9.4.1
प्रथमे 'षड्विंशतिरस्य वङ्क्रयः' इत्यादौ समस्योहाधिकरणे सूत्राणि 1-16
SŪषड्विंशतिरभ्यासेन पशुगणे तत्प्रकृतित्वाद्गुणस्य प्रविभक्तत्वादविकारे हि तासामकार्न्येसे नाभिसंबन्धो विकारान्न समासः स्यादसंयोगाच्च सर्वाभिः।। 1।।
SŪअभ्यासेऽपि तथेति चेत्।। 2।।
SŪन गुणादर्थकृतत्वाच्च।। 3।।
SŪसमासेऽपि तथेति चेत्।। 4।।
SŪनासंभवात्।। 5।।
SŪस्वाभिश्च वचनं प्रकृतौ तथेह स्यात्।। 6।।
SŪवङ्क्रीणां तु प्रधानत्वात्समासेनाभिधानं स्यात्प्राधान्यमध्रिगोस्तदर्थत्वात्।। 7।।
SŪतासां च कृत्स्नवचनात्।। 8।।
SŪअपि त्वसंनिपातित्वात्पत्नीवदाम्नातेनाभिधानं स्यात्।। 9।।
SŪविकारस्तु प्रदेशत्वाद्यजमानवत्।। 10।।
SŪअपूर्वत्वात्तथा पत्न्याम्।। 11।।
SŪआम्नातस्त्वविकारात्संख्यासु सर्वगामितत्वात्।। 12।।
SŪसंख्या त्वेवं प्रधानं स्याद्वङ्क्रयः पुनः प्रधानम्।। 13।।
SŪअनाम्नातवचनमवचनेन हि वङ्क्रीणां स्यान्निर्देशः।। 14।।
SŪअभ्यासो वाऽविकारात्स्यात्।। 15।।
SŪपशुस्त्वेवं प्रधानं स्यादभ्यासस्य तन्निमित्तत्वात्तस्मात्समासशब्दः स्यात्।। 16।।
चतुर्थपादस्य प्रथमाधिकरणमारचयति-
1विषयः
षड्विंशतिर्वङ्क्रयोऽस्येत्यनूहः स्यादुतोह्यते
ऊहेऽपि वचनान्यत्वमस्येत्यावर्त्यतेऽथवा
3पूर्वपक्षः
षड्विंशतेरुताभ्यासः समस्तोक्तिर्भवेदुत
अनूहोऽकरणत्वेन दृष्टलाभात्तदूहनम्
अध्रिगुप्रैषे वाक्यमिदमाम्नायते ''षड्विंशतिरस्य वङ्क्रयः, ता अनुष्ठ्योच्च्यावयतात्'' इति। अयमर्थः- 'वङ्क्रयो वक्राणि पार्श्वास्थीनि। तान्यस्य पशोः षड्विंशतिसंख्यानि, एकैकस्मिन्पार्श्वे त्रयोदशानामवस्थितत्वात्। ताश्च वङ्क्रीरनुष्ठ्य, अनुष्ठायानुक्रमेण गणयित्वेति यावत्। उच्च्यावयतादुद्धरतात्' इति। सोऽयं मन्त्रो वङ्क्रीणामुद्धरणे करणतया न विनियुक्तः। किंतु संज्ञपनात्प्राक्पशौ नीयमाने होत्रा प्रयुज्यते। ततोऽसमवेतार्थत्वादनूहः। इत्याद्यः पक्षः।
अकरणत्वेऽपि नादृष्टार्थत्वम्, शमितॄणामुद्धरणायार्थस्यावश्यकत्वेन दृष्टार्थलाभात्। तस्मात्प्रकृतौ समवेतार्थतया विकृतावूहः। तदाऽपि चत्वारः पक्षाः।
तत्र संख्या मुख्यत्वेन प्रकाश्या। तेन द्वयोः पश्वोर्द्विगुणितां षड्विंशतिसंख्यां प्रकाशयितुं द्विवचनान्ततया षड्विंशतिशब्द ऊहनीयः। इत्याद्यः पक्षः।
पशोश्चोदितत्वेन मुख्यत्वात्तद्वाचकं षष्ठ्यन्तम् 'अस्य' इति पदं पश्वनुसारेणावर्तनीयम्। इति द्वितीयः पक्षः।
युक्तिर्योगः। षड्विंशतिसंख्यायाः पशुना सह संबन्धः, तस्य मुख्यत्वात्प्रतिपशुविभक्तां संख्यां प्रकाशयितुं षड्विंशतिपदस्याभ्यासः। इति तृतीयः पक्षः।
अत्र सर्वत्र मुख्यानुसारेण पदान्तराण्यूहनीयानि। संख्येयानां वङ्क्रीणां मुख्यत्वात्तासामियत्ता समस्य वक्तव्या। ततो 'द्विपञ्चाशदनयोर्वङ्क्रयः। अष्टसप्ततिरेषां वङ्क्रयः' इत्येवं यथायोगमूहनीयम्। इति चुतुर्थः पक्षः। अयमेव सिद्धान्तो वाक्यशेषानुगुण्यात्। 'ता अनुष्ठ्य' इत्ययं वाक्यशेषः स च व्याख्यातः।। 1।। 2।। 3।।
4सिद्धान्तः
संख्यायाश्च पशौ युक्तेर्वङ्क्रीणां मुख्यतावशात्
अमी पक्षा युज्यतेऽन्त्यस्ता अनुष्ठ्येतिशेषतः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- एकादशिन्यामेकवचनान्तमेधपतिशब्दस्योहाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे नवमाध्यायस्य तृतीयः पादः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.2
द्वितीये- आश्वमेधिकसवनीयाश्वस्य चतुस्त्रिंशद्वङ्क्रिरूपविशेषवचनविकल्पाधिकरणे सूत्रम्
SŪअश्वस्य चतुस्त्रिंशत्तस्य वचनाद्वैशेषिकम्।। 17।।
द्वितीयाधिकरणमारचयति-
1विषयः
न चतुस्त्रिंशदित्येष निषेधो नियतो न वा
3पूर्वपक्षः
गिरापदवदाद्यः स्यान्नैवकारहतत्वतः
अश्वमेधे त्रयः सवनीयाः पशवः श्रुताः- 'अश्वः, तूपरः, गोमृगः, ते प्राजापत्याः' इति। तेष्वश्वस्य चतुस्त्रिंशद्वङ्क्रयः। तथा च मन्त्रः ''चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति'' इति। वाजी गन्धर्ववाहको जातिविशेषः। अत एवाम्नायते- ''हयो भूत्वा देवानवहत्, अर्वाऽसुरान्, वाजी गन्धर्वान्'' इति। देवबन्धुर्देवानां प्रियः। स्वधितिश्छेदनहेतुः शस्त्रमित्यर्थः। एवं सत्यध्रिगुप्रैषे विशेषोऽयमाम्नायते ''न चतुस्त्रिंशदिति ब्रूयात्। षड्विंशतिरित्येव ब्रूयात्'' इति। सोऽयं 'चतुस्त्रिंशद्वाजिनः' इत्यादिकाया ऋचः प्रतिषेधो गिरापदनिषेधवन्नित्यः, न तु विकल्पितः। यथा ''न गिरागिरेति ब्रूयात्, ऐरं कृत्वोद्गेयम्'' इत्यत्र गिरापदनिषेधपुरःसरमिरापदे विहिते सति निषिद्धस्य नित्यनिवृत्तिः। तथा चतुस्त्रिंशन्मन्त्रनिषेधपुरःसरं षड्विंशतिमन्त्रे विहिते सति नित्यनिवृत्तिर्निषिद्धस्य। इति चेत्-
मैवम्। 'षड्विंशतिरित्येव ब्रूयात्' इत्येवकारेण विधित्वप्रत्ययबाधात्। षड्विंशतिमन्त्रस्तावच्चोदकप्राप्तत्वान्न विधेयः। तस्य चतुस्त्रिंशन्मन्त्रेणापवादप्रसक्तौ 'न चतुस्त्रिंशत्' इत्यपवादकं मन्त्रं प्रतिषिध्य चोदकप्राप्तस्यानपोदितत्वेन यथापूर्वमवस्थानमनूद्यते- इत्येवमर्थं सूचयितुमेवकारः प्रयुक्तः। गिरापददृष्टान्तस्तु विषमः। अप्राप्तत्वादिरापदं तत्र विधीयते। तेन च विहितेन पाठप्राप्ते गिरापदे बाधिते स बाधो 'न गिरा' इति प्रतिषेधेनानूद्यते। ततो दृष्टान्ते निषेधानुवादः, दार्ष्टान्तिके विध्यनुवादः, इति महद्वैषम्यम्।
ननु विधिवाक्यस्थस्यैवकारस्यानुवादत्वे सति 'न चतुस्त्रिंशत्' इत्यस्मिन्निषेधे कृत्स्नवाक्यतात्पर्यान्निषिद्धस्य नित्यनिर्वृत्तिस्तदवस्था स्यात्। मैवम्। प्रापकस्यापि सद्भावेन निषेधप्राप्तिभ्यां चतुस्त्रिंशन्मन्त्रस्य विकल्पितत्वात्। अथोच्यते ''चतुस्त्रिंशद्वाजिनः'' इत्येवं मन्त्रः केवलं स्वरूपेणैव पठितः। न त्वस्याघ्रिगुप्रैषवत्प्रापकं किंचिदस्तीति। तन्न। प्रापकवचनस्य कल्पनीयत्वात्। अन्यथा प्रसक्त्यभावेन प्रतिषेधानुपपत्तेः। तस्मात्प्रसञ्जकेनोपजीव्येनानुमितविधिना प्रत्यक्षनिषेधेन च समानबलतया 'चतुस्त्रिंशत्' इत्ययं मन्त्रोऽश्वस्याध्रिगुप्रैषे विकल्प्यते।। 4।। 5।।
4सिद्धान्तः
निषेधः प्राप्तिपूर्वोऽतः प्रापकोऽत्रानुमीयते
निषेधकप्रापकाभ्यां चतुस्त्रिंशद्विकल्प्यते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “प्रथमे 'षड्विंशतिरस्य वङ्क्रयः' इत्यादौ समस्योहाधिकरणे सूत्राणि 1-16”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “संख्यायाश्च पशौ युक्तेर्वङ्क्रीणां मुख्यतावशात् अमी पक्षा युज्यतेऽन्त्यस्ता अनुष्ठ्येतिशेषतः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.3
तृतीये- आश्वमेधिकसवनीयाश्वस्य चतुस्त्रिंशद्वङ्क्रिरूपविशेषवचनाधिकरणे सूत्राणि 18-21
SŪतत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात्।। 18।।
SŪऋग्वा स्यादाम्नातत्वादविकल्पश्च न्याय्यः।। 19।।
SŪतस्यां तु वचनादैरवत्पदविकारः स्यात्।। 20।।
SŪसर्वप्रतिषेधो वाऽसंयोगात्पदेन स्यात्।। 21।।
तृतीयाधिकरणमारचयति-
1विषयः
पृथग्वचनमश्वस्य स्यादन्याभ्यां समस्य वा
3पूर्वपक्षः
आद्यः पदे निषिद्धेऽत्र विशेषो नियतो यतः
पूर्वोक्ताश्वस्य तूपरगोमृगाभ्यां समस्य वङ्क्रीयता न वक्तव्या, किंतु पृथगेव। कुतः- यस्मात् 'चतुस्त्रिंशद्वाजिनः' इत्ययं मन्त्रविशेषोऽश्वस्य नियतः।
ननु प्रत्यक्षनिषेधेनानुमितविधिना च विकल्पः पूर्वमुक्तः। तन्न। ऋचो निषेधाभावात्। ''न चतुस्त्रिंशदिति ब्रूयात्'' इति ऋचि प्रथमपदमात्रं निषिध्यते।
ननु निषेधस्य प्रसक्तिपूर्वकत्वमुपजीव्य विधिरनुमितः। तत्रानुमापकस्य निषेधस्याभावेनानुमेयस्य विधेरप्यभावात्। 'चतुस्त्रिंशत्' इत्यस्या ऋचः प्राप्तिरेव नास्ति, तत्र कुतो नियतिरिति चेन्न। प्रकरणपाठमन्त्रलिङ्गाभ्यां विनियोगविधेरनुमेयत्वात्। तस्मादनेन मन्त्रेणाश्वस्य पृथग्वचनम्। इति प्राप्ते-
4सिद्धान्तः
वङ्क्रीयत्तानुक्तिदोषादृगेवात्र निषिध्यते
पक्षे प्राप्तः प्राकृतोऽस्मिन्समस्योक्तः पुरा यथा
ब्रूमः- यदि 'चतुस्त्रिंशत्' इत्येकमेव पदं निषेध्येत, तदा तस्यामृचि वङ्क्रीणामियत्ता नोच्येत।
ननु 'षड्विंशतिरित्येव ब्रूयात्' इत्यनेन वाक्येन संख्यावाचिपदान्तरप्रक्षेपविधानादियत्तोच्यते- इति चेन्न। तस्य वाक्यस्यैवकारेण विधिशक्तेः कुण्ठितत्वात्। तस्मात्- न पदमात्रस्य निषेधः, किंतु कृत्स्नाया ऋचः। तथा सति पूर्वोक्तविकल्पस्य तदवस्थत्वादृग्विशेषविधिपक्षे पृथग्वचनं कर्तव्यम्। तन्निषेधपक्षे चोदकप्राप्ते प्राकृतेऽध्रिगुप्रैषे प्रथमाधिकरणन्यायेन समस्य वक्तव्यम्। तत्र तूपरगोमृगयोः प्रत्येकं षड्विंशतित्वादश्वस्य चतुस्त्रिंशत्त्वात्समासेन 'षडशीतिरेषां वङ्क्रयः' इत्येवमूहनीयम्।। 6।। 7।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वितीये- आश्वमेधिकसवनीयाश्वस्य चतुस्त्रिंशद्वङ्क्रिरूपविशेषवचनविकल्पाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “निषेधः प्राप्तिपूर्वोऽतः प्रापकोऽत्रानुमीयते निषेधकप्रापकाभ्यां चतुस्त्रिंशद्विकल्प्यते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.4
चतुर्थे- अग्नीषोमीयपशावुरूकशब्देन वपाभिधानाधिकरणे सूत्रम्
SŪवनिष्ठुसंनिधानादुरूकेण वपाभिधानम्।। 22।।
चतुर्थाधिकरणमारचयति-
1विषयः
पक्षी वपाऽथवोरूको रलयोरविशेषतः
पक्षी वपा संनिधानाद्भ्रान्तिच्छेदनिषेधतः
3पूर्वपक्षः
अध्रिगुप्रैषे वचनमिदमाम्नायते ''वनिष्ठुमस्य मा राविष्ट। उरूकं मन्यमानाः'' इति। वनिष्ठुर्वपासमीपवर्ती कश्चित्पश्वङ्गविशेषः। तं मा राविष्ट तस्य लवनं मा कुरुत। व्यत्ययेन लकारस्य रेफः। किं कुर्वन्तः- उरूकं मन्यमाना वनिष्ठावुरूकबुद्धिं कुर्वन्त इत्यर्थः। अत्र- उरूकशब्देन काकविरोधी कश्चिदुलूकनामा पक्षिविशेषोऽभिधीयते। कुतः- रलयोरविशेषात्। 'पर्यङ्कः, पल्यङ्कः, लोमानि, रोमाणि' इत्यादिदर्शनात्। उरूकशब्दः सादृश्यलक्षकः। 'पक्षिसदृशं वनिष्ठुं विवेकेन मन्यमाना मा राविष्ट' इति वाक्यार्थः। तस्मादुरूकः पक्षी इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- उरूकशब्देनात्र वपा लक्ष्यते। कुतः- वनिष्ठुसंनिधानात्। सति हि संनिधावुरूकभ्रान्तिर्वनिष्ठौ संभवति। भ्रान्तिप्राप्तं च लवनमत्र निषिध्यते। 'उरूकं मन्यमाना वनिष्ठुं मा राविष्ट' इत्युक्तत्वात्। वपालवनकाले व्रान्त्या वनिष्ठोर्यल्लवनं तस्य निषेधे सति दृष्टोऽर्थो लभ्यते। भ्रान्तिनिवारणस्य दृष्टत्वात्। त्वत्पक्षे तु वनिष्ठोर्लवनमेव नास्ति। तच्चायुक्तम्। हृदयाद्यङ्गवल्लवितव्यत्वात्। 'वनिष्ठुमग्नीधे षडवत्तं संपादयति' इत्याद्यनुष्ठानविधानात्। ततो लवननिषेधस्यासमवेतार्थत्वेनादृष्टार्थो मन्त्रपाठः प्राप्नुयात्। तस्याद्वपावचन उरूकशब्दः। यद्यपि वपायामप्रसिद्धः [उरूक] शब्दः, तथाऽपि 'उरु विस्तीर्णमूको मेदो यत्र' इत्यवयवार्थद्वारा मेदस्विन्यां वपायां युक्त उरूकशब्दः। एवं सत्यनेकवपासु विकृतिष्वेकवचनान्त उरूकशब्द ऊहनीयः।। 8।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “तृतीये- आश्वमेधिकसवनीयाश्वस्य चतुस्त्रिंशद्वङ्क्रिरूपविशेषवचनाधिकरणे सूत्राणि 18-21”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “वङ्क्रीयत्तानुक्तिदोषादृगेवात्र निषिध्यते पक्षे प्राप्तः प्राकृतोऽस्मिन्समस्योक्तः पुरा यथा”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.5
पञ्चमे- अध्रिगौ प्रशसाशब्दस्य प्रशंसापरत्वाधिकरणे सूत्रे- 23-24
SŪप्रशसाऽस्यभिधानम्।। 23।।
SŪबाहुप्रशंसा वा।। 24।।
पञ्चमाधिकरणमारचयति-
1विषयः
प्रशसेत्यसिरर्थः स्यात्स्तुतिर्वा छेदनादसिः
स्तुतिः कार्त्स्न्याय वाह्वोः स्यात्स्वधितिश्छेदसाधनम्
3पूर्वपक्षः
अध्रिगुप्रैषे वाक्यान्तरमाम्नातम्- 'प्रशसा बाहू' इति। तत्र 'शसु हिंसायाम्' इत्यस्माद्धातोः सोपसर्गादुत्पन्नस्य सकारान्तप्रातिपदिकस्य तृतीयैकवचनान्तस्य 'प्रशसा' इति रूपं भवति। तच्चासेर्वाचकम्। तदेतत्केनचिद्ब्राह्मणवाक्येनानूद्यते ''दश प्रयाजानिष्ट्वाह 'शासमाहर'' इति, असिं वै 'शास' इत्याचक्षते'' इति। सोऽयमसिर्बाह्वोश्छेदनहेतुः। तस्मात्- दृष्टार्थलाभादसिः 'प्रशसा' इत्यस्य पदस्यार्थः। इति चेत्-
मैवम्। 'शसु स्तुतौ' इत्यस्माद्धातोरयमुत्पन्नः 'प्रशसौ' इत्यस्य द्वितीयाद्विवचनान्तस्य शब्दस्य च्छान्दस औकारलोप आकारादेशे च कृते 'प्रशसा' इति भवति। बाह्वोः प्रशस्तत्वं नाम कार्त्स्न्यम्। 'प्रशसा बाहू कृणुतात्' इत्युक्ते 'निःशेषेणोद्धर्तव्यौ बाहू' इतीदृशो दृष्टार्थो लभ्यते। नात्र च्छेदनसाधनत्वमसेः संभवति, स्वधितेस्तत्साधनत्वेन विहितत्वात्। तस्मात्- स्तुतिरेवास्य शब्दस्यार्थः। तथा सति बाहुवृद्धौ बहुवचनान्तत्वेन 'प्रशसा' इति पदमूहनीयम्।। 9।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्थे- अग्नीषोमीयपशावुरूकशब्देन वपाभिधानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.6
षष्ठे- अध्रिगुप्रैषे श्येनादिशब्दानां कार्त्स्न्यवचनाधिकरणे सूत्राणि 25-27
SŪश्येन-शला-कश्यप-कवष-स्रेकपर्णेष्वाकृतिवचनं प्रसिद्धसंनिधानात्।। 25।।
SŪकार्त्स्न्यं वा स्यात्तथाभावात्।। 26।।
SŪअध्रिगोश्च तदर्थत्वात्।। 27।।
षष्ठाधिकरणमारचयति-
1विषयः
सादृश्यमुत साकल्यं श्येनाद्युक्त्या विवक्षितम्
3पूर्वपक्षः
प्रसिद्धसंनिधेराद्यस्तत्सत्त्वादखिलोद्धृतिः
अध्रिगुप्रैषवचन एतदाम्नायते- ''श्येनमस्य वक्षः कृणुतात्'' इति। तत्र यथा 'अमी पिष्टपिण्डाः सिंहाः क्रियन्ताम्' इत्युक्ते प्रसिद्धसिंहसंनिधानात्पिष्टपिण्डेषु सिंहसादृश्यं वक्षसि कर्तव्यतया प्रतीयते। ततो वक्ष उद्धृत्य कर्तनाद्युपायेन पक्षचरणचञ्च्वादिकं संपाद्य श्येनसंस्थानं कर्तव्यम्। इति प्राप्ते-
4सिद्धान्तः
अंसादिष्वनेन न्यायेन साकल्यविवक्षया तत्तद्रूपकोक्तिर्द्रष्टव्या
एतदेवाभिप्रेत्य श्रूयते ''गात्रं गात्रमस्यानूनं कृणुतात्'' इति
ब्रूमः- वक्षसि श्येनसादृश्यं स्वत एव पूर्वमस्ति। ततो 'यथा तन्न नश्यति तथा साकल्योनोद्धरणीयम्' इति विवक्षया श्येनशब्दः प्रयुज्यते। तथा सति हविरविकलं भवति।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “पञ्चमे- अध्रिगौ प्रशसाशब्दस्य प्रशंसापरत्वाधिकरणे सूत्रे- 23-24”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.7
सप्तमे दर्शार्थोद्धृताग्निलोपे प्रायश्चित्तरूपज्योतिष्मत्या अननुष्ठानाधिकरणे सूत्रम्
SŪप्रासङ्गिके प्रायश्चित्तं न विद्यते परार्थत्वात्तदर्थे हि विधीयते।। 28।।
सप्तमाधिकरणमारचयति-
1विषयः
ज्योतिष्मती भवेन्नो वा दर्शार्थोद्धृतलोपने
3पूर्वपक्षः
निमित्तसत्त्वात्स्यान्नाग्निहोत्रार्थोद्धृतिवर्जनात्
अग्निहोत्रप्रक्रियायामिदमाम्नायते- ''अग्नये ज्योतिष्पते पुरोडाशमष्टाकपालं निर्वपेत्। यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेत्'' इति। 'प्रतिदिनमग्निहोत्रं होतुं गार्हपत्यादुद्धृत्याहवनीयेऽग्निः प्रक्षिप्यते, सोऽयमुद्धृतोऽग्निः कदाचिदहुतेऽग्निहोत्रे यदि शाम्येत्, तदानीमियमिष्टिः प्रायश्चितम्' इत्यर्थः। तत्र दर्शपूर्णमासार्थमुद्धृतस्याप्यग्नेः शान्तौ सेयं ज्योतिष्मतीष्टिर्भवेत्। कुतः- अग्न्युद्वानस्य निमित्तस्य सद्भावात्। इति चेत्-
4सिद्धान्तः
मैवम्
अग्निहोत्रार्थमुद्धृतस्यैवाग्नेरुद्वानं निमित्तमिति प्रकरणादवगम्यते
अनया चेष्ट्याऽग्निहोत्रायैवाग्निः पुनरुत्पाद्यते
तथा सत्यग्निहोत्रस्येयमिष्टिः सामवायिकमङ्गं भवति
अतोऽग्निहोत्रार्थोद्धृतोद्वानस्य निमित्तस्याभावान्नैमित्तिकीष्टिर्न प्रवर्तते
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “षष्ठे- अध्रिगुप्रैषे श्येनादिशब्दानां कार्त्स्न्यवचनाधिकरणे सूत्राणि 25-27”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “अंसादिष्वनेन न्यायेन साकल्यविवक्षया तत्तद्रूपकोक्तिर्द्रष्टव्या एतदेवाभिप्रेत्य श्रूयते ''गात्रं गात्रमस्यानूनं कृणुतात्'' इति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.8
अष्टमे- धार्योद्वाने प्रायश्चित्तरूपज्योतिष्मत्यननुष्ठानाधिकरणे सूत्रे 29-30
SŪधारणे च परार्थत्वात्।। 29।।
SŪक्रियार्थत्वादितरेषु कर्म स्यात्।। 30।।
अष्टमाधिकरणमारचयति-
1विषयः
धार्योद्वाने साऽस्ति नो वा सर्वार्थत्वेन विद्यते
गतश्रीत्वनिमित्तं तत्परार्थत्वान्न विद्यते
3पूर्वपक्षः
इदमाम्नायते ''धार्यो गतश्रिय आहवनीयः'' इति। गतश्रीशब्दार्थस्त्वेवं श्रूयते 'त्रयो ह वै गतश्रियः ब्राह्मणः शुश्रुवान्, ग्रामणीः, राजन्यः' इति, 'और्वो गौतमो, भारद्वाजः' इति कल्पसूत्रकारः। गतश्रीभिर्धार्यमाणस्याहवनीयस्य सर्वकर्मार्थत्वे सत्यग्निहोत्रार्थत्वमप्यस्तीति तदुद्वाने सा ज्योतिष्मतीष्टिर्विद्यते। इति चेत्-
मैवम्। न ह्यस्य धारणेऽग्निहोत्रं निमित्तम्, किंतु गतश्रीत्वम्, सर्वकर्मसमुदायस्य चोदनया कयाचिदप्यचोदितत्वात्सर्वार्थत्वं शङ्कितुमप्यशक्यम्। गतश्रीत्वं निमित्तीकृत्य धृतोऽग्निः प्रसङ्गात्सर्वकर्मसूपकुर्वन्नग्निहोत्रेऽप्युकरोति- इति चेत्- उपकरोतु नाम। नैतावता प्रायश्चितस्य निमित्तं लभ्यते। अग्निहोत्रार्थमुद्धृतस्योद्वानं तन्निमित्तम्। न चात्र तदस्ति। किंत्वन्यस्य यस्य कस्यचित्कर्मणोऽर्थे समुद्धृतस्य गतश्रीत्वनिमित्तं धारणं क्रियते। तस्मात्- निमित्ताभावान्नास्ति सेष्टिः।। 12।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “सप्तमे दर्शार्थोद्धृताग्निलोपे प्रायश्चित्तरूपज्योतिष्मत्या अननुष्ठानाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् अग्निहोत्रार्थमुद्धृतस्यैवाग्नेरुद्वानं निमित्तमिति प्रकरणादवगम्यते अनया चेष्ट्याऽग्निहोत्रायैवाग्निः पुनरुत्पाद्यते तथा सत्यग्निहोत्रस्येयमिष्टिः सामवायिकमङ्गं भवति अतोऽग्निहोत्रार्थोद्धृतोद्वानस्य निमित्तस्याभावान्नैमित्तिकीष्टिर्न प्रवर्तते”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.9
नवमे दर्शार्थस्योद्धरणस्यामन्त्रकत्वाधिकरणे सूत्रम्
SŪन तूत्पन्ने यस्य चोदनाऽप्राप्तकालत्वात्।। 31।।
नवमाधिकरणमारचयति-
1विषयः
दर्शार्थोद्धरणे वाचेत्यादिर्नो वा, समन्त्रकम्
कर्तुं स्यान्न निमित्तस्य कालस्यात्र विवर्जनात्
3पूर्वपक्षः
अस्त्यग्निहोत्रे वह्न्युद्धरणमन्त्रः- ''वाचा त्वा होत्रा, प्राणेनोद्गात्रा, चक्षुषाऽध्वर्युणा, मनसा ब्रह्मणा, श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैर्ऋत्विग्भिरुद्धरामि'' इति। सोऽयं मन्त्रो दर्शपूर्णमासार्थेऽपि वह्न्युद्धरणे पठितव्यः। कुतः- तदुद्धरणस्याग्निहोत्रेऽप्यङ्गत्वात्। उद्धृते हि तस्मिन्नग्नौ पर्वणि सायं, प्रतिपदि प्रातश्चाग्निहोत्रमनुष्ठीयते। यदि तत्र मन्त्रो न पठ्यते, तदानीमग्निहोत्राङ्गमुद्धरणं विगुणं स्यात्। ततः समन्त्रकं कर्तुं मन्त्रः पठनीयः। इति चेत्-
मैवम्। अग्निहोत्राङ्गे समन्त्रकाग्न्युद्धरणे निमित्तस्य कालस्यासंभवात्। अधिवृक्षसूर्य आविःसूर्ये च काले क्रमेण सायं प्रातश्चाग्निहोत्रवह्न्युद्धरणं विहितम्। दर्शपूर्णमासार्थं तु पर्वणि प्रातरग्निहोत्रे हुते पश्चादग्निमुद्धृत्यान्वाधानं क्रियते। अतो निमित्तस्य कालस्याभावान्नैमित्तिकं समन्त्रोद्धरणं नास्ति।। 13।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “अष्टमे- धार्योद्वाने प्रायश्चित्तरूपज्योतिष्मत्यननुष्ठानाधिकरणे सूत्रे 29-30”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.10
दशमे- प्रायणीयचरौ प्रदानधर्माणामननुष्ठानाधिकरणे सूत्राणि 32-40
SŪप्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात्संसर्गाच्च मधूदकवत्।। 32।।
SŪसंस्कारप्रतिषेधश्च तद्वत्।। 33।।
SŪतत्प्रतिषेधे च तथाभूतस्य वर्जनात्।। 34।।
SŪअधर्मत्वमप्रदानात्प्रणीतार्थे विधानादतुल्यत्वादसंसर्गः।। 35।।
SŪपरो नित्यानुवादः स्यात्।। 36।।
SŪविहितप्रतिषेधो वा।। 37।।
SŪवर्जने गुणभावित्वात्तदुक्तप्रतिषेधात्स्यात्कारणात्केवलाशनम्।। 38।।
SŪव्रतधर्माच्च लेपवत्।। 39।।
SŪरसप्रतिषेधो वा पुरुषधर्मत्वात्।। 40।।
दशमाधिकरणमारचयति-
1विषयः
प्रदेयधर्माः स्युर्नो वा पयसि प्रायणीयगे
3पूर्वपक्षः
चरुवत्स्युः पाकहेतुः सप्तम्या स्युर्न ते ततः
ज्योतिष्टोमे श्रूयते ''आदित्यः प्रायणीयः पयसि चरुः'' इति। तत्र चरुपयसोरुभयोर्देवतासंबन्धेन प्रदेयद्रव्यत्वसाम्यात्, यथा चरौ निर्वापावघातादयः समन्त्रकाः प्रदेयद्रव्यधर्मा अनुष्ठीयन्ते, तथा पयसि समन्त्रकवत्सापाकरणादयः प्रदेयद्रव्यधर्मा अनुष्ठेयाः। इति चेत्-
4सिद्धान्तः
मैवम्
आधारवाचिन्या 'पयसि' इति सप्तम्या श्रपणहेतुत्वावगमात्
ततो न ते धर्माः कर्तव्याः, किंतु प्रणीताधर्मा उत्पवनादयस्तत्र कर्तव्याः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “नवमे दर्शार्थस्योद्धरणस्यामन्त्रकत्वाधिकरणे सूत्रम्”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.11
एकादशे- अभ्युदयेष्टौ दधिशृतयोः प्रदेयधर्मानुष्ठानाधिकरणे सूत्रे 41-42
SŪअभ्युदये दोहापनयः स्वधर्मा स्यात्प्रवृत्तत्वात्।। 41।।
SŪशृतोपदेशाच्च।। 42।।
एकादशाधिकरणमारचयति-
1विषयः
पयोदध्नोरभ्युदये न ते स्युर्वा, पुरेव नो
प्रवृत्तत्वाद्देवयोगमात्रोक्तेः सन्ति तेऽन्यवत्
3पूर्वपक्षः
अभ्युदयेष्टिरेवमाम्नायते ''वि वा एनं प्रजया पशुभिरर्धयति, वर्धयत्यस्य भ्रातृव्यम्। यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति। त्रेधा तण्डुलान्विभजेत्। ये मध्यमाः स्युः, तानग्न्ये दात्रे पुरोडाशमष्टाकपालं कुर्यात्। ये स्थविष्ठाः, तानिन्द्राय प्रदात्रे दधंश्चरुम्। येऽणिष्ठाः, तान्विष्णवे शिपिविष्टाय शृते चरुम्'' इति।
अयमर्थः 'यस्य यजमानस्य दर्शकर्मार्थं हविर्भ्रान्त्या चतुर्दश्यां निरुप्तं भवति। तत उषसि पूर्वस्यां दिशि चन्द्रमा अभ्युदेति। तं यजमानमध्वर्युः प्रजया पशुभिश्च वियोजयति। तदीयं च वैरिणं वर्धयति। ततः प्रवृत्तेऽस्मिन्दर्शकर्मणि चन्द्रोदयं निमित्तीकृत्य पूर्वदेवतापनयनेन तण्डुलानां देवतान्तरसंबन्धः कर्तव्यः' इति। तदिदं षष्ठाध्याये निर्णीतम्। इह तु पूर्वोक्तप्रायणीयन्यायेन सप्तमीनिर्दिष्टयोर्दधिशृतयोः प्रदेयद्रव्यधर्मा न कर्तव्याः, किंतु प्रणीताधर्माः। इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- विषमो दृष्टान्तः। प्रायणीयस्य पूर्वमप्राप्ततया द्रव्यं, देवता, श्रपणाधारभूतं पयश्च, इत्येवमनेकैर्गुणैर्विशिष्टं कर्मैकेन वाक्येन विधातुं शक्यम्। इह तु कर्मणः प्रवृत्तत्वात्तस्मिन्कर्मणि तण्डुलानां नैमित्तिको देवतान्तरसंबन्ध एक एव गुणो विधातुं शक्यते, न तु दधिशृतयोः प्रणीतार्थत्वं गुणान्तरम्, अनेकगुणविधौ वाक्यभेदप्रसङ्गात्। तस्मात्तण्डुलवत्प्रदेयत्वेन प्रवृत्तयोर्दधिशृतयोः प्रदेयधर्माः कर्तव्याः।। 15।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “दशमे- प्रायणीयचरौ प्रदानधर्माणामननुष्ठानाधिकरणे सूत्राणि 32-40”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् आधारवाचिन्या 'पयसि' इति सप्तम्या श्रपणहेतुत्वावगमात् ततो न ते धर्माः कर्तव्याः, किंतु प्रणीताधर्मा उत्पवनादयस्तत्र कर्तव्याः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.12
द्वादशे पशुकामेष्टौ दधिशृतयोः प्रदेयधर्माननुष्ठानाधिकरणे सूत्रे 43-44
SŪअपनयो वाऽर्थान्तरे विधानाच्चरुपयोवत्।। 43।।
SŪलक्षणार्था शुतश्रुतिः।। 44।।
द्वादशाधिकरणमारचयति-
1विषयः
स न्यायः पशुकामेष्टौ प्रायणीयनयोऽथवा
3पूर्वपक्षः
तुल्यश्रुतित्वात्स्यादाद्योऽपूर्वकर्मत्वतोऽन्तिमः
इदमाम्नायते ''यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यात्'' इति। तत्रेदमपरमाम्नातम्- ''ये मध्यमाः स्युः, तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात्। ये स्थविष्ठाः, तानिन्द्राय प्रदात्रे दधनि चरुम्। येऽणिष्ठाः, तान्विष्णवे शिपिविष्टाय शृते चरुम्'' इति। तत्र- अभ्युदयेष्ट्यां समानश्रुतित्वात्तेनैव न्यायेन दधिशृतयोः प्रदेयधर्माः। इति चेत्-
4सिद्धान्तः
मैवम्
पाठसाम्येऽप्यपूर्वकर्मत्वादर्थसाम्यं नास्ति
ततः प्रायणीयन्यायेन सप्तम्या श्रपणाधारत्वावगमात्प्रणीताधर्मा एवात्र कार्याः
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “एकादशे- अभ्युदयेष्टौ दधिशृतयोः प्रदेयधर्मानुष्ठानाधिकरणे सूत्रे 41-42”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.13
त्रयोदशे- ज्योतिष्टोमे श्रयणानां प्रदेयधर्माननुष्ठानाधिकरणे सूत्राणि 45-50
SŪश्रयणानां त्वपूर्वत्वात्प्रदानार्थे विधानं स्यात्।। 45।।
SŪगुणो वा श्रयणार्थत्वात्।। 46।।
SŪअनिर्देशाच्च।। 47।।
SŪश्रुतेश्च तत्प्रधानत्वात्।। 48।।
SŪअर्थवादश्च तदर्थवत्।। 49।।
SŪसंस्कारं प्रति भावाच्च तस्मादथ प्रधानं स्यात्।। 50।।
1विषयः
मिश्रणे पय आदीनां सोमधर्मा न वाऽग्रिमः
3पूर्वपक्षः
प्रदातुं मेलनान्मैवं संस्कारार्थत्वतः श्रुतेः
त्रयोदशाधिकरणमारयति-
ज्योतिष्टोमे पयःप्रभृतिभिर्द्रव्यैर्ग्रहपात्रनिष्ठस्य सोमस्य मिश्रणमाम्नातम्- ''पयसा मैत्रावरुणं श्रीणाति, सक्तुभिर्मन्थिनम्, धानाभिर्हारियोजनम्, हिरण्येन शुक्रम्, आज्येन पात्नीवतम्'' इति। तत्र मिश्रणं सोमेन सह प्रदानार्थम्। ततः प्रदेयस्य सोमस्य ये धर्माः क्रयादयः, ते पयःप्रभृतिषु कर्तव्याः। इति चेत्-
4सिद्धान्तः
मैवम्
मेलनस्य सोमसंस्कारार्थत्वात् 'मैत्रावरुणम्' इत्यादिभिर्द्वितीयाश्रुतिभिः सोमस्य प्राधान्यं गम्यते
'पयसा' इत्यादिभिस्तृतीयाश्रुतिभिः पयःप्रभृतीनां तादर्थ्यम्
ततः संस्कारकाणां प्रदेयत्वाभावान्न तद्धर्माः सन्ति
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “द्वादशे पशुकामेष्टौ दधिशृतयोः प्रदेयधर्माननुष्ठानाधिकरणे सूत्रे 43-44”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् पाठसाम्येऽप्यपूर्वकर्मत्वादर्थसाम्यं नास्ति ततः प्रायणीयन्यायेन सप्तम्या श्रपणाधारत्वावगमात्प्रणीताधर्मा एवात्र कार्याः”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.14
चतुर्दशे- 'ईशानाय परस्वत' इत्यत्र यागान्तरविधानाधिकरणे सूत्राणि 51-55
SŪपर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत्।। 51।।
SŪशेषप्रतिषेधो वाऽर्थाभावादिडान्तवत्।। 52।।
SŪपूर्ववत्त्वाञ्च शब्दस्य संस्थापयतीति चाप्रवृत्ते नोपपद्यते।। 53।।
SŪप्रवृत्तेर्यज्ञहेतुत्वात्प्रतिषेधे संस्काराणामकर्म स्यात्तत्कारितत्वाद्यथा प्रयाजप्रतिषेधे ग्रहणमाज्यस्य।। 54।।
SŪक्रिया वा स्यादवच्छेदादकर्म सर्वहानं स्यात्।। 55।।
चतुर्दशाधिकरणमारचयति-
1विषयः
स्पर्शः परस्वदालम्भो यागो वोत्सर्गतोऽग्रिमः
द्रव्यदेवान्वयाद्यागोऽङ्गरीतिविधिरुत्तमः
3पूर्वपक्षः
अश्वमेघे समाम्नायते ''ईशानाय परस्वत आलभते पर्यग्निकृतानारण्यानुत्सृजति'' इति। परस्वच्छब्देनारण्याः पशुविशेषा उच्यन्ते। तेषामालम्भः स्पर्शमात्रम्। कुतः- पर्यग्निकृतानां तेषां पशूनामुत्सर्गविधानात्। यागपक्षे तदसंभवात्। इति चेत्-
मैवम्। द्रव्यदेवतान्वयेन यागत्वावगमात्। 'ईशानाय' इति देवताया निर्देशः। 'परस्वतः' इति द्रव्यस्य। नहि यागमन्तरेण द्रव्यदेवतयोरन्वयः संभवति। पर्यग्निकृतोत्सर्गवाक्येन क्लृप्तोपकारप्राकृतपर्यग्निकरणान्ताङ्गरीतिर्विधीयते। तया प्रत्यक्षविहितया निराकाङ्क्ष ईशानप्रयोगवचने न चोदकमपेक्षते। तस्मादालम्भो यागः। इतरस्तत्र गुणविधिः।। 18।।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “त्रयोदशे- ज्योतिष्टोमे श्रयणानां प्रदेयधर्माननुष्ठानाधिकरणे सूत्राणि 45-50”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्। तस्य सिद्धान्तः — “मैवम् मेलनस्य सोमसंस्कारार्थत्वात् 'मैत्रावरुणम्' इत्यादिभिर्द्वितीयाश्रुतिभिः सोमस्य प्राधान्यं गम्यते 'पयसा' इत्यादिभिस्तृतीयाश्रुतिभिः पयःप्रभृतीनां तादर्थ्यम् ततः संस्कारकाणां प्रदेयत्वाभावान्न तद्धर्माः सन्ति”
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]
9.4.15
पञ्चदशे- 'आज्येन शेषं संस्थापयति' इत्यनेन कर्मान्तरविधानाधिकरणे सूत्राणि 56-60
SŪआज्यसंस्थाप्रतिनिधिः स्याद्द्रव्योत्सर्गात्।। 56।।
SŪसमाप्तिवचनात्।। 57।।
SŪचोदना वा कर्मोत्सर्गादन्यैः स्यादविशिष्टत्वात्।। 58।।
SŪअनिज्यां च वनस्पतेः प्रसिद्धां तेन दर्शयति।। 59।।
SŪसंख्या तद्देवतत्वात्स्यात्।। 60।।
पञ्चदशाधिकरणमारचयति-
3पूर्वपक्षः
''त्वाष्ट्रं पात्नीवतमालभेत'' इति प्रकृत्य ''पर्यग्निकृतं पात्नीवतमुत्सृजति'' इति श्रुतम्। तत्र पुनः श्रूयते ''आज्येन शेषं संस्थापयति'' इति। तदिदमाज्यं पशुद्रव्यस्य प्रतिनिधिर्भवेत्। उत्सर्गशेषसंस्थापनशब्दैस्तदवगमात्। पर्यग्निकरणादूर्ध्वं पशुद्रव्यस्य त्यागमभिधाय 'आज्येन' इति द्रव्यान्तरं पशुस्थानीयं साधनभूतपदिश्य 'चोदकप्राप्तमुत्तरकालीनमङ्गजातं तेन द्रव्येण समापनीयम्' इति विधीयते। इति प्राप्ते-
4सिद्धान्तः
ब्रूमः- पूर्वाधिकरणन्यायेनाङ्गरीत्या पात्नीवतः पशुः समाप्तः। यदि 'पात्नीवतमालभेत' इति विहितस्य कर्मणः समाप्तिर्न स्यात्, केवलं पशुद्रव्यत्यागः क्रियते, तदा विहितो द्रव्यदेवतासंबन्धरूपो यागो नानुष्ठितः स्यात्। ततो देवतामुद्दिश्य त्यागोऽवश्यं कर्तव्यः स्यात्। तथा सति पशुसाधनके यागे मुख्येन पशुनैव साधिते कुतः प्रतिनिधिः। देवतोद्देशत्यागस्य चोत्पत्तिवाक्येनैव सिद्धत्वात्। पर्यग्निकरणोत्सर्गवाक्येनाङ्गरीतिविधाने संस्थापनीयः शेषो न कोऽप्यस्ति। तस्मात्- आज्यवाक्येन कर्मान्तरं विधीयते। देवता तु पात्नीवतशब्दस्यानुवृत्त्या लभ्यते। कर्मान्तरत्वेऽपि शेषत्वमुपचर्यते। पश्वाज्यद्रव्यकयोः पूर्वोत्तरकर्मणोः पत्नीवदाख्याया देवताया एकत्वेनाव्यवहितानुष्ठानेन चोपक्रमोपसंहारसदृशत्वात्। संस्थितिक्रियया त्वालम्भननिर्वापादिवद्यागो विवक्ष्यते। लिङ्प्रत्ययश्चापूर्वभावनामभिधत्ते। तस्मादाज्यद्रव्यकं पत्नीवद्देवताकं शेषवत्पशुयागसमनन्तरभाविकर्मान्तरमत्र विधीयते।। 19।। 20।।
अत्र पादे- अधिकरणानि 15, सूत्राणि 60।
आदितः- अधिकरणानि 596, सूत्राणि 1653।
दशमोध्याययस्य प्रथमः पादः
बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः।
5सङ्गतिःऊहिता
शास्त्रसङ्गतिः — “धर्मः — द्वादशलक्षण्या व्युत्पाद्यः” इत्यस्मिन् शास्त्रविषये अयं न्यायोऽन्तर्भवति।
अध्यायसङ्गतिः — “प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः” इत्ययम् अध्यायविषयः; तत्रैवायं न्यायः सङ्गच्छते।
पादसङ्गतिः — “मन्त्रोहप्रसङ्गापतितो विचारः” इत्ययं पादविषयः; तदन्तर्गतोऽयं न्यायः।
अवान्तरसङ्गतिः — पूर्वन्यायः “चतुर्दशे- 'ईशानाय परस्वत' इत्यत्र यागान्तरविधानाधिकरणे सूत्राणि 51-55”; तस्य सिद्धान्तयुक्तिं वीक्ष्य अत्र आक्षेपादि योज्यम्।
[ आक्षेपः / दृष्टान्तः / प्रत्युदाहरणम् / प्रासङ्गिकम् / उपोद्घातः / अपवादः — ऊह्यम् ]