलिङ्गानि तानि सिद्धान्यनन्यथा। अन्येषामन्यथासिद्धे-र्व्युत्पाद्यं ब्रह्म नेतरत्॥ 38॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.2.2 अत्त्रधिकरणम्
अत्ता चराचरग्रहणात्॥1.2.9॥
प्रकरणाच्च॥1.2.10॥
द्वितीयाधिकरणमारचयति –

1विषयः

द्वितीये ईश्वरस्यैवात्तृत्वाधिकरणे सूत्रे।
जीवोऽग्निरीशो वाऽत्ता स्या-दोदने जीव इष्यताम्।
स्वाद्वत्तीति श्रुतेर्वह्नि-र्वाऽग्निरन्नाद इत्यतः॥ 3॥

3पूर्वपक्षः

ब्रह्मक्षत्रादिजगतो भोज्यत्वात् स्यादिहेश्वरः॥
कठवल्लीषु द्वितीयवल्ल्यवसाने पठ्यते –
“यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः”॥ (कठ.उ- 1/2/24)इति
अयमर्थः– “ब्राह्मणक्षत्रियजाती यस्यौदनस्थानीये, मृत्युश्चोपसेचनस्थानीयः, स पुरुषो यत्र वर्तते- तत्स्थानम् “इदमित्थम्” इति को वेद? न कोपि जानाति- इत्यर्थः। अत्र ओदनोपसेचनशब्दाभ्यां कश्चिद्भक्षकः प्रतीयते। स जीवः, अग्निः, ईशो वा इति त्रेधा सन्दिह्यते।
“जीवः” इति तावत्प्राप्त

4सिद्धान्तः

ईशप्रश्नोत्तरत्वाच्च संहारस्तस्य चात्तृता॥ 4॥
म्। कुतः- “तयोरन्यः पिप्पलं स्वाद्वत्ति” (मुं.उ- 3/1) इति जीवस्यात्तृत्वश्रवणात्। अथवा वह्निर्भवेत्, “अग्निरन्नादः” (बृ.उ- 1/4/6) इत्यत्तृत्वावगमात्। इति प्राप्ते,-
उच्यते- ब्रह्मक्षत्रयोरुपलक्षणत्वेन कृत्स्नं जगदिह भोज्यत्वेनावगम्यते। नहि तादृशस्य भोज्यस्य जगतः- ईश्वरादन्योऽत्ता सम्भवति। किञ्च-
“अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद”॥(कठ. उ- 1/2/14)
इति धर्माधर्म-कार्यकारण-कालत्रयातीते परमेश्वरे नचिकेतसा पृष्टे सति, “यस्य ब्रह्म च”- इति वाक्येन यम उत्तरं ददौ। तस्माद्- ईश्वरोऽत्र प्रतिपाद्यः। “अनश्नन्नन्योऽभिचाकाशीति” इति ईश्वरे भोक्तृत्वं निषिध्यते- इति चेत्। तर्हि अत्रात्तृत्वं नाम संहर्तृत्वं भविष्यति। तच्चेश्वरस्य सर्वेषु वेदान्तेषु प्रसिद्धम्॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सर्वत्रप्रसिद्ध्यधिकरणम् ?”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते। प्राणादियोगश्चिन्तार्थ-श्चिन्त्यं ब्रह्म प्रसिद्धितः॥ 2॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.2.3 गुहाप्रविष्टाधिकरणम्
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्॥1.2.11॥
विशेषणाच्च॥1.2.12॥
तृतीयाधिकरणमारचयति –

1विषयः

तृतीये जीवब्रह्मणोरेव गुहाप्रवेशाधिकरणे सूत्रे।
गुहां प्रविष्टौ धीजीवौ जीवेशौ वा हृदि स्थितेः।
छायातपाभ्यां दृष्टान्ता-द्धीजीवौ स्तो विलक्षणौ॥ 5॥

2संशयः

“तौ द्वौ- बुद्धिजीवौ, जीवेशौ वा”- इति सन्देहः।

3पूर्वपक्षः

“बुद्धिजीवौ” इति प्राप्तम्, तयोः परिच्छिन्नयोः गुहाप्रवेशसम्भवात्। जडाजडरूपत्वेन छायातपवद्वैलक्षण्याच्च॥ इति चेत्-

4सिद्धान्तः

पिबन्ताविति चैतन्यं द्वयोर्जीवेश्वरौ ततः।
हृत्स्थानमुपलब्ध्यै स्या-द्वैलक्षण्यमुपाधितः॥ 6॥
अत्रोच्यते- “पिबन्तौ” इति द्विवचनेन द्वयोश्चेतनत्वं प्रतीयते। ततः- चेतनाविह जीवेश्वरौ भवतः। सर्वगतस्यापीश्वरस्य हृदयेवस्थानमुपलब्ध्यै वर्ण्यते। द्वयोश्चेतनत्वसाम्येपि सोपाधिकत्व-निरुपाधिकत्वाभ्यां वैलक्षण्यमुपपद्यते॥ अतः जीवेशावेव उच्येते।

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अत्त्रधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ईशप्रश्नोत्तरत्वाच्च संहारस्तस्य चात्तृता॥ 4॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.2.4 अन्तराधिकरणम्
अन्तरः उपपत्तेः॥1.2.13॥
स्थानादिव्यपदेशाच्च॥1.2.14॥
सुखविशिष्टाभिधानादेव च॥1.2.15॥
श्रुतोपनिषत्कगत्यभिधानाच्च॥1.2.16॥
अनवस्थितेरसम्भवाच्च नेतरः॥1.2.17॥
चतुर्थाधिकरणमारचयति –

1विषयः

चतुर्थे ब्रह्मण एवाक्षिगतत्वाधिकरणे सूत्राणि।
छायाजीवौ देवतेशौ वाऽसौ योऽक्षिणि दृश्यते।
आधारदृश्यतोक्त्येशा-दन्येषु त्रिषु कश्चन॥ 7॥

3पूर्वपक्षः

छान्दोग्यस्य चतुर्थाध्याये- उपकोसलविद्यायामुपकोसलं शिष्यं प्रति सत्यकामो गुरुराह। तत्रत्यं वाक्यमेतत्- “य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच, एतदमृतम्, एतद्ब्रह्म” (छां. उ- 4/15/1) इति।
तत्र चतुर्धा संशये सति- “अक्षिणि सर्वैर्दृश्यमाना छाया पुरुषः” इति तावत् प्राप्तम्, अक्ष्याधारत्व-दृश्यत्वयोः, तस्यामेव स्पष्टत्वात्।(छाया नाम रूपग्रहणं, न तु रूढः प्रकाशाभावः।) यद्वा- जीवोऽयं भवितुमर्हति, रूपदर्शनवेलायां तस्य चक्षुष्यवस्थितत्वेन अन्वयव्यतिरेकाभ्यां दृश्यमानत्वात्।
अथवा- देवः स्यात्, “आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्” इति दर्शनात्। सर्वथा न परमात्मा, तस्याधारत्व-दृश्यत्वासम्भवात्। तस्मात्- छाया-जीव-देवेषु यः कोऽप्यस्तु इति प्राप्ते –

4सिद्धान्तः

कं खं ब्रह्म यदुक्तं प्राक्- तदेवाक्षिण्युपास्यते।
वामनीत्वादिनाऽन्येषु नामृतत्वादिसम्भवः॥ 8॥
ब्रूमः- “कं ब्रह्म खं ब्रह्म” (छां. उ- 4/14/1) इति सुखरूपम्, आकाशवत्परिपूर्णं यद्ब्रह्म पूर्ववाक्येनोक्तम्, तदेव “य एषोऽक्षिणि” इति प्रकृतवाचकेनैतच्छब्देन परामृश्य, अक्षिण्युपास्यत्वेनोपदिश्य वामनीत्व-भामनीत्व-संयद्वामत्वादिगुणान् उपासनयोपदिशति। वामनीत्वं कामप्रापकत्वम्। भामनीत्वं जगद्भासकत्वम्। संयद्वामत्वं प्राप्तकामत्वम्। एतैर्गुणैरुपास्यब्रह्मणः सोपाधिकत्वादक्ष्याधारत्वं शास्त्रदृष्ट्या दृश्यमानत्वं च न विरुध्यते। छायाजीवदैवतेषु त्वमृतत्वाभयत्वादीनि न सम्भवन्ति। तस्मात्- ईश्वरोऽत्रोपास्यः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “गुहाप्रविष्टाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “पिबन्ताविति चैतन्यं द्वयोर्जीवेश्वरौ ततः। हृत्स्थानमुपलब्ध्यै स्या-द्वैलक्षण्यमुपाधितः॥ 6॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.2.5 अन्तर्याम्यधिकरणम्
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्॥1.2.18॥
न च स्मार्तमतद्धर्माभिलापात्॥1.2.19॥
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते॥1.2.20॥
पञ्चमाधिकरणमारचयति –

1विषयः

पञ्चमे परमेश्वरस्यैवान्तर्यामिताधिकरणे सूत्राणि।
प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्प्रति।
कारणत्वात्प्रधानं स्या-ज्जीवो वा कर्मणो मुखात्॥ 9॥

3पूर्वपक्षः

बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालकं प्रत्याह- “यः पृथिवीमन्तरो यमय-त्येष त आत्माऽन्तर्याम्यमृतः” (बृ.उ- 3/7/1,2) इति। तत्र- पृथिव्यादिजगत्प्रति योऽन्तर्यामी श्रूयते- तस्मिंस्त्रेधा संशये सति, “प्रधानम्” इति प्राप्तम्। तस्य सकलजगदुपादानत्वेन स्वकार्यं प्रति नियामकत्वसम्भवात्। अथवा- जीवोऽन्तर्यामी। स हि धर्माधर्मरूपं कर्मानुष्ठितवान्। तच्च कर्म स्वफलदानाय फलभोगसाधनं जगदुत्पादयति। अतः कर्मद्वारा जगदुत्पादकत्वाज्जीवोऽन्तर्यामी॥ इति प्राप्ते-

4सिद्धान्तः

जीवैकत्वामृतत्वादे-रन्तर्यामी परेश्वरः।
द्रष्टृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः॥ 10॥
ब्रूमः- “एष त आत्माऽन्तर्याम्यमृतः” इत्यन्तर्यामिणो जीवतादात्म्यममृतत्वं च श्रूयते। तथा- पृथिव्यन्तरिक्षादिषु सर्ववस्तुष्वन्तर्यामित्वोपदेशेन सर्वव्यापित्वं प्रतीयते। तेभ्यो हेतुभ्योऽन्तर्यामी परमेश्वरः। न च प्रधानस्यान्तर्यामित्वं सम्भवति, “अदृष्टो द्रष्टा, अश्रुतः श्रोता” इति द्रष्टृत्व-श्रोतृत्वाद्यवगमात्, अचेतनस्य प्रधानस्य तदसम्भवात्। नापि जीवोऽन्तर्यामी, “य आत्मानमन्तरो यमयति” इति जीवस्य नियम्यत्वश्रवणात्। तस्माद्- अन्तर्यामी परमेश्वरः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अन्तराधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “कं खं ब्रह्म यदुक्तं प्राक्- तदेवाक्षिण्युपास्यते। वामनीत्वादिनाऽन्येषु नामृतत्वादिसम्भवः॥ 8॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.2.6 अदृश्यत्वाधिकरणम्
अदृश्यत्वादिगुणको धर्मोक्तेः॥1.2.21॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ॥1.2.22॥
रूपोपन्यासाच्च॥1.2.23॥
प्रकरणत्वात्॥1.2.24॥
षष्ठाधिकरणमारचयति-

1विषयः

षष्ठे परमेश्वरस्यैव भूतयोनित्वाधिकरणे सूत्राणि।
भूतयोनिः प्रधानं वा जीवो वा यदि वेश्वरः।
आद्यौ पक्षावुपादान-निमित्तत्वाभिधानतः॥ 11॥

3पूर्वपक्षः

मुण्डकोपनिषदि श्रूयते- “तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः”(मुं.उ- 1/1/6) इति। तत्र (प्रधान-जीव-ईश्वरेषु कतर इति) त्रेधा संशये सति- प्रधानम्, जीवो वा, इति पक्षद्वयं तावत्प्राप्तम्। योनिशब्दस्य उपादान-निमित्तलक्षणार्थद्वयवाचित्वात्। प्रधानस्य विश्वाकारेण परिणममानस्योपादानत्वात्। जीवस्य च धर्माधर्मद्वारेण निमित्तत्वात्॥इति चेत्-

4सिद्धान्तः

ईश्वरो भूतयोनिस्स्यात् सर्वज्ञत्वादिकीर्तनात्।
दिव्याद्युक्तेर्न जीवस्स्यात् न प्रधानं भिदोक्तितः॥ 12॥
अत्रोच्यते –“यः सर्वज्ञः सर्ववित्, यस्य ज्ञनमयं तपः” इति “सामान्याकारेण सर्वज्ञत्वम्, विशेषाकारेण सर्ववित्त्वं, पर्यालोचनात्मकं तपश्च”, इत्येतादृशस्य ब्रह्मलिङ्गस्य कीर्तनाद्भूतयोनिः परमेश्वरः।
न च जीवस्य भूतयोनित्वं युक्तम्, “दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः” इति बाह्याभ्यन्तरव्यापित्व-जन्मराहित्ययोः श्रुतत्वात्, परिच्छिन्नस्य जन्मादिमतो जीवस्य तदसम्भवात्।
नापि प्रधानस्य भूतयोनित्वं युक्तम्, “अक्षरात्परतः परः” इत्यक्षरशब्दवाच्यात् प्रधानात् भेदेन भूतयोनेः परत्वाभिधानात्। तस्मात्- ईश्वरो भूतयोनिः॥

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अन्तर्याम्यधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “जीवैकत्वामृतत्वादे-रन्तर्यामी परेश्वरः। द्रष्टृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः॥ 10॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
1.2.7 वैश्वानराधिकरणम्
वैश्वानरस्साधारणशब्दविशेषात्॥1.2.25॥
स्मर्यमाणमनुमानं स्यादिति॥1.2.26॥
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेत्- न तथादृष्ट्युपदेशात् असम्भवात्, पुरुषमपि चैनमधीयते॥1.2.27॥
अत एव न देवता भूतं च॥1.2.28॥
साक्षादप्यविरोधं जैमिनिः॥1.2.29॥
अभिव्यक्तेरित्याश्मरथ्यः॥1.2.30॥
अनुस्मृतेर्बादरिः॥1.2.31॥
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति॥1.2.32॥
आमनन्ति चैनमस्मिन्॥1.2.33॥
सप्तमाधिकरणमारचयति –

1विषयः

सप्तमे परमेश्वरस्यैव वैश्वानरत्वाधिकरणे सूत्राणि।
वैश्वानरः कौक्ष.भूत-देव.जीवेश्वरेषु कः।
वैश्वानरात्मशब्दाभ्या-मीश्वरान्येषु कश्चन॥ 13॥

2संशयः

किमयं वैश्वानरः कुक्षिस्थितोऽग्निः, किं वा भूताग्निः, आहोस्वित्- आदित्यदेवता, किं वा जीवात्मा, अथवा परमात्मा, इति पञ्चधा संशयः।

3पूर्वपक्षः

तत्र वैश्वानरशब्दवशात्- आद्यं पक्षत्रयं प्राप्तम्।
“अयमग्निर्वैश्वानरो- योऽयमन्तः पुरुषे ??(येनेदमन्नं पच्यते)” इति श्रुतौ वैश्वानरशब्दो जाठराग्नौ प्रयुक्तः।
“विश्वस्मा अग्निं भुवनाय देवा वैश्वानरम्” इति बाह्येग्नौ प्रयुक्तः।
“वैश्वानरस्य सुमतौ स्याम” इति देवतायां प्रयुक्तः। अतः पक्षत्रयमुपपद्यते।
आत्मशब्दस्य जीवे रूढत्वात्, जीवो वा वैश्वानरः स्यात्। न त्वीश्वरः, तद्गमकाभावात्। इति प्राप्ते -

4सिद्धान्तः

द्युमूर्धत्वादितो ब्रह्म-शब्दाच्चेश्वर इष्यते।
वैश्वानरात्मशब्दौ ता-वीश्वरस्यापि वाचकौ॥ 14॥
ब्रूमः- वैश्वानरो ब्रह्म भवितुमर्हति, द्युमूर्धत्वादिश्रवणात्। “तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः” इत्यादिना द्युलोकाद्यशेषजगतो वैश्वानरावयवत्वं श्रूयते। न चैतदीश्वरादन्यत्र सम्भवति।
किञ्च “को न आत्मा, किं ब्रह्म” इति ब्रह्मशब्दश्च ईश्वरे मुख्यः। वैश्वानरशब्दस्तु योगवृत्त्या ब्रह्मणि वर्तते। विश्वश्चासौ नरश्च विश्वानरः। सर्वात्मकपुरुष इत्यर्थः। विश्वानर एव वैश्वानरः। आत्मशब्दश्च जीववद्ब्रह्मण्यपि वर्तते। तस्मात्- वैश्वानरः परमेश्वरः॥
इति वैयासिकन्यायमालायां प्रथमाध्यायस्य द्वितीयः पादः॥1.2॥
प्रथमाध्यायस्य तृतीयः पादः

5सङ्गतिःऊहिता

शास्त्रसङ्गतिः — “ब्रह्मविचारः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “समन्वयः” इति लक्षणम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “अस्पष्टब्रह्मलिङ्गत्वे सति, उपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम्” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अदृश्यत्वाधिकरणम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “ईश्वरो भूतयोनिस्स्यात् सर्वज्ञत्वादिकीर्तनात्। दिव्याद्युक्तेर्न जीवस्स्यात् न प्रधानं भिदोक्तितः॥ 12॥”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
← Adhyāya 1, Pāda 1 Contents Adhyāya 1, Pāda 3 →